अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ द्वितीयाध्यायस्य तृतीयं ब्राह्मणम् ॥

प्राणो­प­नि­ष­द­श्चोक्ताः प्राणाश्चापि समासतः ।।
यत्तु तेषां परं सत्यं तदिदानीं निरूुप्यते ।। १ ।।

प्राणाः किमा­त्म­का­स्तेषां कथं सत्यत्वमिष्यते ।।
इत्येवमादि वक्त­व्य­मि­त्यर्थः पर आगमः ।। २ ।।

पञ्च­भू­त­स­त­त्त्वानां शरीरकरणात्मनाम् ।।
स्वरू­प­नि­श्च­या­र्थाय प्रारब्धं ब्राह्मणं परम् ।। ३ ।।

यदु­पा­धि­नि­षे­धोक्त्या नेतीति ब्रह्मणः स्फुटम् ।।
आविश्चिकीर्षितं तत्त्वं तदेतदधुनोच्यते ।। ४ ।।

स्वतोऽरूपं परं ब्रह्म तद­वि­द्या­दि­हे­तुतः ।।
द्विरूपमिति निर्दिष्टं विय­द्व­त्कु­म्भ­सं­श्र­यात् ।। ५ ।।

रूपे वा ब्रह्मणो विद्या­न्मू­र्ता­मूर्ते सवासने ।।
ब्रह्मैव रूप्यते ताभ्यां ब्रह्मत्वं न हि रूपवत् ।। ६ ।।

अवि­द्या­मा­त्रो­पा­ध्ये­त­द्ब्रह्म कारणमुच्यते ।।
तदेव ज्ञातृतामेति बुद्ध्यु­पा­धि­स­मा­श्र­यात् ।। ७ ।।

तद्वृ­त्त्यु­पा­धि­संस्थं सत्तज्ज्ञानमिति भण्यते ।।
देव­ते­न्द्रि­य­सं­बन्धं तत्तत्तदभिधीयते ।। ८ ।।

तथा देहादिसंबन्धं दुःख­जा­त्या­दि­म­द्भ­वेत् ।।
गोध­ना­द्य­भि­मा­न्येवं धनी गोमानितीर्यते ।। ९ ।।

अन्तर्यामी तथा साक्षी सर्व­ज्ञ­श्चे­त्य­वि­द्यया ।।
मिथ्याध्यासैश्च तत्का­र्यै­र­प्र­मेयं प्रमीयते ।। १० ।।

एकं तावदिदं रूपं ब्रह्मणो मोहहेतुजम् ।।
प्रत्य­ङ्भा­त्रै­क­धी­गम्यं रूपं वास्तवमात्मनः ।। ११ ।।

अव्या­वृ­त्ता­न­नु­गतं द्विती­या­सं­भ­वा­द­जम् ।।
न वाक्यपदयोरर्थो भेद­सा­मा­न्य­व­र्ज­नात् ।। १२ ।।

न प्रमा­णा­न्त­रै­र्गम्यं परा­ग्घे­त्व­स­म­न्व­यात् ।।
अन­पे­क्षि­त­मा­त्रादि तद­वि­द्या­स­म­न्व­यात् ।। १३ ।।

आत्म­प्र­त्य­य­मै­कात्म्यं द्विती­य­स्त्वा­त्मनो भवेत् ।।
अना­त्म­प्र­त्य­योऽ­तोऽहं स्वत एकोऽस्मि केवलः ।। १४ ।।

यन्नि­षे­ध­मु­खे­नेदं नेति नेतीति भण्यते ।।
अविद्यामवधिं कृत्वा द्वे रूपे ब्रह्मणस्त्विमे ।। १५ ।।

अवधारणाय वावेति द्वे एवेति विनिश्चितौ ।।
समुच्चिते सजा­ती­यै­रु­त्त­रैस्ते विशेषणैः ।। १६ ।।

वावशब्दं चशब्देन प्रत्या­हृ­त्या­भि­धी­यते ।।
मूर्तमेव च तद्रूपं ब्रह्म­णोऽ­मू­र्त­मेव च ।। १७ ।।

अविद्यावत्परं ब्रह्म मूर्ता­मू­र्ता­दि­ल­क्षणैः ।।
विशिष्यते न धर्माणां मिथः संगतिरिष्यते ।। १८ ।।

विशे­ष्या­र्थै­क­त­न्त्र­त्वा­द्ध­र्माणां न परस्परम् ।।
तथाऽ­न­पे­क्ष­त­स्तेषां संगतिः स्यात्कदाचन ।। १९ ।।

विज्ञा­न­पु­रु­षा­न्तस्य ब्रह्मणः परमात्मनः ।।
तमस्विनोऽथ द्वे रूपे तद­न्या­व्य­ति­रे­कतः ।। २० ।।

क्लृप्त­स­र्पा­दि­भि­र्य­द्व­द­ज्ञा­तायाः स्रजः सदा ।।
वास्तवोऽवास्तवो वा न व्यतिरेको न चान्वयः ।। २१ ।।

तद्वन्न व्यतिरेकेण ब्रह्मणो द्वे स्वतः सदा ।।
नापि चाव्यतिरेकेण ते तु ब्रह्मैव निर्द्वयम् ।। २२ ।।

अण्वाद्यवयवं मूर्तं पीनं संस्थानवदृढम् ।।
तद्वि­रु­द्ध­म­मूर्तं स्यान्निरंशं देशवन्न च ।। २३ ।।

मर्त्यं मरणधर्मि स्याद्य­द्वि­न­श्व­र­ल­क्ष­णम् ।।
अमृतं तद्विरुद्धं च ध्रुवं यन्न विपद्यते ।। २४ ।।

आश्रितं स्थितमत्र स्याद्ग­त्वाऽ­व्याप्य च तिष्ठति ।।
तद्विरुद्धं तथा यत्स्यादेत्येव न तु तिष्ठति ।। २५ ।।

सदिति व्यक्तरूपं यद्गृ­ह्य­मा­ण­वि­शे­ष­णम् ।।
प्रत्यक्षं तद्विरुद्धं त्यदप्रत्यक्षं तथोच्यते ।। २६ ।।

क्षितिर्जलं तथा वह्नि­रि­त्ये­त­न्मू­र्त­मु्च्यते ।।
भूतद्वयममूर्तं च वायु­श्चाऽऽ­का­श­मेव च ।। २७ ।।

मूर्तं मर्त्यं स्थितं सच्च क्षित्य­ब­ग्नि­त्रयं विदुः ।।
अमू­र्ता­मृ­त­य­त्त्यत्तु वाय्वाकाशद्वयं स्मृतम् ।। २८ ।।

मूर्तत्वादेव मर्त्यं तन्म­र्त्य­त्वा­देव तत्स्थितम् ।।
स्थित­त्वा­दि­न्द्रि­य­ग्राह्यं निर्धार्येदंतया पृथक् ।। २९ ।।

सोपाख्यत्वान्न तद्व्यापि क्वचि­दे­कां­श­व­त्स्थितेः ।।
स्थितत्वाच्चापि तन्मर्त्यं मर्त्य­त्वा­न्मू­र्त­मेव च ।। ३० ।।

अमू­र्त­त्वा­द­मर्त्यं तद्यद्व्यापि त्यदतीन्द्रियम् ।।
अती­न्द्रि­य­त्वा­त्त­द्व्यापि व्यापि­त्वा­च्चा­मृतं ततः ।। ३१ ।।

अस्थि­त­त्वा­द­मूर्तं तदा­का­र­व्य­क्ति­व­र्जि­तम् ।।
हेतुतत्फलरूपेण मूर्तादेः संगतिर्मिथः ।। ३२ ।।

अक्ष­सू­त्र­व­द­न्योन्यं साम­र्थ्य­स्या­प्र­हा­णतः ।।
हेतुतद्वत्तया ज्ञेयाऽ­मू­र्ता­दे­रपि संगतिः ।। ३३ ।।

संभ­वेऽ­न्य­त­म­स्यापि सर्वेषां संभवो यतः ।।
अतोऽवधारणार्थाय तत्रैवग्रहणं कृतम् ।। ३४ ।।

तयो­रु­द्दि­ष्ट­यो­र्मूर्तं प्रथमं तावदुच्यते ।।
अन्य­द्वा­य्व­न्त­रि­क्षाभ्यां भूत­त्र­य­मि­हो­च्यते ।। ३५ ।।

मूर्तं संस्था­न­व­द्ध्ये­त­त्तथा मर्त्यं विनाशवत् ।।
एतत्स्थितं परि­च्छि­न्न­मे­त­त्स­त्स­वि­शे­ष­णम् ।। ३६ ।।

चतु­र्वि­शे­ष­ण­स्यास्य क्षित्य­व­ग्न्या­त्म­कस्य हि ।।
चतु­ष्ट­य­र­स­त्वार्थं पुनरुच्चारणं कृतम् ।। ३७ ।।

सर्वव्यापी रसो ह्येष शश्वत्तपति यो रविः ।।
चतु­ष्ट­या­न्व­या­देष भूतत्रयरसः स्मृतः ।। ३८ ।।

य एष तपतीत्यत्र मण्डलं परिगृह्यते ।।
चतुष्टयं हि मूर्तादि मण्डले गृह्यते यतः ।। ३९ ।।

चतुर्णामन्वयो हीति हेतुनाऽत्र विभाव्यते ।।
सतश्च ग्रहणं विद्या­च्च­तु­र्णा­मु­प­ल­क्ष­णम् ।। ४० ।।

कृष्णसारं यथा स्थानं चक्षुषः करणात्मनः ।।
तथा हिरण्यगर्भस्य मण्डलं करणात्मनः ।। ४१ ।।

उत्स­र्गा­द्रू­प­नि­र्माणे प्राधान्यं तेजसो यतः ।।
तस्मा­द्र­स­त्व­नि­र्देशः क्रियते मण्डलात्मनि ।। ४२ ।।

अष्क्लिन्नः पार्थिवो धातुस्तेजसा परिपच्यते ।।
अङ्कु­रा­द्य­भि­नि­ष्पत्तौ मुख्यतैवं हि तेजसः ।। ४३ ।।

सारस्त्रयाणां भूतानां रसो मण्डलमुच्यते ।।
एतत्साराणि हि त्रीणि भूता­न्या­हु­र्वि­प­श्चितः ।। ४४ ।।

मण्डलायतने यत्तु कारणं संश्रितं विभोः ।।
विराजो देवदेवस्य तदि­दा­नी­मि­हो­च्यते ।। ४५ ।।

आदित्यान्तर्गतः साक्षा­त्क­र­णा­त्माऽ­भि­धी­यते ।।
वाय्वा­का­श­र­स­त्वेन तत्रा­मू­र्ता­न्वयो यतः ।। ४६ ।।

कलि­ङ्गा­र­म्भ­सि­द्ध्यर्थं वाय्वा­का­श­स­मु­द्भवः ।।
ईश्व­रा­त्का­र­णा­द्य­स्मा­ल्लिङ्गं तेन रसस्तयोः ।। ४७ ।।

वाय्वाकाशरसो ह्येष इति हेतुः प्रदर्श्यते ।।
त्यस्य ह्येष रस इति यथोक्तो मण्डलात्मनि ।। ४८ ।।

हिर­ण्य­ग­र्भ­क्षे­त्रज्ञं रसं केचित्प्रचक्षते ।।
कारणं रसशब्देन यस्मा­द­त्रा­भि­धी­यते ।। ४९ ।।

यस्मा­द्धि­र­ण्य­ग­र्भस्य कर्म वाय्व­न्त­रि­क्षयोः ।।
प्रयो­क्त्र­व्य­क्त­यो­स्त­स्मा­द्रसः क्षेत्रज्ञ उच्यते ।। ५० ।।

भूतद्वयरसो ज्ञेयो मण्डले चेतनः पुमान् ।।
त्यस्य ह्येष रस इति तत्सिद्धौ कारणाभिधा ।। ५१ ।।

न्यायोक्तेरेव संसिद्धेः प्रतिज्ञातस्य वस्तुनः ।।
क्षेत्रज्ञः कारणं कस्मादित्यत्र न्याय उच्यते ।। ५२ ।।

एतस्मिन्मण्डले योऽन्त­र्वि­ज्ञा­ना­त्म­त्व­मा­गतः ।।
अवि­द्या­भा­व­ना­क­र्म­हे­तुतो नान्यकारणात् ।। ५३ ।।

तस्य यत्कर्मरूपं तद्वि­य­द्वा­यु­प्र­यो­ज­कम् ।।
खस्थस्य कर्मणस्तस्य मरु­त्प्र­स्प­न्द­रू­पिणः ।। ५४ ।।

वाय्वा­का­श­प्र­ना­ड्यैवं तेजसः संभवस्ततः ।।
जज्ञाते तेजसो भूते जलं च पृथिवी तथा ।। ५५ ।।

कर्मणा पौरुषेणैवं रसभूतेन संभवः ।।
वाय्व­न्त­रि­क्ष­यो­र्य­स्मा­द्र­स­स्तेन पुमांस्तयोः ।। ५६ ।।

मेधया तपसेत्यादि तथाच प्रागुदाहृतम् ।।
न्यायेनानेन पुरुषो रसशब्देन भण्यते ।। ५७ ।।

त्यस्य ह्मेष इति ह्युक्त्या न्यायः श्रुत्याऽ­य­मु­च्यते ।।
नैतदेवं भवे­न्मू­र्त­र­से­ना­स्या­स­म­त्वतः ।। ५८ ।।

भूतत्रयस्य मूर्तस्य रसो मण्डलमभ्यधाः ।।
धर्मै­श्च­तु­र्भि­र्मू­र्ता­द्यै­र्भू­त­त्र­य­व­द­न्वि­तम् ।। ५९ ।।

अमूर्तयोरपि रसो लिङ्गात्मा गृह्यतां तथा ।। ६० ।।
वाक्य­प्र­वृ­त्ते­स्तु­ल्य­त्वान्न युक्तोऽ­त्रा­न्यथा ग्रहः ।।
वैरूप्यलक्षणो दोषः सत्येवं वः प्रसज्यते ।। ६१ ।।

अथ मूर्त­र­सो­क्त्याऽपि चेतनस्यैव चेद्ग्रहः ।।
अत्यल्पं भवताऽभाणि सर्वमात्मैव नो यतः ।। ६२ ।।

न ह्यात्म­व्य­ति­रे­केण किंचि­त्का­र­ण­मि­ष्यते ।।
तेन तेन स्वरूपेण प्रत्यगात्मैव कारणम् ।। ६३ ।।

मण्डलात्मनि चाऽऽधारे लिङ्गा­त्मै­वा­व­सी­य­ताम् ।।
करणस्यैव तत्स्थ­त्वा­द्वि­ज्ञा­नात्मा हि लिङ्गगः ।। ६४ ।।

अज्ञातः पुरुषो यस्मा­त्का­र्य­का­र­ण­श­ब्द­भाक् ।।
अज्ञा­त­मि­थ्या­वि­ज्ञा­न­रू­प­त्वान्न तु तत्त्वतः ।। ६५ ।।

अचेतनेषु लोकेऽस्मिन्न दृष्टा पुरुषाभिधा ।।
इति चेन्नैतदेवं स्याद­चि­त्के­ष्वपि दर्शनात् ।। ६६ ।।

त एतान्सप्त पुरु­षा­नि­त्या­दि­श्रु­ति­वा­क्यतः ।।
असंवित्केऽपि पक्षादौ दृश्यते पुरुषाभिधा ।। ६७ ।।

अध्या­त्मो­क्त्य­व­धि­ज्ञप्त्या अधिदैवतकीर्तनम् ।।
मूर्ता­मू­र्त­वि­भा­गोऽ­य­म­ध्या­त्म­म­धु­नो­च्यते ।। ६८ ।।

भूतत्रयं पृथिव्यादि देहेऽपि परिगृह्यते ।।
मूर्तशब्देन यत्प्रा­णा­द्धृ­द्व्यो­म्न­श्चा­परं च यत् ।। ६९ ।।

चक्षू रसस्त्रयाणां स्याद्वि­शे­षे­णात्र निष्ठितम् ।।
तेजः सर्वशरीरस्य निर्मातृ स्यादसंशयः ।। ७० ।।

प्रथणा संस्कृतिरिति मन्त्रवर्णोऽपि दृश्यते ।।
शश्वद्वै रेतस इति तथाच श्रुतिशासनम् ।। ७१ ।।

मूर्ता­मू­र्त­वि­भा­गोऽयं यदि नामेह भण्यते ।।
अधिदैवं तथाऽध्यात्मं तथाऽपीयान्न गृह्यते ।। ७२ ।।

कृत्स्नस्य ब्रह्मणो रूपे मूर्तामूर्ते विवक्षिते ।।
यतोऽतो नेयता कार्त्स्न्ये देव­ता­ध्या­त्म­यो­र्भ­वेत् ।। ७३ ।।

आर­ब्ध­का­र्य­भू­तानां गृहीतौ न च संभवः ।।
यथो­क्त­ल­क्ष­ण­स्येह मुख्य­वृ­त्त्यो­क्त­भू­मिषु ।। ७४ ।।

व्याप्येव लक्षणं युक्तमन्यथा तदलक्षणम् ।।
निर्देशस्तु परि­च्छि­न्न­वि­ष­योऽ­त्रा­भि­धी­यते ।। ७५ ।।

तत्रैवं सति यत्र स्यान्मू­र्ता­द्युक्तं चतुष्टयम् ।।
लक्षणं तत्र संपू­र्ण­म­न्त्य­का­र­ण­का­र्ययोः ।। ७६ ।।

आकाशशब्दवाच्यो यः सर्वकारणकारणः ।।
मुख्यवृत्त्या समर्थं स्यात्त­त्रै­वा­मू­र्त­ल­क्ष­णम् ।। ७७ ।।

पृथिव्यां चापि तन्मुख्यं यदुक्तं मूर्तलक्षणम् ।।
उभयोरन्तरालस्था मिथः­सं­की­र्ण­ल­क्षणाः ।। ७८ ।।

लक्षणं गौणमेव स्याद­न्त्य­यो­र्म­ध्य­भू­मिषु ।।
मूर्ता­मू­र्त­व्य­व­हृ­ति­स्तथा तत्रापि दृश्यते ।। ७९ ।।

मुख्य­वृ­त्ति­ग्र­हा­यातो व्यापि­ल­क्ष­ण­सि­द्धये ।।
क्षित्या­दि­वि­य­दन्तं स्यान्मू­र्ता­मू­र्तस्य लक्षणम् ।। ८० ।।

योऽयं दक्षि­णेऽ­क्ष­न्निति शास्त्र­दृ­ष्ट­त्व­का­र­णात् ।।
दक्षिणेऽणि लिङ्गस्य विशेषः कश्चिदिष्यते ।। ८१ ।।

वीर्यवद्दक्षिणं लोकेऽप्यङ्गं दृष्टं यतस्ततः ।।
दक्षि­णेऽ­क्ष­न्निति वचः श्रुते­र्य­त्ना­दि­हे­ष्यते ।। ८२ ।।

पिण्ड­प्रा­ण­वि­भा­गेन ह्यध्यात्मे चाधिदैवते ।।
मूर्ता­मू­र्ता­त्म­नो­रुक्तो विभागो ब्रह्मरूपयोः ।। ८३ ।।

अथाधुना यथोक्तस्य तस्यैव करणात्मनः ।।
लिङ्गस्य रूपं वक्ष्यामो वासनामयमात्मनः ।। ८४ ।।

मूर्ता­मू­र्ता­दि­सं­ब­न्धा­द्वा­सना लिङ्गमाश्रिताः ।।
स्वाभा­स­भ्र­म­दो­षेण तन्मयः पुरुषो मतः ।। ८५ ।।

अनेकवासनाचित्र तल्लिङ्गं पटभित्तिवत् ।।
माये­न्द्र­जा­ल­स­दृशं व्यामो­हा­स्प­द­मा­त्मनः ।। ८६ ।।

एता­व­न्मा­त्र­मे­वेति यत्र भ्रान्ता निरागमाः ।।
विज्ञानवादिनो बौद्धास्तथा नैयायिकादयः ।। ८७ ।।

आत्मनो द्रव्यभूतस्य यदे­त­द्वा­स­ना­त्म­कम् ।।
रूपं गुणोऽस्य संसार इति वैशेषिकादयः ।। ८८ ।।

त्रिगुणं सत्प्रधानस्थं पुरुषार्थेन हेतुना ।।
प्रवर्तते स्वतन्त्रं सदिदमित्यपि कापिलाः ।। ८९ ।।

अप्यौ­प­नि­ष­दं­मन्याः केचि­द­त्य­न्त­नै­पु­णात् ।।
प्रक्रियां रच­यि­त्वाऽऽ­हु­र्वे­दा­न्ता­र्था­वि­प­श्चितः ।। ९० ।।

यावान्बाह्यो विकारः स्यात्क्षे­त्र­ज्ञ­प­रि­वे­ष्टनः ।।
अध्यात्मं चाधिदैवं वा नामरूपविभागतः ।। ९१ ।।

अव्या­कृ­ता­द्व्या­कृतः स्यादेतावानेव सोऽत्र तु ।।
मूर्तो वा यदि वाऽमूर्तः सच्च त्यच्चेति भण्यते ।। ९२ ।।

प्राणानामपि सत्यत्वं भूत­स­त्या­भि­सं­गतेः ।।
कथं यतस्त्वमी सर्वे प्राणाः क्षेत्र­ज्ञ­ल­क्षणाः ।। ९३ ।।

अनामरूपकाः सन्तः सत्यसंयोगहेतुतः ।।
देहिनः प्राण­व­त्सा­क्षा­त्सं­वृत्ता नामरूपिणः ।। ९४ ।।

निदेशाय च कल्पन्ते प्राणा वा इति नान्यथा ।।
तदत्र निखिलं सत्यं श्रुत्या संशोधितं स्फुटम् ।। ९५ ।।

व्यावि­द्ध­स­त्य­राशेः स्याद्वि­ज्ञा­ना­त्मन एव तु ।।
स्वरूपं यत्तदधुना वक्त­व्य­म­व­शि­ष्यते ।। ९६ ।।

तत्रै­त­स्या­म­व­स्थायां विभागा विनिवर्तने ।।
अयं भोक्ता विज्ञानात्मा तथा दैवतिकास्त्वमी ।। ९७ ।।

विज्ञानात्मान इत्येष भेद­हे­तु­नि­व­र्त­नात् ।।
यत आधारगो ह्येष नामरूपादिलक्षणः ।। ९८ ।।

विशेषो न स्वतस्तच्च नामरूपादि शोधितम् ।।
संशोध्य तदिदं सर्वं विज्ञानात्मा प्रदर्श्यते ।। ९९ ।।

सर्वेषामपि तेनेदं समानं लक्षणं भवेत् ।।
क्षेत्रज्ञानां विशेषोऽत्र यतो नैवोपपद्यते ।। १०० ।।

एतस्य पुरुषस्येति रूपं निर्दि­श्य­तेऽ­धुना ।।
पुंसो रूपमुपक्षीणं मूर्ता­मू­र्त­स­मा­श्र­यम् ।। १०१ ।।

येन त्वस्य विशेषेण विज्ञा­ना­त्म­त्व­मि­ष्यते ।।
विभज्यमानस्य सतः पर­स्मा­दा­त्म­नोऽ­द्व­यात् ।। १०२ ।।

अपाञ्चभौतिकं रूपमिह तन्नि­र्दि­दि­क्ष्यते ।।
यथेति माहारजनं वासनोपचयात्मकम् ।। १०३ ।।

तस्य हैतस्य संबन्धमेवं केचित्प्रचक्षते ।।
तदयुक्तं यथाऽ­न्या­य­स्त­थाऽ­य­म­भि­धी­यते ।। १०४ ।।

पुष्पा­दि­वा­स­नानां हि वस्त्रादिष्वेव संगतिः ।।
सजातीयेषु नियता दृश्यते नान्यजातिषु ।। १०५ ।।

द्रव्येऽपि न खलु व्योम्नि वासना काचिदीक्ष्यते ।।
अद्रव्ये चासजातीये चैतन्ये वासना कुतः ।। १०६ ।।

वासनाकारतां गच्छेच्चैतन्यं चेत्कपालवत् ।।
वासनानिष्फलत्वं स्याच्चै­त­न्या­द­पृ­थ­क्स्थितेः ।। १०७ ।।

न हि श्रोत्रो­त्थ­वि­ज्ञानं रूप­वा­स­न­याऽ­ञ्च्यते ।।
विष­य­त्वा­वि­शे­षेऽपि कुतोऽ­स­ङ्ग­त्व­त­श्चितेः ।। १०८ ।।

षड्भा­व­वि­क्रि­याणां च निषे­ध­श्चे­त­ना­त्मनः ।।
असङ्ग इति चाप्यु­क्ति­र­स­कृ­त्छ्रू­यते श्रुतौ ।। १०९ ।।

भूतसंयोगतः प्राप्तं न च तत्पाञ्चभौतिकम् ।।
इति ब्रुवाणो लोकेऽ­स्मि­न्ह­स्यते बालकैरपि ।। ११० ।।

मूर्ता­मू­र्त­वि­भा­गेऽस्य विभागो विनिवर्तते ।।
इति स्वोक्त­म­वि­स्मृत्य वासनाभेदगीः कथम् ।। १११ ।।

रचयन्ति तथाऽसाध्वीं प्रक्रियां न्यायवर्जिताम् ।।
मूर्ता­मू­र्ता­त्मको राशिरेको बाह्यः किलेष्यते ।। ११२ ।।

उत्तमः परमात्माख्यो राशि­र­त्रा­भि­धी­यते ।।
मध्यमोऽयं तृतीयस्तु ताभ्यां राशिः प्रयोजकः ।। ११३ ।।

पाणि­पे­षो­त्थि­ते­नायं कर्त्रा भोक्त्रा सहाऽऽत्मना ।।
भाव­ना­ज्ञा­न­क­र्मा­दि­स­मु­दायः प्रयोजकः ।। ११४ ।।

मूर्ता­मू­र्ता­दि­रा­शिस्तु प्रयोज्यः साधनं तथा ।।
तार्किकैः सह संधिं च चिकीर्षंन्ति यथाबलम् ।। ११५ ।।

अयं प्रयोजको राशिर्लिङ्गमेव किलाऽऽश्रितः ।।
इत्युक्त्वा सांख्य­त्व­भ­या­त्क­ल्प­यन्ति ततोऽन्यथा ।। ११६ ।।

गन्धः पुष्पाश्रयो यद्व­त्पु­ट­मा­श्रित्य तिष्ठति ।।
कुसु­मा­प­ग­मेऽ­प्येवं लिङ्गस्था वासनाऽऽत्मनि ।। ११७ ।।

वासनाकामकर्माणि लिङ्गस्थान्येव नाऽऽत्मनि ।।
लिङ्गा­दा­त्मा­न­मा­यान्ति गन्धो गन्धपुटं यथा ।। ११८ ।।

निर्गुणोऽपि परैकांशो बहिरभ्यागतेन सः ।।
कर्मणा सगुणः साक्षाद्भवतीति प्रचक्षते ।। ११९ ।।

ततश्च कर्ता भोक्ता च बध्यते मुच्यते तथा ।।
विज्ञानात्मेति कणभुक्वित्तमेवं समाश्रिताः ।। १२० ।।

भूत­रा­शे­र­गा­ल्लिङ्गं कर्मराशिः सकाशतः ।।
लिङ्गा­दा­त्मा­न­मा­गात्स लिङ्ग­सं­ब­न्ध­का­र­णात् ।। १२१ ।।

कृष्ण­श­क्ति­र­वि­द्याऽपि परस्मादेव सोत्थिता ।।
विकृत्य परमात्मांशं विज्ञानात्मनि तिष्ठति ।। १२२ ।।

यथोषरात्मको दोषः पृथिव्या एव जज्ञिवान् ।।
क्ष्मैकदेशं विकृ­त्याऽऽ­स्तेऽ­विद्या तद्वत्परात्मनः ।। १२३ ।।

अना­त्म­ध­र्मोऽ­वि­द्येति वद­न्त­श्चो­ष­रा­दि­वत् ।।
इत्येवं सांख्य­सि­द्धा­न्त­म­नु­व­र्तन्ति संभ्रमात् ।। १२४ ।।

नैवं कल्पयितुं युक्तं वेद­सि­द्धा­न्त­बा­ध­नात् ।।
पुराऽपि चैतदुदितं यथा वेदान्तबाधनम् ।। १२५ ।।

सकलत्वे परस्योक्ताः संसा­रि­त्वा­दि­ल­क्षणाः ।।
दोषाः सर्वेऽपि चाऽऽयान्ति प्रत्य­गा­त्मा­न­मे­क­लम् ।। १२६ ।।

क्षेत्रज्ञस्य च संभित्तौ परस्मादात्मनः स्वतः ।।
एक­त्वा­सं­भ­वोऽ­त्यन्तं क्षेत्र­ज्ञ­प­र­मा­त्मनोः ।। १२७ ।।

अथोपचारतो देशो लिङ्ग­मे­वाऽऽ­त्मनो मतः ।।
न तदा लिङ्गविध्वस्तौ वासनाऽऽत्मनि युज्यते ।। १२८ ।।

न्यायः पुरोदितो योऽत्र वासनासंश्रयं प्रति ।।
स सर्वोऽ­त्रा­नु­सं­धेयः पूर्व­प­क्षा­प­नु­त्तये ।। १२९ ।।

उत्थानं चाप्यविद्यायाः परस्मादात्मनः स्वतः ।।
ऊष­रा­दि­व­दि­त्या­दि­क­ल्पना नोपपद्यते ।। १३० ।।

अनि­र्मो­क्ष­प्र­सक्तिः स्याद्यविद्या परात्मनः ।।
निरा­त्म­वा­द­स­क्तिश्च मोहोच्छेदे भवेदिह ।। १३१ ।।

वास्य­दे­शा­ति­रे­केण वासनाया न चेष्यते ।।
देशान्तरोपगमनं गुण­व­द्द्र­व्य­व­र्ज­नात् ।। १३२ ।।

सामञ्जस्येन गच्छन्ति न च श्रुत्य­क्ष­रा­ण्यपि ।।
यथोक्तकल्पनायां हि न युक्ता तेन कल्पना ।। १३३ ।।

कामः संकल्प इत्याद्या मनसो धर्मिणः श्रुताः ।।
धर्मा न त्वात्मनः शास्त्रे ह्यसङ्गो हीतिवारणात् ।। १३४ ।।

हृदये ह्येव रूपाणि ध्यायतीवेति चापरम् ।।
कामा येऽस्य हृदीत्यादि तीर्णो हीति तथा वचः ।। १३५ ।।

श्रुतादर्थान्न चान्योऽर्थो यथोक्तवचसां यतः ।।
सम्यक्कल्पयितुं शक्यः कल्पनाऽतो न युज्यते ।। १३६ ।।

प्रत्य­ग्ब्र­ह्म­त्व­सि­द्ध्यर्था सर्वै­वो­प­नि­ष­त्त्वि­यम् ।।
ताव­न्मा­त्र­प­र­त्वेन वेदा­न्ता­ना­मु­प­क्ष­यात् ।। १३७ ।।

राशित्रितयपक्षे च नाप्यर्थोऽत्र समञ्जसः ।।
क्रियते कल्पना येन सर्व­न्या­य­वि­रो­धिनी ।। १३८ ।।

द्वे एव तु यदा रूपे मूर्तामूर्ते सवासने ।।
ब्रह्म रूपि तृतीयं च तदा वावेति युज्यते ।। १३९ ।।

ब्रह्मै­क­दे­श­भू­तस्य विज्ञानात्मन एव ते ।।
रूपे इति तदा युक्तं कल्पनानुगुणं वचः ।। १४० ।।

विज्ञा­ना­त्म­मु­खे­नाथ यदि वा परमात्मनः ।।
रूपे इति तदाऽ­व­क्ष्य­च्छ्रौती चेत्कल्पना भवेत् ।। १४१ ।।

द्विवचश्च तथाऽयुक्तं त्रैरूप्यस्येह संभवात् ।।
मूर्तामूर्ते च द्वे रूपे तृतीयं वासना यतः ।। १४२ ।।

मतं मूर्तेतरे रूपे ब्रह्मणोऽभिमते सदा ।।
क्षेत्रज्ञस्य तु नैवैते वास­ना­मा­त्र­रू­पितः ।। १४३ ।।

तदाऽपि जीवद्वारेण विक्रियां व्रजतो विभोः ।।
वास­ना­द्य­भि­सं­बन्ध इतीयं गीरनर्थिका ।। १४४ ।।

वासनानामपि यतो न विशेषो मनागपि ।।
क्षेत्र­ज्ञ­द्वा­र­तायाः स्याद­स­त्त­स्मा­द्वि­क­ल्पि­तम् ।। १४५ ।।

वस्तु वस्त्वन्तरत्वेन न च विक्रियतेऽञ्जसा ।।
वृत्त्येह मुख्ययेत्येवं शक्यो वक्तुं जगत्यपि ।। १४६ ।।

वस्त्वन्तरं न च मतः क्षेत्रज्ञः परमात्मनः ।।
सिद्धा­न्त­हा­नि­रेवं च कल्पनायां ध्रुवं भवेत् ।। १४७ ।।

आवि­श्चि­की­र्षु­भि­स्त­स्मा­द्वे­दा­न्तार्थं महात्मभिः ।।
ईदृशी कल्पनाऽयुक्ता कर्तुं परहितार्थिभिः ।। १४८ ।।

दक्षि­णेऽ­क्ष­न्पु­मा­निति लिङ्गात्मा परिगृह्यते ।।
अध्या­त्मेऽ­था­धि­दैवे च तस्यैव प्रकृतत्वतः ।। १४९ ।।

जीवग्रहोऽत्र नन्वस्तु प्रकृ­त­त्वा­वि­शे­षतः ।।
तस्यैवैतानि रूपाणि कस्मा­न्ने­त्य­भि­धी­य­ताम् ।। १५० ।।

नैवंरूपितया यस्मादिह श्रुत्या विवक्षितः ।।
क्षेत्रज्ञः करणात्मैव तस्मादिह विवक्षितः ।। १५१ ।।

वासनानुगतं लिङ्गं मृद्व­न्मृ­द्वि­क्रि­या­त्मसु ।।
चेत्यते साक्षिणा यस्मान्नातः क्षेत्र­ज्ञ­रू­पिता ।। १५२ ।।

माहारजनमित्यादि रूपं चेत्साक्षिणो भवेत् ।।
नेति नेतीत्यथाऽऽदेशं नाक­रि­ष्य­त्त­दाऽऽ­त्मनः ।। १५३ ।।

अन्यस्यासौ न चाऽऽदेशः शक्यो वक्तुं प्रमाणतः ।।
नेति नेतीति तस्यैव षष्ठान्त उपसंहृतेः ।। १५४ ।।

व्येव त्वेति प्रतिज्ञाया अर्थवत्त्वं तथा भवेत् ।।
पाणि­पे­षो­त्थि­त­स्यैव यद्यादेशो भवेदयम् ।। १५५ ।।

पाणि­पे­षो­त्थि­तोऽ­न्य­श्चे­न्ने­तीति च ततोऽपरः ।।
अन्योऽसाविति मिथ्या धीस्तदा स्यान्मो­ह­का­र­णात् ।। १५६ ।।

न स्यादा­त्मा­न­मे­वा­वे­दहं ब्रह्मेतिमानजा ।।
सम्य­ग्धी­र्नि­खि­ल­ध्वा­न्त­घा­तिनी मुक्तिदायिनी ।। १५७ ।।

करणात्मन एवातस्तस्य हेतिग्रहो भवेत् ।।
न तु तत्साक्षिणो युक्तस्तस्य रूपनिषेधतः ।। १५८ ।।

वासना भूरिरूपास्ता लिङ्गस्था लिङ्गसाक्षिणः ।।
कुर्वन्ति बहुरूपत्वं मणेरास्तरणं यथा ।। १५९ ।।

माहारजनमित्यत्र हारिद्रं रूपमुच्यते ।।
इन्द्र­गो­पो­प­मा­नेन कौसुम्भस्य गतत्वतः ।। १६० ।।

पीतं वस्त्रं यथा तद्व­ल्लि­ङ्ग­मा­भाति साक्षिणः ।।
आरु­या­दि­वि­ष­यो­द्भू­त­वा­स­ना­वा­सितं दृशेः ।। १६१ ।।

ईषत्पाण्दु यथोर्णादि तद्वल्लिङ्गं प्रकाशते ।।
इन्द्र­गो­पोऽ­ति­र­क्तश्च भृशं रक्तं मनस्तथा ।। १६२ ।।

रजसः कचि­दु­द्रे­क­स्त­मसः क्वचिदिष्यते ।।
सत्त्वस्यापि तथोत्कर्षः कुतश्चिदुपजायते ।। १६३ ।।

क्वचि­दे­क­प्र­धा­नत्वं कस्मिं­श्चि­द्वि­षये द्वयोः ।।
त्रयाणामपि चान्यत्र ज्ञान­क­र्मा­दि­चि­त्रतः ।। १६४ ।।

अग्नेरर्चिर्यथा भास्व­त्स­त्त्वो­त्क­र्षा­त्तथा मनः ।।
पुण्डरीकं यथा शुक्लं सौम्य­मा­ह्ला­द­कृ­त्तथा ।। १६५ ।।

सकृ­द्वि­द्यु­द्य­थाऽ­त्यन्तं घन­ध्वा­न्ता­प­नो­द­कृत् ।।
अतीव भास्वराऽस्माकं चक्षु­र्मु­ट्स­कृ­दु­द्गता ।। १६६ ।।

हिर­ण्य­ग­र्भ­त­त्त्वस्य जायमानस्य केशवात् ।।
विद्यु­द्व­त्प्र­थते रूपं किल तस्य महात्मनः ।। १६७ ।।

अतोऽनेनैव रूपेण य उपास्ते दिवानिशम् ।।
सर्वा­न्ध­का­र­ह­न्त्रीव विद्युत्तं श्रीः सदाऽऽश्रयेत् ।। १६८ ।।

नाऽऽदिर्न मध्यं नैवान्तो नेयत्ता विद्यते यतः ।।
अन­न्त­क­ल्पो­प­च­या­द्वा­स­ना­ना­मु­दा­हृतिः ।। १६९ ।।

माहा­र­ज­न­मि­त्या­दिर्न त्वियत्ता विवक्षिता ।।
प्रकारदर्शनायैव तेनो­दा­हृ­ति­रि­ष्यते ।। १७० ।।

निःशेषमेवं सत्यस्य रूपं व्याख्याय सांप्रतम् ।।
पर­मा­र्थ­स­त्य­या­था­त्म्य­नि­र्दे­शाय प्रयत्यते ।। १७१ ।।

यतो व्याख्यातमखिलं मूर्तामूर्तादि वस्त्वतः ।।
आदेशोऽनन्तरं तस्य क्रिय­तेऽ­न­न्य­मा­निनः ।। १७२ ।।

मूर्ता­मू­र्ता­स्व­भा­वस्य सत्य­स्याऽऽ­वि­ष्कृ­ते­रथ ।।
ब्रह्मातिरेकतो नान्यद्यतो वस्त्ववशिष्यते ।। १७३ ।।

आदेशो ब्रह्मणोऽतोऽयं निरादेशस्य भण्यते ।।
अतिमानाभिधानस्य प्रत्य­ङ्भा­त्रा­द्व­या­त्मनः ।। १७४ ।।

कर्म­ण्या­दे­श­श­ब्दोऽयं यदि वा करणे भवेत् ।।
आदि­ष्टि­र­थ­वाऽऽ­देशो नेति नेत्यद्वयात्मनः ।। १७५ ।।

नेति नेती­ति­श­ब्दाभ्यां सत्यस्य ब्रह्मणः कथम् ।।
प्रमाणगोचरातीतं तत्त्वं स्यान्नि­र्दि­दि­क्षि­तम् ।। १७६ ।।

शुणु सर्वं तद­ज्ञा­न­स­मु­त्थस्य निषेधतः ।।
प्रत्य­ङ्भा­त्रै­क­रू­पेण तदबोधनिराकृतेः ।। १७७ ।।

अमूर्तस्य परा निष्ठा कारणात्मा पुरोदितः ।।
मूर्तस्य च तथा पृथ्वी मध्ये संकीर्णता तयोः ।। १७८ ।।

माना­भि­धा­न­यो­र्या­वा­न्क­श्चि­द्वि­षय इष्यते ।।
उक्त­यो­र्म­ध्य­व­र्त्येव कार्यकारणयोरसौ ।। १७९ ।।

नामरूपे तथा कर्म प्राणा लोकादयस्तथा ।।
कारकं वा क्रियाऽन्यद्वा कारणं कार्यमेव च ।। १८० ।।

जातिर्गुणः क्रिया द्रव्यं संबन्धो भाव एव च ।।
सदसत्सदसच्चेति समस्तव्यस्तमेव च ।। १८१ ।।

प्रमाता च प्रमाणं च प्रमेयोऽथ क्रियाफले ।।
इत्यादेः प्रतिषेधेन प्रत्य­ङ्ङा­त्मा­व­ल­म्बिना ।। १८२ ।।

उप­प्र­द­र्श­कोऽ­शे­ष­ना­मा­दे­रि­ति­रि­ष्यते ।।
तस्यो­प­द­र्शि­त­स्याथ निषेधः क्रियते नञा ।। १८३ ।।

आकृष्टं रूपिणो रूपं न पृथ­ग्व्य­व­ति­ष्ठते ।।
जगत्यकल्पितमपि किमु मोहादिकल्पितम् ।। १८४ ।।

घटे पटो निषिद्धोऽपि घटादन्यत्र तिष्ठति ।।
तदन्यत्रापि सद्भा­वा­द­नि­षि­द्धस्य धर्मिणः ।। १८५ ।।

पर­मा­र्था­न्नि­षि­द्धस्य तन्मोहोत्थस्य वस्तुनः ।।
हिरुक्स्थितिः कथं तस्य पर­मा­र्था­त्म­नाऽ­थवा ।। १८६ ।।

निषे­ध्या­ना­म­शे­षा­णा­म­न्यो­न्य­व्य­भि­चा­रतः ।।
प्रती­चोऽ­व्य­भि­चा­रोऽ­त­स्त­त्रा­ध्यस्तं निषिध्यते ।। १८७ ।।

इति­श­ब्दो­प­दि­ष्टानां निषे­धोऽ­नु­भ­वा­त्मनि ।।
अनन्तेऽन्तवतां यत्र तद्ब्र­ह्मे­त्य­व­सी­य­ताम् ।। १८८ ।।

सद्भा­व­श्चो­प­ल­ब्धिश्च स्वार्थ­प्र­त्य­क्चि­दा­श्र­यात् ।।
मूर्ता­दी­ना­म­नि­र्दे­श्या­दि­ति­र्मत्तो निवर्तते ।। १८९ ।।

निषेधति निषेध्यार्थं यद्व­ला­न्न­ञ्चि­दा­त्मनः ।।
विज्ञानेनैव हत्वाऽ­न्य­त्पू­र्ण­त्वे­नैति चित्स्वतः ।। १९० ।।

प्रत्य­ङ्मा­त्र­दृशि ह्यस्मि­ञ्जा­ग्र­त्स्व­प्न­सु­षु­प्तिषु ।।
तद­न्य­द्य­त्त­दा­भासं तन्नञा प्रतिषिध्यते ।। १९१ ।।

अवि­चा­रि­त­सं­सि­द्धि­प्र­त्य­ङ्मो­ह­हतौ सदा ।।
विस्फारिताक्षः प्रत्य­ग्धी­र्मा­ना­न्नि­र्वा­त्य­थाऽऽ­त्मनि ।। १९२ ।।

अपे­क्षा­ज्ञा­न­हे­तूत्थं कार्य­का­र­ण­व­स्त्वतः ।।
विचार्यमाणं तन्नास्ति व्योम्नि कार्प्ण्य­मि­वाऽऽ­त्मनि ।। १९३ ।।

शब्द­प्र­वृ­त्ति­हे­तूनां प्रत्य­गा­त्म­न्य­सं­भ­वात् ।।
प्रमाणगोचराणां च स्वतः सिद्धेर्न निहृतिः ।। १९४ ।।

मानाभिधानविषयो याव­न्नाऽऽ­त्मा­न­मा­त्मनि ।।
लभते प्रत्यगात्मानं न नञ्ता­व­न्नि­व­र्तते ।। १९५ ।।

निर­स्ता­ज्ञा­न­त­त्कार्ये लब्ध आत्म­न्य­थाऽऽ­त्मना ।।
निषेध्यहेतौ प्रध्वस्ते निषेधोऽपि निवर्तते ।। १९६ ।।

प्रमातृत्वादिना यावत्किंचिदत्र विवक्षितम् ।।
तदभावश्च तत्सर्वं नेतीति प्रतिषिध्यते ।। १९७ ।।

निषेध्यं सर्व­मे­वै­त­द­नि­षे­ध्या­त्म­व­स्तु­गम् ।।
अतो नाभावनिष्ठः स्यादभावस्यापि निह्नवात् ।। १९८ ।।

नेति नेतीत्यतो वीप्सा जिघृ­क्षि­त­नि­षे­धतः ।।
बुभुत्सितस्य कृत्स्नस्य वीप्सैवातो निषेधनी ।। १९९ ।।

ज्ञान­क्रि­याभ्यां व्याप्योऽ­य­मि­त्या­काङ्क्षा निवर्तते ।।
अप्रमित्सित एकस्मिन्निष्ठां यात्यचिकीर्षिते ।। २०० ।।

रज्जु­या­था­त्म्य­वि­ज्ञा­ना­त्स­र्प­व­त्क­र­णा­त्मनः ।।
निषेधो नान्यतः शक्यः कर्तुं वर्षशतैरपि ।। २०१ ।।

यद्यत्प्राप्तं जग­त्य­स्मिं­स्त­त्त­त्सर्वं निषिध्यते ।।
एवं च सत्य­नि­र्दि­ष्टा­श­ङ्काऽपि विनिवर्तते ।। २०२ ।।

न चेद्वीप्सा तदा वाक्य­द्व­य­मे­त­द्वि­व­क्षि­तम् ।।
उक्तद्वयनिषेधेन तस्य चोपक्षयाद्भवेत् ।। २०३ ।।

अनु­क्त­वि­ष­या­शङ्का सर्व­स्या­प्र­ति­षे­धतः ।।
यदि वाऽभावविषया न ह्यभावो निषिध्यते ।। २०४ ।।

साक्षा­न्मा­न­प्र­सि­द्धेषु प्रति­षि­द्धे­त­र­ग्रहः ।।
अप्रसिद्धे प्रसिद्धानां निषे­धा­च्छू­न्य­ता­ग्रहः ।। २०५ ।।

आदेश इत्युपक्रम्य प्रति­षे­धोऽ­य­मु­च्यते ।।
साक्षादादिश्यते येन तादृगादेश उच्यते ।। २०६ ।।

निषेधवर्त्मना तस्मा­द­नि­षे­ध्या­त्म­सा­क्षिणा ।।
ज्ञाताज्ञातं निषिध्याथ सदा दृष्टौ प्रतिष्ठति ।। २०७ ।।

यथा श्रोत्रधिया रूपं रूप­हे­त्व­स­म­न्व­यात् ।।
नाग्रहीन्न च गृह्णाति न ग्रहीष्यति शब्दवत् ।। २०८ ।।

प्रत्यक्तत्त्वे विनिर्ज्ञाते नेति नेतीतिवाक्यतः ।।
तद्व­त्स­का­र­णोऽ­नात्मा नाभूदस्ति भविष्यति ।। २०९ ।।

नान्य­द­ज्ञा­न­तोऽ­स्तित्वं द्विती­य­स्याऽऽ­त्मनो यथा ।।
निवृ­त्ति­स्त­द्व­दे­वास्य नाव­ग­त्या­त्म­नोऽ­परा ।। २१० ।।

अन­न्या­य­त्त­मै­कात्म्यं यदा साक्षा­द्व्य­व­स्थि­तम् ।।
व्येव त्वेति प्रतिज्ञेयं तदा स्यात्सफलोदिता ।। २११ ।।

नेति नेतीत्यतो वीप्सा­सं­भ­वा­दु­क्त­व­स्तुनः ।।
कृतार्थता तथाच स्यादन्यथा नोपपद्यते ।। २१२ ।।

परागर्थेषु सक्ता धीः प्रत्य­ग­र्था­नु­र­ञ्ज­नात् ।।
निषिद्धाऽतः परा­ग­र्था­त्प्र­तीचि लभते स्थितिम् ।। २१३ ।।

व्यतिरेकस्य सिद्ध­त्वा­दा­दे­शोक्तेः पुरैव हि ।।
साक्षा­द्ब्र­ह्म­त्व­सि­द्ध्या­र्थ­मा­दे­शोऽ­य­म­थो­च्यते ।। २१४ ।।

न निषेधो निषेध्यार्थो लक्ष­णा­र्थ­प­र­त्वतः ।।
ब्रह्मणो मान्तरासिद्धेः शून्यतैव प्रसज्यते ।। २१५ ।।

षष्ठ्युक्तेरेव संसिद्धा मूर्ता­दे­र्ब्र­ह्म­णोऽ­न्यता ।।
ततश्च जामि­ता­स­क्ति­र्नातः स्यात्पा­रि­शे­ष्यगीः ।। २१६ ।।

शक्यते न निषेद्धुं च प्रत्य­क्षा­द्या­श्रि­त­त्वतः ।।
निषेधान्न पुमर्थोऽपि कश्चि­त्सि­ध्ये­त्स­मी­हितः ।। २१७ ।।

निषे­ध­मा­त्र­नि­ष्ठत्वे न चाऽऽदेशो भवेत्प्रभोः ।।
ब्रह्म मूर्तादि नेत्युक्तौ मूर्तादेर्न निषेधगीः ।। २१८ ।।

ततश्च ब्रह्म­ता­सि­द्धि­र्द्वि­तीये सति वस्तुनि ।।
व्येव त्वेति प्रतिज्ञार्थो नापि चाऽऽविष्कृतो भवेत् ।। २१९ ।।

पारि­शे­ष्या­द­तोऽ­सिद्धिः स्याद्वि­व­क्षि­त­व­स्तुनः ।।
यथा सिद्धिस्तथा व्याख्या कार्ये­हो­क्ते­र­तोऽ­ञ्जसा ।। २२० ।।

सिद्धो निषेधः प्रागेव सर्व­स्या­ना­त्म­व­स्तुनः ।।
प्रत्य­ग्या­था­त्म्य­वि­ज्ञा­ना­द­न्यो­न्य­व्य­भि­चा­रतः ।। २२१ ।।

अन्यो­न्य­व्य­भि­चा­रोऽस्य वीक्ष्य­तेऽ­ना­त्म­व­स्तुनः ।।
स्वरू­प­व्य­भि­चा­रोऽपि सुषुप्तादौ स्वसाक्षिगः ।। २२२ ।।

यथा मात्रादिसचेयं प्रत्य­क्सं­वि­त्ति­सि­द्धिका ।।
प्रमा­त्रा­दे­र­भा­वोऽपि प्रत्य­ग्बो­धा­श्र­या­त्तथा ।। २२३ ।।

अवि­चा­रि­त­सं­सि­द्धि­रा­त्मा­वि­द्यै­क­रू­पतः ।।
सिद्धा­य­तेऽ­खि­लोऽ­नात्मा स्वतः­सि­द्धा­त्म­सं­श्र­यात् ।। २२४ ।।

अति­रो­हि­त­सं­वित्को व्यपा­स्ता­शे­ष­वि­क्रियः ।।
अन­न्य­मा­तृ­मा­ना­दि­र्दृ­ष्टि­मा­त्रा­त्म­क­त्वतः ।। २२५ ।।

भावाभावात्मिका सिद्धिर्येयं सर्वाऽ­प्य­ना­त्मनः ।।
तद्वि­रु­द्धा­त्म­का­न्मत्तो मय्येवासौ प्रसिध्यति ।। २२६ ।।

अनन्यानुभवेनैव भावा­भा­वा­त्म­भू­मिषु ।।
प्रत्यक्कूटस्थ आत्मानं पश्यन्नास्ते फलात्मना ।। २२७ ।।

अतो मात्रादिसंभेदो यत्र यत्र निवर्तते ।।
तत्र तत्रैकलः प्रत्य­क्स्व­म­हि­म्नैव सिध्यति ।। २२८ ।।

प्रमा­त्रा­दे­र­भा­वोऽतो यः सिद्धः स्वात्मबोधतः ।।
नञ्वृत्तिस्तं सदाबुद्धं लक्ष­य­त्य­पृ­थ­क्प्र­मम् ।। २२९ ।।

वैविक्त्यान्न च माना­दे­र­न­न्या­नु­भ­वा­त्मनि ।।
सहेतुकस्य वृत्तिः स्यान्नि­त्य­बो­धा­व­बॊ­धिनि ।। २३० ।।

अवि­द्या­द्य­ति­रे­केण कार­णा­दि­वि­ध­र्म­कम् ।।
लब्धमात्मात्मकं वस्तु प्रती­चोऽ­न­न्य­मा­नतः ।। २३१ ।।

एतद्वस्तु स्वतःसिद्धं प्रमा­त्रा­द्य­न­पे­क्षतः ।।
सर्वस्यैव ततः सिद्धेः कथं सिध्येत्तदन्यतः ।। २३२ ।।

उक्ता प्रमेयसंसिद्धिः स्वमहिम्नैव नञ्श्रुतेः ।।
तस्य ब्रह्मत्वबोधाय नेति ब्रह्मे­ति­नो­च्यते ।। २३३ ।।

आत्म­प्र­त्य­य­मा­मेयो लक्षितो यो नञाऽञ्जसा ।।
अवि­द्या­दे­स्त­दा­त्म­त्वा­दिति ब्रह्मेति बोध्यते ।। २३४ ।।

प्रत्य­ङ्मो­ह­त­दु­त्थस्य प्रत्य­ग्या­था­त्म्य­बो­धतः ।।
बाधि­त­त्वा­द­तोऽ­वो­च­दिति ब्रह्मेति मोहनुत् ।। २३५ ।।

आदेशं प्रत्यतिमहानथात इति संभ्रमः ।।
तेनासदृश आदेशो नन्व­यु­क्तोऽ­य­मी­र्यते ।। २३६ ।।

युक्त एवायमादेशो न यतो विद्यते परः ।।
आदे­शोऽ­तोऽ­य­मे­वात्र ब्रह्मण्यादेश इष्यते ।। २३७ ।।

आदि­दि­क्षि­त­मे­तस्य तत्त्वं यद्ब्रह्मणः परम् ।।
यावन्तस्तत्र निर्दे­श्या­स्तेऽर्थाः सर्वे निवर्तिताः ।। २३८ ।।

निवृत्तिश्च यथोक्तैव तेषा­मै­का­त्म्य­ल­क्षणा ।।
भिन्न­दे­श­स्थि­ति­स्त्वत्र वास्तवी नोपपद्यते ।। २३९ ।।

अव्या­वृ­त्ता­न­नु­गतो ब्रह्मशब्दार्थ इष्यते ।।
मुख्योऽ­न्य­स्मि­न्सति यतो ब्रह्मार्थो नावसीयते ।। २४० ।।

शब्द­प्र­वृ­त्ति­हे­तू­ना­मै­का­त्म्येन समाप्तितः ।।
तथा तद­भि­धे­या­ना­मा­दे­शोऽयं मतः परः ।। २४१ ।।

अभि­धा­भि­धे­य­सं­ब­न्ध­म­ङ्गी­कृत्य यतोऽक्षरे ।।
न कश्चिदपि शब्दोऽत्र साक्षा­द्ब्र­ह्मणि वर्तते ।। २४२ ।।

आदेशो नेति नेत्येव तेनेह घटतेऽञ्जसा ।।
तद­बॊ­ध­प्र­सू­ता­ना­मा­का­ङ्क्षाणां निषेधतः ।। २४३ ।।

मूर्तामूर्तं हि सत्याह्वं प्राणाः सत्यास्तदात्मतः ।।
क्षेत्र­ज्ञ­स्त­दु­पा­धि­त्वा­त्सत्य इत्यभिधीयते ।। २४४ ।।

अनिर्देश्यस्य निर्देश्या ये भेदाः कार्यलक्षणाः ।।
तेषु लब्धास्पदं नाम पर­स्मि­न्नु­प­च­र्यते ।। २४५ ।।

मूर्ता­मू­र्ता­त्मकं सत्यं प्राणादेः कार्यरूपिणः ।।
तस्याप्येतत्परं सत्यं यन्ने­ती­त्य­व­धा­रि­तम् ।। २४६ ।।

उक्त­व­स्त्व­ति­रे­केण नामीषां सत्यता यतः ।।
न चाप्यसत्यता तस्मात्तेषां सत्यं परं पदम् ।। २४७ ।।

आत्मवन्तो यथा रज्ज्वा रज्जु­स­र्पा­द­य­स्तथा ।।
आत्मवन्तो निरात्मानः प्राणाद्याः प्रत्यगात्मना ।। २४८ ।।

यत एव मतोऽन्वीक्ष्य मूर्ता­मू­र्ता­दि­व­र्त्मना ।।
सत्य­श­ब्दा­भि­धे­यार्थं तया द्वारा परं पदम् ।। २४९ ।।

व्यप­दि­श्य­मा­न­मै­कात्म्यं सत्य­स्याऽऽ­त्मा­न­म­द्व­यम् ।।
द्रष्ट­व्य­मा­त्म­नै­वैनं सत्यं पश्येद्यथोदितम् ।। २५० ।।

अतोऽ­व्या­कृ­त­या­थात्म्यं व्याकृ­ते­नो­प­दि­श्यते ।।
सत्यस्य सत्यमिति तन्नान्यथा व्यपदेशभाक् ।। २५१ ।।

व्यपदेशाय नामैतन्न स्वं नामास्य विद्यते ।।
ननु ब्रह्माक्षरमिति व्यपदेशोऽत्र नामभिः ।। २५२ ।।

कार्यकारणगे तत्त्वे नाम लब्धास्पदं यतः ।।
रूपा­भि­धे­य­सं­ब­न्ध­म­रू­पा­श­ब्द­म­क्ष­रम् ।। २५३ ।।

लक्षयेन्नाञ्जसा वक्ति परं ब्रह्म कथंचन ।।
शब्द­प्र­वृ­त्ति­हे­तूनां साक्षा­द्ब्र­ह्म­ण्य­सं­भ­वात् ।। २५४ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके द्विती­या­ध्या­यस्य तृतीयं ब्राह्मणम्