बृहदारण्यकोपनिषद्भाष्यवार्तिकम्
॥ चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥
आनन्दं ब्रह्म विज्ञानं साक्षादित्यादिलक्षणम् ।।
पञ्चमान्ते विनिर्णीतं जल्पन्यायेन सांप्रतम् ।। १ ।।
वागादिदेवताद्वारा भूयस्तस्यैव वित्तये ।।
षष्ठ आरभ्यतेऽध्यायो वादन्यायेन यत्नतः ।। २ ।।
योग्यकालावबोधार्थमासांचक्र इतीरणम् ।।
कल्पं बुद्ध्वाऽथ तमृषिराजगाम महीपतिम् ।। ३ ।।
पशूनिच्छन्किमागास्त्वं प्रश्नान्वा सूक्ष्मनिर्मयान् ।।
वक्तुं किमागतोऽसीति नृपः पप्रच्छ तं मुनिम् ।। ४ ।।
धनार्थं ब्राह्मणा यान्ति राजानमिति युज्यते ।।
न त्वनापदि विद्यार्थं तं यान्तीह द्विजोत्तमाः ।। ५ ।।
नान्यत्र क्षत्र्रियाद्विद्या यत्र संभाव्यते क्वचित् ।।
उपसीदन्ति तत्रैव ब्राह्मणाः क्षत्र्रियान्सदा ।। ६ ।।
याज्ञवल्क्यस्य शिष्यत्वे ग्रन्थच्छायाऽपि नेष्यते ।।
जनकस्यैव शिष्यत्वे ग्रन्थच्छायोपलक्ष्यते ।। ७ ।।
अण्वन्तानिति शब्दोऽयं न स्यात्पशुविशेषणम् ।।
उभयं त्वित्यतः शेषाद्दूयं पृष्टमतो भवेत् ।। ८ ।।
तद्धेतुहेतुमत्त्वस्य प्रसिद्ध्यर्थमथावदत् ।।
इच्छाम्युभयमप्येतदित्येवं ह्यन्यथा वदेत् ।। ९ ।।
वाग्देवताऽग्निरत्र स्यात्तथाऽऽयतनमिन्द्रियम् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा च नामोपनिषदुच्यते ।। १० ।।
करणायतनान्देवान्स्वप्रतिष्ठान्व्रजेत्तु सः ।।
प्रज्ञाद्युपनिषत्कान्यो ध्यानाद्देवो भवेदिह ।। ११ ।।
देवतायतने चैव प्रतिष्ठोपनिषत्तथा ।।
षट्स्वप्येतेषु विज्ञेयमेतदेव चतुष्टयम् ।। १२ ।।
मातृमानिति हेतूक्तिः सम्यग्बक्तृत्वसिद्धये ।।
सम्यक्त्वप्रतिपत्त्यर्थं तथैव स्यात्परं वचः ।। १३ ।।
यस्मादवदतो लोके पुरुषार्थो न कश्चन ।।
दृष्टो वा यदि वाऽदृष्टो वाग्ब्रह्मातः प्रतीयताम् ।। १४ ।।
न चेदायतनाद्युक्तमेकपाद्ब्रह्म तर्हि तत् ।।
असमस्तमिदं ब्रह्म न युक्तं समुपासितुम् ।। १५ ।।
स त्वं जानंश्चतुष्पान्मे ब्रह्म व्याख्यातुमर्हसि ।।
वागेवाऽऽयतनमिति याज्ञवल्क्योऽप्युवाच तम् ।। १६ ।।
वागेवाऽऽयतनं तस्य वागेव करणं भवेत् ।।
ब्रह्माऽऽकाशः प्रतिष्ठा स्यात्प्रज्ञाऽस्योपनिषत्तथा ।। १७ ।।
प्रज्ञेयं किं ततो भिन्ना प्रतिष्ठायतने यथा ।।
किंवाऽभिन्नेति मे ब्रूहि प्रज्ञोपनिषदं स्फुटम् ।। १८ ।।
स्वयमेव तु वाक्प्रज्ञा ब्रह्मणो न तु भिद्यते ।।
कुतः प्रज्ञात्वसंसिद्धिर्वाच इत्येतदुच्यते ।। १९ ।।
यत एवमतो वाचं परं ब्रह्मेति चिन्तयेत् ।।
विराङ्गृहीतिरत्र स्यात्साधारकरणग्रहात् ।। २० ।।
तथा देवतया सूत्रं नियन्ताऽपि वियद्गिरा ।।
कारणाद्यखिलं विश्वं देवतावधि भण्यते ।। २१ ।।
यतो वागाद्युपास्त्यत्र तस्मात्सर्वं विवक्षितम् ।।
एनं भूतानि सर्वाणीत्युपासनफलाभिधा ।। २२ ।।
देवो भूत्वेति देवान्हि प्रधानफलकीर्तनम् ।।
विद्वान्य एवमित्युक्त्या साध्यसाधनसंगतिः ।। २३ ।।
देवो भूत्वेति जीवन्सन्भावनोपचयान्नरः ।।
वैलक्षण्यमुपास्तीनां भण्यते ब्रह्मबोधतः ।। २४ ।।
तथैव वचसोक्तिः स्याद्देवो भूत्वेति संभवात् ।।
प्रतिवाक्यं बहूक्तिश्च षण्णामेकत्वसिद्धये ।। २५ ।।
प्रागपि ब्रह्मविज्ञानाद्ब्रह्मैवाभूद्यथा तथा ।।
देवोपासनतः पूर्वं नाभूद्देव उपासकः ।। २६ ।।
भावनोपचयाद्देवो भूत्वा विद्वानिहैव तु ।।
देवानप्येति सोऽग्न्यादीञ्शरीरत्यागतः परम् ।। २७ ।।
उत्पत्त्याद्यात्मकं कार्यं साध्यं सर्वस्य कर्मणः ।।
उपासनं च कर्मैव युक्तमुक्तमिदं ततः ।। २८ ।।
ब्रह्म वा इदमित्येवं तथा ब्रह्मैव सन्निति ।।
प्रागपि ब्रह्मविज्ञानात्सिद्धं तादात्म्यमुच्यते ।। २९ ।।
हस्त्यृषभमिति चोक्त्या भण्यते गुरुदक्षिणा ।।
स च तां नाग्रहीद्दत्तां पिता म इति हेतुगीः ।। ३० ।।
नन्वनुशिष्ट एवायं पूर्वोक्तैरनुशासनैः ।।
पितृव्रतोपरोधोऽत्र नातः कश्चन विद्यते ।। ३१ ।।
नाऽऽत्मविद्यातिरेकेण पितुर्वस्त्वन्तरे यतः ।।
असमाप्तेः पुमर्थस्य मतं नास्यानुशासनम् ।। ३२ ।।
यस्मिञ्ज्ञातेऽखिलं ज्ञातं कृतमाप्तं च कामितम् ।।
तित्यक्षितं च संत्यक्तं पितुस्तदनुशासनम् ।। ३३ ।।
यतो वस्त्वन्तरं नान्यदात्मनो विद्यते परम् ।।
सम्यक्तज्ज्ञानमेवातस्तदन्यत्र मृषा मतिः ।। ३४ ।।
आत्मज्ञानोदयायैव याज्ञवल्क्योऽप्यतोऽवदत् ।।
उपासनान्यशेषाणि तथा कर्माण्यशेषतः ।। ३५ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके चतुर्थाध्यायस्य प्रथमं षडाचार्यब्राह्मणम्