अद्वैतशारदा

वनमालाव्याख्या

ब्रह्मानन्दवल्ली: षष्ठोऽनुवाकः

असत्सम एव भवतीति ।
वन्ध्यापुत्रसम एव भवतीत्यर्थः ।

तदेव साम्यं प्रपञ्चयति –
यथेति ।
ब्रह्मणो नास्तित्वे स्वयमपि नास्त्येवेति पर्यवस्यति, सर्वेषां तत्स्वरूपत्वात् , तथा च अस­त्त्व­मा­प­न्नस्य ब्रह्मा­स­त्त्व­वे­दिनो युक्तमेव वन्ध्या­पु­त्र­स्येव भोगा­द्य­स­म्ब­न्धि­त्वा­पा­द­न­मिति मन्तव्यम् । तद्विपर्ययेण अस्ति ब्रह्मेति वेद चेदिति सम्बन्धः ।

तदस्तित्वे लिङ्गं सूचयति –
सर्व­वि­क­ल्पा­स्प­द­मिति ।
सर्वस्य विकल्पस्य द्वैत­स्या­धि­ष्ठा­न­मि­त्यर्थः । विमतं जगत्सदधिष्ठानं कल्पि­त­त्वा­द्र­ज्जु­स­र्पा­दि­व­दिति लिङ्गेन तद­स्ति­त्व­सि­द्धि­रिति भावः ।

तत्रैव लिङ्गान्तरं सूचयति –
सर्व­प्र­वृ­त्ति­बी­ज­मिति ।
सर्व­सृ­ष्टि­क­र्त्रि­त्यर्थः । क्षित्यादिकं चेतनकर्तृकं कार्य­त्वा­द्घ­ट­व­दिति रीत्या सर्व­ज­ग­त्क­र्तृ­त्वेन च तद­स्ति­त्व­सि­द्धि­रिति भावः ।

सर्व­ल­या­धा­र­त्वे­नापि तदस्तित्वं सूचयति –
सर्वविशेषेति ।
सर्वे विशेषाः प्रत्यस्तमिता विलीना यस्मिन्निति विग्रहः ।

ननु यद्यु­क्त­प्र­मा­ण­ब­ला­दस्ति ब्रह्म कथं तत्र नास्तित्वाशङ्का हेत्व­भा­वा­दि­त्या­क्षिप्य समाधत्ते –
का पुनरित्यादिना ।

तदेव प्रपञ्चयति –
व्यवहारविषये हीत्यादिना ।
विकारमात्रे अस्ति­त्व­भा­व­नो­पेता लोकबुद्धिः व्यवहारविषये अस्तित्वमिव तद्विपरीते शशशृङ्गादौ नास्तित्वमपि व्यवहारकाले निश्चि­नु­या­दि­त्यर्थः ।

अस्मिन्नर्थे हि-शब्दसूचितां प्रसि­द्धि­मु­दा­हृत्य दर्शयति –
यथा घटादिरिति ।

एवमिति ।
तैः शशशृङ्गादिभिः सह इहापि ब्रह्मण्यपि व्यव­हा­रा­ती­त­त्वस्य समानत्वादेवं शशशृङ्गादीनामिव बह्मणोऽपि नास्तित्वमिति निश्चयो भवतीत्यर्थः ।

तस्मादुच्यत इति ।
यस्मा­द्ब्र­ह्म­ण्य­स­त्त्वा­शङ्का जायते तस्मा­त्त­न्नि­रा­क­र­णा­र्थ­म­स्ति­त्व­मु­च्यत इत्यर्थः ।

स इति ।
सर्व­प्र­त्य­ग्भूतं ब्रह्मास्तीति श्रुत्यु­प­प­त्तिभ्यां यो विजानाति स ब्रह्म­वि­त्त्वे­ना­न्येषां वेदनीयो भवतीत्यर्थः ।

ननु वस्तुतः सद्रूपे ब्रह्म­ण्य­स­त्त्व­वे­द­न­मा­त्रा­द्वे­दि­तु­र­सत्त्वं नोपपद्यत इत्यस्वरसादाह –
अथ वेति ।

सन्मार्गस्य नास्तित्वमेव निश्चि­नु­या­दि­त्यत्र हेतुमाह –
ब्रह्मेति ।
सन्मार्गेण निष्का­म­न­या­नु­ष्ठि­तेन प्राप्तव्यं यन्मोक्षरूपं फलं तद्ब्रह्मैव तदपलापे नास्तिकः स्यादित्यर्थः ।

तस्मादिति ।
ब्रह्म­ना­स्ति­त्व­वे­दिनो नास्ति­क­त्वा­द्या­प­त्ते­रि­त्यर्थः ।

अस्य मन्त्र­स्या­न­न्द­म­य­वि­ष­यत्वं वृत्तिकाराभिमतं निराकृतमपि दार्ढ्यार्थं पूनर्निराकरोति –
तं प्रतीति ।
आनन्दमयं प्रति या आशङ्का आन­न्द­म­य­ना­स्ति­त्व­गो­चरा वृत्ति­का­रै­र्व­क्तव्या सा कास्ति नास्त्येव, प्रिया­दि­वि­शि­ष्टस्य तस्य प्रत्य­क्ष­सि­द्ध­त्वा­दि­त्यर्थः ।

तस्य स्वाभिमतं पुच्छ­वा­क्य­नि­र्दि­ष्ट­ब्र­ह्म­वि­ष­य­कत्वं निषप्रत्यूहं ब्रह्म­ण्या­न­न्द­म­य­वि­ल­क्षणे नास्ति­त्व­श­ङ्काया उप­पा­दि­त­त्वा­दि­त्या­श­ये­नाह –
अपोढेति ।

ननु ब्रह्मणि सर्व­व्य­व­हा­रा­पो­होऽ­सिद्धः विद्व­द्व्य­व­हा­र­वि­ष­य­त्वा­दि­त्या­श­ङ्क्याह –
सर्व­स­म­त्वा­च्चेति ।
च-शब्दः शङ्कानिरासार्थः । ब्रह्मणः सर्व­जी­व­सा­धा­र­ण­त्वा­त्स­र्वा­न्प्रति तस्य व्यवहार्यत्वं स्यात् , न चैतदस्तीत्यतः सर्वसाधारण्येन व्यव­हा­र­वि­ष­य­त्वा­भा­वा­त्त­त्रा­स­त्त्व­शङ्का युक्तेत्यर्थः ।

यस्मादेवमिति ।
सर्वसमं ब्रह्मे­त्ये­वं­श­ब्दार्थः ।

अतस्तस्मादिति ।
अयमतःशब्दः श्रुतिगत इति बोद्धव्यम् ।

आचार्योक्तिमिति ।
ब्रह्म­वि­द्ब्रह्म प्राप्नोति, विद्याप्राप्यं च ब्रह्म सर्वकारणं सर्वा­त्म­क­मि­त्ये­व­मा­द्या­चा­र्यो­प­दे­श­मि­त्यर्थः ।

श्रुतावविदुषो ब्रह्म­प्रा­प्ति­प्रश्नो दृश्यते, तस्या­ल­म्ब­न­म­तः­श­ब्दो­पात्तं विवृणोति –
सामान्यं हीति ।
समानमित्यर्थः ।

विद्वदविदुषोः समानं ब्रह्मेत्यत्र हि-शब्दसूचितं हेतुमाह –
आकाशादीति ।
प्रकृ­त­स्या­का­शा­दि­का­र­ण­भू­त­ब्र­ह्मणः सर्वप्रत्यक्तया पुच्छवाक्ये प्रति­ष्ठा­प­दे­नो­क्त­त्वा­दि­त्यर्थः । यद्वा आकाशादिक्रमेण सर्व­भू­त­का­र­ण­त्वा­त्का­र्य­भू­तानां विदुषामविदुषां च साधारणं ब्रह्मेत्यर्थः । जीवानां स्वतः कार्य­त्वा­भा­वेऽपि स्थूल­सू­क्ष्मो­पा­धि­वि­शि­ष्ट­तया कार्य­त्वा­भ्यु­प­ग­मा­दिति भावः ।

अमुमिति ।
बुद्ध्या­दि­सा­क्षि­तया प्रत्य­क्ष­सि­द्ध­स्यापि परमात्मन इन्द्रि­या­गो­च­र­त्व­वि­व­क्षया अदःशब्देन परोक्षतया निर्देश इति बोध्यम् ।

लोकमिति ।
लोकनं लोक इति व्युत्पत्त्या चैत­न्यै­क­र­स­मि­त्यर्थः ।

इतः प्रेत्येति ।
मृत्वेत्यर्थः ।

नन्वविद्वानपि किं ब्रह्म गच्छति किं वा न गच्छतीति कोटिद्वयोपेतः प्रश्न एक एव यथा विष्णुमित्रो विष्ण्वालयं गच्छति न वेत्यादौ, ततश्च कथं तस्य द्वित्व­क­ल्प­न­मि­त्या­शङ्क्य बहु­व­च­ना­नु­रो­धा­दि­त्याह –
अनुप्रश्ना इतीति ।

अन्यौ द्वाविति ।
न्यायसाम्यादिति भावः ।

ननु विदुषो ब्रह्म­प्रा­प्त्य­भा­व­शङ्का निरा­ल­म्ब­ने­त्या­श­ङ्क्याह –
यद्यविद्वानिति ।

विष्णु­मि­त्र­वि­ष­य­क­प्र­श्न­न्या­य­म­नु­स­रति –
द्वाविति ।

बहुवचनस्य गतिमाह –
बह्विति ।
पूर्व­त्रा­स्ति­त्व­ना­स्ति­त्व­रू­प­को­टि­द्व­य­श्र­व­ण­सा­म­र्थ्य­प्राप्तं प्रश्ना­न्त­र­म­पेक्ष्य बहुवचनं भविष्यतीत्यर्थः । तु-शब्दोऽस्य पक्षस्य श्रुत्य­भि­म­त­त्व­रू­प­वि­शे­ष­द्यो­त­नार्थः । प्रथमव्याख्याने हि ‘सोऽकामयत’ इत्यारभ्यैव विद्व­द­वि­द्व­द्वि­ष­य­प्र­श्न­नि­र्णय एव कर्तव्यतया प्राप्नोति ; न चासौ ‘सोऽकामयत’ इत्यारभ्य दृश्यते, तस्मात् ‘सोऽकामयत’ इत्या­दे­र­स­ङ्ग­त­त्व­प­रि­हा­रा­या­य­मेव पक्षः श्रुत्यभिमत इति गम्यत इति मन्तव्यम्‌ ।

साम­र्थ्य­प्रा­प्ते­त्ये­त­देव विवृणोति –
असदित्यादिना ।
यद्यपि पूर्व­त्रा­स­त्त्व­वे­दने दोषाभिधानेन सत्त्ववेदने गुणाभिधानेन च ब्रह्मणः सत्त्वं निर्णीतं निर्णीतत्वाच्च न संशयो नापि तन्मूलकः प्रश्नो घटते, तथापि तर्केषु प्रविणस्य ब्रह्म­जि­ज्ञा­सो­र­ल्पो­प­त्ति­मा­त्रे­णा­प­रि­तु­ष्यतः श्रुत्यु­प­द­र्शि­ता­स्ति­त्व­ना­स्ति­त्व­रू­प­को­टि­द्वयं चोपशृण्वतः संशयो न निवर्तत इति तन्मूलकः प्रश्नः श्रुत्यभिमत इति भावः ।

अप­क्ष­पा­ति­त्वा­दिति ।
विद्व­द­वि­द्व­त्सा­धा­र­ण्य­त्वा­दि­त्यर्थः ॥

उत्त­र­ग्र­न्थेऽ­प्य­व्य­व­हि­तस्य ‘सोऽकामयत’ इत्या­दे­र­वा­न्त­र­ता­त्प­र्य­माह –
तत्रा­स्ति­त्व­मे­वेति ।
तावच्छब्दः प्राथम्यार्थः ।

ननु ‘ब्रह्म­वि­दा­प्नोति परम् ‘ इति सूत्रस्य सङ्क्षेपतो व्याख्यानरूपेण ‘सत्यं ज्ञानम्‌ - ‘ इति मन्त्रेण सह सूत्रं प्रति विस्तरतो व्याख्या­न­रू­प­स्यास्य ग्रन्थस्य समानार्थताया वक्त­व्य­त्वा­त्के­नां­शेन मन्त्रस्य ‘सोऽकामयत’ इत्या­दि­ब्रा­ह्म­णस्य च विव­र­ण­वि­व­र­णि­भा­वेन समानार्थत्वमिति जिज्ञासायां तद्द­र्श­यि­तु­म­नु­व­दति –
यच्चोक्तमिति ।

तत्रेति ।
तत्र मन्त्रे सङ्ग्रहेणोक्तं सत्यत्वं कथ­मि­त्या­का­ङ्क्षा­या­मे­त­द्वि­स्त­रेण वक्त­व्य­मि­त्यर्थः ।

ननु ब्रह्म­ण्य­स­त्त्व­श­ङ्का­नि­वृ­त्ति­परे ग्रन्थे सत्त्वमेवोच्यते न सत्य­त्व­मि­त्या­शङ्क्य सत्सत्यशब्दयोः पर्यायत्वमुक्तं स्मारयति –
उक्तं हीति ।

हि-शब्दस्तयोः पर्या­य­त्व­प्र­सि­द्धि­द्यो­तकः ; तथा च सत्त्व­स­त्य­त्व­यो­रे­क­त्वा­न्नो­क्त­श­ङ्का­व­काश इत्याशयेनाह –
तस्मादिति ।

एवमर्थतेति ।
सत्त्व­सा­ध­न­प­र­ते­त्यर्थः ।

शब्दानुगमादिति परिहारं विवृणोति –
अनेनैवेति ।
सत्त्व­ल­क्ष­णे­नै­वा­र्थेन, न तु विद्व­द­वि­दु­षो­र्ब्र­ह्म­प्रा­प्त्य­प्रा­प्ति­ल­क्ष­णे­ने­त्यर्थः । इत्थं तात्प­र्य­मु­प­व­र्ण्या­क्ष­राणि व्याचि­ख्या­सु­रु­त्त­र­ग्र­न्थ­व्या­वर्त्यं पूर्व­प­क्ष­मु­द्भा­व­यति ।

तत्रासदेवेति ।
पूर्वोक्तसंशये सतीत्यर्थः ।

विशेषत इति ।
व्यव­हा­र­गो­च­र­त्वे­ने­त्यर्थः ।

'इदं सर्वमसृजत, यदिदं किं च’ इति श्रुत्युक्तं ब्रह्मणो जग­त्का­र­ण­त्व­म­व­लम्ब्य शङ्कां निराकरोति –
तन्नेति ।

तन्नेति प्रतिज्ञां विवृणोति –
न नास्ति ब्रह्मेति ।

आका­ङ्क्षा­पू­र्वकं हेतुं विवृणोति –
कस्मादित्यादिना ।
कस्मा­दि­त्य­न­न्त­र­मा­का­शा­दि­का­र­ण­त्वा­दिति शेषः ।

हेतुं साधयति –
आकाशादि हीति ।
कार्य­त्वे­ना­भि­म­त­मा­का­शा­दिकं सर्वं ब्रह्मणः सकाशाज्जातत्वेन ‘इदं सर्वमसृजत’ इति श्रुत्या गृह्यते, अतो ब्रह्मणि नाका­शा­दि­का­र­ण­त्व­हे­तो­र­सि­द्धि­रि­त्यर्थः । आका­शा­दे­र्ब्र­ह्म­का­र्यत्वे श्रुत्य­न्त­र­प्र­सि­द्धि­सू­च­नार्थो हि-शब्दः ।

इदानीं व्याप्तिमाह –
यस्माच्चेति ।
च-शब्दोऽ­व­धा­र­णार्थः सन्नस्तीत्यनेन सम्बध्यते । लोके किञ्चि­द्य­स्मा­ज्जा­यते तदस्त्येवेति दृष्टमित्यर्थः । यद्भावकार्यं तत्स­दु­पा­दा­न­क­मिति व्याप्ति­नि­ष्कर्षः ।

निगमयति –
तस्मादिति ।
उक्त­व्या­प्ति­ब­ला­दि­त्यर्थः ; अत्र विमतं जगत्सदुपादानकं कार्य­त्वा­त्सं­म­त­व­दिति सृष्टि­श्रु­त्य­भि­म­ता­नु­मा­न­नि­ष्कर्षः । तच्च जगदुपादानभूतं सद्ब्रह्मैव तदतिरिक्तस्य सर्वस्य कल्पिततायाः प्रागेव तत्र तत्र साधितत्वात् ; तथा च न ब्रह्म­ण्य­स­त्त्व­श­ङ्केति भावः ।

नन्वस्तु ब्रह्मण आकाशादिकारणत्वं मास्तु सत्त्व­मि­त्य­प्र­यो­ज­क­त्व­शङ्कां निराचष्टे –
न चासत इति ।

ननु लोके कार्य­स्या­स­ज्ज­न्य­त्वा­ग्र­हेऽपि सर्गा­द्य­का­र्य­म­स­दु­पा­दा­न­क­मे­वास्तु ; नेत्याह –
असतश्चेदिति ।
कार्य­मि­त्य­न­न्तरं जायेतेति शेषः । कार्यस्य ह्युपादानमात्मा सत्ताप्रदमिति यावत् ; तथा च असत उपादानत्वे नाम­रू­प­क­र्मा­त्म­कस्य जगतो निरा­त्म­क­त्वा­त्स­त्ता­ही­न­त्वा­त्स­त्त्वेन रूपेण जग­न्नो­प­ल­भ्ये­ते­त्यर्थः ।

तर्कस्य विपर्यये पर्यवसानमाह –
उपलभ्यते त्विति ।
'सन्घटः’ ‘सन्पटः’ इत्येवं सत्त्वेनैव जगदुपलभ्यत इत्यर्थः ।

फलितमाह –
तस्मादिति ।
हेतो­र­प्र­यो­ज­क­त्वा­स­म्भ­वा­दि­त्यर्थः । यद्वा कार­ण­त्वा­दि­त्यर्थः ।

विपक्षे बाध­का­न्त­र­प्र­द­र्श­न­पू­र्वकं पुन­स्त­द­स्ति­त्व­मु­प­सं­ह­रति –
अस­त­श्चे­त्का­र्य­मि­त्या­दिना ।
असत उपा­दा­न­भू­ता­त्कार्यं जगज्जायेत चेत्तर्हि यथा जायमानं जगदसदन्वितं जायते तथा गृह्य­मा­ण­म­प्य­स­द­न्वि­त­त्वे­नैव गृह्ये­ता­स­ज्ज­ग­दिति, यथा मृद्विकारजातं मृदन्वितत्वेनैव गृह्यते तद्वत् ; न चैवं गृह्यते जगत् , तस्माज्जगति सदु­पा­दा­न­क­त्वा­नु­मा­न­स्या­प्र­यो­ज­क­त्वा­भा­वा­त्का­रणं ब्रह्मा­स्ती­त्यर्थः ।

न्यायत इति ।
अस­द­न्व­या­द­र्श­ना­दि­यु­क्तित इत्यर्थः ।

तस्मादिति ।
श्रुत्य­न्त­र­ब­ला­द­पी­त्यर्थः ।

मान्त्र­व­र्णि­क­स­त्य­त्व­वि­व­र­ण­व­न्मा­न्त्र­व­र्णि­क­चे­त­न­त्व­वि­व­क­र­ण­म­प्यत्र कामयितृत्ववचनेन क्रियत इत्याशयेन तद्वचनाभिप्रायं शङ्कापूर्वकं कथयति –
तद्यदीत्यादिना ।
तद्ब्रह्म ।

ननु काम­स्या­चे­त­न­ध­र्म­तायाः श्रुति­स्मृ­ति­सि­द्ध­त्वा­त्कथं कामेन ब्रह्म­णोऽ­चे­त­न­त्व­व्या­वृ­त्ति­र्ल­भ्यत इत्याशङ्क्य लौकि­क­व्या­प्ति­ब­ले­ने­त्या­श­ये­नाह –
न हीति ।

यद्वा प्रस­ङ्गा­त्सा­ङ्ख्य­श­ङ्का­मु­द्भाव्य कामश्रुत्या निराकरोति –
तद्यदीत्यादिना ।
तदाह सूत्रकारः - ‘कामाच्च नानुमानापेक्षा’ इति । अनुमानशब्दितं प्रधानं कारणत्वेन नापेक्षितव्यं कारणस्य ‘सत्यं ज्ञानम् - ‘ इति चिद्रू­प­त्व­श्र­व­णा­त्का­म­यि­तृ­त्व­श्र­व­णा­च्चेति तदर्थः ।

मन्त्रेऽपि सङ्ग्रहेण ब्रह्म­ण­श्चे­त­न­त्व­मु­क्त­मि­त्याह –
सर्वज्ञमिति ।

अवोचामेति ।
मन्त्र­ग­त­ज्ञा­न­प­द­वि­वे­च­ना­व­सर इत्यर्थः ।

यद्वा काम­यि­तृ­त्व­व­च­ना­दिना ब्रह्म­ण­श्चे­त­न­त्व­सि­द्धा­वपि सृष्टेः पूर्वं शरीराद्यभावेन ज्ञाना­स­म्भ­वा­त्सृ­ष्ट्य­नु­कू­ल­का­मा­नु­प­प­त्ति­रि­त्या­श­ङ्क्याह –
सर्वज्ञमिति ।
'पश्य­त्य­चक्षुः’ इत्यादिश्रुत्या पर­मे­श्व­र­ज्ञा­नस्य चैतन्यरूपस्य माया­वृ­त्ति­रू­पस्य वा कर­णा­द्य­न­पे­क्ष­त्व­श्र­व­णा­न्नो­क्त­श­ङ्का­व­काश इति भावः ।

अत इति ।
चेत­न­त्वा­त्स­र्व­ज्ञ­त्वा­द्वे­त्यर्थः ।

ब्रह्मणः कामयितृत्वे तस्या­प्त­का­म­त्व­श्रु­ति­वि­रो­ध­मा­श­ङ्कते –
कामयितृत्वादिति ।

अनाप्तकामत्वे कामयितृत्वं न प्रयोजकम् आप्तकामानामपि ब्रह्मविदां परानुग्रहार्थं विद्या­स­म्प्र­दा­य­प्र­व­र्त­नादौ काम­यि­तृ­त्व­द­र्श­नात् ; किं तु कामवश्यत्वम् , तच्च ब्रह्मणो नास्ति, अतो नाप्त­का­म­त्व­श्रुत्या सह काम­यि­तृ­त्व­श्रु­ते­र्वि­रोध इति परिहरति –
न ; स्वात­न्त्र्या­दिति ।

ब्रह्मणः कामेषु स्वात­न्त्र्य­म­स्म­दा­दि­का­म­वै­ल­क्ष­ण्यो­क्ति­पू­र्वकं प्रपञ्चयति –
यथा­न्या­नि­त्या­दिना ।

ननु ब्रह्मकामा दोषरूपा ब्रह्म­प्र­व­र्त­काश्च न भवन्ति चेत्तर्हि ते कथम्भूता यतस्तैर्ब्रह्म न प्रवर्त्यत इति पृच्छति –
कथं तर्हीति ।
विशुद्धा इत्युत्तरम् ।

ब्रह्मकामानां विशुद्धत्वे ब्रह्मै­वो­प­मा­न­मि­त्या­श­ये­नाह –
सत्यज्ञानलक्षणा इति ।
'सत्यं ज्ञानम्’ इति मन्त्रो­क्त­ब्र­ह्मण इव लक्षणं दोषरहितं स्वरूपं येषां ते यथोक्ताः ।

तेषां विशुद्धत्वे हेतुमाह –
स्वात्म­भू­त­त्वा­दिति ।
स्वस्य ब्रह्मण आत्मभूता या माया तत्त्वात् तत्प­रि­णा­म­त्वा­दिति यावत् । आत्मभूतत्वं च माया­या­स्ता­दा­त्म्या­प­न्न­त्व­मु­पा­धित्वं वा । एतदुक्तं भवति – ब्रह्मो­पा­धि­भू­त­मा­याया विशु­द्ध­त्वा­त्त­त्प­रि­णा­म­रू­पाणां कामानां विशुद्धत्वं मायाया ब्रह्म­व­श्य­त्वा­त्का­मा­ना­मपि तद्वश्यत्वं चेति ।

ननु तर्हि ब्रह्मणः कामाः पुण्य­का­रि­णा­म­प्य­नि­ष्ट­फ­ल­प्रा­प्त्य­नु­कूलाः स्युः स्वात­न्त्र्या­दि­त्या­श­ङ्क्याह –
तेषां त्विति ।
तु-शब्दोऽ­व­धा­र­णार्थः । तद्ब्रह्म प्राणि­क­र्मा­पे­क्ष­यैव प्राणि­क­र्म­फ­ल­प्र­दानां स्वकामानां प्रवर्तकं न प्राणि­क­र्मा­न­पे­क्षया, यथा सेवकानां कर्मापेक्षया राजा स्वकामानां सेवकफलप्रदानां प्रव­र्त­क­स्त­थे­त्यर्थः ।

एतेन ब्रह्मणः स्वकामेषु सापेक्षत्वे कथं स्वात­न्त्र्य­मिति शङ्कापि निरस्ता, लोके सेवापेक्षस्यापि राज्ञः स्वात­न्त्र्य­प्र­सि­द्धि­द­र्श­नेन ब्रह्मणोऽपि ‘सर्वेश्वरः’ इत्या­दि­श्रु­ति­सि­द्ध­स्वा­त­न्त्र्यो­प­प­त्ते­रि­त्या­श­ये­नाह –
तस्मादिति ।
कामानां विशु­द्ध­त्वा­दि­त्यर्थः ।

अत इति ।
स्वात­न्त्र्या­दि­त्यर्थः ।

साधनान्तरेति ।
ब्रह्मणः स्वकामेषु स्वकी­य­सा­ध­ना­न्त­रा­न­पे­क्ष­त्वाच्च नानाप्तकामं ब्रह्मेति प्रति­प­त्त­व्य­मि­त्यर्थः ।

साध­ना­न्त­रा­न­पे­क्ष­त्व­मेव व्यति­रे­को­दा­ह­र­णेन प्रपञ्चयति –
किं चेत्यादिना ।

अनात्मभूता इति ।
अस्वाधीना इत्यर्थः । यद्वा दोषरूपा इत्यर्थः । अथ वा आत्म­व्य­ति­रि­क्त­सा­ध­नो­द्भूता इत्यर्थः ।

अस्मि­न्प­क्षेऽ­स्यैव विवरणम् –
धर्मादीत्यादि ।
कामानां साधनापेक्षत्वे हि साध­न­वि­ल­म्बा­त्का­मि­ता­र्था­ला­भ­प्र­सक्त्या ब्रह्म­णोऽ­ना­प्त­का­मत्वं स्यात् , साध­ना­न्त­रा­न­पे­क्षत्वे तु नायं दोष इति भावः । कार्यं स्थूलशरीरम् , कारणं लिङ्गशरीरम् , स्वात्म­व्य­ति­रि­क्तानि कार्यकारणान्येव स्वात्मापेक्षया साध­ना­न्त­रा­णी­त्यर्थः ।

न तथा ब्रह्मण इति ।
कामानामिति शेषः ।

किं तर्हीति ।
यदि ब्रह्मणः कामाः स्वात्म­व्य­ति­रि­क्त­सा­ध­ना­पेक्षा न भवन्ति तर्हि किं तेषां साधनमित्यर्थः ।

उत्तरमाह –
स्वात्मनोऽनन्या इति ।
स्वात्म­मा­त्र­साध्या ब्रह्मणः कामा इत्यर्थः ।

तदेतदिति ।
तद्विशुद्धत्वेन निरू­पि­त­मे­त­त्स्वा­त्म­मा­त्र­सा­ध्य­त्वेन च निरूपितं कामानां स्वरू­प­म­भि­प्रेत्य ब्रह्मणः कामयितृत्वमाह श्रुतिरित्यर्थः ।

प्रकृते ब्रह्मणि स इति पुंलि­ङ्ग­नि­र्धेशो न संनि­हि­त­ब्र­ह्म­प­दा­पेक्षः, किं तु ‘आत्मन आकाशः सम्भूतः’ इत्यादौ व्यव­हि­ता­त्म­प­दा­पेक्ष इत्याशयेनाह –
स आत्मेति ।

कामनाप्रकारं प्रश्नपूर्वकं दर्शयति –
कथमित्यादिना ।

एकस्य बहुभवनं विरुद्धमिति शङ्कते –
कथमेकस्येति ।

नन्वेकस्यापि मृद्वस्तुनो विकारात्मना बहुभवनं दृष्ट­मि­त्या­श­ङ्क्याह –
अर्था­न्त­रा­न­नु­प्र­वेश इति ।

यद्य­प्य­र्था­न्त­रा­नु­प्र­वे­शा­भावे सत्येकस्य बहुत्वं विरुद्धं तथापि प्रकृते न बहु­भ­व­न­स्या­नु­प­पत्तिः अर्था­न्त­रा­नु­प्र­वे­शे­नैव बहुत्वस्य विव­क्षि­त­त्वा­दिति परिहरति –
उच्यत इति ।

उत्पद्येयेति ।
पूर्वसिद्धस्य ब्रह्मणः स्वत उत्प­त्त्य­यो­गा­दा­का­शा­द्य­र्था­न्त­रा­नु­प्र­वे­शे­नै­वो­त्प­त्ति­र्वि­व­क्षिता वाच्या, अतः प्रजा­ये­ये­त्ये­त­द­र्था­न्त­रा­नु­प्र­वे­शेन बहु­भ­व­न­स्यो­प­पा­द­क­मिति भावः ।

ननु पितु­र­र्था­न्त­र­भूतैः पुत्रादिभिर्यथा तस्य बहुभवनं तथा किं ब्रह्म­णोऽ­र्था­न्त­र­भू­तै­रा­का­शा­दि­वि­का­रै­र्ब­हु­भ­वनं विवक्षितम् ? नेत्याह –
न हीति ।
अर्थान्तरपदं भिन्न­स­त्ता­क­व­स्तु­प­रम् , तत्प्रयुक्तस्य बहु­भ­व­न­स्या­मु­ख्य­त्वेन प्रकृते तद्ग्रहणे हेत्वभावादिति भावः ।

नन्व­स­ङ्ग­स्व­भा­वस्य ब्रह्मण आका­शा­दि­वि­का­र­ता­दा­त्म्य­मा­दा­यापि बहुभवनं न सम्भ­व­ती­त्य­भि­प्रा­येण शङ्कते –
कथं तर्हीति ।

वस्तु­त­स्त­द­स­म्भ­वेऽपि काल्पनिकं तादात्म्यमादाय तदुपपद्यत इत्याशयेन परिहरति –
आत्मस्थेति ।
आत्मनि स्थिते अनभिव्यक्ते ये नामरूपे तयोः सर्गा­दा­व­भि­व्यक्त्या आभिमुख्येन तादात्म्येन व्यक्त्या स्थूली­भा­वा­पत्त्या नाम­रू­पा­धि­ष्ठा­न­भू­त­स्या­त्मनो बहुभवनमित्यर्थः ।

उक्तं विवृणोति –
यदेति ।

आत्म­स्व­रू­पा­प­रि­त्या­गे­नै­वेति ।
कार­ण­भू­ता­त्म­ता­दा­त्म्ये­नैव, न ततो भेदेनेत्यर्थः ।

तमेवापरित्यागं विवृणोति –
ब्रह्म­णोऽ­प्र­वि­भ­क्तेति ।
ब्रह्मणः सका­शा­द­प्र­वि­भक्तौ प्रविभागरहितौ देशकालौ ययोरिति विग्रहः । तन्मात्रावस्था स्थूलभूतावस्था अण्डावस्था तद­न्त­र्व­र्ति­वि­का­रा­वस्था चेत्येताः कार्यगता अवस्थाः सर्वा­व­स्था­श­ब्दे­नो­च्यन्ते ।

नान्यथेति ।

अन्यथा विवि­ध­प­रि­णा­मि­वि­का­र­तया बहु­त्वा­प­त्ति­र्नो­प­प­द्यत इत्यत्र हेतुं सूचयति –
निरवयवस्येति ।
लोके सावयवस्यैव मृदादेः परि­णा­मि­त्व­द­र्श­ना­दिति भावः । अल्पत्वं वेति दृष्टान्तार्थम् ।

एवं परिणामितया बहुत्वादिकं निरस्य नाम­रू­पो­पा­धि­कृ­त­मेव ब्रह्म­ण­स्त­दि­त्यत्र दृष्टान्तमाह –
यथेति ।

वस्त्व­न्त­र­कृ­त­मिति ।
घटा­द्यु­पा­धि­कृ­त­मि­त्यर्थः । इदं च ब्रह्मणो नानाजीवभावेन बहुभवने उदाहरणमिति बोध्यम् । जगदात्मना बहुभवने तु रज्ज्वादेः सर्व­द­ण्ड­धा­रा­दि­भा­वेन बहु­भ­व­न­मु­दा­ह­र्त­व्यम् ।

अत­स्त­द्द्वा­रे­णै­वेति ।
परिणामितया बहु­त्वा­स­म्भ­वा­त्स्वा­ध्य­स्त­ना­म­रू­प­द्वा­रे­णै­वात्मा बहुत्वमापद्यत इत्यर्थः ।

नाम­रू­प­यो­र­प्र­वि­भ­क्त­दे­श­का­लत्वं साधयति –
न हीति ।
अन्यदित्यस्य विव­र­ण­म­ना­त्म­भू­त­मिति । यत्सूक्ष्मं व्यवहितं विप्रकृष्टं भूत­व­र्त­मा­न­भ­वि­ष्य­दा­दि­रूपं वात्म­नोऽ­न्य­ज्ज­ग­द्वस्तु तत्त­स्मा­द्ब्र­ह्मणः सका­शा­त्प्र­वि­भ­क्त­दे­श­कालं यथा भवति तथा न हि विद्यत इति योजना । कल्पितस्य जग­तोऽ­धि­ष्ठा­न­ब्र­ह्म­ता­दा­त्म्य­शू­न्य­त­या­व­स्था­ना­यो­गा­दिति भावः ।

नाम­रू­प­यो­र्ब्र­ह्मणि कल्पितत्वे स्थिते फलितमाह –
अत इति ।

ब्रह्म­णै­वा­त्म­वती इति ।
ब्रह्मसत्तयैव सत्तावती इत्यर्थः । न स्वतः सत्तावती इत्येवकारार्थः ।

वैपरीत्यं निषेधति –
न ब्रह्मेति ।
स्वप्रकाशस्य ब्रह्मणो नामरूपात्मके जग­त्य­ध्य­स्त­त्वेन तत्सत्तया सत्तावत्त्वे स्वीकृते सति जगदान्ध्यं प्रसज्येत, जगतः स्वतः प्रका­शा­त्म­क­त्वा­भा­वा­द­ध्य­स्तस्य जडत्वनियमेन ब्रह्मणोऽपि स्वप्र­का­श­त्वा­स­म्भ­वाच्च ; तस्माद्ब्रह्म नामरूपसत्तया सत्तावन्न भवतीत्यर्थः ।

ब्रह्म­णै­वा­त्म­वती इत्युक्तं सहेतुकं विवृणोति –
ते तदिति ।
तत्प्र­त्या­ख्याने ब्रह्म­प्र­त्या­ख्याने, ब्रह्मसत्तां विनेति यावत् , ते नामरूपे न स्त एवेति कृत्वा ते तदात्मके ब्रह्मात्मके उच्येते इत्यर्थः ।

ब्रह्मणो नाम­रू­पो­पा­धि­क­ब­हु­भ­वनं कीदृ­श­मि­त्या­का­ङ्क्षा­या­माह –
ताभ्यां चेति ।
ताभ्यामेव न स्वत इत्यर्थः । तत्रायं विभागः – बुद्ध्युपाधिकं ब्रह्म ज्ञातृ­व्य­व­हा­र­भाक् बुद्धि­वृ­त्त्यु­पा­धिकं ब्रह्म ज्ञानमिति व्यवहारभाक् , विषयोपाधिकं ब्रह्म ज्ञेय­व्य­व­हा­र­भाक् , नामोपाधिकं ब्रह्म शब्दव्यवहारभाक् , सामान्यतो जडोपाधिकं ब्रह्मा­र्थ­व्य­व­हा­र­भा­गिति । आदिपदं कर्मा­दि­स­ङ्ग्र­हा­र्थम् । एवं सर्व­व्य­व­हा­र­भा­ग्ब्र­ह्मे­त्यर्थः । श्रुत्यन्तरे मयट् स्वार्थिक इति भावः ।

इतरस्य काय­क्ले­शा­दि­रू­पस्य तमसः सम्भव एव नास्तीत्यत्र हेत्वन्तरमाह –
आप्त­का­म­त्वा­च्चेति ।
इदमुपलक्षणम् ; प्राक्सृ­ष्टे­र्ब्र­ह्मणः काया­भा­वा­च्चे­त्यपि द्रष्टव्यम् । आलोचनमित्यनेन ‘तप आलोचने’ इति वैया­क­र­ण­प्र­सि­द्धि­रपि प्रकृते तपो ज्ञानमित्यत्र हेतुरिति सूचितं भवति ।

सृज्य­मा­न­ज­ग­द्वै­चित्र्ये निमित्तं सूचयति –
प्राणिकर्मादीति ।
उपासनादिलक्षणं श्रुत­मा­दि­प­दार्थः, ‘यथाकर्म यथाश्रुतम् ‘ इति श्रुतेः ।

आनुरूप्यमेव विवृणोति –
देशत इत्यादिना ।

सर्वावस्थैरिति ।
देव­त्व­म­न­ष्य­त्व­ति­र्य­क्त्वा­द्य­व­स्थै­रि­त्यर्थः । यत्किं चेदमवशिष्टं जगत् तत्सर्वं सृष्टवानिति योजना । ‘तत्सृष्ट्वा तदे­वा­नु­प्रा­वि­शत् , तदनुप्रविश्य’ इत्येषु वाक्येषु तच्छब्दा जगत्पराः ॥

प्रवे­श­प­दा­र्थ­नि­र्ण­य­प्र­यो­ज­नकं विचारमारभते –
तत्रै­त­च्चि­न्त्य­मि­त्या­दिना ।

कथंशब्दसूचितं विमर्शमेव विवृणोति –
किमिति ।
किं परमात्मा स्वेनै­वा­त्म­ना­नु­प्रा­वि­शत् , किं वा स्ववि­का­रा­द्या­त्म­ना­नु­प्रा­वि­श­दि­त्यर्थः ।

तत्र प्रथमं सिद्धान्तमाह –
किं ताव­द्यु­क्त­मि­त्या­दिना ।

अन्येनात्मना प्रवेश इति स्वम­त­मु­त्था­प­यितुं प्रथमं पूर्व­वा­दि­सि­द्धान्तं निराकरोति –
ननु न युक्तमित्यादिना ।
कार्यस्य बुद्ध्या­दे­रु­त्प­त्ति­प्र­भृ­ति­का­र­णा­त्म­क­त्वा­त्का­र­णेन व्याप्त­त्वा­त्का­र्य­भू­त­दे­हा­द्यु­त्प­त्ति­व्य­ति­रे­केण कार्ये देहादौ प्रवेश इत्येतन्न युक्तमित्यर्थः ।

उक्तमेव विवृणोति –
कारणमेव हीति ।
कारणमेव कार्यात्मना परिणतमिति प्रसि­द्ध­मि­त्यर्थः ।

ततः किम् ? अत आह –
तत इति ।
कारणेन कार्यस्य जन्मप्रभृति व्याप्त­त्वा­दि­त्यर्थः ।

अप्र­वि­ष्ट­स्ये­वेति ।
देवदत्तादेरिति शेषः ।

उपादानकारणस्य कार्या­का­र­प­रि­ण­ति­व्य­ति­रे­केण कार्ये प्रवेशो नास्तीत्यत्र दृष्टान्तमाह –
न हीति ।

एवं ब्रह्म­ण­स्ते­नै­वा­त्म­ना­नु­प्र­वेश इति सिद्धान्तं निरा­कृ­त्या­न्ये­ना­त्म­ना­नु­प्र­वेश इति स्वमतं दृष्टान्तेनाह –
यथा घट इत्यादिना ।
पार्थिवानि रजांस्यत्र चूर्णशब्दार्थः । घटोपादानभूताया मृदो मृज्जा­ती­य­चू­र्णा­त्मना घटे यथानुप्रवेशः तथा परस्यान्येन जीवे­ना­त्म­ना­नु­प्र­वेश इह विवक्षित इत्यर्थः ।

अत्रार्थे छन्दो­ग­श्रु­ति­सं­वा­द­माह –
श्रुत्य­न्त­रा­च्चेति ।

सिद्धान्ती निराकरोति –
नैवं युक्त­मे­क­त्वा­द्ब्र­ह्मण इति ।
परमात्मनो जीवे­नै­क्या­च्चू­र्णस्य मृद­न्य­त्व­व­ज्जी­वस्य ब्रह्मान्यत्वं नास्ति, तथा च मृद­श्चू­र्णा­त्म­नेव ब्रह्मणोऽन्येन जीवेनात्मना प्रवेशकल्पनं न युक्त­मे­वे­त्यर्थः । श्रुत्यन्तरेऽपि जीव­स्या­न्य­त्वा­श्र­व­णात् ‘तत्त्वमसि’ इत्यभेदस्यैव श्रवणाच्च अऩ्येनात्मनेति वदतः पूर्ववादिनो न तदप्यनुकूलमिति भावः ।

सङ्ग्रहवाक्यं दृष्टा­न्त­वै­श­म्यो­क्ति­पू­र्वकं विवृणोति –
मृदा­त्म­न­स्त्वि­त्या­दिना ।
मृज्जातीयस्य त्वित्यर्थः ।

सावयवत्वाच्चेति ।
सावयवस्य मूर्ततया प्रवे­श­यो­ग्य­त्वा­च्चे­त्यर्थः ।

चूर्णस्येति ।
तस्य स्वेना­प्र­वि­ष्ट­दे­श­व­त्त्वा­च्चे­त्यर्थः ।

एकत्वे सतीति ।
एकत्वादित्यर्थः ।

ननु यदि जीवस्य ब्रह्मा­न­न्य­त्वा­द्ब्र­ह्म­णश्च स्वतो व्याप­क­त्वा­दि­त्या­दि­युक्त्या अन्येनात्मना प्रवेशस्त्वया निराक्रियते, तर्हि तवापि कथं प्रवेशनिर्वाहः तेनै­वा­त्म­ना­नु­प्र­वे­शा­स­म्भ­व­स्या­प्यु­क्त­त्वा­दिति मत्वा पूर्ववादी पृच्छति –
कथं तर्हीति ।

मास्तु प्रवेश इति त्वयापि वक्तुं न शक्यत इत्याह –
युक्तश्चेति ।
तस्मा­द­न्ये­ना­त्म­ना­नु­प्र­वेश इति वदता मयैव प्रवेशनिर्वाहः कर्तव्य इति भावः ।

कथ­मि­त्या­श­ङ्क्याह पूर्ववादी –
सावयवमेवास्तु तर्हीति ।
यदि ब्रह्मणो निरवयवत्वे प्रवेशायोग्यता तर्हि सावयवमेव ब्रह्मास्तु उपा­दा­न­त्वा­न्मृ­दा­दि­वत् ।

ततश्च प्रवे­शो­प­प­त्ति­रि­त्याह –
सावयवत्वादिति ।
यथा शिरःपाण्यादिमतो देवदत्तस्य हस्तादिरवयवः तथा नाम­रू­प­श­ब्दि­त­का­र्य­प्र­प­ञ्चा­का­रेण परिणममानस्य ब्रह्म­णोऽ­प्य­व­य­व­वि­शेषो जीवः ; तथा च देवदत्तस्य हस्तात्मना मुखबिले प्रवे­श­व­त्स्वा­य­व­भू­त­जी­वा­त्मना ब्रह्मणः शरीरलक्षणकार्ये प्रवेश उपपद्यत इत्यर्थः ।

उक्तं पूर्ववादिना प्रवेशनिर्वाहं सिद्धान्ती निराकरोति –
नाशून्यत्वादिति ।
प्रवे­ष्ट­व्य­प्र­दे­श­शू­न्य­त्वा­द्ब्र­ह्मणो नोक्तविधयापि प्रवेशो युक्त इत्यर्थः ।

उक्तमेव विवृणोति –
न हीति ।
कार्यात्मना परिणतस्य ब्रह्म­ण­स्ता­व­न्ना­म­रू­पा­त्म­क­का­र्य­देशे प्रवेशो वक्तुं न शक्यते, मृत्कार्यस्य मृदा तदवयवैरिव च ब्रह्मकार्यस्य सर्वस्य ब्रह्मणा तदवयवजीवैश्च जन्मप्रभृत्येव व्याप्तत्वात् , नापि तदतिरेकेणात्मना शून्यः कश्चि­त्प्र­वे­शोऽस्ति यं प्रदेशं स्वावयवभूतेन जीवेनात्मना ब्रह्म प्रवि­शे­दि­त्यर्थः । निष्कलश्रुत्या विरोधेन ब्रह्मणः साव­य­व­त्व­सा­ध­का­नु­मा­ना­नु­त्था­ना­च्चे­त्यपि दृष्टव्यम् ।

इत्थ­म­न्ये­ना­त्मना ब्रह्मणः कार्ये प्रवेश इति वदतः पूर्ववादिनो निरासं श्रुत्वा तदेकदेशी प्रत्यवतिष्ठते –
कारणमेव चेत्प्रविशेदिति ।
नात्र कारणस्य कार्ये प्रवेशः कथ्यते, किं तु कार्यविशेषस्य जीवस्य कारणे, तस्य च परि­च्छि­न्न­त्वा­त्प्र­वे­ष्टृ­त्वो­प­प­त्ति­रिति चेदित्यर्थः ।

सिद्धान्ती तमपि निराकरोति –
जीवात्मत्वं जह्यादिति ।
यदि जीवः स्वकारणे प्रविशेत्तदा स्वकीयं जीवात्मत्वमेव जह्या­त्प­रि­त्य­जे­दि­त्यर्थः । जीवस्वरूपस्यैव विल­य­न­प्र­स­ङ्गा­दिति यावत् ।

विकारस्य प्रकृतौ प्रवेशे लय एव स्यादि­त्य­त्रो­दा­ह­र­ण­माह –
यथेति ।

इतश्च न कारणे कार्य­स्या­नु­प्र­वेशो युक्त इत्याह –
तदेवेति ।
तच्छ­ब्दो­पा­त्तस्य कार्यस्यैव प्रवे­श­क­र्म­त्व­श्र­व­णा­दि­त्यर्थः ।

एवं पूर्व­वा­द्ये­क­दे­शिनि निरस्ते पुनः पूर्ववादी प्रकारान्तरेण प्रवे­श­नि­र्वा­ह­क­मा­श­ङ्कते –
कार्यान्तरमेव स्यादिति ।

तदेव विवृणोति –
तदेवेति ।
'तदे­वा­नु­प्रा­वि­शत्’ इत्यत्र नामरूपात्मना परिणतं ब्रह्म जीवात्मरूपं कार्यं सद्देहादिरूपं कार्या­न्त­र­मे­वा­प­द्यत इत्ययमर्थो विवक्षितः, ‘स्थूलोऽहम्’ ‘कृशोऽहम्’ इत्या­दि­रू­पे­णा­हं­श­ब्दा­र्थस्य जीवस्य शरी­रा­द्य­भे­दा­नु­भ­वा­द­नु­भ­वा­नु­सा­रेण श्रुत्य­र्थ­व­र्ण­नस्य न्याय्यत्वात् , तथा च ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति सिद्धमिति भावः ।

सिद्धान्ती निराकरोति –
न, विरोधादिति ।
कार्यान्तरस्य कार्यान्तरस्य कार्या­न्त­र­ता­प­त्ते­र्वि­रु­द्ध­त्वा­दि­त्यर्थः ।

अत्रोदाहरणमाह –
नहीति ।

जीवस्य देहादिभावो वास्तव इति पक्षे विरोधान्तरमाह –
व्यतिरेकेति ।
जीव­स्या­व­स्था­त्रये बाल्यादिषु चानु­वृ­त्ति­र­व­स्था­त्र­यस्य बाल्यादीनां च व्यावृ­त्ति­श्चा­नु­भ­व­सिद्धा ; तथा चानु­वृ­त्ति­व्या­वृ­त्ति­ल­क्ष­णा­भ्या­म­न्व­य­व्य­ति­रे­का­भ्या­मेव जीवस्य देहादिभ्यः सकाशाद्यो व्यतिरेकः सिद्धः तदुपोद्बलकतया तं व्यति­रे­क­म­नु­व­दन्त्यः ‘योऽयं विज्ञानमयः’ इत्याद्याः श्रुतयो विरु­ध्ये­र­न्नि­त्यर्थः । अत एव ‘स्थूलोऽहम्’ इत्या­दि­प्र­ती­ते­र­प्र­मा­त्वान्न तदनुसारेण प्रवे­श­वा­क्या­र्थ­क­ल्पनं युज्यत इति भावः ।

जीवस्य देहादिभावो वास्तव इत्यत्रैव बाधकान्तरमाह –
तदापत्ताविति ।
जीवस्य देहा­दि­ल­क्ष­ण­का­र्या­न्त­र­ता­प­त्ता­वि­त्यर्थः ।

असम्भवमेव विवृणोति –
न हीति ।

यत इति ।
देहा­दि­ल­क्ष­णा­द्ब­न्धा­दि­त्यर्थः ।

दृष्टान्तमाह –
न हीति ।
यथा शृङ्खलया बद्धस्य चोरादेर्या शृङ्ख­ला­प­त्ति­र्वि­द्यते सैव तस्करादेर्न हि मोक्षो भवति तद्वदित्यर्थः ।

ननु यदि जीवस्य देहादिभावापत्तौ व्यति­रे­क­श्रु­ति­वि­रोधः प्रसज्येत तर्हि तदविरुद्ध एव प्रवे­शोऽ­स्त्विति पूर्ववादी प्रत्यवतिष्ठते –
बाह्या­न्त­र्भे­दे­नेति ।

एतदेव प्रपञ्चयति –
तदेवेति ।
प्रकृ­त­मा­का­शा­दि­का­रणं ब्रह्मैव प्रथमं जीवं प्रत्या­धा­र­भू­त­दे­हा­द्या­का­रेण परिणमते पश्चा­द्दे­हा­दा­वा­धारे तदाधेयजीवरूपेण च परिणमते ; तथा च ब्रह्मणो देहाद्याकारेण परिणतिः सृष्टिः जीवरूपेण परिणतिः प्रवेश इति सृष्टि­प्र­वे­श­क्रि­य­यो­र्भेदः समानकर्तृकत्वं च सिध्यति, ब्रह्मणोऽन्येन जीवेनात्मना प्रवेश इति स्वाभि­म­ता­र्थोऽपि सिध्यतीत्यर्थः ।

येयं शरी­रा­द्य­न्त­र्जी­वा­त्मना परिणतिः सा किं ब्रह्मणो मुख्य­प्र­वे­श­त्वेन त्वदभिमता किं वौप­चा­रि­क­प्र­वे­श­त्वेन ? नाद्य इत्याह –
न ; बहिष्ठेत्यादिना ।
न द्वितीयः, ब्रह्मणः परि­णा­मि­त्व­स्या­स­म्भ­वात् । एतच्च ब्रह्मणः परि­णा­मि­त्व­नि­रा­क­रणं स्मृतिपादे विस्तरेण कृत­मि­त्या­श­ये­ना­त्रा­चा­र्यैर्न कृतम् । सूचितं चात्रपि सङ्ग्रहेण प्राक् ‘नान्यथा निरवयवस्य ब्रह्मणो बहु­त्वा­प­त्ति­रु­प­प­द्यते’ इत्यत्र । तस्मा­द­न्ये­ना­त्मना ब्रह्मणः प्रवेश इति पूर्व­वा­दि­म­त­म­नु­प­प­न्न­मे­वेति स्थितम् ।

इत्थं पूर्ववादिनं निराकृत्य सिद्धान्ती स्वैक­दे­शि­न­म­प्यु­त्थाप्य निराकरोति –
जल­सू­र्ये­त्या­दिना ।
यथा सूर्यादेर्जलादौ प्रति­बि­म्ब­भा­व­ल­क्षणः प्रवेशोऽस्ति, तथा बुद्ध्यादौ ब्रह्मणः प्रतिबिम्बभाव एव प्रवेशपदार्थः ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ इत्यादिश्रुतिषु ‘आभास एव च’ इत्यादिसूत्रेषु च ब्रह्मणः प्रति­बि­म्ब­भा­वस्य प्रसिद्धत्वेन तस्यैव प्रवे­श­प­दा­र्थ­त्व­क­ल्पने बाध­का­भा­वा­दि­त्या­शयः ।

अप­रि­च्छि­न्न­त्वा­दिति ।
व्याप­क­त्वा­दि­त्यर्थः ।

अमू­र्त­त्वा­च्चेति ।
मूर्ति­र­व­य­व­सं­स्था­न­वि­शेषः, तद्रहितत्वात् , निर­व­य­व­द्र­व्य­त्वा­दिति यावत् ।

व्यापकत्वे हेतुं पूर्ववाक्येनाह –
आकाशादीति ।

ननु निर­व­य­व­त्व­व्या­प­क­त्वा­दिना प्रसिद्धस्य गगनस्य मेघा­लो­का­द्य­व­च्छे­देन जलादौ प्रति­बि­म्बो­द­य­द­र्श­ना­दा­त्म­नोऽपि तथा किं न स्यादि­त्या­श­ङ्क्याह –
तद्वि­प्र­कृ­ष्टेति ।
लोके बिम्ब­सू­र्या­द्य­पे­क्षया विप्र­कृ­ष्ट­दे­श­व­द्रू­प­वच्च प्रति­बि­म्ब­बो­द­य­योग्यं जलादिकं यथास्ति, न तथा ब्रह्मणः प्रति­बि­म्बा­धा­र­व­स्त्वस्ति, बुद्ध्या­दे­र्व्या­प­का­त्मा­पे­क्षया विप्र­कृ­ष्ट­दे­श­त्वा­भा­वात् उद्भू­त­रू­प­र­हि­त­त्वा­च्चे­त्यर्थः । अत एव पूर्वो­दा­हृ­त­श्रु­ति­सू­त्रा­णा­म­न­यैव रीत्या प्रति­बि­म्ब­भा­व­प­रत्वं निर­स्या­र्था­न्तरे तात्पर्यम् ‘वृद्धि­ह्रा­स­भा­क्त्वम्’ इति सूत्र­त­द्भा­ष्य­यो­र्म­हता प्रपञ्चेन प्रतिपादितमिति न तद्विरोध इति भावः ।

प्रति­बि­म्ब­भा­व­ल­क्ष­णस्य प्रवेशस्य निराकरणे प्रवेशवाक्यं निर्विषयं स्यादिति सिद्धा­न्त्ये­क­दे­श्याह –
एवं तर्हीति ।

प्रकारान्तरेण प्रवेशवाक्यस्य विषयमाशङ्क्य प्रकारान्तराणां निर­स्त­त्वा­दि­त्या­श­ये­नाह –
न चेति ।

प्रवेशवाक्यस्य निर्वि­ष­य­त्व­म­युक्तं श्रुति­वा­क्य­त्वा­दि­त्याह –
तदेवेति ।

प्रवे­शा­दे­र­ती­न्द्रि­य­त्वेन तत्राज्ञाते श्रुति­प्रा­मा­ण्य­स्या­वाभ्यां स्वीकृ­त­त्वा­च्चे­त्याह –
श्रुतिश्चेति ।

तर्ह्यस्तु प्रवे­श­वा­क्या­द­ती­न्द्रि­या­र्थ­बोध इत्याशङ्क्याह –
न चास्मादिति ।
प्रति­बि­म्ब­भा­वा­नु­प­गमे सत्ये­त­द्वा­क्या­र्थ­बोधे यत्न­व­ता­म­प्य­स्मा­क­म­स्मा­द्वा­क्या­द­र्थ­ज्ञानं न चोत्पद्यते, तस्मा­त्प्र­ति­बि­म्ब­भा­व­नि­रा­क­रणे प्रवेशवाक्यं निर्विषयं स्यादित्यर्थः ।

एवमेकदेशिना प्रवेशवाक्यस्य निर्वि­ष­य­त्वा­पा­दने कृते तच्छ्रुत्वा तटस्थ आह –
हन्त तर्हीति ।

इदानीं सिद्धान्ती प्रवेशवाक्यस्य निर्वि­ष­य­त्वा­दि­क­म­पा­क­रोति –
न, अन्या­र्थ­त्वा­दिति ।
प्राङ् निरा­कृ­ते­भ्योऽ­र्थेभ्यः सकाशादन्यस्य प्रक­र­णा­वि­रु­द्धस्य प्रक­र­णा­पे­क्षि­तस्य चार्थस्य सत्त्वान्न वाक्यस्य निर्वि­ष­य­त्व­प्र­सङ्गो न वापो­ह्य­ते­त्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति –
किमर्थमिति ।
वाक्यस्य निर्वि­ष­य­त्वा­द्या­पा­द­न­म­स्थाने न युक्तम् , अत इदं किमर्थं क्रियत इत्यर्थः ।

निर्वि­ष­य­त्वा­द्या­पा­द­न­स्या­यु­क्तत्वे हेतुमाह –
प्रकृतो हीति ।
हि-शब्दो हेत्वर्थः । प्रकृतस्यात्र स्मर्तुं योग्य­स्या­र्था­न्त­रस्य सत्त्वा­दि­त्यर्थः ।

कोऽसौ प्रकृतोऽर्थ इत्या­का­ङ्क्षायां तं दर्शयति –
ब्रह्मविदिति ।
'ब्रह्म­वि­दा­प्नोति...’ इति सूत्रे ‘सत्यं ज्ञानम्‌...’ इति मन्त्रे च तस्य ब्रह्मणः प्रत्यक्त्वेन विज्ञानं प्रकृतम् , न केवलं प्रकृतं विवक्षितं च तत् । ‘अहं ब्रह्म’ इति ज्ञानस्यैव पर­प्रा­प्ति­सा­ध­न­त्वा­दि­त्यर्थः ।

एवं सूत्रमन्त्रयोः प्रकृतस्य ब्रह्मावगमस्य प्रवे­श­वा­क्य­प­र्य­न्त­म­नु­वृ­त्ति­माह –
ब्रह्म­स्व­रू­पे­त्या­दिना ।

ब्रह्मा­व­ग­म­श्चेति ।
'आत्मन आकाशः सम्भूतः’ इत्यादिवाक्ये यतो ब्रह्म­स्व­रू­पा­व­ग­मा­यैव शरीरान्तं कार्यं प्रदर्शितम् अत­स्त­द्वा­क्येऽपि ब्रह्मावगम आरब्धोऽनुवृत्त इत्यर्थः ।

एवं सृष्टि­वा­क्येऽ­नु­वृ­त्तस्य च तस्य विज्ञा­न­म­य­वा­क्येऽ­नु­वृ­त्ति­माह –
तत्रान्नमयादिति ।
कोशवाक्येषु मध्य इति तत्रशब्दार्थः । स्थूल­सू­क्ष्म­क्र­मेण कोशा­ना­मा­न्त­र­त्वो­प­दे­शस्य सर्वा­न्त­र­ब्र­ह्म­प्र­ति­प­त्ति­शे­ष­त्वा­द्वि­ज्ञा­न­श­ब्द­ल­क्षि­तायां बुद्धिगुहायां ब्रह्मा­व­ग­म­स्या­नु­वृ­त्ति­र्युक्ता । अत्र प्रवे­श­वा­क्य­प­र्य­न्त­म­नु­वृ­त्ति­क­थ­ना­व­सरे प्राणमये प्रवेशितो मनोमये प्रवेशित इत्यनुक्त्वा विज्ञा­न­म­य­प­र्याये प्रवेशित इत्युक्तेः कोऽभिप्राय इत्या­का­ङ्क्षायां तमभिप्रायं गुहा­श­ब्द­प्र­यो­गेण सूचयति । एतदुक्तं भवति - ‘यो वेद निहितं गुहायां परमे व्योमन्’ इत्यत्र हार्दाकाशनिष्ठा गुहा केत्या­का­ङ्क्षायां सा गुहा विज्ञा­न­म­य­प­र्याये बुद्धिरूपेण निरूप्यते, अतो बुद्धौ निहितत्वेन ब्रह्मणोऽवगमः सम्पादनीय इति गुहा­नि­हि­त­वा­क्य­ता­त्प­र्य­सू­च­नार्थं विज्ञानगुहायां प्रवेशित इत्युक्तिरिति ।

नन्वे­व­मा­न­न्द­म­यस्य मुख्यात्मत्वं सिध्येत् ‘अन्योऽन्तर आत्मानन्दमयः’ इति वाक्येन तस्यैव बुद्धि­गु­हा­स्थ­त्वा­भि­धा­ना­दि­त्या­श­ङ्क्याह –
तत्रेति ।
प्रियादिविशिष्ट एवात्मा तत्र प्रवेशितः न शुद्धचिद्धातुः विशि­ष्ट­श्चा­मुख्य आत्मे­त्यु­क्त­मि­त्यर्थः ।

कथं तर्हि बुद्धि­गु­हा­नि­हि­त­त्वेन शुद्ध­ब्र­ह्मा­व­ग­म­सि­द्धि­रि­त्या­श­ङ्क्याह –
ततः परमिति ।
आन­न्द­म­या­धि­ग­मा­न­न्त­र­मि­त्यर्थः ।

नन्वा­न­न्द­य­मा­धि­ग­म­स्या­न­न्त­र्यो­क्ति­सि­द्ध­वि­शु­द्ध­ब्र­ह्मा­धि­ग­मो­पा­यत्वं कथमित्यत आह –
आनन्दमयलिङ्गेति ।
आनन्दमय एव विशिष्टोऽर्थो विशेष्यस्य शुद्ध­चि­द्धा­तो­र्लि­ङ्गम् , विशिष्टस्य विशे­ष्या­व्य­भि­चा­रि­त्व­द­र्श­नात् ।

आनन्देति ।
आन­न्द­वृ­द्धे­र्व­क्ष्य­मा­णाया अवसानः अवधिभूतः, निरतिशयानन्दरूप इत्यर्थः ।

प्रति­ष्ठा­श­ब्दा­र्थ­माह –
सर्वविकल्पेति ।

सर्व­क­ल्प­ना­धि­ष्ठा­न­त्वा­देव वस्तुतो निर्विशेषत्वमाह – –
निर्विकल्प इति ।
तथा च आन­न्द­म­य­रू­प­लि­ङ्गा­धि­ग­म­द्वा­रे­णा­न­न्द­वृ­द्ध्य­व­सा­न­भूत आत्मा यथो­क्तोऽ­स्या­मे­वा­न­न्द­म­य­गु­हा­या­मे­वा­धि­ग­न्तव्य इत्यभिप्रेत्य बुद्धौ द्रष्टृ­त्वा­दि­रू­पे­णो­प­ल­ब्धि­रेव तस्य ब्रह्मणः प्रवेशत्वेन प्रवेशवाक्ये कल्प्यते गौण्या वृत्त्योपचर्यत इत्यर्थः । तथा च वक्ष्यति – तद­नु­प्र­वि­ष्ट­मि­वा­न्त­र्गु­हायां बुद्धौ द्रष्टृ श्रोतृ मन्तृ विज्ञातृ इत्येवं विशेषवदुपलभ्यते तदेव तस्य प्रवेश इति ।

बुद्धावेव प्रवेशकल्पने हेतुमाह –
न ह्यन्यत्रेति ।
बुद्धेः सकाशादन्यत्र ब्रह्म­चै­त­न्य­स्या­नु­प­ल­म्भा­दि­त्यर्थः ।

तत्र हेतुमाह –
निर्वि­शे­ष­त्वा­दिति ।
व्यञ्ज­क­प­दा­र्थ­रूपो यो विशे­ष­स्त­त्स­म्ब­न्ध­र­हि­त­त्वा­दि­त्यर्थः ।

बुद्धि­स­म्ब­न्धस्य ब्रह्मो­प­ल­ब्धि­हे­तुत्वं सदृष्टान्तमाह –
विशेषसम्बन्धो हीति ।
व्यञ्जकपदार्थो विशेषपदस्यार्थः ।

ननु बुद्धावेव ब्रह्म­चै­त­न्य­स्यो­प­ल­ब्धि­रिति न नियमः, घटः स्फुरति पटः स्फुर­ती­त्या­दि­प्र­का­रेण बुद्धे­र­न्य­त्रापि तस्यो­प­ल­ब्धि­द­र्श­ना­दि­त्या­श­ङ्क्याह –
संनिकर्षादिति ।
वृत्तिद्वारा बुद्धि­स­म्ब­न्धा­देव तत्रा­प्यु­प­ल­ब्धि­रि­त्यर्थः ।

बुद्धे­श्चै­त­न्य­व्य­ञ्ज­कत्वे युक्तिमाह –
अव­भा­सा­त्म­क­त्वा­च्चेति ।
प्रका­शा­त्म­क­त्वा­दि­त्यर्थः । अन्तःकरणस्य प्रका­शा­त्म­क­त्व­मा­लो­का­दे­रिव स्वाभाविकमेव, न तु तप्ता­यः­पि­ण्डा­दे­रि­वा­न्य­कृ­त­मिति सूचनार्थश्चकारः ।

बुद्धि­वृ­त्ते­र्घ­टा­दिषु चैत­न्य­व्य­ञ्ज­कत्वं सदृष्टान्तमाह –
यथा चेति ।
आदिपदं नील­पी­ता­दि­स­ङ्ग्र­हा­र्थम् । यथा नील­पी­ता­द्यु­प­ल­ब्धि­रा­लो­क­स­म्ब­न्ध­कृता तथा विषयेष्वात्मनः स्फुर­ण­रू­पे­णो­प­ल­ब्धि­र­न्तः­क­र­ण­वृ­त्ति­ल­क्ष­णा­लो­क­स­म्ब­न्ध­प्र­यु­क्ते­त्यर्थः ।

एव­म­न्व­य­व्य­ति­रे­काभ्यां बुद्धेरेव ब्रह्मो­प­ल­ब्धि­सा­ध­न­त्व­मिति प्रसाध्य प्रकृतमुपसंहरति –
तस्मादिति ।
मन्त्रे यद्गुहायां निहितमिति गुहानिहितत्वं प्रकृतं तदेव प्राविशदित्यनेन पुनरुच्यत इत्यर्थः ।

तर्हि पौनरुक्त्यं स्यादिति शङ्कां वारयति –
वृत्तिस्थानीय इति ।
वृत्ति­र्व्याख्या । तथा च व्याख्या­न­व्या­ख्ये­य­भा­वा­प­न्न­यो­र्गु­हा­नि­हि­त­प्र­वे­श­वा­क्य­योर्न पौनरुक्त्यदोष इति भावः ॥

इदानीं प्रवेशशब्दार्थं कथयति –
तदे­वे­द­मि­त्या­दिना ।
यदाकाशादिकारणं प्रकृतं तदेव ब्रह्म इदं प्रत्य­क्षा­दि­सं­नि­धा­पितं कार्यं सृष्ट्वेत्यर्थः ।

अनु­प्र­वि­ष्ट­मि­वेति ।
गुहा­दा­व­नु­प्र­विष्टं देवदत्तादिवस्तु यथा तदन्तरुपलभ्यते तथा ब्रह्मापि बुद्धे­र­न्त­रु­प­ल­भ्यते, तथा चान्त­रु­प­ल­भ्य­मा­न­त्व­सा­म्या­त्प्र­वे­श­शब्दो गौण इत्यर्थः । द्रष्टृ­त्वा­दि­रू­पे­णो­प­ल­ब्धि­ल­क्षणे विवक्षिते प्रवेशे बुद्ध्यु­प­हि­त­चै­त­न्य­रू­पस्य जीवस्यैव कर्तृत्वेऽपि जीव­ब्र­ह्म­णो­र्वा­स्त­वै­क्य­मा­दाय सृष्टि­प्र­वे­श­क्रि­ययोः समा­न­क­र्तृ­त्व­स­त्त्वात् यः स्रष्टा स एवानुप्राविशत् क्त्वाप्र­त्य­य­श्र­व­णा­दिति सिद्धान्तो निष्प्रत्यूह इति भावः ।

एवमक्षराणि व्याख्याय प्रवे­श­वा­क्य­स्यापि ब्रह्म­स­त्त्व­सा­धने उपयोगं कथयति –
तस्मादस्तीति ।
तत्प्र­कृ­त­मा­का­शा­दि­का­रणं ब्रह्म अस्ति नास्तीति न, प्रवेष्टृत्वात् असतः प्रवे­शा­द­र्श­ना­दि­त्यर्थः ।

ब्रह्मणो नास्तित्वाभावे फलितमाह –
अत इति ।
पृथि­व्या­दि­भू­त­त्रयं मूर्तमवशिष्टं भूत­द्व­य­म­मू­र्त­मिति विभागो बोध्यः ।

ब्रह्मैव मूर्तामूर्ते अभवदित्यनेन तयो­र्ब्र­ह्म­ता­दा­त्म्य­मु­च्यते, तत्रोपपत्तिमाह –
मूर्तामूर्ते हीति ।
प्रागु­त्प­त्ते­र­व्या­कृ­त­ना­म­रू­प­त­या­त्मनि स्थिते मूर्तामूर्ते एव सर्गादौ स्वान्तर्गतेन परमात्मना व्याक्रियेते इत्यर्थः । तयो­र­व्या­कृ­त­ना­म­रू­प­तया प्रागवस्थाने ‘तद्धेदं तर्ह्य­व्या­कृ­त­मा­सीत्’ इति श्रुति­प्र­सि­द्धि­द्यो­त­नार्थो हि-शब्दः ।

ततः किम् ? अत आह –
व्याकृते चेति ।

आत्मना त्विति ।
परमात्मना अविभक्तदेशकाले परमात्मना तादात्म्यापन्ने एव, प्रागु­त्प­त्ते­रा­त्म­नोऽ­द्वि­ती­य­त्व­श्र­व­णा­दिति भावः । एतदुक्तं भवति - मूर्ता­मू­र्त­यो­र­व्या­कृ­त­यो­रा­त्म­ता­दा­त्म्या­त्त­यो­रेव व्याकृतयोरपि तत्ता­दा­त्म्य­मु­प­प­द्यत एवेति कृत्वा तत्कारणभूत आत्मा ते मूर्तामूर्ते अभवदिति श्रुत्योच्यत इति ।

इदं तदित्युक्तमिति ।
यत्त्वया पृष्टं तदिदमिति निर्दि­ष्ट­मि­त्यर्थः । इहेदानीमयं विष्णुमित्र इत्यादिप्रकारेण निरूपितं वस्त्वित्यर्थः ।

विशेषणे इति ।
निरुक्तं मूर्त­स्यै­वा­भे­देन विशेषणम् अनि­रु­क्त­म­मू­र्त­स्यै­वा­भे­देन विशेषणमिति विभागः ।

यथेति ।
यथा सच्छब्दवाच्यं प्रत्यक्षं भूतत्रयं मूर्तस्याभेदेन विशेषणं त्यच्छब्दवाच्यं च परोक्षं भूत­द्व­य­म­मू­र्त­स्या­भे­देन विशेषणं तथा निरु­क्ता­नि­रुक्ते अपीत्यर्थः ।

तथेति ।
निलयनं च तथा निरु­क्त­व­न्मू­र्त­स्यैव धर्म इति सम्बन्धः ।

धर्म इति ।
तथा च सन्नि­रु­क्त­नि­ल­य­नानि मूर्तधर्माः, त्यद­नि­रु­क्ता­नि­ल­य­ना­न्य­मू­र्त­धर्मा इति विभागः कृत इति बोध्यम् ।

ननु त्यदा­दी­ना­म­मू­र्त­ध­र्मत्वे सति ब्रह्मधर्मत्वं प्रसज्येत ब्रह्म­णोऽ­प्य­मू­र्त­त्वा­दिति, नेत्याह –
त्यदनिरुक्तेति ।

व्याकृतेति ।
व्याकृतं कार्यम् , तद्विशेषणान्येव न कार­ण­ब्र­ह्म­वि­शे­ष­णानि, तेषां तद्विशेषणत्वे सर्गात्प्रागपि सत्त्वापत्त्या तदु­त्त­र­का­ल­भा­वि­त्व­श्र­व­ण­वि­रो­धा­दि­त्यर्थः ।

व्याकृ­त­वि­ष­य­त्व­मेव विवृणोति –
त्यदितीत्यादिना ।
प्राणो वायुः, आका­श­स­ङ्ग्र­हा­र्थ­मा­दि­प­दम् ।

अत इति ।
त्यद­नि­रु­क्ता­नि­ल­य­न­श­ब्दै­र­भि­हि­तस्य प्राणादेः कार्य­त्वा­दे­ता­न्य­मू­र्तस्य विशेषणानि व्याकृ­त­वि­ष­या­ण्ये­वेति योजना ।

सत्यं चेति ।
'सत्यं चानृतं च’ इत्यत्र सत्यशब्देन व्याव­हा­रि­क­स­त्य­मे­वो­च्यते ।

न तु पर­मा­र्थ­स­त्य­मि­त्यत्र हेतुः –
अधिकारादिति ।
सच्च त्यच्चे­त्या­दीनां व्यव­हा­र­वि­ष­या­णा­मेव विकाराणां प्रक­र­णा­दि­त्यर्थः । किं च ‘सत्यं च’ इत्यत्र पर­मा­र्थ­स­त्य­ग्र­हणे परमार्थद्वयं प्रसज्येत, ‘सत्यमभवत्’ इत्यत्रापि परमार्थसत्यस्य गृहीतत्वात् ।

भवत्विति चेत् , तत्राह –
एकमेव हीति ।
पर­मा­र्थ­स­त्य­स्या­द्वि­ती­यत्वं श्रुति­स्मृ­ति­न्या­य­स­ह­स्र­प्र­सि­द्ध­मिति द्योतनार्थो हि-शब्दः, अतो न परमार्थद्वये इष्टापत्तिरिति भावः ।

ननु व्यव­हा­र­वि­ष­या­का­शा­दि­प्र­प­ञ्चस्य कल्पितत्वात्कथं तत्र सत्य­श­ब्द­प्र­वृ­त्ति­रिति शङ्कां निरा­कु­र्व­न्सत्यं च व्यव­हा­र­वि­ष­य­मि­त्युक्तं विवृणोति –
इह पुनरिति ।
'सत्यं चानृतं च’ इत्यत्रेत्यर्थः । आपेक्षिकं सत्यमुच्यत इति सम्बन्धः ।

किम­पे­क्ष­यो­द­का­दि­ल­क्ष­णस्य सत्य­स्या­पे­क्षि­क­त्व­मि­त्या­का­ङ्क्षा­या­माह –
मृगतृष्णिकादीति ।
'सत्यं चानृतं च’ इत्यत्र व्यावहारिकं वस्तु सत्यशब्दार्थः प्रातिभासिकं वस्त्व­नृ­त­श­ब्दार्थ इति निष्कर्षः ।

किं पुनरिति ।
एतत्प्रत्कृतं निरुक्तादिकं सर्वं किमिति प्रश्ने सत्यमभवदिति प्रतिवचनम् ।

तत्र सत्यं विशिनष्टि –
परमार्थेति ।
इदं च विशेषणं सत्यं चेत्यत्र गृही­त­स­त्य­व्या­वृ­त्त्य­र्थ­मिति प्रागेव व्यक्तम् ।

पर­मा­र्थ­स­त्य­स्व­रूपं प्रश्नपूर्वकं विशिष्य दर्शयति –
किं पुन­स्त­दि­त्या­दिना ।
यत्स­त्या­दि­श­ब्दै­रु­पात्तं यच्चेदं किं चाविशेषितं विशि­ष्या­नु­पात्तं तत्सर्वं पर­मा­र्थ­स­त्य­म­भ­व­दिति रीत्या श्रुतौ ‘यदिदं किं च’ इति वाक्यस्य पूर्वे­णै­क­वा­क्यता बोध्या ।

इमा­मे­वै­क­वा­क्यतां प्रदर्शयन् ‘तत्स­त्य­मि­त्या­च­क्षते’ इत्य­स्यो­प­प­त्ति­माह –
यस्मादित्यादिना ।

पूर्वग्रन्थस्य विवक्षितमर्थं दर्शयितुं तत्र वृत्तमनुवदति –
अस्तीत्यादिना ।

इदानीं तत्र विवक्षितं कथयति –
तस्मादिति ।
श्रुत्या ब्रह्म­ण्य­स­त्त्वा­श­ङ्का­नि­रा­क­र­ण­पू­र्वकं सत्त्व­प्र­ति­पा­द­ना­यैव तस्य भोक्तृ­भो­ग्या­त्म­ना­व­स्था­न­प्र­ति­पा­द­ना­दि­त्यर्थः । अस्य हेतोरस्तीति विजा­नी­या­दि­त्य­नेन सम्बन्धः ।

तदेवेति ।
ब्रह्मै­वे­त्यर्थः ।

इदं­श­ब्दा­र्थ­मे­वाह –
कार्यस्थमिति ।
कार्यकरणसङ्घाते साक्षितया स्थितमित्यर्थः ।

बुद्धौ विशिष्य तस्यो­प­ल­ब्धि­म­भि­प्रे­त्याह –
परम इत्यादिना ।
व्योम्नि या गुहा तस्यामिति सप्त­म्यो­र्वै­य­धि­क­र­ण्यम् । हार्दमेवाकाशं परमं व्योमेति च प्रागेव दर्शितम् ।

मुख्यस्य निधानस्यासम्भवं मनसि निधाय हृदयगुहायां निहि­त­मि­त्य­स्या­र्थ­माह –
तत्प्रत्ययेति ।
तस्मि­न्हृ­द­य­गु­हा­श­ब्दिते प्रत्यये साक्षिणा प्रती­य­मा­नेऽ­न्तः­क­रणे योऽय­मा­त्म­चै­त­न्य­स्या­व­भा­स­मानो विशेषः ‘पश्यन् शृण्वन्’ इत्यादिभाष्येण प्रदर्शितो द्रष्टृ­त्वा­दि­रू­प­भे­द­स्तेन रूप­भे­दे­नो­प­ल­भ्य­मानं प्रकाशमानं ब्रह्मेत्यर्थः ।

ननु ‘असद्वा इदम् - - ’ इति श्लोको न सर्वा­न्त­रा­त्मा­स्ति­त्व­प्र­ति­पा­दकः तद­स्ति­त्व­वा­चि­प­दा­भा­वात् , प्रत्युत आकाशादिकारणे वस्तु­न्य­स­च्छ­ब्द­श्र­व­णेन तदसत्त्वस्यैव प्रती­ते­श्चे­त्या­शङ्क्य विशिनष्टि –
कार्यद्वारेणेति ।
असतः कार्य­का­र­ण­त्वा­स­म्भ­वा­द­स­च्छ­ब्द­नि­र्दि­ष्ट­स्यापि कारणस्य सत्त्वं सिध्यतीत्याशयः ॥