अद्वैतशारदा

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥

आनन्दं ब्रह्म विज्ञानं साक्षा­दि­त्या­दि­ल­क्ष­णम् ।।
पञ्चमान्ते विनिर्णीतं जल्पन्यायेन सांप्रतम् ।। १ ।।

वागा­दि­दे­व­ता­द्वारा भूयस्तस्यैव वित्तये ।।
षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्नतः ।। २ ।।

योग्य­का­ला­व­बो­धा­र्थ­मा­सां­चक्र इतीरणम् ।।
कल्पं बुद्ध्वाऽथ तमृषिराजगाम महीपतिम् ।। ३ ।।

पशू­नि­च्छ­न्कि­मा­गास्त्वं प्रश्नान्वा सूक्ष्म­नि­र्म­यान् ।।
वक्तुं किमागतोऽसीति नृपः पप्रच्छ तं मुनिम् ।। ४ ।।

धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते ।।
न त्वनापदि विद्यार्थं तं यान्तीह द्विजोत्तमाः ।। ५ ।।

नान्यत्र क्षत्र्रि­या­द्विद्या यत्र संभाव्यते क्वचित् ।।
उपसीदन्ति तत्रैव ब्राह्मणाः क्षत्र्रि­या­न्सदा ।। ६ ।।

याज्ञवल्क्यस्य शिष्यत्वे ग्रन्थच्छायाऽपि नेष्यते ।।
जनकस्यैव शिष्यत्वे ग्रन्थ­च्छा­यो­प­ल­क्ष्यते ।। ७ ।।

अण्वन्तानिति शब्दोऽयं न स्यात्प­शु­वि­शे­ष­णम् ।।
उभयं त्वित्यतः शेषाद्दूयं पृष्टमतो भवेत् ।। ८ ।।

तद्धे­तु­हे­तु­म­त्त्वस्य प्रसि­द्ध्य­र्थ­म­था­व­दत् ।।
इच्छा­म्यु­भ­य­म­प्ये­त­दि­त्येवं ह्यन्यथा वदेत् ।। ९ ।।

वाग्दे­व­ताऽ­ग्नि­रत्र स्यात्त­थाऽऽ­य­त­न­मि­न्द्रि­यम् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा च नामोपनिषदुच्यते ।। १० ।।

कर­णा­य­त­ना­न्दे­वा­न्स्व­प्र­ति­ष्ठा­न्व्र­जेत्तु सः ।।
प्रज्ञा­द्यु­प­नि­ष­त्कान्यो ध्यानाद्देवो भवेदिह ।। ११ ।।

देवतायतने चैव प्रति­ष्ठो­प­नि­ष­त्तथा ।।
षट्स्वप्येतेषु विज्ञेयमेतदेव चतुष्टयम् ।। १२ ।।

मातृमानिति हेतूक्तिः सम्य­ग्ब­क्तृ­त्व­सि­द्धये ।।
सम्य­क्त्व­प्र­ति­प­त्त्यर्थं तथैव स्यात्परं वचः ।। १३ ।।

यस्मादवदतो लोके पुरुषार्थो न कश्चन ।।
दृष्टो वा यदि वाऽदृष्टो वाग्ब्रह्मातः प्रतीयताम् ।। १४ ।।

न चेदा­य­त­ना­द्यु­क्त­मे­क­पा­द्ब्रह्म तर्हि तत् ।।
असमस्तमिदं ब्रह्म न युक्तं समुपासितुम् ।। १५ ।।

स त्वं जानं­श्च­तु­ष्पान्मे ब्रह्म व्याख्या­तु­म­र्हसि ।।
वागेवाऽऽयतनमिति याज्ञ­व­ल्क्योऽ­प्यु­वाच तम् ।। १६ ।।

वागेवाऽऽयतनं तस्य वागेव करणं भवेत् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा स्यात्प्र­ज्ञाऽ­स्यो­प­नि­ष­त्तथा ।। १७ ।।

प्रज्ञेयं किं ततो भिन्ना प्रतिष्ठायतने यथा ।।
किंवाऽभिन्नेति मे ब्रूहि प्रज्ञोपनिषदं स्फुटम् ।। १८ ।।

स्वयमेव तु वाक्प्रज्ञा ब्रह्मणो न तु भिद्यते ।।
कुतः प्रज्ञा­त्व­सं­सि­द्धि­र्वाच इत्येतदुच्यते ।। १९ ।।

यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत् ।।
विरा­ङ्गृ­ही­ति­रत्र स्यात्सा­धा­र­क­र­ण­ग्र­हात् ।। २० ।।

तथा देवतया सूत्रं नियन्ताऽपि वियद्गिरा ।।
कारणाद्यखिलं विश्वं देवतावधि भण्यते ।। २१ ।।

यतो वागा­द्यु­पा­स्त्यत्र तस्मात्सर्वं विवक्षितम् ।।
एनं भूतानि सर्वा­णी­त्यु­पा­स­न­फ­ला­भिधा ।। २२ ।।

देवो भूत्वेति देवान्हि प्रधा­न­फ­ल­की­र्त­नम् ।।
विद्वान्य एवमित्युक्त्या साध्यसाधनसंगतिः ।। २३ ।।

देवो भूत्वेति जीव­न्स­न्भा­व­नो­प­च­या­न्नरः ।।
वैल­क्ष­ण्य­मु­पा­स्तीनां भण्यते ब्रह्मबोधतः ।। २४ ।।

तथैव वचसोक्तिः स्याद्देवो भूत्वेति संभवात् ।।
प्रतिवाक्यं बहूक्तिश्च षण्णा­मे­क­त्व­सि­द्धये ।। २५ ।।

प्रागपि ब्रह्म­वि­ज्ञा­ना­द्ब्र­ह्मै­वा­भू­द्यथा तथा ।।
देवोपासनतः पूर्वं नाभूद्देव उपासकः ।। २६ ।।

भावनोपचयाद्देवो भूत्वा विद्वानिहैव तु ।।
देवानप्येति सोऽग्न्या­दी­ञ्श­री­र­त्या­गतः परम् ।। २७ ।।

उत्प­त्त्या­द्या­त्मकं कार्यं साध्यं सर्वस्य कर्मणः ।।
उपासनं च कर्मैव युक्तमुक्तमिदं ततः ।। २८ ।।

ब्रह्म वा इदमित्येवं तथा ब्रह्मैव सन्निति ।।
प्रागपि ब्रह्म­वि­ज्ञा­ना­त्सिद्धं तादा­त्म्य­मु­च्यते ।। २९ ।।

हस्त्यृषभमिति चोक्त्या भण्यते गुरुदक्षिणा ।।
स च तां नाग्रहीद्दत्तां पिता म इति हेतुगीः ।। ३० ।।

नन्वनुशिष्ट एवायं पूर्वो­क्तै­र­नु­शा­सनैः ।।
पितृ­व्र­तो­प­रो­धोऽत्र नातः कश्चन विद्यते ।। ३१ ।।

नाऽऽत्म­वि­द्या­ति­रे­केण पितु­र्व­स्त्व­न्तरे यतः ।।
असमाप्तेः पुमर्थस्य मतं नास्यानुशासनम् ।। ३२ ।।

यस्मि­ञ्ज्ञा­तेऽ­खिलं ज्ञातं कृतमाप्तं च कामितम् ।।
तित्यक्षितं च संत्यक्तं पितु­स्त­द­नु­शा­स­नम् ।। ३३ ।।

यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम् ।।
सम्य­क्त­ज्ज्ञा­न­मे­वा­त­स्त­द­न्यत्र मृषा मतिः ।। ३४ ।।

आत्म­ज्ञा­नो­द­या­यैव याज्ञ­व­ल्क्योऽ­प्य­तोऽ­व­दत् ।।
उपासनान्यशेषाणि तथा कर्माण्यशेषतः ।। ३५ ।।
इति श्रीबृ­ह­दा­र­ण्य­को­प­नि­ष­द्भा­ष्य­वा­र्तिके चतुर्थाध्यायस्य प्रथमं षडा­चा­र्य­ब्रा­ह्म­णम्