अद्वैतशारदा

वनमालाव्याख्या

शीक्षावल्ली: सप्तमोऽनुवाकः

उत्त­रोऽ­प्य­नु­वाकः प्रकारान्तरेण ब्रह्मोपासनविषय इत्याह —
यदेतदित्यादिना ।

पृथिव्यादिजगतः कथं पाङ्क्त­त्व­मि­त्या­का­ङ्क्षायां पङ्क्त्याख्यस्य च्छन्दसः पृथिव्यादौ सम्पादनादित्याह —
पञ्चसङ्ख्येति ।

न केवलं पञ्च­स­ङ्ख्या­यो­गा­त्प­ङ्क्ति­च्छ­न्दः­स­म्पा­द­नम् , यज्ञ­त्व­स­म्पा­द­न­मपि कर्तुं शक्यत इत्याह —
पाङ्क्तश्च यज्ञ इति ।
पत्नी­य­ज­मा­न­पु­त्र­दै­व­मा­नु­ष­वित्तैः पञ्च­भि­र्यो­गा­द्यज्ञः पाङ्क्त इत्यर्थः । दैववित्तमुपासनं मानुषवित्तं गवादीति विभागः ।

पङ्क्तिच्छन्दसो यज्ञस्य च पञ्च­स­ङ्ख्या­यो­गा­त्पा­ङ्क्तत्वे क्रमेण श्रुतीर्दर्शयति —
पञ्चाक्षरेति ।

जगतो यज्ञ­त्व­स­म्पा­द­न­मेव दर्शयति —
तेनेति ।
पञ्च­स­ङ्ख्या­यो­ग­ल­क्ष­णेन यज्ञ­सा­म्ये­ने­त्यर्थः ।

लोका­द्या­त्मान्तं चेति ।
प्राणा­दि­म­ज्जान्तं चेति चकारार्थः । परिकल्पयति, श्रुतिरिति शेषः ।

एवं ब्रह्मोपाधिभूतं सर्वं जग­त्प­ङ्क्ति­च्छ­न्दो­रूपं यज्ञरूपं च परिकल्प्य तादृ­क्पा­ङ्क्त­ज­ग­दा­त्मकं प्रकृतं ब्रह्माहमस्मीति चिन्तयतः किं फलं भव­ती­त्या­का­ङ्क्षा­या­माह —
तेन यज्ञेनेति ।

प्रजापतिमिति ।
स्थूल­स­र्व­प्र­प­ञ्चो­पा­धि­कस्य ब्रह्मणः प्रजा­प­ति­रू­प­त्वात् ‘तं यथा यथोपासते’ इति न्यायेन जग­दा­त्म­ब्र­ह्मो­पा­स­ना­ज्ज­ग­दा­त्मानं प्रजापतिमेव प्राप्नो­ती­त्यर्थः ।

एवं तात्प­र्य­मुक्त्वा पृथिव्यादिजगतः पञ्च­स­ङ्ख्या­यो­गा­त्पा­ङ्क्त­स्व­रू­पत्वं प्रश्नपूर्वकं श्रुत्या दर्शयति —
तत्कथमित्यादिना ।

विराडिति ।
‘आप ओषधयः’ इत्या­दि­स्थू­ल­भू­ता­धि­का­रा­द्भू­त­मयो विराड्देह इहात्मशब्दार्थ इत्यर्थः ।

इत्य­धि­भू­त­मि­त्यु­प­सं­हा­र­व­च­न­मि­त्य­धि­लो­क­मि­त्य­धि­दै­व­त­मि­त्ये­वं­रू­प­यो­र­धि­लो­का­धि­दै­व­त­पा­ङ्क्त­द्व­यो­प­सं­हा­र­व­च­न­यो­रु­प­ल­क्ष­णा­र्थ­मि­त्यत्र हेतुमाह —
लोक­दे­व­ता­पा­ङ्क्त­यो­श्चेति ।
तयोरपि पूर्व­मु­क्त­त्वा­दि­त्यर्थः ।

अध्यात्ममिति ।
आत्मा देहः, तमधिकृत्य वर्त­मा­न­म­ध्या­त्म­मि­त्यर्थः ।

ननु पाङ्क्त­ष­ट्क­क­थ­नेन कथं सर्वस्य जगतः पाङ्क्त­त्व­मु­क्तम् ? तत्राह —
एतावद्धीति ।
यद्बा­ह्य­म­ध्यात्मं च पाङ्क्तं श्रुत्या दर्शितम् एतावदेवेदं सर्वं जगत् , न ततोऽ­धि­क­म­स्ती­त्य­व­ग­न्त­व्य­मि­त्यर्थः ।

श्रुति­प्र­द­र्शि­त­पा­ङ्क्त­षट्के कृत्स्नस्य जगतोऽन्तर्भावः प्रसिद्ध इति हि-शब्दार्थः । उपासनाविधिं दर्शयति —
एतदेवमिति ।
एतज्जगदेवं पाङ्क्त­रू­पे­णे­त्यर्थः । उक्त­वा­नि­त्य­स्ये­ति­श­ब्देन सम्बन्धः ।

सङ्ख्या­सा­मा­न्या­दिति ।
आध्यात्मिकमपि पाङ्क्तत्रयं बाह्यमपि पाङ्क्त­त्र­य­मि­त्य­स्मा­त्सा­मा­न्या­दा­ध्या­त्मि­केन पाङ्क्तेन बाह्यपाङ्क्तस्य पूरणमित्यर्थः ।

ननु तेन तस्य पूरणं कुसूलादरिव धान्यादिना न सम्भ­व­ती­त्या­श­ङ्क्याह —
एकात्मतयेति ।
बाह्य­मा­ध्या­त्मिकं च सर्वं पाङ्क्त­जा­त­मे­का­त्म­त्वे­नो­प­ल­भते, पाङ्क्त­ज­ग­दा­त्मकं ब्रह्माहमस्मीति चिन्त­ये­दि­त्यु­क्त­वा­निति यावत् ।

एत­द­धि­वि­धा­ये­त्या­दि­नो­क्त­मु­पा­स­न­म­नूद्य तस्य फलमुपक्रमे कथितमित्याह —
एतदेवमिति ॥