अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: प्रथमोऽनुवाकः

विघ्नेश्वरं विघ्नशान्त्यै वाणीं वाचः प्रवृत्तये ।
गुरू­न्गू­ढा­र्थ­भा­नाय प्रणमामि निरन्तरम् ॥ १ ॥
जगन्मङ्गलरूपाय सृष्टि­स्थि­त्य­न्त­का­रिणे ।
नमो लक्ष्मीसमेताय कृष्णाय परमात्मने ॥ २ ॥
परिपूर्णं नित्यशुद्धं निर्विशेषं स्वयम्प्रभम् ।
सत्या­न­न्द­स्व­रूपं यत्तदहं ब्रह्म निर्भयम् ॥ ३ ॥
आचार्यस्य प्रसादेन पूर्व­पु­ण्यै­क­ज­न्मना ।
तैत्ति­री­य­क­भा­ष्यस्य व्याख्यां कुर्वेऽ­ति­भ­क्तितः ॥ ४ ॥

तैत्ति­री­य­को­प­नि­षदं व्याचि­ख्या­सु­र्भ­ग­वा­न्भा­ष्य­कारः तत्प्रतिपाद्यं ब्रह्म जग­ज्ज­न्मा­दि­का­र­ण­त्वेन तटस्थलक्षणेन सामा­न्ये­नो­प­ल­क्षितं सत्यज्ञानादिना स्वरूपलक्षणेन विशेषतो निश्चितं नमस्करोति —
यस्माज्जातमिति ।
ज्ञानात्मन इति स्वरूपलक्षणं सूचितम् ॥ १ ॥

गुरु­भ­क्ते­र्वि­द्या­प्रा­प्ता­व­न्त­र­ङ्ग­सा­ध­नत्वं ख्यापयितुं गुरून्प्रणमति —
यैरिति ।
इमे क्रमेण व्याख्येयत्वेन बुद्धिस्थाः । पदानि च वाक्यानि च प्रमाणानि च पद­वा­क्य­प्र­मा­णानि । ‘सोऽकामयत’ इत्यादौ ब्रह्म­स­त्त्व­सा­ध­क­तया विव­क्षि­ता­न्य­नु­मा­नानि प्रमाणानि । तेषां पद­वा­क्य­प्रा­मा­णानां विवेचनपूर्वकं व्याख्याता इत्यर्थः । यद्वा पदं व्याकरणं तत्सा­धु­त्व­वि­चा­र­रू­प­त्वात् , वाक्यं मीमांसा वेद­वा­क्य­वि­चा­र­रू­प­त्वात् , प्रमाणं न्यायशास्त्रं प्राधान्येन प्रत्य­क्षा­दि­प्र­मा­ण­वि­चा­रा­त्म­क­त्वात् ; ततश्च पदवाक्यप्रमाणैः साध­न­भू­तै­र्व्या­ख्याता इत्यर्थः ॥ २ ॥

चिकीर्षितं निर्दिशति —
तैत्तिरीयकेति ।

ननु व्युत्पन्नस्य पदेभ्य एव पदा­र्थ­स्मृ­ति­स­म्भ­वा­त्प­द­स्मा­रि­त­प­दा­र्थानां यथायोग्यं सम्बन्धस्यैव वाक्या­र्थ­स्या­व­गन्तुं शक्यत्वात् सूत्रकारेण वेदा­न्त­ता­त्प­र्यस्य निरू­पि­त­त्त्वाच्च व्यर्थः पृथ­ग्व्या­ख्या­रम्भ इत्याशङ्क्याह —
विस्पष्टार्थेति ।
मन्दमतीनां स्वत एव निःशे­ष­प­दा­र्थ­स्म­र­णा­स­म्भ­वा­दु­प­नि­ष­द्ग­त­निः­शे­ष­प­दा­र्थानां निःसंशयज्ञानं येभ्यो रोचते तेषा­मु­प­का­रा­ये­त्यर्थः ॥ ३ ॥

उपनिषदः कर्मकाण्डेन निय­त­पौ­र्वा­प­र्य­सू­चितं सम्बन्धं विशिष्य ख्यापयितुं कर्मकाण्डार्थे कीर्तयति —
नित्यानीति ।
पूर्व­स्मि­न्ग्रन्थे नित्यानि कर्माणि सञ्चि­त­दु­रि­त­क्ष­या­र्थ­त्वे­ना­धि­ग­तानि ; तैश्च नित्यैरिह जन्मनि जन्मान्तरेषु वानुष्ठितैः क्षीणपापस्य शुद्धा­न्तः­क­र­णस्य कर्मा­नु­ष्ठा­न­प्र­यो­ज­का­वि­द्या­का­म­प­रि­हा­र­द्वारा मुक्तिसिद्धये इदानीम् उपनिषदि ब्रह्मविद्या प्रस्तूयते निरूप्यत इत्यर्थः । तथा च कर्मणां ब्रह्मविद्यां प्रति चित्त­शु­द्धि­द्वारा साध­न­त्वा­त्त­त्प्र­ति­पा­द­क­यो­रपि कर्म­का­ण्डो­प­नि­षदोः साध्यसाधनभावः सम्बन्ध इत्यर्थः ।

ननु कर्मकाण्डस्य चेत्पा­प­क्ष­य­द्वारा विद्यायां विनियोगः, तर्हि पशु­स्व­र्गा­दि­सा­ध­न­भू­तानां काम्यकर्मणां तत्रो­क्ति­र­स­ङ्गता तेषां विद्या­सा­ध­न­त्वा­यो­गा­दि­त्या­श­ङ्क्याह —
काम्यानि चेति ।
अयं भावः - काम्यानां फलार्थत्वेऽपि फलाभिसन्धिं विना कृतानां तेषां विद्या­सा­ध­न­त्व­म­प्य­स्त्येव, विविदिषावाक्येन नित्य­का­म्य­सा­धा­र­ण्येन कर्मणां विध्यायां विनियुक्तत्वात् ‘अनाश्रितः कर्मफलम्’ इत्या­दि­स्मृ­ति­ष्वपि तथोक्तत्वाच्च ; कर्मकाण्डे फलार्थिनां काम्य­क­र्म­वि­धा­न­मपि विद्यो­प­यो­ग्ये­वेति ।

कर्मो­पा­दा­न­हे­तु­प­रि­हा­रा­ये­त्यत्र निर्दिष्टः कर्म­प्र­वृ­त्ति­हेतुः क इति जिज्ञासायामाह —
कर्महेतुरिति ।
अत्र यद्यप्यविद्यापि कर्मो­पा­दा­न­हेतुः, तथा च वक्ष्यति - ‘तस्मा­द­वि­द्या­दि­क­र्मो­पा­दा­न­हे­तु­नि­वृत्तौ’ इति, तथाप्यविद्यायाः कामद्वारा कर्म­हे­तु­त्वा­त्कामो हेतुरित्युक्तम् । कामस्यैव प्राधान्येन कर्महेतुत्वं भगवता व्यासे­ना­प्यु­क्तम् - ‘यद्यद्धि कुरुते जन्तु­स्त­त्त­त्का­मस्य चेष्टितम्’ इति ।

कामस्य कर्म­हे­तु­त्वेऽ­न्व­य­व्य­ति­रेकौ प्रमाणयति —
प्रव­र्त­क­त्वा­दिति ।
कामे सति प्राणिनां प्रवृ­त्ति­द­र्श­ना­दि­त्यर्थः ।

आप्तकामानां हीति ।
अनु­प­प­त्ति­प­द­म­भा­व­प­रम् । ततश्च आप्तकामानां प्राप्त­स्व­रू­पा­न­न्दानां स्वात्मनि स्वरू­पा­न­न्देऽ­व­स्था­ना­द्धेतोः कामाभावे प्रवृ­त्त्य­भा­व­द­र्श­नाद् इत्यर्थः । तेषां प्रवृत्त्यभावः प्रसिद्ध इति हि-शब्दार्थः ।

नन्वाप्तकामत्वे को हेतुः ? तत्राह —
आत्मकामत्वे चेति ।
आत्मैव काम आनन्दो यस्य साक्षात्कृतः स आत्मकामः, तस्य भाव आत्मकामत्वम् , तस्मि­न्स­त्या­प्त­का­मता भवतीत्यर्थः ।

ननु ब्रह्म­वि­द्यै­वा­प्त­का­म­ता­हेतुः नात्मा­न­न्द­सा­क्षा­त्का­र­व­त्त्वम् ; तत्राह —
आत्मा च ब्रह्मेति ।
‘अयमात्मा ब्रह्म’ इति श्रुतेरिति भावः ।

ब्रह्मविद आत्मा­न­न्द­प्राप्तौ मानमाह —
तद्विदो हीति ।
हि यस्मात्परस्य स्वरूपानन्दस्य प्राप्तिं ब्रह्मविदः ‘ब्रह्म­वि­दा­प्नोति परम्’ इति श्रुति­र्व­क्ष्यति, तस्मा­द्ब्र­ह्म­वि­दा­प्त­काम इत्यर्थः ।

नन्वा­त्मा­न­न्दस्य नित्य­प्रा­प्त­त्वा­द्वि­द्यया तत्प्रा­प्ति­श्रु­ति­र­नु­प­पन्ना ; नेत्याह —
अत इति ।
आत्म­स्व­रू­प­त्वेऽ­प्य­वि­द्या­वृ­त­त्वा­द्वि­द्यया तदावरणनिवृत्तौ स्वात्मानन्दे यदभेदेनावस्थानं तदत्र पर­प्रा­प्ति­र्वि­व­क्षिता ; अतो न विद्या­वै­य­र्थ्य­श­ङ्केति भावः ।

ब्रह्मविदः पर­प्रा­प्ता­वे­वा­न्य­दपि वाक्यद्वयं पठति —
अभयमिति ।
ब्रह्मण्यभयं यथा भवति तथा प्रतिष्ठां स्वात्म­भा­वे­ना­व­स्थानं यदा विन्दते तदैवाभयं गतो भवतीत्यर्थः । आनन्दमयं पर­मा­त्मा­न­मु­प­स­ङ्क्रा­मति प्राप्नो­ती­त्यर्थः । इदं च वृत्ति­का­र­म­ता­भि­प्रा­ये­णो­दा­हृ­तम् , स्वमते आनन्दमयस्य जीवत्वादिति बोध्यम् ॥

ननु जीवस्य शरीरेऽवस्थानं बन्धहेतुः, ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’ इति श्रुतेः ; आत्यन्तिकेन शरी­र­स­म्ब­न्धा­भा­वेन युक्ते स्वस्व­रू­पेऽ­व­स्थानं मोक्षः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः ; स चात्यन्तिकः शरी­र­स­म्ब­न्धा­भावो ब्रह्मा­त्मै­क­त्व­विद्यां विना कर्मभिरेव सिध्यति, किं विद्ययेति मीमांसकः शङ्कते —
काम्येति ।
काम्यं कर्म देवा­दि­श­री­र­हेतुः, प्रतिषिद्धं कर्म तिर्य­गा­दि­श­री­र­हेतुः, नित्य­नै­मि­त्ति­का­न­नु­ष्ठानं प्रत्य­वा­यो­त्पा­द­न­द्वारा नार­क्या­दि­ज­न्म­हेतुः । तथा च मुमुक्षुणा सर्वात्मना काम्य­प्र­ति­षि­द्ध­यो­र­ना­र­म्भा­त्स­म्य­ङ्नि­त्य­नै­मि­त्ति­का­नु­ष्ठा­नेन प्रत्य­वा­या­नु­त्पा­दाच्च न भावि­ज­न्म­प्राप्तिः, आरब्धफलयोश्च पुण्य­पा­प­यो­रु­प­भो­गे­नैव नाशान्न ततोऽपि भावि­ज­न्म­प्रा­प्ति­शङ्का ; तथा च विद्या­स­म्पा­द­न­यत्नं विना मुमुक्षोरेवं वर्त­मा­न­स्या­त्य­न्ति­क­श­री­र­स­म्ब­न्धा­भा­व­श­ब्दितः स्वात्म­न्ये­वा­व­स्था­न­ल­क्षणो मोक्षः सिध्यतीत्यर्थः । अत्र च शरीरसम्बन्धस्य कर्म­नि­मि­त्त­क­त्वात् ‘निमित्तापाये नैमित्तिकापायः’ इति न्यायेन शरी­र­स­म्ब­न्धा­भा­व­रू­प­मो­क्षस्य कर्म­सा­ध्य­त्वो­क्ति­रिति मन्तव्यम् ।

मीमांसक एव प्रकारान्तरमाह —
अथवेति ।
यानि कर्माणि स्वर्गसाधनत्वेन श्रुतानि तान्येव मोक्षसाधनम् , स्वर्ग­श­ब्द­वा­च्यस्य निरतिशयसुखस्य स्वरू­पा­न­न्द­ल­क्ष­णा­न्मो­क्षा­द­न्य­त्वा­स­म्भ­वात् ‘यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम्’ इत्यर्थवादेन निरतिशयप्रीतेः स्वर्ग­श­ब्द­वा­च्य­त्वा­व­ग­मात् त्रिवि­ष्ट­पा­दि­ज­नि­त­सुखे दुःखा­स­म्भि­न्न­त्वा­दि­वि­शे­ष­णा­ना­म­स­म्भ­वात् । तथा च निर­ति­श­य­प्री­ति­रू­पस्य मोक्षस्य कर्म­हे­तु­क­त्वा­व­ग­मा­त्क­र्मभ्य एव मोक्षः सिध्यति, किं विद्या­स­म्पा­द­न­य­त्ने­ने­त्यर्थः ।

तत्राद्यं मतं निराकरोति —
न ; कर्मा­ने­क­त्वा­दिति ।
कर्म­णा­म­ने­क­त्व­स­म्भ­वान्न विद्यां विना मोक्ष­सि­द्धि­रि­त्यर्थः ।

सङ्ग्रहं विवृणोति —
अनेकानि हीति ।
कर्मा­ने­क­त्व­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः । तेषु कर्मसु यान्य­ना­र­ब्ध­फ­लानि तेषामुपभोगेन क्षया­स­म्भ­वा­त्तानि शेषकर्माणि तन्नि­मि­त्त­श­री­रा­रम्भ एवं­वृ­त्त­स्या­प्यु­प­प­द्यत इत्यर्थः ।

नन्व­ने­क­ज­न्मा­न्त­र­कृ­तानां सर्वेषामेव कर्मणां सम्भूय वर्त­मा­न­ज­न्मा­र­म्भ­क­त्व­स­म्भ­वा­द­ना­र­ब्ध­फ­लानि कर्माणि न सन्त्येव ; नेत्याह —
विरुद्धफलानीति ।
स्वर्ग­न­र­का­दि­रू­प­वि­रु­द्ध­फ­ल­वतां ज्योति­ष्टो­म­ब्र­ह्म­ह­त्या­दीनां सम्भू­यै­क­ज­न्मा­र­म्भ­क­त्वा­स­म्भ­वे­नै­क­स्मि­ञ्ज­न्म­न्यु­प­भो­गेन तेषां क्षया­स­म्भ­वा­त्स­न्त्येव शेष­क­र्मा­णी­त्यर्थः ।

सञ्चि­त­क­र्म­स­द्भावे मानमाह —
कर्म­शे­ष­स­द्भा­व­सि­द्धि­श्चेति ।
तत्तत्र स्वर्गादवरोहतां मध्ये ये इहास्मिँल्लोके रमणीयचरणाः पुण्यकर्माणः ते रमणीयां ब्राह्म­णा­दि­योनिं प्रतिपद्यन्त इति श्रुत्यर्थः । प्रेत्य स्वकर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्त इति स्मृतिरपि स्वर्गादवरोहतां शेषकर्मसद्भावं दर्शयतीत्यर्थः ।

ननु सञ्चितकर्मणां सत्त्वेऽपि तेषां नित्यानुष्ठानेन क्षयान्न तैर्भा­वि­ज­न्म­प्रा­प्ति­रिति शङ्कते —
इष्टानिष्टेति ।

नित्यानां सञ्चि­त­क­र्म­क्ष­य­फ­ल­कत्वं मीमांसकस्य स्वाभ्यु­प­ग­म­वि­रु­द्ध­मिति दूषयति —
नेति ।

असुखरूपस्येति ।
सुखसाधनस्येति यावत् ।

आगामिन इति ।
नित्या­क­र­णा­न­न्त­र­मेव प्रस­क्त­स्ये­त्यर्थः ।

नित्यानां तदभ्युपगमेऽपि परस्य नाभि­म­त­सि­द्धि­रि­त्याह —
यदि नामेति ।
नित्या­न्य­ना­र­ब्ध­फ­ल­क­र्म­क्ष­या­र्थानि सन्तु नामेत्यर्थः । ‘धर्मेण पापमपनुदति’ इति शास्त्रा­च्छु­द्ध्य­शु­द्धि­रू­पयोः सुकृ­त­दु­ष्कृ­त­यो­रेव विरोधाच्च नित्यानि पापमेव नाशयेयुः, न सञ्चितपुण्यमपि ; अत­स्त­त्पु­ण्य­नि­मित्तं भाविजन्म मुमु­क्षो­र­व­श्य­म्भा­वी­त्यर्थः ।

विरोधाभावमेव साधयति —
न हीत्यादिना ।

यदुक्तं काम्य­प्र­ति­षि­द्ध­यो­र­ना­र­म्भा­दिति, तत्र जन्मारभ्य प्रायणपर्यन्तं सर्वात्मना प्रति­षि­द्ध­व­र्जनं पुरुषेण कर्तुमशक्यम् अतिनिपुणानामपि सूक्ष्मा­प­रा­ध­द­र्श­नात् , काम्यवर्जनमपि सर्वात्मना कर्तु­म­श­क्य­मि­त्याह —
न चेति ।
आत्मज्ञानं हि कामानामशेषतो निवर्तकम् , ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति स्मरणात् ; ज्ञानाभावे च सति कामा­व­श्य­म्भा­वात् काम्या­नु­ष्ठा­न­मपि कदा­चि­न्मु­मुक्षोः प्रसज्जते, तद्वशाच्च जन्मापि स्यादित्यर्थः । अशे­ष­क­र्म­क्ष­यो­प­प­त्तिर्न चेत्यन्वयः ।

ननु आत्मज्ञानं न कामानां निवर्तकम् आत्मविदोऽपि कामदर्शनादिति ; नेत्याह —
अनात्मविदो हीति ।

फलविषयत्वादिति ।
आत्मव्यतिरिक्तं किञ्चिदपि वस्तुतो नास्तीति मन्य­मा­न­स्या­त्म­विदः स्वव्य­ति­रि­क्त­फ­ला­भा­वा­दिति भावः ।

तर्हि स्वात्म­न्ये­वा­न­न्द­रूपे तस्य कामोऽस्तु ; नेत्याह —
स्वात्मनि चेति ।

नन्वात्मविदः प्राप्त­स्व­रू­पा­न­न्द­स्यापि पर­ब्र­ह्म­प्राप्तौ कामोऽस्ति ; नेत्याह —
स्वस्येति ।
विदुष इत्यर्थः ।

नित्यानुष्ठानेन च प्रत्य­वा­या­भा­वा­दिति वदता त्वया यदि प्रत्यवायस्य नित्या­क­र­ण­ज­न्यत्वं विवक्षितम् , तदा तदपि न सम्भवतीत्याह —
नित्यानां चेति ।

प्रत्य­वा­या­नु­प­प­त्ति­रिति ।
प्रत्य­वा­यो­त्प­त्तिर्न सम्भवतीत्यर्थः ।

ननु ‘अकुर्वन्विहितं कर्म निन्दितं च समाचरन् । प्रस­ज्जं­श्चे­न्द्रि­या­र्थेषु नरः पतनमृच्छति’ इति वच­न­ग­त­श­तृ­प्र­त्य­या­द­क­र­णस्य प्रत्य­वा­य­हे­तु­त्व­म­व­ग­म्यते ; अक­र­णा­त्प्र­त्य­वा­यो­त्प­त्त्य­नु­प­गमे च शतृ­प्र­त्य­या­नु­प­प­त्ति­रिति ; नेत्याह —
इत्यत इति ।
वक्ष्यमाणरीत्या अकरणस्य प्रत्य­वा­या­हे­तु­त्वा­दि­त्यर्थः । ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण हेताविव लक्षणेऽपि शतुर्विधानादत्र लक्षणार्थ एव स इत्यर्थः । नन्वकरणेन प्रत्यवायक्रिया कथं लक्ष्यते ? उच्यते - यदि यथा­व­न्नि­त्या­नु­ष्ठा­न­म­भ­वि­ष्य­त्तदा सञ्चि­त­दु­रि­त­क्ष­योऽ­भ­वि­ष्यत् , न चायं नित्यमकार्षीत् ; ततः प्रत्यवायी भविष्यतीत्येवं नित्याकरणेन पूर्वजन्मसु सञ्चितेभ्यो दुरितेभ्यः प्राप्यमाणा दुःखरूपा प्रत्यवायक्रिया शिष्टैर्लक्ष्यत इति ।

ननु लक्षणे हेतौ च साधा­र­णा­च्छ­तृ­प्र­त्य­या­द­क­र­णस्य प्रतीतं हेतुत्वमेव कस्मान्नोपेयते ? तत्राह —
अन्यथेति ।
अकरणस्य हेतुत्वे स्वीकृते सत्यभावाद्भाव उत्पद्यत इति प्रसज्जेत अक­र­ण­स्या­भा­व­रू­प­ताया उक्त­त्वा­दि­त्यर्थः ।

तत्रेष्टापत्तिं वारयति —
सर्वेति ।
अभावस्य भाव­ध­र्मा­श्र­य­त्वा­यो­ग्यत्वं प्रत्य­क्षा­दि­प्र­मा­ण­सि­द्धम् , अभावस्य कार­ण­त्व­रू­प­भा­व­ध­र्मा­श्र­य­त्व­स्वी­कारे तु प्रत्य­क्षा­दि­प्र­मा­ण­वि­रोधः स्यादित्यर्थः । न चैवमकरणस्य कथं ज्ञापकत्वं कथं वानु­प­ल­ब्धे­र­भा­व­ज्ञा­प­क­त्व­मिति वाच्यम् , अक­र­णा­नु­प­ल­ब्ध्यो­र्ज्ञा­त­यो­रेव ज्ञाप­क­त्वा­भ्यु­प­ग­मेन स्वरू­प­त­स्त­यो­र्ज्ञा­न­हे­तु­त्वा­भा­वा­दि­त्य­न्यत्र विस्तरः ।

मीमां­स­क­स्या­द्य­प्र­का­र­नि­रा­क­र­ण­मु­प­सं­ह­रति —
इत्यत इति ।
उक्तप्रकारेण ब्रह्मज्ञानं विना यथा­व­र्णि­त­च­रि­त­स्यापि मुमु­क्षो­र्मो­क्षा­स­म्भ­वा­दि­त्यर्थः ।

अथ वेत्या­द्यु­क्त­म­प्य­नूद्य निराकरोति —
यच्चो­क्त­मि­त्या­दिना ।

किं केवलकर्मणां मोक्षा­र­म्भ­क­त्वम् , विद्यासहितानां वा ? नाद्य इत्याह —
तन्नेति ।

ननु नित्यत्वेऽपि कर्मसाध्यत्वं तस्य किं न स्यादिति ; नेत्याह —
न हीति ।
लोके यन्नि­त्य­मा­त्मादि तत्किञ्चिदपि नारभ्यते, यद्धि घटाद्यारब्धं तदनित्यमिति व्याप्ति­द­र्श­ना­दि­त्यर्थः ।

द्विती­य­क­ल्प­म­नूद्य निराकरोति —
विद्या­स­हि­ता­ना­मिति ।
विद्या­रू­प­स­ह­का­रि­म­हिम्ना कर्मारभ्यस्यापि मोक्षस्य नित्यत्वं भविष्यतीति शङ्ककाभिमानः ।

विरुद्धमिति ।
विद्या­रू­प­स­ह­का­रि­म­हिम्ना तावत्कर्मसाध्ये मोक्षे कश्चिदतिशयो भविष्यति, ’यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति’ इति श्रुतेः । स चातिशयो न नित्यत्वरूपः, ‘यत्कृतकं तदनित्यम्’ इति व्याप्ति­वि­रो­धात् ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ इत्या­दि­श्रु­ति­वि­रो­धाच्च ; किं तु तदतिरिक्त उत्कर्षरूप एव वक्तव्य इति भावः । किं च निर­ति­श­य­प्री­ते­रा­त्म­स्व­रू­प­त्वे­ना­र­भ्य­त्वा­यो­गाच्च न विद्यासहितानां केवलानां वा कर्मणां मोक्षः फलम् । न च स्वर्ग­का­म­श्रु­ति­वि­रोधः, तत्र निर­ति­श­य­प्री­ति­वा­च­कस्य स्वर्गशब्दस्य कर्म­यो­ग्य­ता­नु­सा­रेण विष­य­ज­नि­त­सु­ख­वि­शेषे लाक्ष­णि­क­त्वो­प­पत्तेः । एतच्च बृह­दा­र­ण्य­क­ष­ष्ठा­ध्या­य­वा­र्त्तिके प्रपञ्चितम् , तत्रैव द्रष्टव्यम् ।

शङ्कते —
यद्विनष्टमिति ।
यद्‍घटादि विनष्टं तत्पु­न­र्नो­त्प­द्यत इति दर्शनात् घटा­दि­वि­ना­श­रू­पस्य प्रध्वंसाभावस्य नित्यत्वं निश्चीयते, तस्यानित्यत्वे तु विनष्टस्य घटादेः पुन­रु­त्प­त्ति­प्र­सङ्गः स्यात् ; ध्वंस­प्रा­ग­भा­वा­न­धि­क­र­ण­का­लस्य प्रति­यो­गि­का­ल­त्व­नि­य­मा­दि­त्यर्थः ।

ततः किम् ? तत्राह —
प्रध्वं­सा­भा­व­व­दिति ।

प्रध्वंसाभावस्य कार्यत्वमुपेत्य यद्भावकार्यं तदनित्यमिति व्याप्ति­र्वि­व­क्षिता ; निर­ति­श­य­प्री­ति­रूपा च मुक्ति­र्भा­व­रू­पैव तवापि संमता, अतो न मुक्ते­र्नि­त्यत्वं सिध्यतीति दूषयति —
नेति ।

परमार्थतस्तु प्रध्वंसस्य कार्यत्वं नास्तीत्याह —
प्रध्वं­सा­भा­वोऽ­पीति ।
प्रध्वं­सा­भा­वोऽ­प्या­र­भ्यत इति न सम्भावति, नैरु­क्तै­र्ज­ने­र्भा­व­प­दा­र्थ­ध­र्म­त्व­प्र­ति­पा­द­न­वि­रो­धे­ना­भा­वस्य भाव­रू­प­ज­न्मा­श्र­य­त्वा­यो­गेन च प्रध्वंसाभावे जन्म­रू­प­वि­शे­षा­भा­वा­भ्यु­प­ग­मा­दि­त्यर्थः ।

कथं तर्हि वादिनां प्रध्वंसाभावे जन्मा­श्र­य­त्व­ज्ञा­न­मि­त्या­शङ्क्य भ्रान्ति­मा­त्र­मे­त­दि­त्याह —
विक­ल्प­मा­त्र­मे­त­दिति ।

ननु प्रध्वंसाभावस्य प्रति­यो­गि­ज­न्य­त्वा­भावे तत्प्र­ति­यो­गि­कत्वं न स्यादि­त्या­शङ्क्य प्राग­भा­वा­त्य­न्ता­भा­व­यो­रिव तस्य तत्प्र­ति­यो­गि­कत्वं सम्भ­व­ती­त्या­श­ये­नाह —
भावप्रतियोगी ह्यभाव इति ।
अभावस्य भाव­प्र­ति­यो­गि­कत्वं घटाभावः पटाभाव इति व्यव­हा­र­सि­द्ध­मिति हि-शब्दार्थः ।

नन्वाभावे भाव­प्र­ति­यो­गि­क­त्व­वि­शे­षा­भ्यु­प­गमे तत्र जनिरूपविशेषोऽपि पर­मा­र्थोऽ­स्त्विति न शङ्कनीयम् , भाव­प्र­ति­यो­गि­क­त्व­स्यापि तत्र पर­मा­र्थ­त्वा­सि­द्धे­रि­त्ये­त­त्स­दृ­ष्टा­न्त­माह —
यथा हीति ।
भावः सत्त्वम् , तच्च सर्वानुगतं सद्रूपं वस्तुतो निर्विशेषं ब्रह्मैव नान्यत् ; तद्यथा एकमपि घटसत्त्वं पटसत्त्वमिति रीत्या भिन्नमिव घटा­दि­भि­र्वि­शे­ष्यते घटा­दि­प्र­ति­यो­गि­क­त्वेन कल्प्यते, तथा घटो नास्ति पटो नास्तीति प्रती­य­मा­ना­भा­वोऽ­प्येक एव, सम­वा­य­स­त्ता­जा­त्या­दि­वत् लाघवात् ; स चाभावः सर्व­वि­शे­ष­र­हि­तोऽपि भावेषु घटादिषु मुद्ग­रा­भि­घा­ता­दि­ज­नि­त­क्रि­या­यो­गा­द्घ­टा­दि­प्र­ति­यो­गि­क­त्वेन जातत्वेन च वादि­भि­र्भ्रान्त्या परिकल्प्यते, द्वाव­भा­वा­वि­त्या­दि­व्य­व­हा­रात् सङ्ख्या­गु­ण­यो­ग­म­भा­वस्य मत्वा द्रव्य­त्वे­ना­भावः केनचित् परिकल्प्यते । एतदुक्तं भवति - यथा ह्यभावस्य द्रव्या­न्त­र्भा­व­मा­श­ङ्क­मा­न­स्या­भावे गुणा­श्र­य­त्व­द्र­व्य­त्व­भ्रान्तिः, तथा वादिनामपि तत्र वस्तुतो भाव­प्र­ति­यो­गि­क­त्व­ज­न्मा­श्र­य­त्वा­दि­र­स्तीति भ्रान्तिरिति ।

अभावस्य वस्तुतो जन्मा­दि­रू­प­भा­व­ध­र्मा­श्र­यत्वे बाधकमाह —
न ह्यभाव इत्यादिना ।
भावधर्माश्रयस्य भाव­त्व­नि­य­म­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

विशेषणसहभावीति ।
विशेषणाश्रय इत्यर्थः । नन्वे­क­स्या­भा­वस्य जन्मा­दि­क­ल्प­ना­स्प­दस्य ब्रह्म­तु­ल्य­यो­ग­क्षे­म­स्या­ङ्गी­कारे द्वैतापत्तिरिति चेत् , नायं दोषः ; भावा­द्वै­ता­भि­प्रा­ये­णास्य भाष्यस्य प्रवृ­त्त्यु­प­पत्तेः । वस्तुतस्तु अयमभावो न ब्रह्मा­ति­रिक्तः, ब्रह्मणि कल्पि­त­घ­टा­दि­प्र­ति­यो­गि­क­त्वात् कल्पि­त­प्र­ति­यो­गि­का­भा­व­स्या­धि­ष्ठा­ना­न­ति­रे­का­दिति मन्तव्यम् ।

साध्यस्य मोक्षस्य स्वरूपेण नित्य­त्वा­यो­गेऽपि प्रवाहनित्यत्वं सम्भवतीति शङ्कते —
विद्या­क­र्म­क­र्तु­रिति ।

कर्तुरात्मनो नित्यत्वादात्मा सन्ततं विद्याकर्मणी कुर्वन्नेवास्ते ; तथा च विद्या­क­र्म­ल­क्ष­ण­सा­ध­न­स­न्ता­न­ज­नितो मोक्षोऽपि सन्ततोऽवतिष्ठते । प्रवाहनित्यत्वे दृष्टान्तमाह —
गङ्गेति ।

नेति ।
मुक्तिकालेऽपि साध­ना­नु­ष्ठा­तृ­त्व­रू­पस्य कर्तृ­त्व­स्या­नु­वृ­त्त्यु­प­गमे मुक्त्युच्छेदः, तस्य दुःखात्मकत्वात् ; एतद्दोषपरिहाराय तदा तदुपरमोपगमे च मोक्षस्यापि विच्छे­दा­द­नि­त्यत्वं तद­व­स्थ­मे­वे­त्यर्थः ।

तस्मादिति ।
मोक्षस्य साध्यत्वे नित्य­त्व­भ­ङ्ग­प्र­स­ङ्गा­दि­त्यर्थः । काम आदिपदार्थः । कर्मो­पा­दा­न­हे­तो­र­वि­द्या­दे­र्नि­वृत्तौ सत्यामित्यर्थः ।

ननु ब्रह्मा­त्म­ना­व­स्थानं मोक्षः ‘ब्रह्म वेद ब्रह्मैव भवति’ इति श्रुतेः, न त्वात्म­न्य­व­स्था­न­मिति शङ्कां निराकरोति —
स्वयं चेति ।

नन्व­वि­द्या­दि­नि­वृ­त्ति­रेव कर्मसाध्या अस्तु, तथा च कर्मभिरेव मोक्ष इति ; नेत्याह —
तद्विज्ञानादिति ।
कर्म­णा­म­वि­द्या­नि­व­र्तने साम­र्थ्या­भा­वा­दिति भावः । इति-शब्दो विचा­र­स­मा­प्त्यर्थः ।

एवं कर्मणां मुक्तिहेतुत्वं निरस्य आदौ ब्रह्मविद्या प्रस्तूयत इति यदुक्तं तदेवोपसंहरति —
अतो ब्रह्म­वि­द्या­र्थेति ।
ब्रह्मविद्याया एव मुक्ति­सा­ध­न­त्वा­दि­त्यर्थः ।

ब्रह्म­वि­द्या­या­मु­प­नि­ष­च्छ­ब्द­प्र­सि­द्धि­रपि विद्याया एव निःश्रे­य­स­सा­ध­नत्वे प्रमा­ण­मि­त्या­श­ये­नो­प­नि­ष­च्छ­ब्दा­र्थ­माह —
उपनिषदितीति ।
अत्र सामीप्यवाचिना उपोपसर्गेण प्रतीचो ब्रह्म­सा­मी­प्य­मु­च्यते । तच्च सामीप्यं तयोरभेदरूपं विवक्षितम् । नि-शब्दो निश्चयार्थः । तथा च उपसर्गद्वयेन तयो­र­भे­द­नि­श्च­य­रूपा विद्योच्यते । विशरणावसादनगतयो धात्वर्थाः । क्विप्प्र­त्य­य­श्चात्र कर्तरि विवक्षितः । ततश्च प्रत्य­ग्ब्र­ह्मै­क्य­गो­चरा विद्या विदुषामनर्थं शातयति अवसादयति वा तान्ब्रह्म गमयतीति वा उपनिषत्पदेन सफला ब्रह्म­वि­द्यो­च्यत इत्यर्थः ।

एतदेव विवृणोति —
तच्छीलिनामिति ।
ब्रह्म­वि­द्या­भ्या­स­शी­ल­व­ता­मि­त्यर्थः । शातनं शिथिलीकरणम् , तेषां गर्भा­दी­ना­म­व­सा­दनं नाशनम् । उप­नि­ग­म­यि­तृ­त्वात् प्रत्यक्तया प्राप­यि­तृ­त्वा­दि­त्यर्थः ।

एवमुपनिषत्पदस्य ‘षदॢ विश­र­ण­ग­त्य­व­सा­द­नेषु’ इति वैया­क­र­ण­प्र­सि­द्धि­म­नु­सृ­त्या­र्थ­त्रयं दर्शितम् । इदानीं स्वय­म­र्था­न्त­र­माह —
उप निषण्णं वेति ।
उप सामीप्येन विषयतया अस्यां विद्यायां ब्रह्मस्वरूपं परं श्रेयो नितरामबाधिततया स्थितमित्यर्थः ।

उपनिषत्पदस्य ग्रन्थे प्रसिद्धिं घटयति —
तदर्थत्वादिति ।
विद्या­प्र­यो­ज­न­क­त्वा­द्ग्र­न्थोऽ­प्यु­प­नि­ष­त्प­देन निरूढलक्षणया व्यवह्रियत इत्यर्थः । अत्र व्याख्येयस्य ग्रन्थस्य ब्रह्म­वि­द्या­र्थ­त्वोक्त्या तस्य मानान्तरानधिगतं ब्रह्म विषयः तद्विद्याद्वारा मुक्तिः प्रयोजनम् , तत्का­मोऽ­धि­का­रीति सूचितं भवति ॥

एवं विष­या­दि­म­त्त्वा­दु­प­नि­षदो व्याख्यारम्भं समर्थ्य व्याख्यामारभते —
शं सुखमित्यादिना ।
शमित्यस्य सुखकृदित्यर्थः ।

चक्षुषीति ।
चक्षु­ष्या­दि­त्य­म­ण्डले च वर्त­मा­न­स्त­यो­र­भि­मा­नी­त्यर्थः ।

बल इति ।
बाह्वो­र्ब­लेऽ­भि­मा­नि­त्वेन वर्तमानो देव इन्द्र इत्यर्थः । वाचि बुद्धौ वागभिमानी गुरुरित्यर्थः ।

विस्तीर्णक्रम इति ।
त्रिवि­क्र­मा­व­तारे विस्ती­र्ण­पा­दो­पेत इत्यर्थः ।

शरी­र­स्थ­प्रा­ण­क­र­णा­भि­मा­नि­नीनां देवतानां सुखकृत्त्वं किमिति प्रार्थ्यते ? अत्राह —
तासु हीति ।
विद्यार्थं श्रवणम् , श्रुत­स्या­वि­स्म­रणं धारणम् , शिष्येभ्यः प्रतिपादनं विनियोगः । शमा­दि­क­मा­दि­प­दार्थः ।

नमो ब्रह्मण इत्या­दे­स्ता­त्प­र्य­माह —
ब्रह्म विविदिषुणेति ।
त्वं ब्रह्मेति वदनक्रिया ब्रह्मवदनक्रिया ।

परोक्षेति ।
नमो ब्रह्मण इत्यत्र वायोः सम्बोधनाभावात् परोक्षतया निर्देश इत्यर्थः । उत्तरवाक्ये वायुपदेन सम्बो­ध­ना­त्प्र­त्य­क्ष­तया निर्देश इत्यर्थः । यद्वा ब्रह्मेति पारोक्ष्येण निर्देशः, वायो­र्ब्र­ह्म­श­ब्दि­त­सू­त्रा­त्म­ता­रू­पेण परोक्षत्वात् , वायुशब्देन च प्रत्यक्षतया निर्देशः, प्राणवायुरूपेण नमस्कार्यस्य वायोः प्रत्य­क्ष­त्वा­दि­त्यर्थः । किं चेत्यस्य त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामीत्यनेन सम्बन्धः ।

वायोः प्रत्य­क्ष­ब्र­ह्म­त्व­व­दने हेतुपरं त्वमेवेति वाक्यं व्याचष्टे —
त्वमेव चक्षु­रा­द्य­पे­क्ष्ये­त्या­दिना ।
बाह्य­म­प्र­त्यक्षं चक्षु­रा­द्य­पेक्ष्य, त्वमेव प्रत्यक्षं ब्रह्मासीति सम्बन्धः ।

प्रत्यक्षत्वे हेतु­र­व्य­व­हि­त­त्वम् ; तदेव विवृणोति —
संनिकृष्टमिति ।
त्वगि­न्द्र­य­सं­नि­कृ­ष्ट­मि­त्यर्थः ।

वदिष्यामीति ।
वदामीत्यर्थः ।

ऋत­स­त्य­श­ब्द­यो­र­पु­न­रु­क्त­मर्थं वदन्नेव तौ व्याचष्टे —
ऋतमित्यादिना ।

स एवेति ।
शास्त्रानुसारेण कर्तव्यतया निश्चितार्थ एवेत्यर्थः ।

त्वदधीन एवेति ।
कर्मसम्पादनस्य प्राण­वा­य्व­धी­न­त्व­द­र्श­ना­दिति भावः ।

सर्वात्मकमिति ।
सम­ष्टि­व्य­ष्ट्या­त्म­क­मि­त्यर्थः । वायोः सूत्रात्मरूपेण समष्टिशब्दितं व्यापकत्वम् , अस्म­दा­दि­प्रा­ण­रू­पेण व्यष्टिशब्दितं परिच्छिन्नत्वं चेत्युभयं परो­क्ष­प्र­त्य­क्ष­नि­र्दे­शाभ्यां प्रकृतमिति मत्वा तत्स­र्वा­त्म­क­मिति सर्वनामप्रयोग इति मन्तव्यम् ।

एवं स्तुतमिति ।
उक्तप्रकारेण ब्रह्म­व­द­न­क्रि­यया स्तुतमित्यर्थः । इदमुपलक्षणम् । नमस्कृतं चेत्यपि द्रष्टव्यम् , तस्यापि पूर्वं कृतत्वात् ।

आध्यात्मिकेति ।
ज्वरशिरोरोगादय आध्यात्मिकाः, चोर­व्या­घ्रा­द्यु­प­द्रवा आधिभौतिकाः, यक्ष­रा­क्ष­सा­द्यु­प­द्रवा आधिदैविका इति विभागः ॥