वनमालाव्याख्या
भृगुवल्ली: दशमोऽनुवाकः
तथेति ।
अन्नान्नादत्वगुणकत्वेन पृथिव्याकाशद्वयोपासकस्य स्वगृहे वासार्थमागतं न निवारयेदित्येतद्व्रतमित्यर्थः ।
बह्वन्नसङ्ग्रहे वसत्यर्थमागतानामप्रत्याख्यानरूपं व्रतमेको हेतुरुक्तः ; तत्रैव विद्वदाचाररूपं हेत्वन्तरमाह –
यस्मादिति ।
एवं सङ्गृहीतमन्नं सर्वदा पूजापुरःसरमेवार्थिभ्यो देयं नान्यथा ‘श्रद्धया देयम्’ इत्यादिदर्शनादित्याशयेनाह –
अपि चान्नदानस्येति ।
तत्र मानं पृच्छति –
कथमितीति ।
श्रुत्योत्तरमाह –
तदेतदाहेति ।
मुख्यामेव वृत्तिं विवृणोति –
पूजेति ॥
यथोक्तमिति ।
कार्यकरणसङ्घातोपचयादिद्वारा ब्रह्मविद्यासाधनत्वरूपमित्यर्थः । फलं च वेदेति सम्बन्धः ।
श्रुतौ ‘य एवं वेद’ इत्यस्यापेक्षितं पूरयति –
तस्येति ।
यथोक्तम् अन्नदानादिफलमित्यर्थः ।
'प्राणो वा अन्नम्’ इत्यारभ्याब्रह्मोपासनान्युक्तानीति सूचयति –
इदानीमिति ।
उपात्तपरिरक्षणमिति ।
स्थितपरिपालनमित्यर्थः ।
योगक्षेम इतीति ।
प्राणे योगरूपेण अपाने क्षेमरूपेण च ब्रह्म प्रतिष्ठितमित्युपास्यमिति विभागः ।
प्राणापानयोर्योगक्षमरूपेण ब्रह्मदृष्ट्यालम्बनत्वे हेतुमाह –
तौ हीति ।
ननु यदि प्राणापानाधीनौ योगक्षेमौ तर्हि तावेव प्राणापानयोर्द्रष्टव्यौ न तु ब्रह्मेत्याशङ्क्याह –
तथापीति ।
प्राणापाननिमित्तकत्वेऽपीत्यर्थः ।
ब्रह्मनिमित्ताविति ।
ब्रह्मनिमित्तावपीत्यर्थः । ब्रह्मणः सर्वफलदातृत्वस्य शास्त्रसिद्धत्वादिति भावः ।
ब्रह्मनिर्वर्त्यत्वादिति ।
ब्रह्मणः कारयितृत्वादिति भावः । विमुक्तिर्विसर्गः ।
मानुष्य इत्यस्य पर्यवसानमाह –
आध्यात्मिक्य इति ॥
पुत्रेणेति ।
पुत्रजन्मना पितृऋणमोक्षद्वारेण या पितुरमृतत्वप्राप्तिः सा अत्रामृतपदेन विवक्षितेत्यर्थः ।
उपस्थनिमित्तमिति ।
यस्मादेतत्सर्वमुपस्थहेतुकं तस्मादनेनैव रूपेण ब्रह्म तत्र स्थितमित्युपास्यमित्यर्थः । इदमुपासनम् ‘विमुक्तिरिति पायौ’ इत्यत्रैव द्रष्टव्यम् । आध्यात्मिकत्वात् ।
सर्वं हीति ।
हि यस्मात्सर्वमाकाशे प्रतिष्ठितं तस्माद्यत्सर्वमाकाशे वर्तते तत्सर्वरूपेणाकाशे ब्रह्मैव प्रतिष्ठितमित्युपास्यमित्यर्थः ।
'तत्प्रतिष्ठा...’ इत्यत्र ब्रह्माभिन्नमाकाशमुपास्यं केवलस्याकाशस्योपास्यत्वायोगादित्याशयेन तस्य ब्रह्माभिन्नत्वमाह –
तच्चेति ।
सर्वाश्रयत्वेन प्रकृतमित्यर्थः ।
तस्मात्तदिति ।
व्यापकत्वनिर्लेपत्वनिरवयवत्वसूक्ष्मत्वसर्वाश्रयत्वादिरूपलक्षणसाम्येनाकाशस्य ब्रह्माभिन्नत्वसम्भवात्तद्ब्रह्मभूतमाकाशमित्यर्थः ।
प्रतिष्ठावानिति ।
अन्नपानादिभिः स्थितिमानित्यर्थः ।
ननु ‘क्षेम इति वाचि’ इत्यादौ फलाश्रवणात्कथं तदुपासनेषु प्रवृत्तिरित्याशङ्क्याह –
यद्यत्रेति ।
यत्र वागादौ यत्फलं कार्यं क्षेमादिकं श्रुतं तद्रूपेण ब्रह्मैवोपास्यमित्युक्तमित्यर्थः ।
ततः किम् ? अत आह –
तदुपासनादिति ।
क्षेमादिगुणेन ब्रह्मोपासनात्क्षेमादिमानेव भवत्यौचित्यादिति द्रष्टव्यमित्यर्थः ।
अत्रार्थे श्रुतिमप्याह –
श्रुत्यन्तराच्चेति ।
तदेवेति ।
तदनुरूपमेव फलं भवतीत्यर्थः । ‘तन्महः’ इत्यादौ तत्पदं ब्रह्मपरम् ; तथा च वार्त्तिकम् - ‘तद्ब्रह्म मह इत्येवमुपासीत ततः फलम्’ इत्यादि ॥
परिबृढतममिति ।
विराडात्मकमित्यर्थः ।
ब्रह्मवानिति ।
ब्रह्मणो विराजो यो गुणो भोगः तद्वान्भवतीत्यर्थः ।
परस्येति ।
परस्य मायोपाधिकस्य ब्रह्मणः स्वरूपतयोक्तं यदाकाशं तदाकाशं परिमरत्वगुणकमुपासीतेत्यर्थः ।
आकशस्य परिमरत्वगुणोपपादनाय प्रथमं वायोः परिमरत्वमाह –
परिमर इत्यादिना ।
श्रुत्यन्तरेति ।
वायुं प्रकृत्य ‘तमेताः पञ्च देवता अपियन्ति’ इत्यादिश्रुत्यन्तरप्रसिद्धेरित्यर्थः ।
इदानीमाकाशस्य परिमरत्वं साधयति –
स एवायमिति ।
वायुं प्रत्याकाशस्य कारणत्वाद्वाय्वनन्यत्वमित्यर्थः । तं वाय्वात्मानमाकाशं ब्रह्मणः स्वरूपभूतं परिमरत्वगुणकमुपासीतेत्यर्थः ।
सपत्ना द्विविधाः - द्विषन्तोऽद्विषन्तश्च ; ततः सपत्नानां द्विषन्त इति विशेषणमित्याह –
द्विषन्त इत्यादिना ।
अद्विषन्तोऽपि चेति ।
एनमद्विषन्तोऽपीत्यर्थः ॥
प्राणशरीरादेरन्नान्नादत्वनिरूपणस्य विवक्षितं तात्पर्यं कथयितुं व्यवहितं तदनुवदति –
प्राणो वा अन्नमित्यादिना ।
‘आपो वा अन्नम् , ज्योतिरन्नादम्’ इत्यत्र आपः शरीरारम्भिका विवक्षिताः, ज्योतिश्च जाठरं शरीरारम्भकं वा विवक्षितम् । एवं पृथिव्याकाशावपि शरीरारम्भकावेव विवक्षितौ, प्राणरीरसमभिव्याहारेणाबादीनामाध्यात्मिकत्वावगमात् ; ततश्च शरीरप्राणादीनां प्रत्यगात्मोपाधिभूतानामेव ‘प्राणो वा अन्नम्’ इत्यादिना भोगसाधनत्वरूपमन्नत्वं भोक्तृत्वरूपमन्नादत्वं चोक्तमित्यर्थः ।
उक्तं नाम, किं तेनेति ।
उक्तमस्तु नाम, तेनोक्तेन किं तव प्रयोजनं सिध्यति यदर्थं तदिहानूदितमित्यर्थः ।
तदुक्तिसिद्धं प्रयोजनं कथयति –
तेनैतदिति ।
भोक्तृभोग्यभावादिरूपः सर्वोऽपि संसारः कार्यात्मकोपाधिधर्म एव नात्मधर्म इत्यात्मनो नित्यमुक्तत्वं सिध्यतीत्यर्थः ।
ननु यदि संसारस्य कार्यनिष्ठत्वं श्रुत्यभिमतं तदा जीवात्मापि शरीरप्राणादिवत्कार्यविशेष एवेति तस्य स्वाभाविकः संसारो न भ्रान्तिसिद्ध इति शङ्कते –
नन्वात्मापीति ।
आत्मा कार्यं विभक्तत्वादाकाशादिवदित्यर्थः ।
आगमबाधितमनुमानमित्याशयेन निराकरोति –
नेति ।
असंसारिणः परस्यैव जीवरूपेण प्रवेशश्रवणात्परजीवयोरेकत्वमवगम्यते, ततो नात्मनः कार्यत्वमित्यर्थः ।
सङ्ग्रहं विवृणोति –
तत्सृष्ट्वेत्यादिना ।
न केवलमसंसारिणो जीवरूपेण प्रवेशश्रवणाल्लिङ्गात्परेतरात्मनोरेकत्वनिश्चयः, किं तु क्त्वाश्रुतिबलादपीत्याह –
सृष्ट्वेति ।
स्रष्टा तावत्परमात्मेति निर्विवादम् ; प्रविष्टस्य च ‘पश्यञ्शृण्वन्मन्वानः’ इत्यादौ संसारित्वश्रवणात्प्रवेशे जीवः कर्ता सिद्धः ; तथा च क्त्वाश्रुत्या तयोरेकत्वं निश्चीयते, इतरथा कर्त्रैक्याभावेन क्त्वाश्रुतिविरोधप्रसङ्गादित्यर्थः ।
यदुक्तमसंसारिण एव प्रवेशश्रवणात्परेतरात्मनोरेकत्वमिति, तत्र शङ्कते –
प्रविष्टस्येति ।
प्रविष्टस्य बुद्ध्यादिकार्येषूपादानतया सृष्टिसमय एव सिद्धस्य परस्य जीवरूपभावान्तरात्मना परिणतिरेव प्रवेशो विवक्षितः, अतो न प्रवेशलिङ्गात्तयोरेकत्वसिद्धिरित्यर्थः ।
अस्य चोद्यस्य प्रागेव निरासपूर्वकं प्रवेशपदस्यार्थान्तरपरत्वेन व्याख्यातत्वान्नैवमिति परिहरति –
न, प्रवेशस्येति ।
ननु जीवरूपेण परिणामं विनैव परस्य बुद्धिसम्बन्धात्संसारित्वेन भानमेव प्रवेशपदार्थ इति पूर्वव्याख्यानमयुक्तमिति शङ्कते –
अनेनेति ।
धर्मान्तरेणेति ।
जीवरूपविकारान्तरात्मनैव प्रवेशो न त्वविकृतस्यैव परस्य, अन्यथा जीवेनेति विशेषणवैयर्थ्यापत्तेरित्यर्थः ।
यदि जीवेनेति विशेषणबलाज्जीवस्य ब्रह्मविकारत्वं तत्राभिप्रेतं स्यात्तदा वाक्यशेषविरोधः प्रसज्येतेति दूषयति –
न, तत्त्वमसीतीति ।
जीवस्याकाशादिवद्विकारत्वे तस्य ब्रह्मैक्योपदेशविरोध इत्यर्थः ।
अभेदोपदेशस्यान्यथासिद्धिमाशङ्कते –
भावान्तरेति ।
जीवलक्षणं भावान्तरं विकारान्तरमापन्नस्यैव सतः परस्य संसारित्वप्राप्तौ तदपोहार्था जीवपरयोरभेदध्यानलक्षणा सम्पत् ‘तत्त्वमसि’ इत्युपदिश्यते, न पुनर्जीवस्य ब्रह्मविकारत्वविरुद्धम् ऐक्यमुपदिश्यते, अतो न वाक्यशेषविरोध इत्यर्थः ।
'तत्त्वमसि’ इति वाक्यस्य सम्पदुपासनापरत्वे मानाभावाज्जीवस्य विकारत्वे नाशापत्त्या ‘न जीवो म्रियते’ इति वाक्यशेषविरोधाद्वास्तवस्य संसारस्य सम्पदापोहासम्भवाच्च ‘तत्त्वमसि’ इत्यैक्योपदेश एव ‘सोऽयं देवदत्तः’ इतिवदिति परिहरति –
न, तत्सत्यमिति ।
ननु जीवस्य ब्रह्मत्वं संसारित्वानुभवविरुद्धम् , अतो जीवस्य विकारत्वाभावेऽपि ब्रह्मभिन्नत्वात्सम्पत्परमेव ‘तत्त्वमसि’ इति वाक्यमित्याशयेन शङ्कते –
दृष्टमिति ।
आत्मनः संसारोपलब्धृत्वान्न संसारधर्मकत्वमुपलभ्यमानस्य नीलपीतादेरुपलब्धृधर्मत्वादर्शनादित्यर्थः ।
संसारस्य रूपादिवैलक्षण्यं शङ्कते –
संसारधर्मेति ।
'अहं सुखदुःखादिमान्’ इति संसारस्यात्मधर्मत्वमनुभूयते ; स चानुभवो बाधकाभावात्प्रमैव ; ‘गौरोऽहम्’ ‘नीलोऽहम्’ इत्याद्यनुभवस्तु जीवस्य देहव्यतिरिक्तत्वसाधकश्रुतियुक्तिबाधितः ; अतो न रूपादितुल्यत्वं संसारस्येत्यर्थः ।
आत्मनि संसारस्याप्यसङ्गत्वादिश्रुतिबाधितत्वस्य समानत्वान्नात्मनः संसारित्वं परमार्थम् , अतो नाभेदश्रुत्यनुपपत्तिरित्याशयेन परिहरति –
नेति ।
किं चात्मधर्मत्वेनाभिमतस्य सुखदुःखादेरात्मना सहाभेदो भेदो वा ? आद्ये न संसारस्यात्मधर्मतयोपलभ्यमानता सिध्यतीत्याह –
धर्माणामिति ।
अव्यतिरेकादिति ।
अव्यतिरेकाभ्युपगमादित्यर्थः । अभेदपक्षे धर्माणामुपलब्धिकर्तृकोटिप्रविष्टत्वादुपलब्धिकर्मत्वानुपपत्तिरित्यर्थः । भेदपक्षे न संसारस्यात्मधर्मत्वं सिध्यति । तयोः सम्बन्धानिरुपणात् समवायस्य सूत्रकारेणैव निरस्तत्वादित्यन्यत्र विस्तरः ।
अभेदे कर्तृकर्मभावानुपपत्तिरित्यत्र दृष्टान्तमाह –
उष्णेति ।
'तत्त्वमसि’ इत्यभेदोपदेशस्यात्मनि संसारित्वग्राहकप्रत्यक्षविरोधं परिहृत्य तत्र तद्ग्राहकानुमानविरोधमाशङ्क्य परिहरति –
त्रासादिदर्शनादित्यादिना ।
त्रासादेस्तदनुमेयदुःखादेश्च दृश्यत्वेन वस्तुतो द्रष्टृधर्मत्वासम्भवस्य प्रागेवोक्तत्वादित्याशयेनाह –
न, त्रासादेरिति ।
'तत्त्वमसि’ इत्यभेदोपदेशस्य शास्त्रान्तरविरोधमाशङ्क्य निराकरोति –
कापिलेत्यादिना ।
कापिलादिशास्त्रे हि प्रतिशरीरं वस्तुत आत्मभेदः, तेषां च परमार्थ एव ब्रह्मभेदः, संसारित्वं च तेषां वास्तवमित्यादिप्रक्रिया दृश्यते ; ततो निष्प्रपञ्चब्रह्मात्मैक्यं प्रतिपादयत आगमस्य तर्कशास्त्रविरोधादप्रामाण्यं स्यादिति शङ्कार्थः ।
कापिलादितर्कशास्त्राणां मूलप्रमाणशून्यत्वस्य तर्कपादे प्रतिष्ठापितत्वात्पौरुषेयाणां तेषां वेदवत्स्वतःप्रमाण्यायोगाच्चेत्याशयेनाह –
मूलाभाव इति ।
श्रुतिविरोधे स्मृत्यप्रामाण्यस्य पूर्वतन्त्रे व्यवस्थापितत्वाच्च न तद्विरोधाच्छ्रुत्यप्रामाण्यप्रसङ्ग इत्याशयेनाह –
वेदविरोधे चेति ।
भ्रान्तत्वमप्रामाण्यम् ।
उपपादितमर्थमुपसंहरति –
श्रुत्युपपत्तिभ्यां चेति ।
एवमविकृतस्यैव ब्रह्मणो जीवभावेन प्रवेशादिश्रुत्या दृश्यत्वाद्युपपत्त्या च निश्चितमसंसारित्वमात्मन इत्यर्थः ।
एकत्वाच्चेति ।
आत्मनः परेणैकत्वाच्चासंसारित्वं परस्यासंसारित्वादित्यर्थः ।
एकत्वे मानं पृच्छति –
कथमिति ।
उत्तरश्रुतिरेव मानमित्याशयेनाह –
उच्यत इति ॥
उपसङ्क्रम्येति ।
विद्यया कोशेष्वात्मत्वभ्रममपोह्येति यावत् ।
उपसङ्क्रम्येत्यस्य व्यवहितेन सम्बन्धमाह –
एतत्सामेति ।
'इमाँल्लोकान्’ इत्यादेः सङ्गतिकथनाय व्यवहितमनुवदति –
सत्यमित्यादिना ।
'सत्यं ज्ञानम् - - ‘ इति मन्त्रस्य पूर्वार्धार्थो विस्तरेण व्याख्यात इत्यर्थः ।
'स य एवं वित्’ इत्यादिना विदुषो वागाद्यगोचरब्रह्मानन्दप्राप्तेरुक्तत्वादर्थाद्ब्रह्मवल्ल्यामपि सर्वात्मकब्रह्मभावापत्तिप्रयुक्ता सर्वकामाप्तिः सङ्ग्रहेणोक्तैवेति मत्वाह –
विस्तरेणेति ।
इत्थं वृत्तमनूद्याकाङ्क्षापूर्वकम् ‘इमाँल्लोकान्’ इत्यादिकमवतारयति –
के त इत्यादिना ।
तत्र कामानां स्वरूपे आकाङ्क्षां दर्शयति –
के त इति ।
कामानां कारणे तां दर्शयति –
किंविषया इति ।
साहित्ये कामानामशने च तां दर्शयति –
कथं वेति ।
इत्याकाङ्क्षायां सत्यामेतद्विद्याफलं विस्तरेण वक्तव्यमित्याशयेनोत्तरं वाक्यजातं पठ्यत इत्यर्थः ।
एवमुत्तरग्रन्थस्य व्यवहितया आनन्दवल्ल्या सङ्गतिमुक्त्वा अव्यवहितभृगुवल्ल्यापि सङ्गतिं वक्तुम् ‘भृगुर्वै वारुणिः’ इत्यादौ वृत्तं कीर्तयति –
तत्रेत्यादिना ।
अन्नान्नादत्वेनेति ।
अन्नान्नादभावेनोपासने उपयोगश्चोक्त इत्यर्थः ।
'क्षेम इति वाचि’ इत्यादावुक्तमनुवदति –
ब्रह्मविषयेति ।
तेषूपासनेषु विवक्षितान्फलविशेषानपि कामशब्देनानुवदति –
ये चेति ।
प्रतिनियता इति ।
तत्तदुपासनभेदेन व्यवस्थिता इत्यर्थः ।
तेषां मुक्तिवैलक्षण्यं सूचयति –
अनेकेति ।
नानाविधोपायसाध्या इत्यर्थः ।
अत एव तेषामविद्याकालिकत्वमाह –
आकाशादीति ।
आकाशादयो ये अविद्यायाः कर्यभेदास्तद्विषयास्तत्साध्या एव ते अविद्यावस्थायां दर्शिताः, न तु विद्यावस्थायाम् , विद्यावस्थायां त्वत्रापि वल्ल्याम् ‘स एकः, स य एवंवित् ‘ इत्यादौ पूर्वोक्तमेव ‘सोऽश्नुते सर्वान्कामान्सह’ इति फलं तात्पर्यतो दर्शितमिति भावः ।
इत्थमस्यामपि वल्ल्यां वृत्तानुवादेन फलवचनानुवृत्तिं सूचयित्वा तत्रानुपपत्तिमुद्भावयति –
एकत्वे पुनरिति ।
स्वस्य ब्रह्मणा एकत्वे साक्षात्कृते सति कामयितव्यस्याकाशादिभेदजातस्य तत्साध्यकामजातस्य च सर्वस्यात्मव्यतिरेकेणाभावात्पूर्वावस्थायामिव पुनः कामान्प्रति कामित्वानुपपत्तेरित्यर्थः ।
एवमेकत्वे कामित्वानुपपत्तौ सत्यां फलितमाह –
तत्र कथमिति ।
एकत्वं कामित्वानुपपत्तिर्विद्यावस्था वा तत्र-शब्दार्थः । अविद्यालेशवशेन प्रपञ्चाभासमनुभवन्विद्वान् ‘सर्वस्यात्माहम्’ इति मन्यमानोऽणिमाद्यैश्वर्यभुजां योगिनां यत्कामान्नित्वं कामरूपित्वं चास्ति तन्ममैवेति पश्यन्युगपत्सर्वान्विषयानन्दानश्नुत इत्युपचर्यते । विवक्षितं तु विद्याफलं सर्वात्मकब्रह्मभावमात्रम् । अत एव श्रुत्यन्तरम् - ‘ब्रह्मैव भवति’ इति ।
अतो न फलवचने त्वदुक्तानुपपत्तिर्दोष इत्युत्तरग्रन्थतात्पर्येण समाधत्ते –
उच्यत इति ।
तत्राहेति ।
श्रुतिरिति शेषः ।
पूर्वग्रन्थेऽपि विदुषः सार्वात्म्यमर्थसिद्धमिति दर्शयन् ‘स यश्चायम्’ इत्यादौ वृत्तं कीर्तयति –
पुरुषेत्यादिना ।
पुरुषस्थस्य जीवात्मन आदित्यस्थस्य परमात्मनश्चोत्कर्षापकर्षौ तत्प्रयोजकोपाधी च निरस्यैकत्वविज्ञानेनाविद्याकल्पितानन्नमयादीनानन्दमयान्ताननात्मनः क्रमेणोपसङ्क्रम्य सत्यज्ञानादिलक्षणं फलभूतमद्वैतमापन्नः सर्वात्मा सन्निति योजना ।
अद्वैतस्य ब्रह्मणः फलभूतत्वसिद्धये सुखरूपत्वमाह –
आनन्दमिति ।
तस्य तदर्थमेवानर्थास्पृष्टत्वमाह –
अजममृतमभयमिति ।
तस्य परमार्थत्वमाह –
स्वाभाविकमिति ।
तदर्थं निर्विशेषत्वमाह –
अदृश्यादीति ।
सविशेषस्य दृश्यत्वनियमेन मिथ्यात्वादिति भावः ।
तस्य विकारत्वजडत्वपरिच्छेदान्व्यावर्तयति –
सत्यं ज्ञानमनन्तमिति ।
ननु विदुषः सर्वलोकसञ्चारो न नियत इत्याशङ्क्याह –
आत्मत्वेनानुभवन्निति ।
एतत्प्रकृतं ब्रह्म समत्वात्साम ।
समत्वमेवाह –
सर्वानन्यत्वरूपमिति ।
सर्व्यापिस्वरूपभूतमित्यर्थः ।
स्वनुभवसिद्धस्यात्मैकत्वस्य तज्ज्ञानफलस्य कृतार्थत्वस्य च ख्यापनं निष्फलमित्याशङ्क्याह –
लोकानुग्रहार्थमिति ।
आत्मैकत्वज्ञानं विना न संसारदावानलशान्तिः, अतो यत्नतस्तत्सम्पादनीयं सर्वैरिति ज्ञापनं लोकानुग्रहः ।
गानप्रकारमेव प्रश्नपूर्वकमाह –
कथमित्यादिना ।
हावुशब्दो विस्मयार्थः अभ्यासस्तु तत्रातिशयार्थ इति मत्वाह –
अत्यन्तेति ॥
क इति ।
किङ्कृत इत्यर्थः ।
सार्वात्म्यप्राप्तिकृतो विदुषो विस्मय इत्याह –
उच्यत इति ।
ननु नित्यशुद्धादिरूपस्य विदुषः कथमन्नान्नादरूपेण सार्वात्म्यमित्याशङ्क्य विक्षेपशक्तिमदविद्यालेशमहिम्नेत्याशयेनाह –
निरञ्जनोऽपि सन्निति ।
अन्नं भोग्यजातम् , अन्नादो भोक्ता, तयोः सङ्घातो नाम भोक्तृभोग्यभावलक्षणः सम्बन्धः, तत्कर्ता, सर्वकर्मफलदातेति यावत् ।
तत्र सामर्थ्यं सूचयति –
चेतनावानिति ।
सर्वज्ञ इत्यर्थः ।
अथवेति ।
अथ वा अन्नस्यैव सङ्घातकृदिति योजना ।
नन्वनेकेषां मृत्तृणकाष्ठादीनां गृहप्रासादादिरूपेण सङ्घातकरणं दृष्टम् , तत्कथमेकस्यान्नस्यादनीयस्य सङ्घातकरणमित्याशङ्क्य विशिनष्टि –
अनेकात्मकस्येति ।
शरीरेन्द्रियादिरूपेण परिणतिद्वारा अनेकात्मकस्य तस्य संहतिकरणमुपपन्नमित्यर्थः ।
शरीरप्राणादीनां मेलनरूपं सङ्घातं किमर्थमयं करोति ? तत्राह –
पारार्थ्येनेति ।
परस्य चेतनस्यार्थो भोगादिः तत्सिद्ध्यर्थत्वेनेत्यर्थः ।
ननु शरीरादिरूपेण परिणतस्यान्नस्य परार्थत्वे सिद्धे सति तादर्थ्येन संहतिकरणमित्युपपद्यते, तदेव कुतः सिद्धम् ? अत आह –
परार्थस्येति ।
तद्विशदयति –
अन्नादार्थस्य सत इति ।
भोक्त्रर्थस्य सत इत्यर्थः । जडस्य शरीरप्राणादेः काष्ठतृणादेरिव स्वार्थत्वायोगाच्चेतनार्थत्वं वक्तव्यमिति भावः । सत्त्यस्येति सच्च त्यच्च सत्त्यम् , सन्मूर्तं त्यदमूर्तमिति मूर्तामूर्तात्मकस्य ऋतशब्दितस्य जगत उत्पत्तेः पूर्वमेवोत्पन्नो हिरण्यगर्भश्चाहमस्मीत्यर्थः ।
देवेभ्यश्च पूर्वमिति ।
हिरण्यगर्भोत्पत्त्यनन्तरमिन्द्रादिदेवेभ्यः पूर्वमुत्पन्नो विराट्पुरुषश्चाहमस्मीत्यर्थः ।
अमृतस्य नाभिश्चाहमस्मीति श्रुतौ योजनां मत्वा विवृणोति -
अमृतत्वस्येति ।
सर्वेषां मुमुक्षूणां प्राप्तव्यं यदमृतत्वं तन्मत्संस्थं मत्स्वरूपमेव मम परमानन्दस्वरूपत्वादित्यर्थः ।
ननु मां ददातीत्यनुपपन्नम् , चिदेकरसस्य विदुषो देयत्वायोगादित्याशङ्कां वारयति -
अन्नात्मनेति ।
‘अहमन्नम् ‘ इति प्रागुक्तत्वादन्नात्मना स्थित्वा तथाब्रवीदित्यर्थः ।
इत्थमित्यस्य व्याख्यानम् –
यथाभूतमिति ।
अन्नभूतमित्यर्थः । अन्नभूतं मां यो ददाति स एवं ददत्सन्मामविनष्टं यथा भवति तथावतीत्यर्थः । दातुरन्नं वर्धत इत्यभिप्रायः ।
अदत्वेति ।
लोभादिनेति शेषः ।
प्रत्यद्मीति ।
भक्षयामीत्यर्थः । वैश्वदेवावसाने प्राप्तेभ्योऽतिथिभ्यो यथाशक्त्यन्नमदत्वा भुञ्जानस्य गृहस्थस्य नरकपातो भवेदिति विवक्षितार्थः, अन्नभूतं मामदत्वा भक्षयन्तमहमपि भक्षयामीत्युक्तत्वात् । मुक्तं प्रत्यदनीयतया अन्नभूतो यो नास्तिकः तस्यान्नस्यैव सतो मुक्तोऽप्यदनीयो भवत्येवान्नभूतत्वात् , तथा च नास्तिकैर्व्याघ्रादिभिरिवाद्यस्य मुक्तस्य संसारादपि तीव्रतरं दुःखं प्रसज्येत ।
तथा च तदपेक्षया संसार एव श्रेयानिति मुमुक्षुः शङ्कते –
अत्राहेति ।
परिहरति –
मा भैषीरिति ।
सर्वकामाशनशब्दितस्यान्नान्नादभावलक्षणस्य सर्वात्मभावस्य संव्यवहारविषयत्वात्कल्पनामात्रत्वान्न मुक्तस्य भयलेशोऽप्यस्तीत्यर्थः ।
अन्नादिभावस्य संव्यवहारविषयत्वेऽपि कथं मुक्तस्य भयाभाव इत्याशङ्क्य सङ्ग्रहवाक्यं विवृणोति –
अतीत्यायमित्यादिना ।
विद्वद्दृष्ट्या वस्तुतो भयहेतोरभावान्न तस्य भयमित्यर्थः । अयं विद्वानविद्याकृतं सर्वं विद्ययातीत्य बाधित्वा ब्रह्मत्वमापन्नो वर्तत इति योजना ।
ननु यदि मुक्तो ब्रह्मभावमापन्न एवोक्तरीत्या, तर्हीदम् ‘अहमन्नादः’ इत्यादिवचनं केनाभिप्रायेण प्रवृत्तमिति पृच्छति –
एवं तर्हि किमिति ।
ब्रह्मभावलक्षणमुक्तिस्तुत्यभिप्रायेणेदं वचनं प्रवृत्तमिति परिहरति –
उच्यत इति ।
प्रथममन्नादिभावस्य संव्यवहारविषयत्वादित्युक्तं मिथ्यात्वं साधयति –
योऽयमित्यादिना ।
न परमार्थेति ।
वाचारम्भणादिश्रुतेर्दृश्यत्वादियुक्तेश्चेति भावः ।
इदानीं स्तुत्यभिप्रायकत्वमन्नादिवचनस्य विवृणोति –
स एवंभूतोऽपीति ।
ब्रह्मनिमित्तः ब्रह्मकारणकोऽन्नान्नादभावलक्षणः प्रपञ्चो व्यवह्रियमाणोऽपि ब्रह्मव्यतिरेकेण वस्तुगत्यासन्निति कृत्वा निश्चित्य स्थितस्य विदुषो योऽयं विद्याफलभूतो ब्रह्मभावः तस्य स्तुत्यर्थमन्नादिवचनेन सार्वात्म्यं सर्वकामाशनरूपमुच्यते, न त्वन्नादिभावस्तस्य मुख्य इत्यर्थः ।
उपसंहरति –
अत इति ।
विद्याबलादविद्योच्छेदाद्ब्रह्मभूतस्य विदुषो नास्त्यविद्यानिमित्तो भयदुःखादिदोषलेशोऽपीत्यर्थः ।
एवं मोक्षस्यापुरुषार्थत्वशङ्कां निराकृत्य पुनर्विदुषः स्तुत्यर्थमुपक्षिप्तं सर्वात्मभावमेवानुसरन्नुत्तरवाक्यमादत्ते –
अहं विश्वमिति ।
भुवनमिति ।
भूरादिलोकजातमित्यर्थः ।
ईश्वरेणेति ।
सर्वजगत्संहर्तृरुद्ररूपेणाहमेवाभिभवामि संहरामीत्यर्थः ।
सुवर्न इत्यत्र नकार इवार्थ इत्याशयेनाह –
आदित्य इवेति ।
असकृदिति ।
सदेत्यर्थः । ज्योतिःपदं चैतन्यप्रकाशपरम् ।
'इत्युपनिषत्’ इत्यस्यार्थमाह –
इतीयमिति ।
विहिता निरूपिता ।
'य एवं वेद’ इत्यत्र एवंशब्दार्थमाह –
भृगुवदिति ।
वेद, सम्पादयतीत्यर्थः ।
यथोक्तमिति ।
ब्रह्मभावलक्षणमित्यर्थः ।
मङ्गलार्थमोङ्कारमुच्चारयति –
ओमितीति ॥
अन्नप्राणमनोबुद्धिसुखैः पञ्चभिरुज्ज्वला ।
भगवत्यर्पिता जीयाद्वनमाला कृतिर्मम ॥ १ ॥
नारायणपदद्वन्द्वं नारदादिभिरादृतम् ।
नमामि शतशो नित्यं नमतां मुक्तिदायकम् ॥ २ ॥