अद्वैतशारदा

पञ्चपादिका

६ वर्णकम्

व्याख्याः

अथ षष्ठं वर्णकम्

शास्त्र­यो­नि­त्वात् ॥
अयमपरः प्रपञ्चकारणस्य ब्रह्मणः सर्वज्ञत्वे हेतुः । अने­क­ना­ना­वि­ध­वि­ष­य­वि­द्या­स्था­नो­प­बृं­हि­तस्य वेदाख्यस्यापि शास्त्रस्य प्रप­ञ्चा­न्तः­पा­ति­त्वात् तत एव जन्म । न च तेनाविषयीकृतस्य सद्भावे प्रमाणमस्ति । अतः सर्व­वि­ष­य­त्वा­त्स­र्वज्ञं तत् । कल्प­प्र­त्य­य­प्र­योगो भाष्ये बोद्धृ­त्वा­भा­वा­दी­ष­द­प­रि­स­माप्त्या । ततश्च कारणं तद्वि­ष­या­द­प्य­धि­क­त­र­ग्र­ह­ण­स­मर्थं गम्यते । दृश्यते ह्यद्यापि शास्त्रकाराणां तथाभावः । ननु एवं सति बुद्धि­पू­र्व­त्वा­त्सा­पेक्षं स्यात् । न स्यात् ; ब्रह्म­व­द­ना­दि­त्वात् । कूट­स्थ­नि­त्य­त्वाच्च ॥ कथं पुनस्ततो जन्म ? तत्प­र­त­न्त्र­त्वात् , रज्जुसर्पवत् । तथा च श्रुतिः ‘निःश्व­सि­त­मे­तदि’ति । यथाऽ­पे­क्षा­र­हि­तैव लोके निःश्वा­स­प्र­वृत्तिः, तथाऽस्यापीति न सापेक्षतादोषः ॥ ननु एवं सति कथं सर्वज्ञता ? तस्यैव ज्ञान­श­क्ति­वि­व­र्ता­त्म­क­त्वाद् नामप्रपञ्चस्य । रूप­प्र­प­ञ्च­स्यापि तदाश्रित्य विवर्तनात् तज्जन्मता ; नासतः प्रादुर्भावात् ॥

इति पर­म­हं­स­प­रि­व्रा­ज­कादि - श्रीश­ङ्क­र­भ­ग­व­त्पा­दा­न्ते­वा­सि­वर - श्रीप­द्म­पा­दा­चा­र्य­कृतौ पञ्चपादिकायां ब्रह्मणः सर्व­ज्ञ­त्व­नि­रू­पणं नाम षष्ठं वर्णकं समाप्तम् ॥