पञ्चपादिका
८ वर्णकम्
अथाष्टमं वर्णकम्
कथं पुनर्ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते ? यावताऽऽम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो वेदान्तानामानर्थक्यमक्रियार्थत्वात् ॥
यद्यपि प्रदर्शितानि वाक्यानि सर्वज्ञत्वादिगुणकं ब्रह्म जगत्कारणं प्रतिपादयन्ति ; तथाऽपि तत्र परिनिष्ठिते वस्तुनि प्रत्यक्षादीनामपि प्रवृत्तिसम्भवात् तैरसंवादे न प्रामाण्यं प्रतिलभन्ते ॥
ननु अपौरुषेयत्वात् तज्जन्यं स्वार्थपरिच्छेदेऽनपेक्षं कथमप्रमाणम् ? सत्यम् ; तथाऽपि यथा चाक्षुषं स्पर्शनगोचरचित्रनिम्नोन्नतज्ञानं तेनासंवादादप्रमाणं, तथेहापि स्यात् । किं च पुरुषार्थशून्यत्वादप्यप्रामाण्यम् । पुरुषार्थो हि नाम सुखावाप्तिर्दुःखपरिहारश्च । तौ च सिद्धत्वाद् हानोपादानविषयौ न सिद्धवस्तुन्यक्रियाशेषे सम्भवतः । ततो
न क्वचिद् वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा ॥
किं च प्रत्यक्षाद्यविषये न शब्दमात्रस्य प्रामाण्यम् । शास्त्रस्यैष स्वभावो यदनवगतार्थावबोधकत्वम् । शब्दमात्रस्य पुनः प्रमाणान्तरगृहीतार्थप्रकाशन एव सामर्थ्यं दृष्टं, नानवगतार्थप्रकाशने । तस्मादनर्थका वेदान्ताः ; न तेषां ब्रह्मणि प्रामाण्यमिति । अत एव ‘वेदोषरा वेदान्ताः’ इति केषाञ्चिदुद्गारः ॥ यत्पुनर्भाष्यकारेण कर्तृदेवतास्वरूपप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानां प्रकरणान्तरभयादनभ्युपगम्य स्ववाक्यगतोपासनाकर्मपरत्वमुक्तं, तदयुक्तम् ; उपासनाविधिशेषत्वेऽपि संवादाभावाद् जगत्कारणे न सर्वज्ञत्वादिसिद्धिः । सत्यम् ; अनुमानतोऽनिर्दिष्टविशेषे तस्मिन्नवगते समारोपितैर्धर्मैरुपासनानियोगः सेत्स्यति । एवं चाध्ययनविधिग्राहितानां वेदान्तानामेकान्ततो नानर्थक्यं भविष्यतीत्यभिप्रायः । फलं च तत्र कल्प्यमार्थवादिकम् ।
तत्तु समन्वयात्
तत् ब्रह्म सर्वज्ञत्वादिगुणकं वेदान्तशास्त्रात्प्रतीयत इति प्रतिजानीते ।
हेतुं चाचष्टे —
समन्वयादिति ।
तत्र तात्पर्येण वेदान्तवाक्यानां समन्वयादित्यर्थः ॥ सम्यगन्वयः समन्वयः । अथ केयं सम्यक्ताऽन्वयस्य ? पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः ; ‘सोऽयमि’त्यादि वाक्यस्थपदानामिव । प्रकृष्टप्रकाशशब्दयोरिव चन्द्रपदाभिधेयार्थकथनेन । तथा च व्यक्तिविशेषः, कश्चिच्चन्द्रप्रातिपदिकाभिधेयः केनचित् पृष्टः ‘अस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नाम ? ’ इति तस्य प्रतिवचनं ‘प्रकृष्टप्रकाशश्चन्द्रः’ इति । तदेवं प्रतिवचनं भवति यदि यथा चन्द्रपदेनोक्तं, तथाऽऽभ्यामपि पदाभ्यामुच्येत । एवं च सति नीलोत्पलवदयुतसिद्धपरस्परावच्छिन्नविशेषणविशेष्यभावेनाप्यन्वयो दुर्लभः ।
कुतः पृथक्सिद्धः क्रियाकारकलक्षणः सम्बन्धः ? तथाविधान्युदाहरति —
सदेव सोम्येदमग्र इत्यादीनि ॥
ननु जन्मादिसूत्रोदाहरणेष्वेव प्रामाण्यं दर्शनीयं, किमुदाहरणान्तरेण ? बाढम् ; अस्त्यत्राभिप्रायो भाष्यकारस्य । तत्र ब्रह्मणो लक्षणं वक्तव्यमिति तटस्थस्यैव ब्रह्मणो निरूपकाणि वाक्यान्युदाहृतानि, इह तु ‘तत्त्वमसी’ति जीवस्य ब्रह्मात्मतावगतिपर्यन्तानि वेदान्तवाक्यानि न तटस्थमेव जगत्कारणं प्रतिपाद्य पर्यवस्यन्ति, इत्यतस्तथाभूतान्येव वाक्यान्युदाहृतानि — ‘सदेव सोम्येदमग्र आसीदि’त्येवमादीनि । यत्पुनः सिद्धे वस्तुनि प्रत्यक्षादिसम्भवात् तदभावे मिथ्यात्वाशङ्कायामप्रामाण्यमिति, तत् रूपाद्यभावाद् नेन्द्रियगोचर इति प्रत्युक्तम् ॥
ननु इन्द्रियागोचरत्वादेव प्रत्यक्षाद्यविषयत्वान्न शब्दमात्रस्य तत्र प्रामाण्यमित्युक्तम् , उच्यते ; यद्यपि शब्दमात्रस्य प्रत्यक्षादिविषय एव प्रयोगो दृष्टः, व्युत्पत्ता तु कथं व्युत्पद्यते ? इति वाच्यम् । श्रोतृव्यवहारो हि मूलं बालानां व्युत्पत्तेः । स च श्रोतुर्ज्ञानान्तरानिमित्ततापरिशुद्धः शब्दसामर्थ्यावगमहेतुः । अतो न प्रतिपत्तुर्ज्ञानान्तरासिद्धार्थावबोधकत्वं सामर्थ्यावगमकालेऽवगतम् । तेनानवगम्यैव तद्विषयं ज्ञानं सामर्थ्यावगमः, यथाऽवगमं च विज्ञानोत्पत्तिः । यदा पुनर्व्युत्पन्नः स स्वयं प्रयुयुक्षते परप्रतिपत्तये, तदा ज्ञानान्तरसन्निधापितं स्वसाक्षिकं विवक्षन् सामर्थ्यावगमकालेऽपि तयोः सत्तां प्रतिपद्यते केवलं, न ज्ञानोत्पत्तौ तयोरुपयोगम् । तस्मान्न शब्दस्य प्रमाणान्तरगृहीतार्थप्रकाशने सामर्थ्यं व्युत्पत्तिकालेऽवगतं, किन्तु चक्षुरादिवदन्यनिरपेक्षो यथावगतसामर्थ्यश्च शब्दो विज्ञानं जनयति । तस्मान्न प्रमेयस्य प्रत्यक्षादिविषयत्वं शब्दस्य विज्ञानजनन उपयुज्यते । अपि चापौरुषेये शब्दे चक्षुषीव विज्ञानोत्पत्तावनपेक्षे कथमप्रामाण्यमाशङ्क्येत ? ननु उक्तमाशङ्काकारणं स्पर्शनगोचरचित्रनिम्नोन्नतविषयस्य चाक्षुषस्य प्रत्ययस्य तत्संवादाभावादप्रमाणत्वं, न तत्साधूक्तम् ; अदुष्टकरणत्वादस्य, तस्य च तदभावात् । तथाहि शब्दस्तावदपौरुषेयत्वाददुष्टः । प्रमेयस्य पुनर्ज्ञानहेतुत्वे न प्रमाणमस्ति ; शब्दस्यैव तदेकनिष्ठत्वेन तन्नियमात् , चित्रस्य तु चाक्षुषज्ञाने सामग्र्यन्तःपातिनः श्यामादिरेखासन्निवेशविशेषो दोषः ; तदभावे तिमिराभाव इव सम्यग्दर्शनोत्पत्तेः । अतः प्रवर्तमानमपि प्रमाणं संवादकमेव, इति नाप्रामाण्यमावहति । न च संवादलक्षणं प्रामाण्यम् , अपि तु बोधलक्षणमिति प्रमाणविदां स्थितिः । अतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम् , एवं स्वरूपवाक्यानामपि ; अनवगतार्थपरिच्छेदसामान्यात् ॥
ननु विधिवाक्यानामेव प्रामाण्यं युक्तम् ; क्रियार्थत्वादाम्नायस्य, न ; इतरेतराश्रयत्वात् । विधिवाक्यानामेव हि प्रामाण्ये सिद्धे क्रियार्थत्वमाम्नायस्य सिद्ध्येत् , क्रियार्थत्वे च सिद्धे तेषामेव प्रामाण्यमितीतरेतराश्रयत्वं स्यात् , न ह्येकमप्यन्यतः सिद्धम् ; अतो यदवगमयत्याम्नायस्तदर्थः सः । तस्माद् यथाकार्यमवगमयन्स्तदर्थः, एवमैकात्म्यमप्यवगमयंस्तदर्थो भवितुमर्हति । प्रतीतिकृतत्वात्प्रामाण्यस्य, प्रतीतिस्तु कार्यैकात्म्ययोस्तुल्या । प्रत्यक्षादिष्वप्येतदेव प्रमाणवृत्तं, यदनवगतमवगम्यते ॥
आह — युक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपेक्षान्तराभावात् , आम्नायस्य त्वध्ययनविधिनोपादापितस्य न पुनः पुरुषार्थमप्राप्य पर्यवसानं लभ्यते ; विधानानर्थक्यप्रसङ्गात् । तस्मादैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठता न युक्ता ; उच्यते, पुरुषो ह्येतावदपेक्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, न त्वित्थमन्यथा वेति । न चास्य स्वयमीष्टे । द्विविधं चेष्टं प्रेप्सति, किञ्चित्प्राप्यम् ; यथा ग्रामादि । किञ्चित्प्राप्तमपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृतसुवर्णादि । अनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यं — यथागर्तादि किञ्चित्परिहृतमपि ; भ्रान्त्या यथा रज्ज्वादि सर्पादिबुद्धिगृहीतम् । तत्र प्राप्यपरिहार्ययोः साधनज्ञानायत्तत्वात्पुरुषार्थस्य विधिप्रतिषेधावर्थवन्तौ । इतरयोस्तावद् भ्रान्तिमात्रव्यवहितत्वान्न तदपनयादन्यत् पुरुषार्थत्वेनापेक्षते । तदपनयश्च तत्त्वज्ञानाद् भवति नान्यथा । एवमपि लभ्यमानं पुरुषार्थमनुमन्यत एव पुरुषः, सुतरां चाभिनन्दति । सधनायत्तो ह्यायासाल्लभ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियते । तेनानेकानर्थकलुषितमिवात्मानं मन्यमानस्य भ्रान्तस्य सर्वानर्थशून्यात्मतत्त्वप्रतिपादनादेव पुरुषार्थसिद्धेरैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठत्वेऽपि न विध्यानर्थक्यप्रसङ्गः । तस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वम् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नामाष्टमं वर्णकं समाप्तम् ॥