अद्वैतशारदा

पञ्चपादिका

४ वर्णकम्

व्याख्याः

अथ तुरीयं वर्णकम्

तत् पुनर्ब्रह्म प्रसिद्धं वा स्यात् ? अप्रसिद्धं वा ? यदि प्रसिद्धं, न जिज्ञासितव्यम् ; अथाप्रसिद्धं, नैव शक्यं जिज्ञासितुम् इति
प्रयो­ज­न­वि­ष­य­स­म्ब­न्धा­ना­क्षि­पति । कथम् ? प्रसिद्धशब्देन प्रति­प­न्न­मु­च्यते । तद् यदि प्रतिपन्नमन्येन केनचित् , तदाऽस्य शास्त्रस्य न विषयः ; कस्मात् ? प्रतिपाद्यत्वेन हि विषयता, प्रतिपन्ने च तस्मि­न्न­कि­ञ्चि­त्करं शास्त्रम् , इति नास्य विषयः स्यात् । तत­श्चा­ने­ना­न­व­ग­मा­न्नास्य प्रयोजनं ब्रह्मावगतिः स्यात् । अतः प्रयो­ज­न­म­प्या­क्षि­प्तम् । अथाप्रसिद्धं न शक्यं जिज्ञासितुम् ॥ कथम् ? यत् न कदाचिदपि बुद्धौ समारूढविशेषं, कथं तत् प्रतिपाद्येत ? अतः प्रति­पा­द­ना­श­क्तेर्न तत् स्पृशत्यपि शास्त्रम् । प्रसिद्धं पुनर्यदि नामानेन प्रतिपाद्यते प्रसिद्धत्वादेव ; तथाऽपि न तेनार्थेन निरालम्बनम् , अप्रसिद्धं पुनरालम्बनमपि न स्यात् । अतो न केनचिदर्थेन सम्बद्धं शास्त्रम् , इति सम्बन्ध आक्षिप्तः ।

अस्ति तावद् ब्रह्म इत्यादिना
त्रितयमपि समाधत्ते श्रोतृ­प्र­वृ­त्त्य­र्थम् । ननु प्रेक्षा­व­ताऽ­वि­सं­वा­द­केन प्रणीतं शास्त्रम् । नेदृशो निष्प्रयोजनं निर्वि­ष­य­म­स­म्बद्धं चारभते, इति तद्गौरवादेव प्रवर्तन्ते श्रोतारः ; किमनेन प्रयासेन ? सत्यं भवति सामान्येन प्रयो­ज­न­व­त्त्व­प्र­तीतिः प्रणेतृगौरवात् , न तु तावन्मात्रेण प्रवृत्तिः । अभि­प्रे­त­प्र­यो­ज­नाय हि प्रवर्तन्ते, न तत् निर्देशादृते शक्यतेऽवगन्तुम् । एवमपि प्रयोजनविशेष एव निर्दिश्यताम् । न च विष­य­भा­व­म­ना­प­न्न­म­श­क्य­प्र­ति­पा­दनं च प्रयोजनं भवति, छिदिक्रियाविषय एव वृक्षश्छिन्नः प्रयो­ज­न­मि­त्यु­च्यते, दण्डादेरपि मृद्विषयस्य मृदेव घटावस्था प्रयोजनं, सत्यमेवम् ; तथाऽपि यथा चिकि­त्सा­ज्ञा­नस्य चर­क­सु­श्रु­ता­त्रे­य­प्र­भृ­तीनि बहूनि, यथा वा तण्डु­ल­नि­ष्प­त्ति­प्र­यो­जना अव­घा­त­न­ख­नि­र्भे­द­द­ल­न­क्रिया बह्व्यः, तत्र नावश्यमेकत्रैव प्रवृत्तिः, तथे­हा­प्य­न्य­स्मा­दपि कथञ्चिद् ब्रह्मा­व­ग­ति­सिद्धौ नावश्यमत्रैव प्रवृत्तिः ; अतोऽनन्यसाधारणो विषयो वक्तव्यः, यथाऽर्जुनस्यायं विषय इत्य­न­न्य­सा­धा­र­णता प्रतीयते । तेना­न­न्य­सा­धा­र­ण­त्वाय विषयो निर्देश्यः प्रवृ­त्त्य­ङ्ग­त्वेन । सम्बन्धोऽपि वक्तव्यः प्रवृ­त्त्य­ङ्ग­त्वे­नैव । यथा साधु­श­ब्द­प­रि­ज्ञानं व्याकरणारम्भात् प्राक् न केनचित्साध्यते, तेन न केनचित् सम्बद्धम् ; अतस्तदर्थी न क्वचित् प्रवर्तते, यथा वौद­न­नि­ष्प­त्ति­रे­क­क्रिया नियताऽपि न गम­ना­द्ये­क­क्रि­या­साध्या, तेन न तया सम्बन्धः । ततश्च न गम­ना­दि­क्रि­या­या­मो­द­नार्थी प्रवर्तते, तेन पुरु­षा­र्थ­रू­प­ताऽ­न­न्य­सि­द्धता तत्प्रतिपाद्यता चेति भिद्यन्ते विष­य­स­म्ब­न्ध­प्र­यो­ज­नानि । तानि च त्रीण्यपि प्रवृत्त्यङ्गम् ; नापुरुषार्थे काक­द­न्त­प­री­क्षायां तुषकण्डने वा प्रवर्तते प्रेक्षावान् । नापि पुरुषार्थे चिकित्साज्ञाने सुश्रु­ता­दि­सिद्धे, चरके नियमेन प्रवर्तते । नापि तण्डुलेषु दल­न­सि­द्धे­ष्व­व­घाते । नाप्य­न­न्य­सि­द्धेऽपि साधु­श­ब्द­प­रि­ज्ञाने पुरुषार्थे, अतत्साधने वैद्यकादौ कश्चित् प्रवर्तते, गमने वाऽनोदनसाधने । तत्र विप्र­ति­प­त्त्यै­का­न्ततः प्रसि­द्ध­ता­म­प्र­सि­द्धतां च निरस्य शक्य­प्र­ति­पा­द्य­मा­न­ता­म­न­न्य­सि­द्धतां च दर्शयन् विषयसम्बन्धौ समर्थितवान् ,

‘निःश्रे­य­स­प्र­यो­जना प्रस्तूयते’
इति च प्रयोजनम् ॥

ननु ब्रह्म वेदान्तानां विषयः, शास्त्रं च तेषां ब्रह्म­प्र­ति­पा­द­ना­नु­स­र­णो­पा­य­न्या­य­वि­षयं, तत् कथं शास्त्रस्य विषयसम्बन्धौ भवतः ? प्रयोजनन्तु कदाचित् स्यादपि प्रणाड्या धर्मा­र्थ­वि­ष­य­यो­रिव शास्त्रयोः कामावाप्तिः । ननु आग्नेयादीनां स्वर्गफलानां प्रया­जा­दी­ति­क­र्त­व्य­ता­वत् वेदा­न्ता­ना­म­प्य­र्थ­म­व­बो­ध­य­ता­मि­ति­क­र्त­व्यता मीमांसा, तेनार्थावबोधे वेदा­न्ता­ना­मु­प­का­र­क­त्वाद् भवति शास्त्रमपि तद्विषयम् । न हि शालि­बी­ज­स्या­ङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम् । तेन यद्यपि वेदान्ता एव ब्रह्मावबोधे कारणं, मीमांसा चेति­क­र्त­व्य­ता­भागं पूरयति ; तथाऽपि ब्रह्मविषयैव । न हि छेत्तु­रु­द्य­म­न­नि­पा­त­न­ल­क्षणो व्यापारः परशुविषयो न वृक्षविषयः ; तदर्थत्वात् , करणस्य च द्वारत्वात् ; अन्यथाऽन्यत्र कर्तृ­व्या­पा­रोऽ­न्यत्र फलमिति वैयधिकरण्यं स्यात् , उच्यते — विषय उपन्यासः ; युक्तं यत्र यदुपकारमन्तरेण फलोत्पत्तिरेव न सिध्यति, तस्यापि तद्विषयत्वम् , इह पुनर्विनाऽपि मीमांसया सम्ब­न्ध­ग्र­ह­ण­त­द­नु­स्म­र­ण­बु­द्धि­स­न्नि­धा­न­मा­त्रो­प­कृतं वाक्य­म­र्थ­म­व­ग­म­यति, नापरमपेक्षते । ननु संश­य­वि­प­र्या­स­नि­रा­स­द्वा­रेण निर्ण­य­हे­तु­त्वा­न्नि­र्ण­यस्य च निर्णे­य­प्र­धा­न­त्वा­द्भ­वति निर्णेयं वस्तु निर्ण­य­हे­तो­र्वि­षयः, नैतत्सारम् ; यत्र ह्यनेकं विज्ञानं वाक्यश्रवणे सति जायते मीमां­सा­नि­र­पे­क्ष­मेव, तत्रैकं वाक्यजन्यम् ; एका­र्थ­नि­य­त­त्वा­दे­क­स्मिन् प्रयोगे वाक्यस्य, इतराणि पुनः सामा­न्य­तो­दृ­ष्ट­नि­ब­न्ध­नानि । तत्र मीमांसया लोक­प्र­सि­द्ध­श­ब्द­श­क्त्य­नु­सा­रि­ण्येदं शब्दजनितं ज्ञानमिति तदालम्बनं वेदार्थ इति ज्ञात्वाऽ­न्य­दु­पे­क्षते, न पुन­र्नि­र्ण­य­ज्ञा­नो­त्पत्तौ व्यापारः शास्त्रस्य । यथा चक्षुः कुत­श्चि­न्नि­मि­त्ता­त्स­म्प्र­यु­क्तेऽपि स्थाणुः पुरुषो वेति संशयात्मकं पुरुष एवेति वा विपर्ययस्वरूपं ज्ञानमुत्पाद्य पुन­र्नि­मि­त्ता­न्त­रा­नु­गृ­हीतं सन्निर्णयात्मकं सम्यग्रूपं ज्ञान­मु­त्पा­द­यति, नैवं शब्दो मीमांसायाः प्राक् संशयितं विपर्यस्तं वा ज्ञानमुत्पाद्य पुन­स्त­द­नु­म­हा­न्नि­र्ण­या­त्मकं सम्यग्ज्ञानं वा जनयति ; किन्तु प्रागेव मीमां­सा­नु­ग्र­हात् स्वसा­म­र्थ्य­जन्यं ज्ञानमजीजनदेव । तस्मान्न ब्रह्मविषयं शास्त्रम् , अत्रोच्यते — यद्यपि वाक्यार्थज्ञानं शास्त्रा­नु­ग्र­हा­त्प्रा­गे­वो­देति ; तथाऽपि स्वोत्प­त्ति­स­म­का­ल­स­मु­त्थेन तत्र सामा­न्य­तो­दृ­ष्ट­नि­ब­न्ध­ने­ना­र्था­न्त­र­नि­वे­शिना समकक्षाभिमतेन ज्ञानेन विरो­धा­दु­न्म­ज्ज­न­नि­म­ज्ज­न­मि­वा­नु­भ­व­द­स्या­म­व­स्थायां संश­य­ज्ञा­न­को­टि­नि­क्षिप्तं सत् मीमांसया शब्द­श­क्त्य­नु­स­रणे सति प्रति­प­क्ष­ज्ञा­न­स्या­नु­त्पत्तौ निम­ज्ज­ना­भा­वा­न्नि­श्चलं निर्णयज्ञानमिव जातमिति लक्षणया मीमांसया निर्णयः क्रियत इत्युच्यते, न पुनः साक्षा­न्नि­र्ण­य­ज्ञा­न­हे­तु­त्वात् । तदेवं लक्षणया वेदान्तानां ब्रह्मविषयाणां सहकारिकारणं मीमांसा इति ब्रह्म­ज्ञा­न­वि­षयं शास्त्रमभिधीयते । तच्चेदं त्रयमप्यवश्यं वक्तव्यं प्रयोजनं विषयः सम्बन्धश्च शास्त्रादौ श्रोतुः प्रवृ­त्त्य­ङ्ग­त्वेन । यद्यपि प्रणेतृगौरवादेव सप्रयोजनत्वं शास्त्रस्य ; तथाऽपि न प्रयो­ज­न­वि­शे­ष­सि­द्धि­स्त­त्प्र­त्य­य­मा­त्रेण निर्देशादृते । तस्मा­त्त­न्नि­र्दे­श्यम् । निर्दिष्टेऽपि तस्मिं­स्त­स्या­श­क्य­प्र­ति­पा­द­नतां मन्वानो विह­त­श्र­द्ध­त्वान्न प्रवर्तेतेति साध्यो निर्देश्यः । शक्य­प्र­ति­पा­द­न­प्र­ति­प­त्ता­व­प्य­न्यतः सिद्धेऽर्थे निर्दिष्टे नैव प्रवृ­त्ति­रि­त्य­न­न्य­सा­ध्योऽपि निर्देश्यः । तदेतत् त्रयमेकत्र समवेतं विभक्तं चोपलभ्यत इत्य­ल­म­ति­वि­स्त­रेण ॥

‘अस्ति तावद् ब्रह्मे’त्या­दिना प्रसि­द्ध­त्व­प्र­द­र्श­ने­ना­प्र­सि­द्धतां निरा­कु­र्व­ञ्छ­क्य­प्र­ति­पा­द्य­तया सम्बन्धं समर्थितवान् । कथम् ? ब्रह्म­श­ब्द­स्ता­व­ज्जा­ति­जी­व­क­म­ला­स­न­श­ब्द­रा­शीनां नान्य­त­मा­भि­प्रा­येण सूत्रे प्रयुक्तः ; अनु­प­प­त्ते­रि­त्यु­क्तम् ; अतो नूनमन्यदेव किञ्चि­द­भि­धे­य­म­भि­प्रे­त्यायं प्रयुक्त इति गम्यते । तेन स्वर्गा­पू­र्व­दे­व­ता­द्य­र्थ­व­त्प­द­प्र­यो­गा­देव कश्चि­द­र्थोऽ­स्ती­त्य­व­सी­यते । नैतत्सारम् ; न हि पदं चक्षु­रा­दि­व­द­प्र­ती­त­पूर्व एवार्थे झटिति विज्ञानं जनयति, येना­पू­र्व­म­न्य­तोऽ­सि­द्ध­मर्थं पदप्रयोगादेव प्रतीमः ; स्वर्गा­द्य­र्थोऽपि नैव पदप्रयोगादेव सिद्धः, अत्रोच्यते — यस्मिन् वाक्य एकं पदं मुक्त्वेतरेषां पदानामर्थः प्रसिद्धः, स किमे­क­प­दा­र्था­न­व­ग­मा­प­रा­धेन त्यज्यताम् ? उत बहु­प­दा­र्थ­प्र­सि­द्धि­ब­ले­ना­प्र­सि­द्धोऽपि कथ­ञ्चि­द­ग­म्ये­तेति ? तत्र निग­म­नि­रु­क्त­व्या­क­र­णा­ना­मे­वं­रू­प­प­दा­र्था­नु­ग­म­हे­तूनां विद्यमानत्वात् तद्ब­ले­ना­र्थ­म­नु­गम्य वाक्या­र्था­व­ग­ति­र्युक्ता, न पुन­रे­का­प्र­सिध्या प्रसि­द्ध­प­दा­र्थ­सं­स­र्ग­स्त्यक्तुं युक्तः । न हि प्रसि­द्धि­र­प्र­सिध्या त्यज्यते ; प्रसि­द्धि­ब­ले­ना­प्र­सि­द्ध­मपि कल्प्यत इति न्यायात् । ननु निग­मा­दि­व­शे­ना­र्था­नु­गमे सर्वत्रैव कथ­ञ्चि­द­र्था­न्व­य­स्या­नु­गन्तुं शक्य­त्वा­द­व्य­व­स्थितः पदार्थः स्यात् ; ततश्च वाक्यार्थो नावधार्येत, न तर्हि निग­मा­दी­ना­म­र्थ­वत्ता । भवत्यर्थवत्ता, यत्र स्वार्था­द­न्य­त्रापि विनियोगात् प्रयोगस्तत्र कथमभिदध्यात् ? इत्यपेक्षायां तद्ग­त­स्यै­वा­व­य­वा­र्था­न्व­य­ले­श­स्या­नु­ग­मात् । एवं तर्हि, एकार्थनियमाय प्रयो­ग­प­र­त­न्त्रता मृग्यते, तदन्तरेणापि प्रयो­ग­मे­का­र्थ­नि­यम एव कथ­ञ्चि­न्नि­ग­मा­दि­व्या­प्रि­ये­तेति न कश्चिद् दोषः । तदत्र ब्रह्मशब्दे व्युत्पाद्यमाने बृंह­ते­र्धा­तो­र्वृ­द्धि­क­र्म­णोऽ­र्था­नु­ग­मात् , प्रयोगानुगमे चासति विशि­ष्टा­र्थ­वि­ष­य­स्या­पे­क्षि­क­म­ह­त्त्व­स्या­प­रि­ग्र­हात् सर्वतो निर­व­ग्र­ह­म­ह­त्त्व­स­म्पन्नं वस्तु वाक्यार्थान्वयि ब्रह्म­प­दा­द­नु­ग­म्यते । ततश्च काल­कृ­ता­व­च्छे­द­नि­मि­त्त­स्या­ल्प­त्व­स्या­भा­वात् सदा सत्त्वान्नित्यं किञ्चिद्वस्तु ब्रह्मपदात् प्रतीयते । तथा रूपान्तरसद्भावे तद्रू­प­वि­क­ल­त्वात् तद­व­च्छे­द­कृ­त­म­ल्पत्वं स्यात् , तच्च ब्रह्म­प­दा­दे­वा­पा­स्यते । तस्मा­दे­क­र­स­म­द्वैतं वस्तु ब्रह्मपदात् प्रतीयते । एतेन देशकृतोऽपि परिच्छेदो निरा­कृ­तो­वे­दि­तव्यः ॥ वस्त्व­न्त­र­स­द्भावे हि तदपेक्षयैतावति सद्भावः, नातः परमस्ति, इति स्यात् एतस्माद् व्यावृत्त इति, तदभावे न परि­च्छि­न्न­बु­द्धि­र्भ­वति । बुद्धत्वं च बृह­त्य­र्था­न्व­या­देव कथम् ? अबोधात्मकं हि वस्तु भोग्यम् , अतो भोक्तारं प्रति शेष­त्वा­न्नि­कृ­ष्टम् । चेतनः पुनर्न कस्य­चि­द्गु­ण­भा­व­मेति । तेनोत्कृष्टं सर्वस्माद् बुद्धस्वरूपं किञ्चित् , इति बृह­त्त्य­र्था­न्व­य­मे­वा­नु­सृत्य गम्यते । ’मुक्तमिति’ चावि­द्या­का­म­क­र्म­प­र­त­न्त्र­स्तै­रि­त­श्चा­मु­तश्च पशुवन्नीयमानो निकृष्टो भवति । ब्रह्मशब्दस्तु स्वार्थ­प्र­क्षे­पेण वाच्यं किञ्चिद्गमयन् सदै­वा­वि­द्या­दि­सं­सा­र­बी­जा­ना­क­लि­त­तया तस्यो­त्कृ­ष्ट­म­ह­त्त्व­मा­वे­द­यति । ‘सर्वज्ञं सर्व­श­क्ति­स­म­न्वितं च तदि’ति ब्रह्म­श­ब्दा­दे­वा­व­ग­म्यते । कथम् ? यदि किञ्चिदविदितं तेन, कुतश्चिद्वा कार्याद् व्यावर्तते शक्तिः, आपे­क्षि­क­स्त­दो­त्कर्षः स्यात् । न तद्यु­क्त­म­न्य­तोऽ­सि­द्धस्य वस्तुनः पदप्रयोगादेव प्रतिपत्तौ । सिद्धे हि वस्तुनि प्रयोगे तस्य यथासिद्धमेव महत्त्वं निरुच्यते ।

शब्दादेव तद­र्था­न्व­य­प्र­तीतौ निरङ्कुश एवा­र्थोऽ­भ्यु­पे­तव्यः । एवं च बृंहतेरर्थः परिपूर्णो भवति, यदि सर्वमस्य साक्षादेव संविद्गोचरे वशे च वर्तेत, तदेतदाह —
अस्ति तावद् ब्रह्म नित्य­शु­द्ध­मु­क्त­स्व­भावं सर्वज्ञं सर्व­श­क्ति­स­म­न्वि­तम् । ब्रह्मशब्दस्य हि व्युत्पा­द्य­मा­नस्य नित्य­शु­द्ध­त्वा­द­योऽर्थाः प्रतीयन्ते ; बृंह­ते­र्धा­तो­र­र्था­नु­ग­मा­दिति ॥

ननु एवमपि व्युत्प­त्त्य­नु­स­र­णेन भवत्येवमात्मके वस्तुनि प्रतीतिः, न पुनरेतावता तस्य सिद्धिः, पद­मा­त्र­स्या­प्र­मा­ण­त्वात् , सत्यमेवम् ; अत एव जिज्ञासा धर्मस्येव लोका­ख्य­प्र­मा­णा­भा­स­सि­द्धस्य । इदमपरं ब्रह्म­श­ब्दा­र्थस्य सिद्धत्वे कारणमुच्यते साध्य­त्व­सि­ध्य­र्थम् —
सर्व­स्या­त्म­त्वाच्च ब्रह्मा­स्ति­त्व­प्र­सि­द्धि­रिति ॥

तदेव दर्शयति —
सर्वो ह्यात्मा­स्तित्वं प्रत्येति, न नाहमस्मीति ॥

यदि नात्मा­स्ति­त्व­प्र­सिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा च ब्रह्मेति ॥
कथं पुनरात्मा ब्रह्म ? वेदा­न्ते­ष्वा­त्मनि ब्रह्म­श­ब्द­प्र­यो­गात् । आत्मानमेव च लोकः अहमिति व्यपदिशति । तदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्र­सि­द्धि­शङ्का ॥

यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञात­मे­वे­त्य­जि­ज्ञा­स्यत्वं पुनरापन्नमिति
विषयमाक्षिपति । असिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु न पुनः साध्यते, इति न शास्त्रस्य विषयः ॥

न तद्विशेषं प्रति विप्रतिपत्तेः इति
विषयसम्बन्धौ समर्थ्येते ।

सत्य­म­ह­मि­त्या­त्मनि प्रत्ययः, आत्मा च ब्रह्म, किन्तु तस्मिन्नेव विप्रतिपत्तयः अयमसौ, अयमसाविति । ताश्च वस्तुतो ब्रह्म­प­दा­र्थ­वि­षया एव ; तदेकार्थत्वाद् ब्रह्मशब्दस्य । ततः सामान्यतः प्रसिद्धमपि विशे­ष­तोऽ­सि­द्धे­र­सि­द्ध­क­ल्प­मेव, इति भवत्यस्य विशे­ष­सि­द्धि­हे­तो­र्वि­षयः ; सामान्यतः सिद्धत्वाच्च शक्यते विशेषतः प्रतिपादयितुम् , इति भवति तस्य शास्त्रं साधनम् , इति सम्बन्धोऽपि समर्थितः । विप्रतिपत्तिं दर्शयति —
देह­मा­त्र­मि­त्यादि ॥

तद्यथा गोशब्दस्य व्यक्त्या­कृ­ति­जा­ति­क्रि­या­गु­ण­सा­स्ना­द्य­ने­का­र्थ­स­न्निधौ प्रयुज्यमानस्य कैश्चिज्जातिः, अन्यै­र्व्यक्तिः, इत्याद्यभिधेयं प्रतिपन्नम् , एवं सचै­त­न्य­का­र्य­का­र­ण­स­ङ्घा­त­स­न्नि­धा­व­हं­प्र­त्य­य­स्यो­त्प­द्य­मा­नस्य कैश्चित् किञ्चिदालम्बनं प्रतिपन्नं, तदाह —
देहमात्रं चैत­न्य­वि­शि­ष्ट­मा­त्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्ना इति ।
तथाहि — ‘मनु­ष्योऽ­ह­मि’त्या­त्मनि मनु­ष्य­त्वा­भि­मानो ‘गच्छामी’ति च गन्तृत्वाभिमानो देहविषयत्व उपपद्यते । ‘देहमात्रमि’ति सशि­र­स्क­पि­ण्डा­भि­प्रायं द्रष्टव्यम् । मात्रशब्देन न देहातिरिक्तं स्वतन्त्रं चैत­न्य­म­न्य­वि­शे­षणं वा, किन्तु देहा­का­र­प­रि­ण­त­भू­त­च­तु­ष्ट­या­न्त­र्भू­त­मे­वेति दर्शयति । आत्मेति अहं­प्र­त्य­या­ल­म्ब­न­मि­त्यर्थः । प्राकृता इति ॥ शास्त्रो­प­दे­शा­सं­स्कृ­त­म­तयो दृष्ट­मा­त्रा­वि­क­ल्पि­त­व्य­व­हा­रिण इत्यर्थः । लोकायतिका इति भूत­च­तु­ष्ट­य­त­त्त्व­वा­दिनः प्रसिद्धाः ॥

एवम् इन्द्रियाण्येव चेत­ना­न्या­त्मे­त्य­परे ॥
इन्द्रियाणां चक्षु­रा­दि­म­नः­प­र्य­न्ता­ना­मे­कै­क­स्मि­न्न­स­त्यपि शरीरे रूपा­दि­ज्ञा­ना­ना­म­भा­वात् तेषामेव व्यस्तानां चेत­न­त्व­म­हं­प्र­त्य­य­वि­ष­यत्वं च मन्यन्ते, क्रमेण वर­गो­ष्ठी­व­दि­त­रे­त­र­गु­ण­भा­वम् । तथा चेन्द्रि­य­ध­र्म­सा­मा­ना­धि­क­र­ण्य­म­हं­प्र­त्य­यस्य दृश्यते ‘काणोऽहं मूकोऽहमि’त्यादि ॥

मनः
एव चेत­न­म­हं­प्र­त्य­यस्य विषयमन्ये मन्यन्ते । दृश्यते हि स्वप्न इन्द्रि­य­द­श­को­प­र­मेऽपि मनस एव ‘अहमि’ति सर्व­व्य­व­हा­रा­स्प­द­त्व­मिति वदन्तः ॥

विज्ञानमात्रं क्षणिकमित्येक इति
मात्रग्रहणेन नाह­मि­त्या­का­रा­दि­व­र्ण­त्र­या­ति­रिक्तं किञ्चिदवभासते, यदहंप्रत्ययस्य विषयः कल्प्येत । तेन विज्ञानमेव स्वर­स­भ­ङ्गु­र­म­वि­र­तो­द­य­म­खि­ल­लो­क­या­त्रा­नि­ल­य­म­नु­भ­व­भ­ग्न­प­क्षा­न्त­र­म­ह­मि­त्यु­त्प­द्यत इत्यन्ये मन्यन्ते ॥

शून्यमित्यपर इति ॥
सुषुप्ते विज्ञा­न­ले­श­स्या­प्य­भा­वा­द­क­स्मा­दे­वा­ह­मिति समु­द­य­द­र्श­ना­द­का­र­णस्य कादाचित्कस्य पर­मा­र्थ­व­स्तु­त्वा­भा­वा­द­स­द­व­भास एवाहङ्कार इत्यपरे सङ्गिरन्ते ॥

अस्ति देहा­दि­व्य­ति­रिक्तः संसारी कर्ता भोक्तेत्यपर इति ॥
अह­मु­ल्ले­ख­शू­न्यस्य भोक्तृ­त्व­स्या­द­र्श­नात् , तस्य च प्रत्य­भि­ज्ञा­नात् स्थिर­त्व­सिद्धेः, स्थिरस्य चाव­धि­हे­त्व­नु­प­ल­ब्धे­र्नि­त्य­त्वम् । निर्विकारस्य च भोगासम्भवात् , विकारस्य च क्रियाफलत्वात् , क्रिया­वे­शा­त्म­क­त्वाच्च कर्तृत्वस्य, एवमात्मकत्वाच्च संसारित्वस्य, देहादेश्च बुद्धि­प­र्य­न्तस्य भोक्तृ­त्वा­नु­प­पत्तेः, तद्व्यतिरिक्तः संसारी कर्ता भोक्ताऽ­हं­प्र­त्य­य­वि­षय इत्यपरे प्रतिजानते । कथं पुन­स्त­द्व्य­ति­रि­क्तत्वं मन्यन्ते । तस्य भोक्तृ­त्वा­नु­प­प­त्ते­रि­त्यु­क्तम् ॥

कथं तस्य भोक्तृ­त्वा­नु­प­प­त्ति­रिति ? उच्यते — भूत­स­ङ्घा­त­स्ता­वत् शरीरम् । तत्र व्यस्तानां समस्तानां वा युगपत् क्रमेण वा भोगः परिकल्प्येत, सर्वथाप्यसम्भवः । यदि तावत् व्यस्तानां युगपत् परिकल्प्येत, ततः स्वार्थ­प्र­यु­क्त­त्वात् प्रवृ­त्ते­र­ङ्गा­ङ्गि­भावो नावकल्पेत । न चाङ्गा­ङ्गि­भा­व­म­न्त­रेण सङ्घात उपपद्यते । तस्मान्न व्यस्तेषु युगपद् भोगः । अस्ति तर्हि क्रमेण विरो­धा­द्व­र­गो­ष्ठी­व­दिति, नैतदेवं युक्तम् ; तत्र भोग्य­स्या­सा­धा­र­ण­त्वात् , असाधारणत्वञ्च प्रति­पु­रु­ष­नि­य­मात् , इह पुनर्विपरीतम् ; बहूनां सन्निधौ साधारणे च भोग्ये प्रति­नि­य­त­भो­ग­व्य­व­स्था­हे­त्व­स­म्भ­वात् । अस्तु तर्हि समूहस्य ; तिल­ज्वा­ला­व­च्चे­त­ना­स­म­न्व­यो­प­पत्तेः, मा भूत् प्रत्येकं युगपत् क्रमेण वा, नैतदेवम् ; भोगेषु समूहासम्भवात् । कथमसम्भवः ? भोक्तुर्भोगं प्रति प्राधान्यात् । ननु भोगेऽपि समूहो दृष्टः, यथा स्त्रीपुंसयोः, नैतत् सारम् ; सन्दिग्धत्वात् , समूहस्य ? उत तद्व्य­ति­रि­क्त­स्येति । तिलज्वालायान्तु विपरीतम् ; समूहकार्ये समूहिनां गुणभावोपपत्तेः । अस्त्वेकस्य तर्हि नियतो भोगः, न ; तत्रापि कस्यै­क­स्ये­त्य­न­व­धा­र­णात् । किमवधारणेन ? विनाऽपि तेन विव­क्षि­ता­र्थो­प­पत्तेः ? यद्येवं, समेषु केषा­ञ्चि­द्गु­ण­भा­वा­नु­प­प­त्ते­र­युक्तः कार्यात्मकेषु । एवं कारणात्मकेष्वपि समानश्चर्चः ; भूत­स्वा­भा­व्या­वि­शे­षात् । तथोभयात्मके समूहे । तस्माद् देहा­दि­व्य­ति­रि­क्त­म­हं­प्र­त्य­य­वि­षयं मन्यन्ते ॥

भोक्तैव केवलं न कर्तेत्येक इति ॥
पूर्वोक्तस्यैव देहा­दि­व्य­ति­रि­क्तस्य कर्तृ­त्व­म­त­त्स्व­भावं मन्वाना भोक्तैव केव­लोऽ­हं­प्र­त्य­य­वि­षय इत्येके प्रस्थिताः । करोमि, जानामि, भुञ्जे चेति न सर्व­दाऽ­हं­प्र­त्य­ये­ना­नु­षङ्गः, तेन नायं तद्विषयः । यदि स्यात् , न तदुल्लेखविकल उदियात् । ननु भोक्तापि तर्हि नासौ ; तदुल्लेखाभावात् , नैतदेवम् ; अहमिति चेत­न­त्व­स­मु­ल्ले­खात् , तद­र्थ­त्वा­त्स­र्वस्य, तदात्मकमेव भोक्तृत्वम् , इति भोक्तैव केवलमिति युक्तं मन्यन्ते ।

अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचिदिति ॥
तस्मादपि देहा­दि­व्य­ति­रि­क्ता­द­हं­प्र­त्य­य­वि­ष­या­दन्यः सर्वस्येशिता, ततश्चेशितव्यस्य सर्वात्मना वेत्ता, निय­म­न­श­क्ति­स­म्प­न्नश्च शरीरिणां मन­सा­प्य­चि­न्त्य­रू­पात् तनु­भु­व­न­वि­र­च­न­का­र्यात् प्रेक्षा­व­त्क­र्तृ­क­त्व­म­न्त­रे­णा­स­म्भा­व्य­मा­नात् , कुलालादिरिव घटा­दि­का­र्या­त्प्र­ति­पन्नः सातिशयानां काष्ठाप्राप्तिः परि­णा­मा­ना­मु­प­लब्धा । सातिशयञ्च ज्ञानम् , अतः क्वचित् काष्ठां प्राप्तं सर्वविषयमिति सर्ववित् , सर्वदा सिद्धः, ईश्वरः प्रतिपन्नो ब्रह्मशब्दार्थ इति केचित् प्रतिपेदिरे । ननु ‘अहमिति सर्वो लोक आत्मानं प्रत्येति । आत्मा च ब्रह्मे’त्य­हं­प्र­त्य­य­वि­ष­य­स्या­त्मनो ब्रह्मत्वेन तद्विप्रतिपत्तौ ब्रह्म­वि­प्र­ति­पत्तिं दर्शयितुं प्रक्रान्तं, तत् कथ­म­न­हं­प्र­त्य­य­वि­ष­येऽ­ना­त्म­नी­श्वरे ब्रह्म­त्व­वि­प्र­ति­पत्तिः प्रदर्श्यते ? उच्यते — ब्रह्मणि विप्र­ति­प­त्ति­प्र­द­र्श­नस्य प्रक्रा­न्त­त्वा­द­हं­प्र­त्य­य­वि­ष­य­वि­प्र­त­प­त्त्यापि प्रणाड्या ब्रह्म­वि­प्र­ति­प­त्ति­रेव निर्दिश्यते । यतो नाहं­वि­ष­य­वि­प्र­ति­प­त्ति­प्र­द­र्श­नेन किञ्चित् कृत्यमस्ति । तस्मात् साध्वेतत् ॥

आत्मा स भोक्तुरित्यपर इति ॥
योऽय­म­ह­मि­त्यु­ल्लि­ख्य­मा­न­श्चे­तनो भोक्ता, स ब्रह्मेति कैश्चि­त्प्र­ति­पन्नः, तस्या­हं­प्र­त्य­य­सिद्धो भोक्तृत्वावभासः । स मिथ्यै­वा­नि­र्व­च­नी­या­ना­द्य­वि­द्या­वि­ल­सितः । परमार्थतस्तु यः सर्वज्ञ ईश्व­रोऽ­हं­प्र­त्य­येऽ­न­न्त­र्भूतः प्रमा­णा­न्त­रा­न­व­सितः, सोऽस्यात्मा स्वरूपम् । एवमसौ बृंह­त्य­र्था­न्व­याद् ब्रह्म­श­ब्दा­भि­धा­नी­यतां लभते ; इतरथा तद्रूपविकलस्य न निरङ्कुशं बृहत्त्वम् , इति न ब्रह्म­श­ब्दा­भि­धेयः स्यात् ।

एवं बहवो विप्रतिपन्ना युक्ति­वा­क्य­त­दा­भा­स­स­मा­श्रयाः सन्तः इत्युपसंहरति ।
एवम् उक्तेन प्रकारेण केचित् किञ्चिद् ब्रह्मेति प्रतिपन्नाः । किमेवमेव मनोरथमात्रेण ? नेत्याह —

युक्तिं
प्रमाणानां स्ववि­ष­य­नि­श्च­येऽ­नु­ग्रा­हिकां तर्क­श­ब्द­प­र्यायां,

वाक्यञ्च
प्रतिवेदान्तं यथावद् ब्रह्म­स्व­रू­प­प्र­ति­पा­द­न­प­र­मा­लो­च­यन्तः । ‘आत्मा स भोक्तुरि’ति युक्ति­वा­क्या­भ्या­मन्त्यं पक्षं निश्चितवन्तः सम्यग्दर्शिनः । इतरे तु — युक्तय इवावभासन्त इति युक्त्याभासाः, न परमार्थतो युक्तयः, ताः समाश्रित्य, वाक्या­नी­वा­व­भा­सन्ते, न तानि वाक्यानि ; अतत्परत्वात् ; तानि वाक्याभासानि परिगृह्य, पक्षान्तरेषु विप्रतिपन्नाः । युक्त्याभासत्वं लेशतो दर्शितमेव देहा­दि­व्य­ति­रि­क्ता­त्म­पक्षं दर्शयद्भिः । इतरेषां युक्त्या­भा­स­सि­द्धत्वं स्वावसरे दर्शयिष्यामः । दर्शितं च लेशत उत्त­रो­त्त­र­प­क्ष­ग्र­ह­ण­का­र­ण­प्र­द­र्श­नेन, वाक्याभासतां तु तत्र तत्राधिकरणे सिद्धा­न्त­यि­ष्यन्तः प्रदर्शयिष्यामः ।

तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रति­ह­न्ये­ता­न­र्थ­ञ्चे­या­दिति ॥
तत्रैवं स्थिते मुमु­क्षु­र्ब्र­ह्म­ज्ञा­नेन परं निःश्रे­य­स­मा­प्तु­का­मोऽ­वि­चार्य एत­च्छा­स्त्र­म­श्रुत्वा प्रव­र्त­मा­नोऽ­न्त्य­प­क्षा­द­र्वा­चीनं कञ्चित् पक्षं परिगृह्णीयात् , तदा मोक्षस्य सम्यग् ज्ञानफलत्वात् , तस्य चात­था­भा­वा­न्निः­श्रे­य­सात् प्रतिहन्येत मोक्षफलं न प्राप्नुयात् । अनर्थञ्च प्रतिपद्येत ; ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः’ इति श्रुतेः । अना­त्म­द­र्श­ने­ना­त्म­नोऽ­स­त्क­ल्प­त्वा­पा­द­न­मा­त्म­ह­न­नम् । एवं­रू­प­स्या­त्म­ह­न­नस्य कृतत्वात् , अन्यथाऽऽत्मनो हननासम्भवात् , प्राणत्यागस्य प्रकृ­ता­नु­प­यो­गा­दिति ॥

तस्माद् ब्रह्म­जि­ज्ञा­सो­प­न्या­स­मु­खेन वेदा­न्त­वा­क्य­मी­मांसा तद­वि­रो­धि­त­र्को­प­क­रणा निःश्रे­य­स­प्र­यो­जना प्रस्तूयत इति ॥
ब्रह्म­जि­ज्ञा­सो­प­न्या­स­व्या­जेन जिज्ञा­सा­प­दे­ना­न्त­र्णी­त­मी­मां­सा­वे­दा­न्त­वा­क्या­ना­मा­र­भ्यते । अथवा ब्रह्मज्ञाने कर्त­व्य­त­यो­प­दिष्टे तज्ज्ञानाय प्रवृ­त्ते­भ्योऽ­र्था­देव तत्प्रतिपादनं प्रतिज्ञातम् , इति तदर्थं वेदा­न्त­मी­मां­साऽऽ­र­भ्यते ।

किम्प्रयोजना ? किमुपकरणा चेति ? उच्यते —
तद­वि­रो­धि­त­र्को­प­क­रणा निःश्रे­य­स­प्र­यो­जना चेति ॥
तैः वेदान्तैः, अविरोधी तर्कः ; युक्तिः, उपकरणम् इतिकर्तव्यता, सहकारिकारणमिति यावत् । अथवा तर्कः अनुमानं, वेदा­न्तै­र­वि­रु­द्धम् ; तदर्थप्रतीतेरेव दृढ­त्व­हे­तु­त­यो­प­क­र­ण­मस्या इत्यर्थः ॥ १ ॥

इति पर­म­हं­स­प­रि­व्रा­ज­कादि - श्रीश­ङ्क­र­भ­ग­व­त्पा­दा­न्ते­वा­सि­वर - श्रीप­द्म­पा­दा­चा­र्य­कृतौ पञ्चपादिकायां विषय - प्रयो­ज­ना­क्षे­प­प­रि­हा­र­व­र्णनं नाम तुरीयवर्णकं समाप्तम् ॥