पञ्चपादिका
५ वर्णकम्
अथ पञ्चमं वर्णकम्
‘ब्रह्म जिज्ञासितव्यमि’त्युक्तमिति
ब्रह्मज्ञानकामेनेदं शास्त्रं श्रोतव्यमित्युक्तमित्यर्थः ।
यदैवेदमित्युक्तं तदैव ब्रह्मणो लक्षणं प्रमाणं युक्तिः साधनं प्रयोजनमिति सर्वं व्याख्येयत्वेन प्रतिज्ञातम् । तत्र स्वरूपस्याभ्यर्हितत्वात् तत् प्रथमं वक्तव्यम् ।
किं लक्षणं पुनस्तद् ब्रह्मेति ?
अत आह भगवान् सूत्रकारः —
जन्माद्यस्य यत इति ॥
युक्तिरपि लक्षणनिर्णयेऽर्थात् सूत्रितैव ।
जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति
पदच्छेदः पदार्थः पदविग्रह इत्येतत् त्रितयमपि व्याख्यानाङ्गं सम्पादयति । तद्गुणसंविज्ञाने प्रयोजनमाह —
जन्मस्थितिभङ्गं समासार्थ इति ॥
तृतीयलिङ्गनिर्देशात् संहतिप्रधानं समासार्थः ।
ननु आदिः पूर्वकालकोटिमतो भवति, तदभावे प्रपञ्चस्य को नामाऽऽदिः ? इत्याशङ्क्याह —
जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं चेति ॥
यदनेन सूत्रेण लक्षितं ब्रह्म, तत्स्वरूपकथनपरं वाक्यम् । तत्रादौ जन्म निर्दिष्टमिति तस्यादित्वम् । वस्तुस्वभावापेक्षमपि । न हि वस्तु प्रलीय तिष्ठति । स्थित्वा वा जायते । नापि जनित्वैव प्रलीयते ; क्षणिकत्वनिराकरणात् । अतो जनित्वा स्थित्वा प्रलीयते । एवमनादिरयं प्रपञ्चः ।
‘अस्य’ इति भाष्येण पदभागस्येदमः प्रकृतिमात्रस्यार्थनिर्देशः । तथाहि सर्वत्र सर्वनामप्रक्रमादिकारणान्तरबलेन कतिपयाभिधेयपरं, तदभावे स्वमहिम्ना प्रमाणविषयमात्राभिधायकं, तेनाह —
प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देश इति ॥
षष्ठी जन्मादिधर्मसम्बन्धार्थेति ।
सर्व एवेह सम्बन्धः सम्भवति, न तद्विशेष आदरणीय इति कथयति । यत इति कारणनिर्देश इति प्रकृतित्वनिबन्धना हि पञ्चमी, नान्यनिबन्धनेति दर्शयति ॥
अस्य जगतः
इत्यादिना भाष्येण लक्ष्यस्य ब्रह्मणः स्वरूपलक्षणं कथयितुमुपक्रमते ।
द्विविधं हि लक्षणम् उपलक्षणं विशेषलक्षणं च । तत्रेदं लक्षणं प्रपञ्चधर्मत्वात् पृथग्भूतमेव कारणमुपलक्षयति न विशेषणत्वेन । अतः पृथक् स्वलक्षणकथनम् ।
नामरूपाभ्यां व्याकृतस्येति ॥
कार्यप्रपञ्चं केचित् स्वप्रक्रियानुसारेण विभजन्ति, तद्व्युदासाय प्रसिद्धार्थानुवादश्रुतिबलेन द्वैराश्यं कृत्वाऽऽह —
नामरूपाभ्यामिति ॥
इत्थम्भावे तृतीया ॥
व्याक्रियमाणं हि वस्त्वभिधेयरूपं स्वनामगर्भं विकल्पपूर्वमेव व्याक्रियत इति स्वसंवेद्यमेतत् ।
अनेककर्तृभोक्तृसंयुक्तस्येति ॥
कर्तृत्वभोक्तृत्वमपि नामरूपात्मकत्वात्प्रपञ्चानुयायीति दर्शयति —
प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्येति ॥
प्रतिकर्मफलोपभोगे नियतो देशः स्वर्गफलस्य मेरुपृष्ठं, ग्रामादिफलस्य भूमण्डलम् । कालोऽपि स्वर्गफलस्य देहपातादूर्ध्वं, पुत्रफलस्य बालभावात् । निमित्तमपि उत्तरायणादिमरणस्य ।
मनसाऽप्यचिन्त्यरचनारूपस्येति ॥
न ह्यर्वाग्दर्शी क्वचिद्बहिर्लोकसन्निवेशप्रकारमध्यात्मं च प्रतिनियतार्थक्रियासमर्थावयवशिराजालसन्निवेशं निरूपयितुमपि समर्थः, किं पुनर्विरचयितुम् ॥
जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तेः कारणाद् भवति, तद् ब्रह्मेति वाक्यशेष इति
साकाङ्क्षस्य सूत्रवाक्यस्याकाङ्क्षितपदपूरणम् , उपलक्षितब्रह्मस्वरूपं लक्षणं च दर्शयति ॥
ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति न सङ्गृह्यन्ते ? इत्याशङ्क्याह —
अन्येषामपीति ॥
न क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्यनिर्वृत्तजन्मनोऽस्थित स्वभावस्य विनाशः । अतस्त्रिष्वेवान्तर्भावान्न पृथगुपन्यासस्तेषाम् ।
ननु षड् भावविकारा इति नैरुक्ताः । तेषां ग्रहणेऽन्तर्भावोक्तिप्रयासोऽपि परिहृतः स्यादित्याशङ्क्याह —
यास्कपरिपठितानां तु जायतेऽस्तीत्यादीनामिति ॥
पृथिव्यप्तेजःसु जगद्रचनारूपस्थितेषु तन्मयानामेव ते सम्भाव्यन्ते । ततस्तद्ग्रहणे तेषामेव ब्रह्मत्वेन लक्षितत्वाशङ्का स्यात् , न च तद्युक्तम् ; अतः सूत्रार्थवत्त्वाय श्रुतिनिर्दिष्टा एवोत्पत्त्यादयो गृह्यन्ते ; तदर्थनिर्णयार्थत्वात्सूत्राणाम् । अतो यदवष्टम्भो विश्वो विवर्तते प्रपञ्चः, तदेव मूलकारणं ब्रह्मेति सूत्रार्थः ॥
ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; न हीमां पृथिवीं जायमानां पश्यामः, नापो न तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्रकान्तादिषु जन्म, क्रमेण च शोषः । पृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेते । दृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वाकाशकालदिशामपि ‘यावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।
न यथोक्तविशेषणस्येत्यादिना
भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।
अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्याद्यभिहितविशेषणचतुष्टयस्य,
यथोक्तविशेषणमीश्वरं मुक्त्वेति
सर्वज्ञं सर्वशक्तिं विहाय
नान्यतः
परपरिकल्पितात्
प्रधानादेरचेतनात् ,
चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः
संसारिणो
हिरण्यगर्भात्
उत्पत्त्यादि सम्भावयितुमपि शक्यम् ॥
अचेतनात्तावदचेतनत्वादेवानुपपन्नम् । चेतनादपि ; परिच्छिन्नज्ञानक्रियाशक्तित्वात् । अभावात् पुनर्नाचेतनत्वादेव केवलादनुपपत्तिः, अपि तु निरुपाख्यत्वादतीतकल्पसंस्काराभावात् , पूर्वकल्पैकरूपो वर्तमानोऽपि कल्प इति प्रमाणाभावात् , सर्व एव व्यवहारो यादृच्छिक इति न क्वचित् कश्चिन्नियमोऽभविष्यत् ।
न च स्वभावतः विशिष्टदेशकालनिमित्तोपादानादिति ॥
स्वभावो नामान्यानपेक्षः । तेनापेक्षैवानुपपन्ना, कुतो नियमसम्भवः ? अतो युक्त्याऽपि वस्त्वन्तरस्य कारणत्वसम्भावनानिराकरणेन पारिशेष्यात्पूर्वोक्तविशेषण ईश्वर एव कारणमिति सिद्धम् ॥
एतदेवानुमानमिति ॥
येयं युक्तिरभिहिता यथोक्तविशेषणमीश्वरं मुक्त्वा नान्यतो जगतो जन्मादि सम्भवतीति, एतदेव स्वतन्त्रमनुमानमीश्वरसिद्धौ सर्वज्ञत्वसर्वशक्तित्वसिद्धौ च तस्य प्रमाणम् , किं वेदवाक्यैः ? इतीश्वरकारणिनः कणादप्रभृतयो मन्यन्ते ।
जन्मादिसूत्रलक्षितान्यपि वाक्यानि ‘यतो वा इमानि भूतानि जायन्ते’(तै. उ. ३-१-१) इत्यादीनि परार्थानुमानवाक्यसमानि दृश्यन्त इति वदन्तः ।
नन्विहापि तदेवोपन्यस्तमिति ॥
यथा धूमविशेषस्यागरुसम्भवत्वं, तथा प्रपञ्चसन्निवेशविशेषस्य सर्वज्ञत्वादिगुणकारणकत्वमिति ।
न वेदान्तवाक्यकुसुमग्रथनार्थत्वात् सूत्राणामिति ॥
सत्यं तदेवोपन्यस्तमुपकरणत्वेन, न तत्र तात्पर्यं, तात्पर्यन्तु वेदवाक्यग्रथने ।
तदेव प्रपञ्चयति —
वेदान्तवाक्यानीति ॥
समन्वयसूत्रप्रमुखोपात्तैः शब्दशक्त्यनुसारिभिर्न्यायैर्वाक्यानां ब्रह्मणि तात्पर्याध्यवसाननिर्वृत्ता ब्रह्मावगतिः ।
नानुमानादिप्रमाणान्तरनिर्वृत्ता । सत्सु तु वेदान्तवाक्येषु तदविरोध्यनुमानमपि प्रमाणं भवन्न निवार्यते ; श्रुत्यैव सहायत्वेन तर्कस्याप्यभ्युपेतत्वात् ॥ तथा हि ‘श्रोतव्यो मन्तव्यः’ इति ।
श्रुत्या यथा श्रवणं ब्रह्मावगतिहेतुरनूद्यते, तथा मननस्यापि सिद्धवदनूद्यमानत्वात् । तथाऽपरा श्रुतिः ‘पण्डितो मेधावी’त्यादिः ‘आचार्यवान् पुरुषो वेदे’ति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति । यदाचार्येण श्रुत्यनुसारिणा स्फटिकादिनिदर्शनेन शिष्येभ्यः प्रत्ययदार्ढ्यापादनं, तदाचार्यवान् पुरुषो वेदेत्यनूद्यते ।
न धर्मजिज्ञासायामिवेत्यादिना
युक्तिसाहाय्यापेक्षणे कारणमाह ।
श्रुत्यादय इति ॥
श्रुतिः पदान्तरनिरपेक्षः शब्दः । आदिशब्देन लिङ्गवाक्यादयः शब्दप्रकारा गृह्यन्ते ।
न त एव ब्रह्मणि प्रमाणं, किन्त्वनुभवादयोऽपि । तत्र हेतुमाह —
अनुभवावसानत्वाद् भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्येति ॥
सिद्धे वस्तुनि सम्भवत्यनुभवः, तदवसाना आकाङ्क्षा निवृत्तिर्यतः ।
ननु धर्मजिज्ञासायां विनाऽप्यनुभवेन शब्दशक्त्यनुसरणमात्रेणैव निराकाङ्क्षं फलपर्यन्तं ज्ञानं भवति, न तर्कगन्धमप्यपेक्षते, तथेहापि स्यात् ; प्रमाणत्वाविशेषाद्वेदान्तवाक्यानाम् , इत्याशङ्क्य विशेषमाह —
कर्तव्ये हि विषय इत्यादिना ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वादित्यन्तेन भाष्येण ॥
कथम् ? कर्तव्यं हि कर्तव्यत्वादेवासिद्धस्वभावं नानुभवितुं शक्यमिति न तदाकाङ्क्षा, इह तु सिद्धस्य साक्षाद्रूपेण विपर्यासगृहीतस्य सम्यग्ज्ञानेन साक्षात्करणमन्तरेण न मिथ्याज्ञानोदयनिवृत्तिः ; द्विचन्द्रादिषु तथा दर्शनात् । न हि कर्तव्यसिद्धार्थनिष्ठयोः प्रमाणत्वसाम्यादवबोधनप्रकारेऽपि साम्यम् । यदि स्यात् , पुरुषेच्छावशनिष्पाद्यमपि स्यात् । ततो विधिप्रतिषेधविकल्पसमुच्चयोत्सर्गापवादबाधाभ्युच्चयव्यवस्थितविकल्पादयोऽपि प्रसज्येरन् । न वस्तुनि युक्तमेतत् ; निःस्वभावत्वप्रसङ्गात् । तथा चैकस्मिन् वस्तुनि स्थाणुः पुरुषो वेति विकल्पः, न वैकल्पिकद्रव्यत्यागवद् सम्यग्ज्ञानं भवति स्थाणुरेवेति निश्चितैकार्थता परमार्थे । यतो वस्तुस्वभावपरतन्त्रं सिद्धवस्तुज्ञानं, न ज्ञानपरतन्त्रं वस्तु । यदि स्यात् , शुक्तिरजतमपि तथा स्यात् । कर्तव्यज्ञानं पुनर्वैपरीत्येऽपि सम्यगेव ; ‘योषा वाव गौतम अग्निरि’त्यादिषु दर्शनात् ।
तत्रेवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव भूतवस्तुविषयत्वात् ।
अतो युक्तो युक्तेरनुप्रवेशः, अनुभवापेक्षा च नेतरत्र ॥
अपरः परिचोदयति —
ननु भूतवस्तुविषयत्व इत्यादिना ॥
अयमभिप्रायः — भूतत्वात् युक्तेरपि चेदनुप्रवेशः, तथा सति किं वेदवाक्यैर्विचारितैः ? यथाहुरीश्वरकारणिनः, तथा भवतु पूर्वसूत्रेण प्रतिज्ञानिर्देशोऽनेन च हेत्वभिधानमिति ।
उत्तरमाह —
नेन्द्रियादिविषयत्वेन सम्बन्धग्रहणादित्यादिना ॥
इन्द्रियाणि प्रपञ्चमात्रं गृह्णन्ति, न तत्कारणम् । यदि तद्ग्रहणमपि स्यात् , नानुमानोपन्यासेन कृत्यमस्ति । सामान्यतोदृष्टमपि न प्रमाणमतीन्द्रिये ब्रह्मणि,
अत उपसंहरति —
तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थमिति ॥
युक्तिमपि तदुपकरणां तदर्थानुभवप्रयोजनां सूचयतीत्युक्तम् ॥
नन्वेवं सति कथं युक्तिरब्रह्मविषया सती तद्विषयाणां वाक्यानामुपकरणं भवति ? उच्यते, ब्रह्मपरेषु मृदादिदृष्टान्तेर्युक्तस्य उपन्यस्यन्ते । ताश्च विधिप्रतिषेधवाक्ययोः प्रवर्तकत्वनिवर्तकत्वाकाङ्क्षितस्तुतिनिन्दार्थवादवत् स्वरूपवाक्यस्य फलपर्यन्तापेक्षितसम्भावनार्थवादतां प्रतिपद्यमानास्तत्र श्रुतिसाहाय्ये वर्तन्त इत्युच्यते ।
किम्पुनस्तद् वेदवाक्यं यत् सूत्रेणेह लिलक्षयिषितमिति ॥
सर्वत्र वेदान्तवाक्ये ब्रह्मपदस्याप्रसिद्धत्वान्न स्वार्थं विशेष्यत्वेन विशेषणत्वेन वा वाक्यार्थे समर्पयितुमलमित्याक्षिपति । येषां वेदान्तवाक्यानां येन सन्निवेशक्रमेण ब्रह्मप्रतिपादने समन्वयः स्वाध्यायपदे स्थितः, तल्लक्षणार्थं सूत्रद्वयमिति ।
तथैवोदाहणमाह —
भृगुर्वै वारुणिरिति ।
अथशब्दोपात्तन्यायेन प्रथमसूत्रस्योदाहरणं — ‘यतो वा इमानि भूतानी’ति जन्मादिसूत्रस्य । कथम् ? पूर्वोक्तेन न्यायेन पृथिव्यादीनां जन्मादिदर्शनात् तत्कारण एकत्वनानात्वयोरन्यतरावगमे प्रमाणाभावाद् बुद्धिमत्कारणपूर्वतामात्रे प्रतिपन्ने ‘यतो वा इमानी’ति कारणस्यैकवचननिर्देशात्तदर्थमात्रस्यैव विधित्सितत्वादर्थात्सर्वज्ञं सर्वशक्तिजगत्कारणमिति कारणविशेषो वाक्यादवगम्यते । पुनस्तद्विजिज्ञासस्वेत्यनूद्य तद् ब्रह्मेति तत्र ब्रह्मशब्दप्रयोगाद् बृहत्यर्थान्वयेन सर्वतोऽनवच्छिन्नस्वभावं जगत्कारणं ब्रह्मपदार्थ इति गम्यते । तस्य च निर्णयवाक्यमानन्दाद्ध्येव खल्विति ॥
प्रसिद्धावद्योतकेन हिशब्देन संयुक्तमानन्दावद्योतकमुपपद्यते । अनानन्दात्मके हि जगत्कारणे ब्रह्मशब्दप्रयोगो न युज्यते । न हि तस्योपेक्षणीये विषये स्वार्थप्रक्षेपेण वृत्तिः समञ्जसा । तस्माद् ब्रह्मपरे वाक्ये जन्मादिधर्मजातस्योपलक्षणत्वाद् ब्रह्मसंस्पर्शाभावात् सर्वज्ञं सर्वशक्तिसमन्वितं परमानन्दं ब्रह्मेति जन्मादिसूत्रेण ब्रह्मस्वरूपं लक्षितमिति सिद्धम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जन्माद्यधिकरणं नाम पञ्चमवर्णकं समाप्तम् ॥