अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: पञ्चमोऽनुवाकः

ननु विज्ञानं नाम वेदार्थविषयो निश्चय इत्युक्तम् , अतस्तस्य कथं कर्तृत्वनिर्देश इत्याशङ्क्य, उपचारादित्याह –
विज्ञानवान्हीति ।
'य एवं विद्वान्यजते’ इत्यादौ वेदार्थज्ञानवतो यज्ञा­दि­क­र्तृत्वं प्रसिद्धमिति सूचनार्थो हि-शब्दः ।

कर्माणि चेति ।
लौकिकानीति शेषः, वैदिककर्मणां यज्ञशब्देन सङ्गृहीतत्वात् । अत्र विज्ञानमयस्य मुख्यं लौकि­क­वै­दि­क­क­र्म­क­र्तृ­त्वम् , विज्ञानस्य तु तदौपचारिकमिति व्यवस्था दर्शिता । स च विज्ञानमयो नानाविधानि कर्मा­ण्यु­पा­स­नानि च कुर्व­न्न­प­र­ब्र­ह्म­व­ज्ज­गतः कारणं भवति । इयांस्तु विशेषः - विज्ञानमयो ह्यदृष्टद्वारा कारणम् , अपरब्रह्म तु साक्षा­दे­वे­श्व­र­व­त्का­र­ण­मिति ।

तथा च ‘विज्ञानं यज्ञं तनुते’ इति वाक्योक्तं सर्व­क­र्म­क­र्तृत्वं विज्ञानमयकोशे जग­त्का­र­ण­त्व­सा­म्य­स­म्पा­द­न­द्वारा अपरब्रह्मारोपे निमि­त्त­मि­त्या­श­ये­नाह –
यस्मादिति ।
विज्ञानपदं कोशपरम् ।

इतश्च विज्ञा­न­म­योऽ­प­र­ब्र­ह्मा­भे­दे­नो­पास्य इत्याह –
किं च विज्ञानमिति ।
विज्ञा­न­म­य­मि­त्यर्थः ।

ज्येष्ठपदं कारणपरं वेत्याह –
सर्व­प्र­वृ­त्ती­ना­मिति ।
सर्व­प्रा­णि­चे­ष्टानां सूत्र­रू­प­ब्र­ह्म­का­र­ण­क­त्वाद्वा ब्रह्म ज्येष्ठ­मि­त्यर्थः ।

ध्यायन्तीति ।
पूर्वजन्मनि यज­मा­ना­व­स्था­या­मिति शेषः ।

अभिमानमिति ।
अह­म्बु­द्धि­मि­त्यर्थः ।

पूर्वं ब्रह्मोपासनं देवै­र­नु­ष्ठि­त­मि­त्यत्र देवत्वावस्थायां ज्ञाना­द्यै­श्व­र्य­द­र्शनं लिङ्ग­मि­त्या­श­ये­नाह –
तस्मादिति ।

इदा­नी­मु­पा­स­न­विधिं दर्शयति –
तच्च विज्ञानमिति ।
विज्ञा­न­म­य­मि­त्यर्थः । अत्र चेच्छब्दः प्रकृ­तो­पा­स­न­दौ­र्ल­भ्य­सू­च­नार्थः, कथञ्चिदुपासने प्रवृत्तावपि तत्र प्रमा­द­स­म्भ­व­स्या­व­श्य­क­त्वात् । अप्र­मा­द­दौ­र्ल­भ्य­सू­च­नार्थो द्विती­य­श्चे­च्छब्दः ।

प्रमा­द­प्र­स­क्ति­माह –
बाह्येष्विति ।
विज्ञा­न­म­या­पे­क्षया बाह्यानां मनो­म­य­प्रा­ण­म­या­न्न­म­या­ना­मपि पूर्वमात्मत्वेन भावि­त­त्वा­दि­त्यर्थः ।

प्रमदनमिति ।
विज्ञानमये ब्रह्म­ण्या­त्म­भा­व­नायाः सकाशात्प्रमदनं नाम पूर्वकोशेषु पुन­रा­त्म­भा­व­न­मि­त्यर्थः ।

फलितमाह –
अन्नमयादिष्विति ।

सूक्ष्म­शा­री­रा­भिन्ने ब्रह्मणि विषये क्रिय­मा­णा­दु­पा­स­ना­त्पा­प्म­हानं भवतीत्यत्र युक्तिमाह –
शरी­रा­भि­मा­न­नि­मित्ता हीति ।
मनु­ष्य­त्व­ब्रा­ह्म­ण­त्व­गृ­ह­स्थ­त्वा­दि­ध­र्म­वति शरीरे ‘मनुष्योऽहम्’, ’ब्राह्म­णोऽ­हम्’, ’गृहस्थोऽहम्’ इत्याद्यभिमानं निमित्तीकृत्य मनुष्यादीनां प्रतिषिद्धैः कर्मभिः पाप्मानो भवन्ति । अत्रार्थे लोक­वे­द­प्र­सि­द्धि­द्यो­तको हि-शब्दः ।

ततः किम् ? तत्राह –
तेषां चेति ।
चोऽवधारणे । तेषां हानमुपपद्यत इति सम्बन्धः । विज्ञा­न­म­य­ब्र­ह्म­ण्ये­वा­ह­म­भि­मा­ना­त्पा­प्म­नि­मि­त्तस्य शरी­रा­त्मा­भि­मा­न­स्या­पाये सतीत्यर्थः ।

निमित्तापाये नैमित्तिकापाय इत्यत्र दृष्टान्तमाह –
छत्रापाय इति ।

एवं पाप्म­हा­न­फ­ल­व­च­न­स्यो­प­प­त्ति­मुक्त्वा तस्यार्थमाह –
तस्मादिति ।
शरी­रा­त्मा­भि­मा­नस्य निमित्तस्य निवृ­त्त­त्वा­दि­त्यर्थः ।

शरीर एवेति ।
जीव­द्द­शा­या­मे­वेति यावत् ।

विज्ञा­न­म­ये­नै­वा­त्म­नेति ।
इहैव साक्षात्कारेण विज्ञा­न­म­य­ब्र­ह्म­स्व­रू­पा­पन्नो विद्वा­न्स­र्वा­न्पा­प्मनो हित्वा देहपातानन्तरं विज्ञा­न­म­य­ब्र­ह्मा­त्म­भा­वे­नैव स्थित्वा तल्लो­क­स्था­न्स­र्वा­न्भो­ग्या­न­नु­भ­व­ती­त्यर्थः ॥

अत्रानन्दमयः प्रकरणी पर एव न संसारीति केचित् ; तान्प्रत्याह –
आनन्दमय इतीति ।
आनन्दमय इति पदेन कार्यात्मन एव प्रतीतिर्भवति न तु कारणस्य परमात्मन इत्यर्थः । यद्यप्यानन्दमयो न कार्यभूतः अविद्योपाधिकस्य जीव­स्या­न­न्द­म­य­त्वा­भ्यु­प­ग­मे­ना­ना­दि­त्वात् , तथापि मय­ड­र्थ­व­र्ण­ना­व­सरे तस्य प्रिय­मो­दा­दि­वि­शि­ष्ट­तया प्रकृ­त्य­र्थ­भू­ता­न­न्द­वि­का­र­त्वस्य वक्ष्य­मा­ण­त्वा­त्का­र्या­त्मे­त्यु­क्तम् ।

अधिकारं विवृणोति –
अन्नादिमया हीति ।
तेषां कार्यात्मत्वं प्रसिद्धमिति हि-शब्दार्थः ।

नन्वानन्दमय इत्यत्र मयटः प्राचु­र्या­र्थ­क­त्वा­भ्यु­प­ग­मान्न तस्य मयट्च्छ्रुत्या कार्या­त्म­त्व­मि­त्या­शङ्क्य द्वितीयहेतुमपि विवृणोति –
मयट् चेति ।
प्राचु­र्या­र्थ­त्व­पक्षे प्राचुर्यस्य प्रति­यो­ग्य­ल्प­ता­पे­क्ष­त्वा­दा­न­न्द­प्र­चु­रस्य ब्रह्मणो दुःखाल्पत्वमपि प्रसज्येत, तस्मा­द्वि­का­रार्थ एव मयट् न प्राचुर्यार्थ इत्यर्थः ।

किं च विकारे प्राचुर्ये च मयटो विधा­ना­वि­शे­षा­त्सं­शये विका­रा­र्थ­क­म­य­ट्प्र­वा­ह­प­ति­त­त्वा­द्वि­का­रा­र्थ­क­त्व­मे­वात्र निश्चीयत इत्याशयेनाह –
यथेति ।

एव­म­ना­त्म­प्रा­य­पा­ठा­द्वि­का­रा­र्थ­क­म­य­ट्च्छ्रु­ति­ब­ला­च्चा­न­न्द­मयः कार्या­त्मे­त्यु­प­सं­ह­रति –
तस्मादिति ।

सङ्क्रमणाच्चेति ।
आनन्दमयस्य सङ्क्रमणं प्रति कर्म­त्व­श्र­व­णाच्च कार्या­त्म­त्व­मि­त्यर्थः ।

हेत्वसिद्धिं परिहरति –
आनन्दमयमिति ।

व्याप्तिमाह –
कार्यात्मनां चेति ।
चोऽवधारणे । अत्र प्रकरणे यत्र यत्र सङ्क्र­म­ण­क­र्मत्वं तत्र तत्र कार्या­त्म­त्व­मे­वेति व्याप्ति­र्दृ­ष्टे­त्यर्थः ।

अनात्मनामिति ।
मुख्या­त्म­भि­न्ना­ना­म­न्न­म­या­दी­ना­मिति यावत् ।

हेतोः पक्षधर्मत्वमाह –
सङ्क्र­म­ण­क­र्म­त्वेन चेति ।

तदेव दृष्टान्तेन साधयति –
यथेति ।
आनन्दमयस्य सङ्क्र­म­ण­क­र्म­त्व­लि­ङ्गे­ना­ब्र­ह्म­त्व­मु­क्तम् ।

विपक्षे बाधकं वद­न्न­प्र­यो­ज­क­त्व­शङ्कां निराकरोति –
न चात्मन एवेति ।
सङ्क्र­मि­तु­रे­वं­विदः पर­ब्र­ह्म­स्व­रू­प­त्वा­दा­न­न्द­म­य­स्यापि ब्रह्मत्वे स्वस्यैव स्वेनो­प­स­ङ्क्र­म­णिति प्रसज्जेत, तच्च न युक्तमित्यर्थः ।

अधिकारेति ।
सङ्क्र­म­ण­क­र्तु­रे­वं­विदः सका­शा­द­न्य­स्यै­वा­न्न­म­यादेः सङ्क्र­म­ण­क­र्मत्वं प्रकृतम् ; अत्र स्वस्यैव स्वेनो­प­स­ङ्क्र­म­णा­भ्यु­प­गमे कर्तृ­क­र्म­णो­र्भे­दा­धि­का­र­वि­रोध इत्यर्थः ।

असम्भवं विवृणोति –
न हीति ।

एवं­वि­द्ब्र­ह्म­णो­र्भे­द­मा­श­ङ्क्याह –
आत्मभूतं चेति ।
अत्र सङ्क्रमणं प्राप्तिर्बाधो वा, उभ­य­था­प्या­न­न्द­म­यस्य ब्रह्मत्वे सङ्क्र­म­ण­क­र्म­त्वा­यो­गा­त्का­र्या­त्म­त्व­मे­वेति भावः ।

आनन्दमयस्य कार्यात्मत्वे हेत्वन्तरमाह –
शिरआदीति ।

ननु ब्रह्म­ण्य­प्यु­पा­स­नार्थं शिर­आ­दि­क­ल्प­न­मु­प­प­द्यत इत्या­श­ङ्क्या­नु­प­प­त्ति­मेव साधयति –
न हि यथोक्तलक्षण इति ।
सत्य­ज्ञा­ना­न­न्ता­ख्य­स्व­रू­प­ल­क्ष­ण­व­ती­त्यर्थः ।

तट­स्थ­ल­क्ष­ण­म­प्याह –
आकाशादीति ।

कार्य­को­टि­प्र­विष्ट एवान्नमयादौ शिर­आ­दि­क­ल्प­न­द­र्श­नाच्च तद्विलक्षणे ब्रह्मणि न तत्क­ल्प­न­मु­प­प­द्यत इत्याशयेनाह –
अकार्यपतित इति ।
इत्थं मुमुक्षुज्ञेये निर्विशेषे ब्रह्म­ण्य­नु­पास्ये शिर­आ­दि­क­ल्प­न­म­नु­प­प­न्नम् , निर्विशेषत्वे च यथोक्तलक्षण इत्या­दि­नो­प­क्र­म­स्वा­रस्यं प्रमाणत्वेन सूचितम् ।

तत्रैव वाक्यशेषं श्रुत्यन्तराणि च प्रमाणयति –
अदृश्य इत्यादिना ।
आनन्दमयः कार्यात्मा शिर­आ­दि­क­ल्प­ना­व­त्त्वा­द­न्न­म­या­दि­वत् , विपक्षे हेतूच्छित्तिरेव बाधिकेति निष्कर्षः ।

आनन्दमयस्य ब्रह्मत्वे विवक्षिते सति तद्विषयश्लोके तस्यै­वा­स­त्त्वा­शङ्का वाच्या, सा च न सम्भवति, अतो नानन्दमयो ब्रह्मेत्याह –
मन्त्रोदाहरणेति ।
न हि मन्त्रो­दा­ह­र­ण­मु­प­प­द्यत इति सम्बन्धः ।

इतश्च नानन्दमयो ब्रह्मेत्याह –
ब्रह्म पुच्छमिति ।
आनन्दमयस्य ब्रह्मत्वे ब्रह्म­णोऽ­व­य­वि­त्वेन गृही­त­त्वा­त्पृ­थ­क्त­स्यैव ब्रह्मणः पुच्छत्वेन प्रतिष्ठात्वेन च ग्रहणमनुपपन्नम् एक­त्रा­व­य­वा­व­य­वि­भा­वा­दि­क­ल्प­न­स्या­नु­चि­त्त­त्वा­दिति भावः ।

तस्मादिति ।
उक्त­हे­तु­स­मु­दा­या­दि­त्यर्थः ।

न पर एवेति ।
न साक्षा­त्प­र­मा­त्मै­वा­न­न्द­मय इत्यर्थः ।

आनन्दमय इत्यत्र प्रकृत्यर्थमाह –
आनन्द इतीति ।
आनन्द इति प्रकृ­त्यं­शे­नो­पा­स­ना­क­र्म­फ­ल­भूतं प्रिय­मो­दा­दि­ल­क्षणं सुखमुच्यते आनन्दपदस्य लोके विषयसुखेषु प्रसि­द्ध­त्वा­दि­त्यर्थः ।

मयडर्थमाह –
तद्विकार इति ।
विशिष्टस्य विशे­ष­ण­वि­का­र­त्वा­त्प्र­कृ­त्य­र्थ­भू­ता­न­न्द­वि­शिष्ट आत्मा तद्विकार इत्यर्थः ।

आनन्दमयस्य विज्ञा­न­म­या­दा­न्त­रत्वं श्रुत्यु­क्त­मु­प­पा­द­यति –
ज्ञानकर्मणोर्हि फलमिति ।
तयोः फल­श­ब्दि­त­सु­ख­सा­ध­नत्वं प्रसिद्धमिति हि-शब्दार्थः । भोक्त्र­र्थ­त्वा­दि­त्यत्र भोक्तृपदं भावप्रधानं सत्फलत्वेन विवक्षितं सुखरूपं भोगमाह ; तथा च कर्तु­र्वि­ज्ञा­न­म­यस्य भोक्तृ­श­ब्दि­त­फ­ल­सा­ध­न­त्वा­ज्ज्ञा­न­क­र्म­फ­ल­भूतं सुखं साध­न­भू­त­वि­ज्ञा­न­म­या­द्य­पे­क्षया अन्त­र­त­म­मि­त्यर्थः ।

तथा­प्या­न­न्द­म­य­स्या­न्त­रत्वे किमायातम् ? तत्राह –
अन्तरतमश्चेति ।
चोऽवधारणार्थः । अन्त­र­त­म­फ­ल­वि­शिष्टः सन्नानन्दमय आत्मा पूर्वेभ्यो विज्ञा­न­म­या­न्तेभ्यः कोशे­भ्योऽ­न्त­र­तमो भवत्येवेत्यर्थः ।

नन्वानन्दमयो न विद्या­क­र्म­फ­ल­वि­शिष्टः किं तु प्रिया­दि­वि­शिष्टः ‘तस्य प्रियमेव शिरः’ इत्या­दि­श्र­व­णा­दि­त्या­श­ङ्क्याह –
विद्याकर्मणोः प्रिया­द्य­र्थ­त्वा­च्चेति ।
च-शब्दः शङ्का­नि­वृ­त्त्यर्थः । प्रियादेः सुखरूपत्वान्न विद्या­क­र्म­फ­ला­त्प्रि­या­दे­र्भेद इति भावः ।

तयोः प्रिया­द्य­र्थत्वं प्रसिद्धमित्याह –
प्रिया­दि­प्र­युक्ते हीति ।
प्रिया­द्यु­द्दे­श्यके इत्यर्थः ।

आन­न्द­म­य­स्या­न्त­र­त्व­प्र­ति­पा­द­न­मु­प­सं­ह­रति –
तस्मादिति ।

आत्म­सं­नि­क­र्षा­दिति ।
आत्म­वि­शे­ष­ण­त्वा­दिति यावत् ।

अस्येति ।
आन्तरैः प्रिया­दि­भि­र्वि­शि­ष्ट­स्या­त्मन इत्यर्थः ।

इत्थमानन्दमयस्य विज्ञा­न­म­या­द­भ्य­न्त­रत्वं प्रसाध्य तस्मादन्यत्वं साधयति –
प्रियादिवासनेति ।
जाग्रति प्रिया­द्य­नु­भ­व­ज­नि­ता­भि­र्वा­स­ना­भि­र्नि­र्व­र्तितः ; वासनाविशिष्ट इति यावत् । एवंभूत आनन्दमय आत्मा विज्ञा­न­म­या­श्रिते स्वप्ने प्रिया­दि­वि­शि­ष्ट­त­यो­प­ल­भ्यते । स च विज्ञानमयादन्यः विज्ञानमयस्य जाग्रति यज्ञा­दि­क­र्म­क­र्तृ­त्वेन व्यवस्थितत्वात् स्वप्ने चात्मनः कर्म­क्र­तृ­त्वा­भा­वात् स्वप्ने कर्म­क­र­णा­दि­व्या­पा­रस्य वास­ना­मा­त्र­त्वात् । किं च स्वप्न­प्र­प­ञ्चस्य विज्ञा­न­म­य­श­ब्दि­त­सा­भा­सा­न्तः­क­र्ण­प­रि­णा­म­त्वा­द्वि­ज्ञा­न­मयो विष­य­त्वे­नै­वो­प­क्षीणः ; ततो विष­य­भू­ता­द्वि­ज्ञा­न­म­या­दा­न­न्द­म­यस्य स्वप्न­द्र­ष्टु­र­न्य­त्व­मा­व­श्य­क­मि­त्या­श­येन विज्ञा­न­म­या­श्रिते स्वप्न इत्युक्तमिति मन्तव्यम् ।

स एव चेति ।
लाभनिमित्त एव हर्षो लब्ध­स्यो­प­भो­गा­दिना प्रकर्षं प्राप्तः सन्प्र­मो­द­श­ब्द­वाच्यो भवतीत्यर्थः । आनन्द इति पदेन सुख­सा­मा­न्य­मु­च्यते ; तच्च शिरआद्यवयवरूपेण कल्पितानां प्रिया­दी­ना­मात्मा मध्यकाय इत्यर्थः ।

आनन्दस्य सामान्यरूपत्वे युक्तिमाह –
तेष्विति ।
प्रियादिषु सुख­वि­शे­षे­ष्वि­त्यर्थः ।

ननु सुखसामान्यं नाम किं जातिरूपम् ? नेत्याह –
आनन्द इतीति ।
सुख­सा­मा­न्य­वा­चिना आनन्द इति पदेन परं सुख­रू­प­त­यो­त्कृष्टं ब्रह्मोच्यत इत्यर्थः । यथा घटाद्युपहितानि च्छिद्रा­ण्या­का­श­वि­शेषाः तेषु स्वरू­पे­णा­नु­स्यू­त­मा­का­श­मा­का­श­सा­मा­न्य­मिति प्रसिद्धम् , तथा वृत्ति­वि­शे­षो­प­हि­तानि ब्रह्म­स्व­रू­प­सु­खा­न्येव सुखविशेषाः तेषु स्वरू­पे­णा­नु­स्यूतं ब्रह्मसुखमेव सुख­सा­मा­न्य­मु­च्यते, न जातिरूपमिति भावः ।

वृत्ति­वि­शे­षै­र­भि­व्यक्तं तदु­प­हि­त­स्व­रू­प­सु­ख­मेव विषयसुखं सदत्र प्रिय­मो­दा­दि­श­ब्दै­र­भि­धी­यत इती­म­मे­वा­भि­प्रायं प्रकटयति –
तद्धीत्यादिना ।
प्रत्यु­प­स्था­प्य­मान इति पदं वृत्तिविशेष इत्यस्य विशेषणम् ; उत्पद्यमान इत्यर्थः । समस्तपाठे प्रत्यु­प­स्था­प्य­मानाः प्राप्यमाणाः पुत्र­मि­त्रा­दि­वि­ष­य­वि­शेषा उपाधयः कारणानि यस्य वृत्ति­वि­शे­ष­स्येति विग्रहः ।

क्रोधा­दि­वृ­त्ति­वै­ल­क्ष­ण्य­रूपं वृत्ते­र्वि­श­ष­मे­वाह –
तमसेति ।

अप्रच्छादनफलमाह –
प्रसन्न इति ।

अभिव्यज्यत इति ।
निवृत्तावरणं भवतीत्यर्थः ।

ततः किमित्यत आह –
तद्विषयेति ।
तद्वृ­त्ति­वि­शे­षो­प­हितं तेनैवाभिव्यक्तं ब्रह्म­स्व­रू­प­सु­ख­मेव लोके विषयजनितं सुखमिति प्रसिद्धं न तु वस्तुगत्या विष­य­ज­नि­त­म­न्य­त्सु­ख­म­स्ती­त्यर्थः ।

ननु विषयसुखस्य ब्रह्मा­न­न्द­स्व­रू­पत्वे क्षणिकत्वं न स्यात् ब्रह्मानन्दस्य नित्य­त्वा­दि­त्या­श­ङ्क्याह –
तद्वृत्तीति ।
स्वरू­प­सु­ख­व्य­ञ्ज­क­वृ­त्ति­वि­शे­षो­त्पा­द­क­क­र्मणः क्षणि­क­त्वा­दि­त्यर्थः ।

नन्वेवमपि स्वरूपसुखस्य वृत्ति­वि­शे­षे­ष्व­भि­व्य­क्त­स्या­प्ये­क­रू­प­त्वा­त्कथं विष­य­सु­खे­षू­त्क­र्ष­ता­र­त­म्य­मि­त्या­श­ङ्क्याह –
तद्यदेति ।
तमो­घ्न­त्व­वि­शे­षणं दमादिसाधारणं बोध्यम् । विद्यया उपास्त्या ।

विविक्त इति ।
तमसेति शेषः । अन्तः­क­र­ण­शु­द्धि­ता­र­त­म्या­त्ता­र­त­म्यो­पे­ता­स्त­द्वृ­त्तयो भवन्ति, वृत्ति­ता­र­त­म्याच्च तद­भि­व्य­ङ्ग्य­मा­त्म­सु­ख­मपि तर­त­म­भा­वे­ना­भि­व्य­ज्यत इत्यर्थः ।

आनन्दविशेष इति ।
वृत्ति­वि­शे­षो­प­हि­ता­नन्द इत्यर्थः ।

विषयसुखानां ब्रह्म­सु­खा­व­य­वत्वे मानमाह –
वक्ष्यति चेति ।
सः प्रकृतः परमात्मा रसः सारः आनन्द इत्यर्थः ।

अयमिति ।
ब्रह्मा­दि­स्त­म्ब­प­र्यन्तो लोक इत्यर्थः ।

एष ह्येवेति ।
आनन्दरूपः पर एव निजे­ना­न­न्दे­ना­न­न्द­य­ती­त्यर्थः ।

वाज­स­ने­य­श्रु­ति­माह –
एतस्यैवेति ।
आत्मा­न­न्द­स्यै­वे­त्यर्थः । आत्मानं ब्रह्मणः सकाशादन्यत्वेन मन्यमानानि भूतानि प्राणिनो मात्रां लेश­मे­वा­नु­भ­व­न्ती­त्यर्थः ।

सुखतारतम्यस्य चित्त­शु­द्धि­ता­र­त­म्या­नु­रो­धित्वे सत्येव वाक्य­शे­षोऽ­प्यु­प­प­द्यत इत्याशयेनाह –
एवं चेति ।
कामोपशमः शुद्धिः ।

वक्ष्यत इति ।
'श्रोत्रि­यस्य चाकामहतस्य’ इत्यत्रेत्यर्थः ।

'ब्रह्म पुच्छं प्रतिष्ठा’ इति वाक्यं व्याचष्टे –
एवं चेति ।
उक्त­री­त्यै­वो­त्कृ­ष्य­मा­णस्य उत्क­र्ष­ता­र­त­म्यो­पे­त­प्रि­या­दि­वि­शि­ष्ट­स्या­न­न्द­म­या­त्मनः परमेव ब्रह्म पुच्छं प्रतिष्ठेति सम्बन्धः ।

नन्वानन्दमयं प्रति ब्रह्मणः प्रतिष्ठात्वं किम­र्थ­मु­प­दि­श्यते ? तत्राह –
परमार्थेति ।
परमार्थस्य ब्रह्मणः सर्वा­न्त­र­त्व­ज्ञा­ना­र्थ­मि­त्यर्थः ।

पुच्छ­श­ब्द­प्र­यो­गेऽपि ब्रह्मणोऽत्र प्राधा­न्य­सू­च­नार्थं प्रकरणित्वमाह –
यत्प्रकृतमिति ।

ब्रह्मप्रकरणस्य कोश­वा­क्यै­र्वि­च्छे­द­मा­शङ्क्य तेषां प्रक­र­णि­ब्र­ह्म­स­म्ब­न्धि­त्व­माह –
यस्य चेति ।
यस्य ब्रह्मणः सर्वा­न्त­र­त्व­प्र­ति­प­त्त्य­र्थ­म­न्त­र्ब­हि­र्भा­वेन पञ्च कोशाः श्रुत्यो­प­न्यस्ता इत्यर्थः ।

ननु सर्वा­न्त­र­त्व­मा­न­न्द­म­य­को­श­स्यैव न पुच्छब्रह्मणः तस्या­न्त­र­त्वा­श्र­व­णा­दि­त्या­श­ङ्क्याह –
यच्चेति ।
अन्न­म­या­दि­व­दा­न­न्द­म­य­स्यापि कार्यात्मकतायाः प्राक्सा­धि­त­त्वान्न तस्य सर्वान्तरत्वम् ; पुच्छ­ब्र­ह्म­ण्या­न्त­र­त्व­वा­चि­प­दा­भा­वेऽपि प्रति­ष्ठा­त्व­लि­ङ्गे­ना­न­न्द­म­या­न्त­को­श­जातं प्रत्या­न्त­र­त्व­रूपं सर्वान्तरत्वं सिध्यतीति भावः ।

'आत्मन आकाशः’ इत्यादौ ब्रह्म­ण्ये­वा­त्म­श­ब्द­प्र­यो­गा­त्त­देव कोशानां वास्तवं स्वरूपमित्याह –
येन चेति ।

ननु प्रतिष्ठापदेन ब्रह्मण आनन्दमयं प्रत्या­धा­र­त्वोक्तौ पुच्छपदेन पौनरुक्त्यं प्रसज्येत तेनापि तदाधारस्य लक्ष­णी­य­त्वा­दि­त्या­शङ्क्य प्रति­ष्ठा­प­द­स्या­न­न्द­म­यो­प­ल­क्षि­त­स­र्व­द्वै­ता­धा­र­प­र­त्व­माह –
तदेव चेति ।

आनन्दमयस्येति ।
यदद्वैतं ब्रह्म आनन्दमयस्य प्रितष्ठा प्रतिष्ठात्वेन श्रुतं तत्सर्वस्यैव द्वैतस्य अव­सा­न­भू­त­म­धि­ष्ठा­न­भू­त­मिह विव­क्षि­त­मि­त्यर्थः ।

द्वैतस्य सर्वस्य साधिष्ठानत्वे युक्तिं सूचयति –
अवि­द्या­प­रि­क­ल्पि­त­स्येति ।
शुक्ति­रू­प्या­दि­व­न्मि­थ्या­भू­त­स्ये­त्यर्थः ।

पुच्छ­वा­क्य­नि­र्दि­ष्ट­ब्र­ह्मा­स्ति­त्व­सा­ध­न­प­र­त्वेन श्लोकमवतारयितुं तद­स्ति­त्व­मु­प­क्षि­पति –
एक­त्वा­व­सा­न­त्वा­द­स्ती­त्या­दिना ।
एक­त्व­म­द्वै­त­म­वि­द्या­प­रि­क­ल्पि­तस्य द्वैत­स्या­द्वै­ता­व­सा­न­त्वा­द्धे­तो­र्य­त्त­स्या­व­सा­न­भू­त­म­द्वैतं ब्रह्म पुच्छ­प्र­ति­ष्ठा­श­ब्दितं तदेकमस्तीति योजना । ननु पुच्छपदेन ब्रह्मण आनन्दमयं प्रत्य­व­य­व­त्वा­व­ग­मा­त्कथं श्लोकस्य तद्विषयत्वं पूर्वपर्यायेषु श्लोका­ना­म­व­य­वि­को­श­वि­ष­य­त्व­द­र्श­ना­दिति चेत् , न ; पूर्वत्रापि मनो­म­य­प­र्या­य­स्थस्य ‘यतो वाचः’ इति श्लोकस्य मनो­म­या­व­य­व­भू­त­य­जु­रा­दि­वि­ष­य­त्वेन तथा नियमाभावात् पुच्छपदस्यापि प्रिया­दि­वि­शि­ष्टा­न­न्द­म­या­धा­र­मा­त्र­ल­क्ष­क­स्या­व­य­व­प­र­त्वा­भा­वेन तेन ब्रह्म­णोऽ­व­य­व­त्व­प्र­ती­त्य­भा­वाच्च । न च ब्रह्मणि पुच्छ­दृ­ष्टि­ल­क्ष­कस्य पुच्छपदस्य कथ­मा­धा­र­ल­क्ष­क­त्व­मिति वाच्यम् ; अत्र पर्याये पूर्व­प­र्या­ये­ष्वि­वो­पा­स­ना­वि­धि­फ­ल­श्र­व­ण­यो­र­भा­वे­ना­न­न्द­म­य­को­श­स्या­नु­पा­स्य­त्वात् प्रियादिषु शिरः­प­क्षा­दि­क­ल्प­न­स्या­न­न्द­मये कार्या­त्म­त्व­प्र­ति­प­त्ति­मा­त्र­प्र­यो­ज­न­क­त्वो­प­पत्तेः । एतच्च प्रयोजनं प्रागेव भाष्ये शिर­आ­दि­क­ल्प­ना­नु­प­प­त्ते­श्चे­त्या­दिना प्रपञ्चितम् । अतोऽत्र पुच्छ­वा­क्य­नि­र्दि­ष्टस्य ब्रह्मण एव प्राधान्यात् ‘असन्नेव स भवति’ इति श्लोकस्य तद्विषयत्वे नानुपपत्तिः ; प्रत्युत तस्या­न­न्द­म­य­वि­ष­यत्व एवा­नु­प­प­त्ति­रुक्ता वक्ष्यते चेति सङ्क्षेपः ॥