अद्वैतशारदा

पञ्चपादिका

७ वर्णकम्

व्याख्याः

अथ सप्तमं वर्णकम्

अथ वा यथो­क्त­मृ­ग्वे­दा­दी­त्या­दिना
सूत्रस्य प्रमा­ण­प्र­ति­ज्ञा­म­र्था­न्त­र­माह - अपेक्षितत्वात् ॥ कथं पुनरेकस्य सूत्र­स्या­र्थ­द्व­यम् ? सूत्रत्वादेव । तथा च पौराणिकाः — ‘अल्पा­क्ष­र­म­स­न्दिग्धं सार­व­द्वि­श्व­तो­मु­खम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः’ ॥ इति ॥ विश्वतोमुखमिति नानार्थतामाह - अतोऽलङ्कार एव सूत्राणां यदनेकार्थता नाम ॥ ननु पूर्वसूत्रे शास्त्रमुदाहरता ब्रह्मावगमे शास्त्रं प्रमाणं प्रतिज्ञातमेव । सत्य­मे­त­त्सू­त्र­ब­लेन तदुदाहृतम् ; अन्यथा सूत्रे शास्त्रो­पा­दा­ना­भा­वा­द­नु­मा­ना­श­ङ्कायां ‘यतः सर्व­ज्ञा­त्स­र्व­शक्तेः कारणाज्जगतो जन्मादि भवति, तद् ब्रह्मेति वाक्यशेषः’ इत्य­स्यो­प­स्का­र­स्या­प्र­मा­ण­त्व­प्र­सङ्गः । प्रतिप्रपञ्चं पृथ­क्का­र­ण­ज­न्म­ताया अपि सम्भवात् सर्व­ज्ञ­त्व­स­र्व­श­क्ति­त्वा­सिद्धेः, लोके च जगत्कारणे ब्रह्म­श­ब्द­प्र­यो­गा­द­र्श­नात् । अतो ‘जन्माद्यस्य यतः’ ‘शास्त्र­प्र­मा­ण­क­मि’त्ये­ता­व­दिदं सूत्रं सद­स­न्दि­ग्ध­म­नु­मा­न­श­ङ्का­नि­वृत्तेः पृथक्करणं प्रप­ञ्चा­न्तः­पा­तिनः शास्त्रस्यापि हेतुत्वेन सर्वज्ञत्वं सुसम्पादमिति व्याख्या­ना­न्त­रेण कथयितुम् ॥

इति पर­म­हं­स­प­रि­व्रा­ज­कादि - श्रीश­ङ्क­र­भ­ग­व­त्पा­दा­न्ते­वा­सि­वर - श्रीप­द्म­पा­दा­चा­र्य­कृतौ पञ्चपादिकायां ब्रह्मणः शास्त्र­प्र­मा­ण­कत्वं नाम सप्तमं वर्णकं समाप्तम् ॥