पञ्चपादिका
६ वर्णकम्
अथ षष्ठं वर्णकम्
शास्त्रयोनित्वात् ॥
अयमपरः प्रपञ्चकारणस्य ब्रह्मणः सर्वज्ञत्वे हेतुः । अनेकनानाविधविषयविद्यास्थानोपबृंहितस्य वेदाख्यस्यापि शास्त्रस्य प्रपञ्चान्तःपातित्वात् तत एव जन्म । न च तेनाविषयीकृतस्य सद्भावे प्रमाणमस्ति । अतः सर्वविषयत्वात्सर्वज्ञं तत् । कल्पप्रत्ययप्रयोगो भाष्ये बोद्धृत्वाभावादीषदपरिसमाप्त्या । ततश्च कारणं तद्विषयादप्यधिकतरग्रहणसमर्थं गम्यते । दृश्यते ह्यद्यापि शास्त्रकाराणां तथाभावः । ननु एवं सति बुद्धिपूर्वत्वात्सापेक्षं स्यात् । न स्यात् ; ब्रह्मवदनादित्वात् । कूटस्थनित्यत्वाच्च ॥ कथं पुनस्ततो जन्म ? तत्परतन्त्रत्वात् , रज्जुसर्पवत् । तथा च श्रुतिः ‘निःश्वसितमेतदि’ति । यथाऽपेक्षारहितैव लोके निःश्वासप्रवृत्तिः, तथाऽस्यापीति न सापेक्षतादोषः ॥ ननु एवं सति कथं सर्वज्ञता ? तस्यैव ज्ञानशक्तिविवर्तात्मकत्वाद् नामप्रपञ्चस्य । रूपप्रपञ्चस्यापि तदाश्रित्य विवर्तनात् तज्जन्मता ; नासतः प्रादुर्भावात् ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां ब्रह्मणः सर्वज्ञत्वनिरूपणं नाम षष्ठं वर्णकं समाप्तम् ॥