अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: सप्तमोऽनुवाकः

असदिति पदेनाव्याकृतं ब्रह्मोच्यत इति सम्बन्धः । तत्रा­स­च्छ­ब्द­प्र­योगे हेतुमाह –
व्याकृतेति ।
व्याकृतौ व्यक्तीकृतौ नामरूपात्मकौ विशेषौ यस्य जग­त­स्त­स्मि­न्स­च्छ­ब्दस्य प्रसि­द्ध­त्वा­त्त­द्वि­प­रीते कारणे ब्रह्म­ण्य­स­च्छ­ब्द­प्र­योग इत्यर्थः ।

नन्वसत्पदस्य शून्यवाचित्वमेव किं न स्यात् ? तत्राह –
न पुनरिति ।

तत्र हेतुः –
न हीति ।
हि यस्मादसतः सकाशात्सतः कार्यस्य जन्म लोके नास्ति तस्मादत्र सज्ज­न्म­हे­तु­त्वेन श्रूय­मा­ण­म­स­द­त्य­न्ता­सन्न भवतीत्यर्थः ।

इदमिति पदस्यार्थमाह –
नामरूपेति ।

तत इति ।
कारणादित्यर्थः ।

स्वयमिति ।
स्वय­म­न्या­न­धि­ष्ठितं सदात्मानमेव जगदात्मना कृतवदित्यर्थः ।

यस्मादेवमिति ।
यस्माद्ब्रह्म स्वयमेव कृतवदित्यर्थः । सूपसर्गस्य शोभनवाचिनः स्वयं­श­ब्द­नि­र्दि­ष्ट­म­प­र­त­न्त्र­त्व­ल­क्षणं शोभनमर्थः । कर्मार्थकस्यापि क्तप्रत्ययस्य च्छान्दस्या प्रक्रियया कर्तृ­त्व­वा­चि­त्व­स्वी­का­रा­त्कृ­त­मि­त्यस्य कर्त्रर्थः । तथा च तस्मादिति हेतुवचनानुसारेण स्वयं कर्तृत्ववेषेण ब्रह्मैव सुकृतमित्युच्यत इत्यर्थः ।

ननु ब्रह्मण एव स्वयं कर्तृ­त्वा­त्सु­कृ­त­श­ब्द­वा­च्य­त्व­मि­त्य­युक्तं ब्रह्मा­न्य­स्यापि कस्यचित्स्वयं कर्तृ­त्व­स­म्भ­वा­दि­त्या­श­ङ्क्याह –
स्वयमिति ।
लोकशब्दिते शास्त्रे सम­स्त­ज­ग­त्का­र­ण­त्वा­द्ब्र­ह्मैव स्वय­म­न्या­न­धि­ष्ठि­त­तया जगत्कर्त्रिति प्रसिद्धं नान्यत् , अतो नातिप्रसङ्ग इति भावः ।

'तदात्मानं स्वयमकुरुत’ ‘तस्मा­त्त­त्सु­कृ­त­मु­च्यते’ इति वाक्यद्वयं पुनरपि योज­य­न्प्र­का­रा­न्त­रेण ब्रह्मणः सुकृ­त­श­ब्द­वा­च्य­त्व­माह –
यस्माद्वेति ।
यद्वा ब्रह्म स्वयमात्मानमेव सर्वं जगदकरोत् यस्मादात्मानमेव सर्व­ज­ग­दा­त्म­ना­क­रो­त्त­स्मा­त्त­देव कारणं ब्रह्म पुण्य­रू­पे­णा­प्य­व­स्थितं सत्सुकृतमुच्यत इति योजना ।

'असद्वा इदमग्र आसीत्’ इति प्रकृतश्लोके ‘तस्मा­त्त­त्सु­कृ­त­मु­च्यते’ इति भागस्य ब्रह्मणः सुकृ­त­श­ब्द­वा­च्य­त्व­सा­धने न तात्पर्यं वैफल्यात् , किं तु ब्रह्मा­स्ति­त्व­सा­धन एव तात्पर्यं तत्परतयैवास्य श्लोक­स्या­व­ता­रि­त­त्वा­दि­त्या­श­येन सुकृ­त­श­ब्द­वा­च्येऽ­नास्थां प्रद­र्श­य­न्ब्र­ह्मा­स्ति­त्व­सा­धने उपयोगं सुकृतवाक्यस्य दर्शयति –
सर्वथापि त्वित्यादिना ।
यदि प्रसि­द्धि­ब­ला­त्पुण्यं सुकृतशब्दवाच्यं यदि वास्म­दु­क्त­रीत्या ब्रह्म उभयथापि सुकृतशब्दवाच्यं स्वर्गा­दि­फ­ल­स­म्ब­न्धा­दि­का­रणं लोकशब्दिते शास्त्रे प्रसि­द्ध­मि­त्यर्थः । तत्र पुण्यस्य फल­स­म्ब­न्ध­त­त्सा­ध­न­दि­व्य­दे­हा­दि­स­म्ब­न्ध­का­र­णत्वं कर्मकाण्डे प्रसिद्धम् , स्वयं कर्तृतया सुकृ­त­श­ब्द­वा­च्यस्य ब्रह्मणोऽपि फल­स­म्ब­न्धा­दि­का­र­ण­त्वम् ‘श्रुतत्वाच्च’ इति सूत्रो­दा­हृ­त­श्रु­ति­प्र­सि­द्ध­मिति विभागः । फलदातृत्वस्य श्रुति­सि­द्ध­त्वा­दु­प­प­त्तेश्च ब्रह्मैव फलदातृ, न कर्म आशु­त­र­वि­ना­शि­त्वा­दिति सूत्रार्थः ।

ततः किम् ? अत आह –
सा प्रसिद्धिरिति ।
सुकृ­त­श­ब्द­वा­च्य­पु­ण्यस्य सा फल­स­म्ब­न्धा­दि­का­र­ण­त्व­प्र­सिद्धिः आशुतरविनाशिनो जडस्य पुण्यकर्मणः स्वतः फल­दा­तृ­त्वा­यो­गा­न्नित्ये सर्वज्ञे ब्रह्मणि सत्येवोपपद्यत इत्यर्थः । ब्रह्मणः सुकृ­त­श­ब्द­वा­च्य­त्व­पक्षे तु सा ब्रह्मणि फल­स­म्ब­न्धा­दि­का­र­ण­त्व­प्र­सि­द्धि­स्त­स्या­सत्त्वे नोपपद्यत इति बहिरेव द्रष्टव्यम् ।

उपसंहरति –
तस्मादिति ।
सुकृतस्य फल­स­म्ब­न्धा­दि­का­र­ण­त्व­प्र­सि­द्धे­रि­त्यर्थः ।

रसत्वादिति ।
आनन्दत्वादिति यावत् । यत्सु­कृ­त­श­ब्द­वा­च्य­त्वेन प्रसिद्धं ब्रह्म तदेव रसः । विधेयापेक्षया पुंलि­ङ्ग­नि­र्देशः ।

रसशब्दो ब्रह्मानन्दे गौण इति मत्वा गुणज्ञानाय मुख्यार्थमाह –
रसो नामेति ।
तृप्तिपदं तुष्टिपरम् । एवं ब्रह्मानन्दोऽपि सत्त्व­प्र­धा­नेऽ­न्तः­क­र­णेऽ­भि­व्यक्तः सन्प्रा­णि­ना­मा­न­न्द­कर इति प्रागभिहितम् । तथा चान­न्द­क­र­त्व­सा­म्या­द्र­स­शब्दो ब्रह्मानन्दे गौण इति भावः ।

रसमिवायमिति ।
अयं लोकः प्रसि­द्ध­र­स­स­दृ­श­मा­त्मा­नन्दं वृत्तिद्वारा लब्ध्वेत्यर्थः ।

सुखी भवतीति ।
तथा चान­न्द­क­र­त्वा­दा­न­न्द­रूपं ब्रह्मास्तीति भावः ।

ननु ब्रह्मणः सत्त्वा­भा­वेऽ­प्या­न­न्द­हे­तु­त्व­मस्तु ; नेत्याह –
नासत इति ।

ननु विष­या­णा­मे­वा­न­न्द­हे­तुत्वं न ब्रह्मा­न­न्द­स्ये­त्या­शङ्क्य विष­य­शू­न्या­ना­म­प्या­न­न्द­द­र्श­ना­न्मै­व­मि­त्याह –
बाह्येति ।
बाह्यत्वं साधनविशेषणम् । निरीहाः सम­स्त­क­र­ण­चे­ष्टा­व­र्जिताः, समाधिनिष्ठा इति यावत् । निरेषणाः नीरागाः विद्वांसः, साक्षा­त्कृ­त­ब्र­ह्म­तत्त्वा इति यावत् ।

तेषामानन्दकारणं ब्रह्मैवेति निश्चीयत इत्याह –
नूनमिति ।

एवं विष­या­भा­वेऽ­प्या­न­न्द­द­र्श­ना­द्वि­ष­या­नु­स­न्धा­न­स्थ­लेऽपि विषयाणां वृत्ति­वि­शे­ष­द्वारा स्वरू­पा­न­न्द­व्य­ञ्ज­क­त्व­मेव, नावि­द्य­मा­ना­न­न्द­स्व­रू­पो­त्पा­द­क­त्व­मिति प्रागावेदितम् ; अतः सर्व­प्रा­ण्या­न­न्द­हे­तु­त्वा­दस्ति तदानन्दकारणं ब्रह्मे­त्यु­प­सं­ह­रति –
तस्मादिति ।
तेषा­मि­त्यु­प­ल­क्ष­णम् , सर्व­प्रा­णि­ना­मि­त्यर्थः ।

इतश्चेति ।
वक्ष्य­मा­ण­हे­तो­रपि ब्रह्मास्ति ।

तमेव हेतु­मा­का­ङ्क्षा­पू­र्व­क­माह –
कुत इत्यादिना ।

हेतुं साधयति –
अयमपि हीति ।
अपि­श­ब्दोऽ­नु­क्त­स­मु­च्च­यार्थः सन्ना­धि­दै­वि­का­दि­पि­ण्ड­स­ङ्ग्र­हार्थः । अध्या­त्मा­धि­भू­ता­धि­दै­वि­केषु पिण्डेषु प्राणनादिक्रिया प्रत्य­क्षा­नु­मा­ना­दि­प्र­सि­द्धेति सूचनार्थो हि-शब्दः ।

मृतदेहं व्यावर्तयति –
जीवत इति ।

'को ह्येवान्यात्कः प्राण्यात्’ इति श्रुतौ प्राणा­पा­न­ग्र­ह­ण­मु­प­ल­क्ष­ण­मि­त्या­श­ये­नाह –
इत्येवमिति ।

संहतैरिति ।
यथा मृद्दा­रु­तृ­णा­दीनि गृह­प्रा­सा­दा­दि­भा­वेन संहन्यन्ते तथा शरीरभावेन कार्यकरणानि संहन्यन्त इति भावः ।

ततः किमित्यत आह –
तच्चैकार्थेति ।
कार्य­क­र­णा­ना­मे­कस्य चेतनस्यार्थं प्रयोजनं प्रति साधनत्वेन मेलनमित्यर्थः ।

असंहतमिति ।
संह­त­का­र्य­क­र­ण­व्य­ति­रि­क्त­मि­त्यर्थः ।

अन्यत्रेति ।
गृहप्रासादादिषु स्वतन्त्रं चेतनं स्वामिनमन्तरेण संह­न­न­स्या­द­र्श­ना­त्का­र्य­क­र­ण­स­ङ्घा­तेऽपि तद्विलक्षणः स्वामी चेतनोऽस्तीति निश्चीयते । स च चेतनः प्रतिशरीरं भेदेऽ­न­न्य­था­सि­द्ध­प्र­मा­णा­भा­वा­त्स­र्वा­त्मकं ब्रह्मैवेति तद­स्ति­त्व­सि­द्धि­रि­त्यर्थः ।

इतश्चेत्यादिना प्रसाधितेऽर्थे वाक्यमवतारयति –
तदाहेति ।
तत्का­र्य­क­र­ण­चे­ष्टा­शे­षि­त्वेन ब्रह्म­णोऽ­स्ति­त्व­माह श्रुतिरित्यर्थः । ननु ‘आकाश आनन्दो न स्यात्’ इत्य­त्रा­का­शा­न­न्द­प­दयोः सामा­ना­धि­क­र­ण्य­मु­चि­तम् , योगेन निरूढ्या वा आकाशपदस्य ब्रह्मण्यपि प्रयोगसम्भवात् , अत एव ‘आका­श­स्त­ल्लि­ङ्गात्’ इत्यधिकरणे अत्र­त्या­का­श­प­द­स्या­न­न्द­त्व­रू­प­ब्र­ह्मा­सा­धा­र­ण­गु­ण­श्र­व­णा­द्ब्र­ह्म­प­र­त्व­मा­चा­र्यै­रेवे दर्शितम् ; तथापि गुहा­नि­हि­त­वा­क्या­नु­सा­रात् रूढ्यनुसाराच्च वैय­धि­क­र­ण्य­मु­क्त­मिति मन्तव्यम् ।

न भवेदिति ।
सन्न स्यादित्यर्थः । अपानचेष्टां निःश्वासमिति यावत् ।

यदर्था इति ।
कार्यकरणानां प्राण­ना­द्यु­प­ल­क्षिताः सर्वाश्चेष्टा यदर्थाः यस्यासंहतस्य चेतनस्य भोगार्थाः स चेतनोऽस्त्येव अन्यथा भोक्तुरभावेन कार्य­क­र­ण­चे­ष्टानां वैय­र्थ्य­प्र­स­ङ्गात् तस्य च चेतनस्य वस्तुगत्या ब्रह्मत्वादस्ति तद्ब्र­ह्मे­त्यु­क्तम् ।

तत्कृत एव चेति ।
आत्मानन्दकृत एव लोक­स्या­न­न्द­श्चे­त्यर्थः ।

ननु पर­स्यै­वा­न­न्द­रू­प­त्वा­दा­न­न्द­हे­तु­त्व­म­यु­क्तम् आन­न्द­भे­दा­भा­वा­दि­त्या­श­ङ्क्याह –
स एवेति ।

अविद्ययेति ।
भ्रान्त्या नाना­त्वे­ना­नु­भू­यत इत्यर्थः ।

'यदा ह्येवैषः’ इत्या­दे­स्ता­त्प­र्य­माह –
भयाभयेति ।

नन्वसतः सकाशादेव भयनिवृत्तिरस्तु ; नेत्याह –
सद्वस्त्वाश्रयण इति ।
लोके श्रीरामादेः सत एव भय­नि­वृ­त्ति­हे­तु­त्व­प्र­सि­द्धे­र­सतः शश­शृ­ङ्गा­दे­स्त­द­प्र­सि­द्धेश्च अस­द्ब्र­ह्मा­श्र­य­णा­द्भ­य­नि­वृ­त्ति­र्नो­प­प­द्यत इत्यर्थः ।

ब्रह्मणो विद्व­द­भ­य­हे­तुत्वे मानं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।

विकार इति ।
अध्यस्तमिति यावत् ।

अविषयीभूत इति ।
सर्वदृश्यवर्जित इति यावत् ।

आत्म्य­प­दे­ना­त्मीयं शरीरमुच्यत इत्याशयेनाह –
अशरीर इति ।

यस्माच्चेति ।
च-शब्दोऽ­व­धा­र­णार्थः । यस्मा­द्धे­तो­र­नात्म्यं ब्रह्म तस्मादेव हेतो­र­नि­रु­क्त­म­पी­त्यर्थः । अत्रा­त्म्य­नि­रु­क्त­नि­ल­य­नानां दृश्य­वि­शे­ष­त्वा­द्दृ­श्य­सा­मा­न्य­नि­षे­धस्य ‘व्याप­क­नि­वृत्त्या व्याप्य­नि­वृत्तिः’ इति न्याये­ना­त्म्य­नि­रु­क्त­नि­ल­य­न­नि­षे­ध­हे­तु­त्व­मत्र विवक्षितमिति मन्तव्यम् ।

विशेषो हीति ।
स विशेषः पदार्थ इत्यर्थः । निरुच्यते समा­ना­स­मा­न­जा­ती­येभ्यो निष्कृष्योच्यत इत्यर्थः । घटा­दि­र­त्रो­दा­ह­र­णम् ।

यत एवमिति ।
यतः अदृ­श्य­त्वा­द्धे­तो­र­नि­रुक्तं ब्रह्म तस्मादेव हेतोरनिलयनम् आधा­र­र­हि­त­मि­त्यर्थः । यद्वा यथा­श्रु­ता­नु­रो­धेन पूर्व­पू­र्व­नि­षे­ध­स्यै­वो­त्त­रो­त्त­र­नि­षे­ध­हे­तुत्वं बोध्यम् ।

एवं व्याख्यातानि पदान्यनूद्य वाक्यार्थमाह –
तस्मि­न्ने­त­स्मि­न्नि­त्या­दिना ।
सर्वकार्यपदं दृश्य­मा­त्रो­प­ल­क्ष­णा­र्थम् , अन्यथा मूला­वि­द्या­दि­वै­ल­क्ष­ण्य­सि­द्ध्य­भा­व­प्र­स­ङ्गा­दिति बोध्यम् ।

क्रिया­वि­शे­ष­ण­मिति ।
अभयं यथा भवति तथा विन्दत इति लाभ­क्रि­या­वि­शे­ष­ण­मि­त्यर्थः ।

प्रति­ष्ठा­वि­शे­षणं वेत्याह –
अभयामिति वेति ।

आत्मभावमिति ।
सर्वविशेषरहितं ब्रह्माहमिति साक्षा­त्का­रा­भि­व्य­ङ्ग्य­मिति शेषः ।

अदर्शनादिति ।
वस्तुत इति शेषः । विदुषोऽपि बाधि­त­द्वै­त­द­र्श­ना­भ्यु­प­ग­मा­दिति मन्तव्यम् ।

अभयप्राप्तिमेव विवृणोति –
स्वरूपप्रतिष्ठो हीति ।
यत्र यस्मिन्स्वरूपे स्थितो विद्वा­न्व­स्तु­तोऽ­न्यन्न पश्यति अन्यन्न शृणोति अन्यन्न विजानाति च, तादृ­श­स्व­रू­प­प्रि­त­ष्ठोऽसौ विद्वान् तदा विद्याकाले भवतीति मन्त­व्य­मि­त्यर्थः ; अद्वितीयं ब्रह्मैव तदा भवतीति यावत् । तत्र ‘ब्रह्म वेद ब्रह्मैव भवति’ इत्या­दि­श्रु­ति­प्र­सि­द्धि­सू­च­नार्थो हि-शब्दः ।

ननु विदु­षोऽ­न्य­द­र्श­ना­भा­वेऽपि कथं भय­नि­वृ­त्ति­रि­त्यत आह –
अन्यस्य हीति ।

ननु स्वस्मादपि स्वस्य भयं किं न स्यादि­त्या­श­ङ्क्याह –
नात्मन इति ।
तथा सति ‘द्वितीयाद्वै भयं भवति’ इति श्रुति­वि­रो­ध­प्र­स­ङ्गा­द­नु­भ­व­वि­रो­ध­प्र­स­ङ्गा­च्चेति भावः ।

अनात्मैवेति ।
स च विदुषो वस्तुतो नास्ति, अतः ‘अथ सोऽभयं गतो भवति’ इति वचनमुपपन्नमिति भावः ।

यदुक्तं विद्व­द­भ­य­हे­तु­त्वा­दस्ति ब्रह्मेति तदनुभवेन साधयति –
सर्वत इति ।
ब्राह्मणा ब्रह्मविदः ।

भयहेतुष्विति ।
शरीरप्रतिकूलेषु सर्प­व्या­घ्रा­दि­ष्वि­त्यर्थः ।

उक्तमर्थं सङ्क्षिप्य प्रश्नपूर्वकमाह –
कदासावित्यादिना ।

तैमिरिकेति ।
यथा तैमिरिको दुष्टनेत्रः पुरुषो वस्तुत एकस्मिन्नेव चन्द्रे चन्द्रभेदं पश्यति तथा एक­स्मि­न्ने­वा­त्म­स्व­रूपे ब्रह्म­ण्य­वि­द्यया कल्पितं भेदरूपं वस्तु यदा पश्यतीत्यर्थः ।

अवि­द्या­प्र­त्यु­प­स्था­पि­त­भे­द­व­स्तु­द­र्श­न­मे­वा­क्ष­र­व्या­ख्या­न­पू­र्वकं विवृणोति –
उदित्यादिना ।

नन्व­त्रा­न्त­र­श­ब्दि­त­स्या­त्म­ब्र­ह्म­भे­द­स्या­ना­दि­त्वा­द­न्तरं कुरुत इत्य­नु­प­प­न्न­मि­त्या­श­ङ्क्याह –
भेददर्शनमिति ।

इतश्चान्तरपदं भेददर्शनपरमेव न भेदपरमित्याह –
भेददर्शनमेव हीति ।

अल्पमपीति ।
उपा­स्यो­पा­स­क­भा­वो­पे­त­म­पी­त्यर्थः ।

आत्मन इति ।
भेदेन दृष्टा­दी­श्व­रा­दि­त्यर्थः ।

उक्तमर्थं सङ्क्षिप्याह –
तस्मादिति ।
स्वरूपभूतोऽपि परमात्मा तद्भेददर्शिनो भय­का­र­ण­मि­त्युक्तं भवतीत्यर्थः ।

अस्मिन्नर्थे उत्त­र­वा­क्य­म­व­तार्य व्याचष्टे –
तदेतदाहेति ।

विद्वानपीति ।
य एक­रू­प­म­द्वि­ती­य­मा­त्म­न­स्तत्त्वं न पश्यति, सोऽयं विद्वानपि सक­ल­वे­द­शा­स्त्र­वि­दपि अविद्वानेव भय­म­ध्य­स्थ­त्वा­दि­त्यर्थः ।

नन्वविदुषः स्वस्ये­श्व­रा­द्भेदं पश्यतोऽपि कथं भयसम्भावना ? तत्राह –
उच्छेदेति ।
उच्छेदो नाशपीडादिः, तत्का­र­ण­व­स्तु­ज्ञा­ना­दु­च्छे­द्य­त्वे­ना­भि­म­तस्य प्राणिवर्गस्य भयं भवतीत्यर्थः । तच्च सर्वो­च्छे­द­हे­तु­भूतं वस्तु ब्रह्मै­वे­त्या­शयः ।

कुत इत्यत आह –
अनुच्छेद्यं हीति ।
उच्छे­द­हे­तो­र­प्यु­च्छे­द्यत्वे तस्य तस्यान्य उच्छे­द­हे­तु­र्व­क्तव्य इत्य­न­व­स्था­प्र­स­ङ्गा­न्नि­त्यत्वं वक्तव्यम् ; तच्च ब्रह्मणोऽन्यत्र न सम्भाव्यते, ‘अतोऽ­न्य­दा­र्तम्’ इति श्रुत्या तदतिरिक्तस्य सर्वस्य नाश­प्र­ति­पा­द­ना­दिति भावः ।

एवं भेददर्शिनः प्राणिवर्गस्य भयकारणं ब्रह्मेति वदतो वाक्यसन्दर्भस्य ब्रह्मा­स्ति­त्व­सा­धने तात्पर्यमादौ सङ्गृहीतं प्रपञ्चयति –
तन्नासतीति ।
तस्मा­दु­च्छे­द­हे­तु­द­र्श­न­कार्यं भयं जगतो दृश्यमानं स्वय­म­नु­च्छे­द्य­स्व­भावे परे­षा­मु­च्छे­द­हे­ता­व­सति न युक्तमिति योजना ।

ननु तद्दर्शनकार्यं भयं जगतो नास्तीति वदन्तं प्रत्याह –
सर्वं चेति ।

अनु­च्छे­दा­त्म­क­मिति ।
नित्यमिति यावत् ।

यत इति ।
यतो जगद्बिभेति तद्भयकारणमस्ति नूनं निश्चय इत्यर्थः ॥