अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम्

यद­वि­द्या­व­शा­द्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥
नम­स्त्र­य्य­न्त­स­न्दो­ह­स­र­सी­रु­ह­भा­नवे ।
गुरवे पर­प­क्षौ­घ­ध्वा­न्त­ध्वं­स­प­टी­यसे ॥२॥
भग­व­त्पा­दा­ब्ज­द्वन्द्वं द्वन्द्व­नि­ब­र्ह­णम् ।
सुरे­श्च­रा­दि­स­द्भृ­ङ्गै­र­व­ल­म्बि­त­मा­भजे ॥३॥
बृहदारण्यके भाष्ये शिष्यो­प­कृ­ति­सि­द्धये ।
सुरे­श्व­रो­क्ति­मा­श्रित्य क्रियते न्यायनिर्णयः ॥४॥

काण्वो­प­नि­ष­द्वि­व­र­ण­व्या­जे­ना­शे­षा­मे­वो­प­नि­षदं शोधयितुकामो भगवान्भाष्यकारो विघ्नो­प­श­मा­दि­स­मर्थं शिष्टा­चा­र­प्र­मा­णकं परा­प­र­गु­रु­न­म­स्का­र­रूपं मङ्गलमाचरति —
ओं नमो ब्रह्मादिभ्य इति ।
वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तद­र्थ­त्वा­त्त­दा­त्म­क­त्वाच्च ‘एष उ ह्येव सर्वे देवाः’(बृ. उ. ३ । ९ । ९) इति श्रुतेः । आदिपदेन पर­मे­ष्ठि­प्र­भृ­तयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मा­न्त­र्भा­व­स्त­थाऽपि तेष्व­ना­द­र­नि­रा­सार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमः­श­ब्द­स्त्रि­वि­ध­प्र­ह्वी­भा­व­वि­षयः ।

ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह —
ब्रह्मविद्येति ।

एतेषां तत्सं­प्र­दा­य­क­र्तृत्वे वंशब्राह्मणं प्रमाणयति —
वंशऋषिभ्य इति ।
यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः ।

संप्र­त्य­प­र­गु­रू­न्न­म­स्क­रोति —
नमो गुरुभ्य इति ।
यद्यपि ब्रह्म­वि­द्या­सं­प्र­दा­य­क­र्त्र­न्त­र्भा­वा­देते प्रागेव नम­स्कृ­ता­स्त­थाऽपि शिष्याणां गुरु­वि­ष­या­द­रा­ति­रे­क­का­र्यार्थं पृथ­ग्गु­रु­न­म­स्क­रणं ‘यस्य देवे परा भक्तिः’(श्वे. उ. ६ । २३) इत्या­दि­श्रु­ते­रिति ।

यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते —
उषा वा इति ।
एतेन चिकीर्षिताया वृत्ते­र्भ­र्तृ­प्र­प­ञ्च­भा­ष्ये­णा­ग­ता­र्थ­त्व­मु­क्तम् । तद्धि ‘द्वया हे’(बृ. उ. १ । ३ । १) त्यादि­मा­ध्य­न्दि­न­श्रु­ति­म­धि­कृत्य प्रवृत्तम् । इयं पुनः ‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्या­दि­का­ण्व­श्रु­ति­मा­श्रि­त्येति ।

अथोद्देश्यं निर्दिशति —
तस्या इति ।

भर्तृ­प्र­प­ञ्च­भा­ष्या­द्वि­शे­षा­न्त­र­माह —
अल्पग्रन्थेति ।
अस्या ग्रन्थ­तोऽ­ल्प­त्वेऽपि नार्थ­त­स्त­था­त्व­मिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रा­नु­का­रि­भि­र्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्य­ल­क्ष­ण­स्यात्र भावादिति ।

ननु कर्म­का­ण्डा­धि­का­रिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधा­र­ण­त्वा­द्वै­रा­ग्या­देश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्र­मा­र­म्भ­म­र्ह­ती­त्यत आह —
संसारेति ।
कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसा­रा­द्व्या­वृ­त्ति­मि­च्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्ध­बु­द्धे­र्वि­वे­किनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि –
“शोध्यमानं तु तच्चि­त्त­मी­श्व­रा­र्पि­त­क­र्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति ।
अतो यथो­क्त­वि­शि­ष्टा­धि­का­रिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः ।

तथाऽपि विष­य­प्र­यो­ज­न­सं­ब­न्धा­ना­म­भावे कथं वृत्तिरारभ्यते तत्राऽह —
संसारहेत्विति ।
प्रमा­तृ­ता­प्र­मुखः कर्तृ­त्वा­दि­र­नर्थः संसारस्तस्य हेतु­रा­त्मा­विद्या तन्निवृत्तेः साधनं ब्रह्मा­त्मै­क­त्व­विद्या तस्याः प्रति­प­त्ति­र­प्र­ति­ब­द्धायाः प्राप्ति­स्त­दर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनि­दा­ना­न­र्थ­नि­वृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मा­त्मै­क्य­विद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञान­फ­ल­यो­रु­पा­यो­पे­य­त्वम् । शास्त्र­त­द्वि­ष­य­यो­र्वि­ष­य­वि­ष­यित्वं तदारभ्यं शास्त्रमिति ।

प्रयोजनादिषु प्रवृ­त्त्य­ङ्ग­त­यो­क्ते­ष्वपि सर्वव्यापाराणां प्रयो­ज­ना­र्थ­त्वा­त्तस्य प्राधान्यम् । उक्तं हि –
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति ।
तथा च शास्त्रा­र­म्भौ­प­यिकं प्रयोजनमेव नाम­व्यु­त्पा­द­न­द्वारा व्युत्पादयति —
सेयमिति ।
अध्या­त्म­शा­स्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मा­त्मै­क्य­विद्या तन्निष्ठानां सर्व­क­र्म­सं­न्या­सिनां सनिदानस्य संसा­र­स्या­त्य­न्त­ना­श­क­त्वा­द्भ­व­त्यु­प­नि­ष­च्छ­ब्द­वाच्या । ‘उपनिषदं भो ब्रूहि’(के. उ. ४ । ७) इत्याद्या च श्रुतिः । तस्मा­दु­प­नि­ष­च्छ­ब्द­वा­च्य­त्व­प्र­सि­द्धे­र्वि­द्या­या­स्ततो यथो­क्त­फ­ल­सि­द्धि­रि­त्यर्थः ।

कथं तस्या­स्त­च्छ­ब्द­वा­च्य­त्वेऽ­प्ये­ता­वा­नर्थो लभ्यते तत्राऽह —
उपनिपूर्वस्येति ।
अस्यार्थः – “षद्लृ­वि­श­र­ण­ग­त्य­व­सा­द­नेषु” इति स्मर्यते । सदे­र्धा­तो­रु­प­नि­पू­र्वस्य क्विबन्तस्य सहे­तु­सं­सा­र­नि­व­र्त­क­ब्र­ह्म­वि­द्या­र्थ­त्वा­दु­प­नि­ष­च्छ­ब्द­वाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्च­या­र्थ­स्त­स्मा­दै­कात्म्यं निश्चितं तद्विद्या सहेतुं संसारं साद­य­ती­त्यु­प­नि­ष­दु­च्यते उक्तं हि – ‘अवसादनार्थस्य चावसादात्’ इति ।

ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धा­स्त­च्छब्दं प्रयुञ्जते न खल्वेकस्य शब्द­स्या­ने­का­र्थत्वं न्याय्य­मि­त्या­श­ङ्क्याऽऽह —
तादर्थ्यादिति ।
ग्रन्थस्य ब्रह्म­वि­द्या­ज­न­क­त्वा­दु­प­चा­रा­त्त­त्रो­प­नि­ष­त्प­द­मि­त्यर्थः ।

यथो­क्त­वि­द्या­ज­न­कत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भव­ती­त्या­श­ङ्क्य­श्र­व­णा­दि­प­रा­णा­मे­वा­र­ण्या­नु­व­च­ना­दि­नि­य­मा­धी­ता­क्ष­रे­भ्य­स्त­ज्ज­न्मेति बृह­दा­र­ण्य­क­ना­म­नि­र्व­च­न­पू­र्व­क­माह —
सेयमिति ।

अथा­र­ण्या­नु­व­च­ना­दि­नि­य­मा­धी­त­वे­दा­न्ता­ना­मपि केषा­ञ्चि­द्वि­द्या­नु­प­ल­म्भा­त्कुतो यथो­क्ता­क्ष­रे­भ्य­स्त­दु­त्प­त्ति­रि­त्यत आह —
बृहत्त्वादिति ।
उपनिषदन्तरेभ्यो ग्रन्थ­प­रि­मा­णा­ति­रे­का­दस्य बृहत्त्वं प्रसि­द्ध­म­र्थ­तोऽपि तस्य तदस्ति ब्रह्म­णोऽ­ख­ण्डै­क­र­स­स्यात्र प्रति­पा­द्य­त्वा­त्त­ज्ज्ञा­न­हे­तूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृह­त्त्वा­दा­र­ण्य­क­त्वाच्च बृहदारण्यकम् । नचै­त­द­शु­द्ध­बु­द्धे­र­धी­त­मपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्”(भा.शान्ति.२७०।३८) इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशि­ष्टा­धि­का­र्या­दि­वै­शि­ष्ट्येऽपि कर्मकाण्डेन निय­त­पू­र्वा­प­र­भा­वा­नु­प­प­त्ति­लभ्यः संबन्धो वक्तव्यः । स च परी­क्ष­क­वि­प्र­ति­प­त्ते­र­शक्यो विशेषतो ज्ञातु­मि­त्या­श­ङ्क्याऽऽह तस्येति ।

प्रतिज्ञातं संबन्धं प्रक­ट­यि­तु­म­सि­द्ध­प्र­मा­ण­भा­वानां वेदान्तानां संब­न्धा­भि­धा­ना­व­स­रा­भा­वा­त्त­त्प्रा­माण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संब­न्ध­वि­शे­ष­व­च­न­मु­चि­त­मिति मन्वा­न­स्त­त्प्रा­माण्यं साधयति —
सर्वोऽपीति ।
प्रत्य­क्षा­नु­मा­ना­भ्या­मि­त्या­ग­मा­ति­रि­क्त­प्र­मा­णो­प­ल­क्ष­णा­र्थम् । एषोऽ­र्थोऽ­ध्य­य­न­वि­ध्यु­पात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञा­प­न­प­र­स्तथा चाज्ञा­त­ज्ञा­प­क­त्वा­वि­शे­षा­त्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्दे­त­र­मा­ना­योग्यो रूपादिहीनत्वात् । ‘एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­स्त­स्यैव तत्त­दा­त्म­नाऽ­व­स्था­नात् । ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) इत्यादिश्रुतेः । स च प्रकाशनः सर्व­प्र­का­श­क­त्वात् । ‘तमेव भान्तमनुभाति सर्वम्’(क. उ. २ । २ । १५) इति श्रुतेः । स च परोऽ­वि­द्या­त­त्का­र्या­ती­त­त्वात् । ‘विरजः पर आकाशात्’(श.ब्रा.१४.७.२.२३) इत्यादिश्रुतेः । एवंरूपो वेद­प­द­वे­द­नी­य­श्चि­दे­क­रसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधि­वा­क्य­व­त्प्र­मा­ण­मिति । अथवा प्रत्य­क्षा­दि­नाऽ­न­व­गतो योऽसा­वि­ष्ट­प्रा­प्त्या­द्यु­पायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यै­वा­ज्ञा­त­त्वा­त्तत्र कर्मकाण्डं कर्मा­नु­ष्ठा­न­प्र­यु­क्त­बु­द्धि­शु­द्धि­द्वारा ब्रह्मा­धि­ग­ता­वा­रा­दु­प­का­र­कम् । ‘विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । पर­म­पु­रु­ष­स्यौ­प­नि­ष­द­त्व­श्र­व­णात् । ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रुतेः । तद्युक्तं कर्म­का­ण्ड­व­ज्ज्ञा­न­का­ण्ड­स्यापि प्रामाण्यमिति ।

अधि­का­रि­सौ­ल­भ्य­प्र­ति­पा­द­न­द्वारा ज्ञान­का­ण्ड­प्रा­मा­ण्य­मेव स्फुटयति —
सर्व­पु­रु­षा­णा­मिति ।
अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरु­षा­णा­म­न­व­च्छि­न्न­सु­खा­दि­मा­त्रेऽ­भि­ला­षो­प­ल­म्भा­त्त­न्मा­त्रस्य च मोक्ष­त्वा­त्त­का­मिनो ज्ञान­का­ण्डा­धि­का­रिणः सुल­भ­त्वा­त्त­स्मि­न्प्रमां स्वार्थ­वि­ष­या­मा­द­ध­त्कथं तदप्रमाणमिति ।

ननु वेदस्य कार्यपरतया प्रामा­ण्या­त्क­र्म­का­ण्ड­व­त्का­ण्डा­न्त­र­स्यापि कार्यपरतया प्रामा­ण्य­मे­ष्ट­व्य­मिति नेत्याह —
दृष्टविषय इति ।
क्रिया­का­र­क­फ­ले­ति­क­र्त­व्य­ता­ना­म­न्य­त­म­स्मि­न्कार्ये समी­हि­त­प्रा­प्त्या­द्यु­पा­य­भूते व्युत्पत्तिकाले प्रत्य­क्षा­दि­सिद्धे तथा­वि­ध­का­र्य­धि­योऽ­न्य­था­ल­ब्ध­त्वा­त्तत्र नाऽऽग­मोऽ­नु­स­न्धेयः । न हि लोक­वे­द­यो­स्त­द्भि­द्यते अलौकिके तस्मि­न्न­व्यु­त्प­त्ति­प्र­सं­गात् । नचा­व्यु­त्प­न्नानि पदानि बोध­का­न्य­ति­प्र­सं­गात् । न च ब्रह्मण्यपि तुल्या व्युत्प­त्त्य­नु­प­पत्तिः । तस्मि­न्ब्र­ह्म­त्वे­नाऽऽ­त्म­त्वेन च प्रसिद्धेः । तत्त­त्सा­मा­न्यो­पाधौ विज्ञा­ना­दि­प­दानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लु­ण्ठि­त­सा­मा­न्य­वि­शेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः ।

किं च तिष्ठतु वेदा­न्त­प्रा­माण्यं कर्मकाण्डेऽपि व्यति­रि­क्ता­त्मा­स्ति­त्वादौ सिद्धेऽर्थे प्रामा­ण्य­मा­व­श्य­कम् । तदभावे तत्प्रा­मा­ण्या­यो­गात् । न हि भवि­ष्य­द्दे­ह­सं­ब­न्ध्या­त्म­स­द्भा­वा­न­धि­गमे पार­लौ­कि­क­प्र­वृ­त्ति­वि­श्रम्भः । तस्मा­त्क­र्म­का­ण्ड­प्रा­मा­ण्य­मि­च्छता सिद्धेऽर्थे भवि­ष्य­द्दे­ह­सं­ब­न्धि­न्या­त्मनि स्वर्गादौ च तत्प्रा­मा­ण्य­स्या­भ्यु­पे­य­त्वा­त्कार्ये वेद­प्रा­मा­ण्या­नि­य­मा­द्वे­दा­न्ता­ना­मपि स्वार्थे मानत्वं सिद्ध्यतीत्याह —
न चेति ।

ननु देहा­न्त­र­सं­ब­न्ध्या­त्म­ज्ञानं विनाऽपि विधि­व­शा­द­दृ­ष्टा­र्थ­क्रि­यासु प्रवृत्तिः स्यादिति नेत्याह —
स्वभावेति ।
यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रा­न्मा­ना­न्त­राच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षा­पू­र्व­कारी यागा­द्य­नु­ति­ष्ठेत् । लोकायतस्य व्यति­रि­क्ता­त्मा­स्ति­त्व­म­जा­नतो जन्मा­न्त­रे­ष्टा­नि­ष्ट­प्रा­प्ति­हा­नी­च्छया वैदि­क­क्रि­या­स्व­प्र­वृ­त्ते­र्द­र्श­नात् । अतो नाति­रि­क्ता­त्म­ज्ञानं विना साम्परायिके प्रवृ­त्ति­रि­त्यर्थः ।

ननु विधयः साधनविशेषं बोधयन्तो नाति­रि­क्ता­त्मा­स्ति­त्त्व­वादौ मानं वाक्य­भे­द­प्र­सं­गा­दि­त्यत आह —
तस्मादिति ।
अति­रि­क्ता­त्म­धियं विना पार­लौ­कि­क­प्र­वृ­त्त्य­नु­त्पत्त्या कर्म­का­ण्ड­प्रा­मा­ण्या­यो­गा­दिति यावत् । विधीनां श्रुत्य­र्था­भ्या­मु­भ­या­र्थ­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

न केवलं विधि­भि­रे­वा­र्था­दा­क्षि­प्त­म­ति­रि­क्ता­त्मा­स्तित्वं किन्तु श्रुत्याऽपि स्वमु­खे­नो­क्त­मि­त्याह —
येयमिति ।
निर्ण­य­द­र्श­ना­द्व्य­ति­रि­क्ता­त्मा­स्ति­त्व­मिति संबन्धः ।

तत्रैव प्रकृ­तो­प­यो­गि­त्वे­नो­प­क्र­मो­प­सं­हा­रा­न्तरे दर्शयति —
यथा चेति ।

पूर्ववदेव संब­न्ध­द्यो­त­नार्थं चकारः उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­त्क­ठ­व­ल्ली­ना­म­ति­रि­क्ता­त्मा­स्तित्वे तात्प­र्य­मुक्त्वा बृह­दा­र­ण्य­क­वा­क्य­स्यापि तत्र तात्पर्यमाह —
स्वयमिति ।
न हि प्रसि­द्ध­ज­ड­त्वस्य देहादेः स्वय­ञ्ज्यो­ति­ष्ट्व­मिति ज्योति­र्ब्रा­ह्म­ण­ग­तो­प­क्र­म­स्त­द्वि­षयो देहा­दि­व्य­ति­रि­क्ता­त्मा­न­म­धि­क­रोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फल­दा­ना­या­नु­ग­च्छतः । स च गत्वा ज्ञान­क­र्मा­नु­गुणं फलमनुभवतीति शारी­र­क­ब्रा­ह्म­ण­ग­तो­प­सं­हा­रोऽपि जन्मा­न्त­र­सं­ब­न्ध­वि­षयः । न चात्रैव भस्मीभवतो देहा­दे­र्ज­न्मा­न्त­र­सं­बन्धो युक्तः । तेनाऽऽत्मा देहा­दि­व्य­ति­रिक्तो जन्मा­न्त­र­सं­बन्धी सिद्धो ब्राह्म­णा­भ्या­मि­त्यर्थः ।

अजा­त­श­त्रु­ब्रा­ह्मणे च व्येव त्वा ज्ञप­यि­ष्या­मी­त्यु­प­क्रमो व्यति­रि­क्ता­त्मा­स्ति­त्व­वि­षयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ‘य एष विज्ञानमयः पुरुषः’(बृ. उ. २ । १ । १६) इति विज्ञा­न­म­य­वि­शे­ष­णा­द­ति­रि­क्ता­त्मा­स्तित्वं दर्शितं न हि देहा­दे­र्वि­ज्ञा­न­म­य­त्व­मस्ति तस्मा­त्त­द­प्यु­प­क्र­मो­प­स­म्हा­राभ्यां व्यति­रि­क्ता­त्मा­स्तित्वं गमयतीत्याह —
ज्ञप­यि­ष्या­मी­त्यु­प­क्र­म्येति ।
नचोदाहृतानां वाक्या­ना­म­प्रा­मा­ण्यम् । तत्प्रा­मा­ण्य­स्यौ­त्प­त्ति­क­सू­त्र­हे­त्व­वि­शे­षा­द­भ्यु­पे­य­त्वा­दिति भावः ।

यथो­क्ता­त्म­न्य­ह­म्प्र­त्ययो मानं तत्र देहा­का­रा­स्फु­र­णा­द­ति­रि­क्ता­त्मा­स्ति­त्वस्य तेनैव स्फूर्त्यु­प­प­त्ते­रतो न तत्र श्रुति­प्रा­मा­ण्य­मिति शङ्कते —
तत्प्रत्यक्षेति ।
प्रत्यक्षस्य विषयोऽवकाशो यस्मि­न्नि­त्य­ति­रि­क्ता­त्मा­स्ति­त्व­मु­च्यते ।

यद्यपि व्यति­रि­क्ता­त्मा­स्तित्वं त्वद­भि­प्रा­ये­णा­ह­न्धी­गो­चर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्या­ग­म­वि­वे­क­शू­न्या­ना­म­ह­म्प्र­त्य­य­भाजां व्यति­रे­क­प्र­त्य­य­प्राप्तौ विपश्चितां विप्र­ति­प­त्त्य­भा­व­प्र­सं­गा­दिति परिहरति —
न वादीति ।

वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह —
न हीति ।
तेषु प्राति­कू­ल्य­सं­भा­व­नार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेद­न­स्यै­वा­सं­भ­वा­द­ध्य­क्ष­वि­रो­धा­दिति योजना ।

प्रत्यक्षे विषये विप्र­ति­प­त्त्य­भावे दृष्टान्तमाह —
न हीति ।

तत्र व्यभिचारं शङ्कते —
स्थाण्वादाविति ।
प्रत्यक्षे धर्मिणि स्थाणु­र्वा­पु­रुषो वेति विप्र­ति­प­त्ते­रु­प­ल­म्भान्न प्रत्यक्षे विप्र­ति­प­त्त्य­भावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजा­दि­वि­प्र­ति­पत्तिः संगृह्यते ।

किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽ­ङ्गी­का­रात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति —
नेत्यादिना ।

प्रत्यक्षतो विविक्तेऽर्थे विप्र­ति­प­त्त्य­भावं प्रपञ्चयति —
न हीति ।

आत्मनः स्थूल­दे­ह­व्य­ति­रि­क्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्म­दे­ह­व्य­ति­रि­क्त­त्व­मपि नाह­म्प्र­त्य­य­ग्रा­ह्य­मि­त्याह —
वैना­शि­का­स्त्विति ।
ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूल­दे­हा­ति­रिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धे­र­ति­रि­क्त­स्याऽ­त्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्म­दे­हा­ति­रि­क्ता­त्म­सि­द्धि­रि­त्यर्थः ।

किं च प्रत्यक्षस्य विषयो रूपा­दि­स्त­द्रा­हित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ‘अश­ब्द­म­स्प­र्श­म­रू­पम्’(क. उ. १ । ३ । १५) इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहा­द्य­ति­रि­क्ता­त्मा­स्ति­त्वस्य प्रत्य­क्षा­त्प्र­सि­द्धि­रि­त्याह —
तस्मादिति ।
प्रत्यक्षतो विविक्ते विप्र­ति­प­त्त्य­यो­गात् । प्रकृते च तद्दर्शनादिति यावत् ।

अथेच्छादयः क्वचिदाश्रिता गुण­त्वा­द्रू­प­व­दि­त्य­नु­मा­ना­द­ति­रि­क्ता­त्म­सि­द्धि­रिति नेत्याह —
तथेति ।
नाऽऽत्मा­स्ति­त्व­प्र­सि­द्धि­रिति संब­न्धा­र्थ­स्त­था­शब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये पर­स्प­रा­श्र­य­त्व­मा­धा­र­स्ये­दा­नी­मेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्र­य­मा­त्र­व­चने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्ध­त्वा­दा­त्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति ।

’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राण­ना­दि­व्या­पा­रा­ख्यस्य लिङ्ग­स्याऽऽ­त्मा­स्तित्वे प्रद­र्शि­त­त्वा­त्तस्य च व्याप्ति­सा­पे­क्षस्य प्रत्य­क्षा­दि­सि­द्धा­त्म­वि­ष­य­त्वान्न तस्य शब्दैकगम्यतेति शङ्कते —
श्रुत्येति ।

आत्मनः स्वातन्त्र्येण लिङ्ग­ग­म्य­त्वा­भि­प्रा­येण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति —
नेति ।
योऽचेतनव्यापारः स चेत­ना­धि­ष्ठा­न­पू­र्वको यथा रथादिव्यापारः । प्राण­ना­दि­व्या­पा­र­स्या­प्य­चे­त­न­व्या­पा­र­त्वा­च्चे­त­ना­धि­ष्ठा­न­पू­र्व­क­त्व­मिति संभावनामात्रेण लिङ्गोपन्यासः ।

न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मा­न्त­र­सं­ब­न्धस्य प्रमा­णा­न्त­रे­णा­ग्र­ह­णा­त्त­द्व्या­प्त­लि­ङ्गा­यो­गा­दि­त्याह —
जन्मान्तरेति ।

ननु व्यति­रि­क्ता­त्मा­स्ति­त्व­मा­ग­मै­क­गम्यं चेत्कथं तत्प्र­त्य­क्ष­म­नु­मेयं चेति वादिनो वदन्तीति तत्राऽऽह —
आगमेन त्विति ।
’येयं प्रेते विचि­कि­त्से’त्या­द्या­ग­मेन ‘को ह्येवान्यात्’(तै. उ. २ । ७ । १) इत्या­दि­वे­दो­क्तैश्च प्राण­ना­दि­भि­र्लौ­कि­कै­र्लि­ङ्ग­वि­शे­षै­रा­त्मा­स्तित्वे सिद्धे यथो­क्ता­त्म­सि­द्धि­म­नु­स­रन्तो वादिनो वैदि­क­मे­वा­ह­म्प्र­त्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रे­क्षा­नि­र्मि­तानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तु­त­स्त्वात्मा यथो­क्त­श्रु­त्यै­क­स­म­धि­गम्य इत्यर्थः ।

तस्या­स्ये­त्या­दिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदा­न्त­प्रा­माण्यं सर्वोऽ­पी­त्या­दिना प्रसाध्याधुना कर्मभिः शुद्ध­बु­द्धे­र्वै­रा­ग्या­दि­द्वारा ज्ञानो­त्प­त्ति­रिति तयोः संबन्धं कथयति —
सर्वथाऽपीति ।
आग­मा­त्मा­ना­न्त­राद्वा व्यति­रि­क्ता­त्मा­स्ति­त्व­प्र­ति­प­त्ता­व­पी­त्यर्थः ।

पुरु­षा­र्थो­पा­य­वि­शे­षा­र्थि­न­स्त­ज्ज्ञा­प­नार्थं कर्म­का­ण्ड­मा­रब्धं चेत्तर्हि तत्रो­क्त­क­र्म­भि­रेव विव­क्षि­त­पु­म­र्थ­सि­द्धे­र्वे­दा­न्ता­र­म्भ­वै­य­र्थ्यान्न संबन्धोक्तिः साव­का­शे­त्या­श­ङ्क्याऽऽह —
नत्विति ।
आत्माज्ञानं खल्व­न­र्थ­का­र­ण­म­न्व­य­व्य­ति­रे­क­शा­स्त्र­गम्यं मिथ्या­ज्ञा­न­का­र्य­लि­ङ्गकं च । तच्चा­क­र्तृ­भो­क्तृ­ब्र­ह्मा­त्म­ज्ञा­ना­द­प­ने­यम् । न हि तत्क­र्म­का­ण्डो­क्तै­रेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मा­त्त­द्धा­नार्थं ज्ञानसिद्धये वेदा­न्ता­र­म्भ­भा­वा­दु­क्त­सं­ब­न्ध­सि­द्धि­रि­त्यर्थः ।

यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मि­न्क­र्म­व­शा­न्मोक्षः स्यादि­त्या­श­ङ्क्याऽऽह —
यावद्धीति ।
सम्यग्ज्ञानमेव साक्षा­न्मो­क्ष­हे­तुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मा­त्क­र्म­का­ण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । राग­द्वे­षा­दी­त्या­दि­श­ब्दे­ना­वि­द्या­स्मि­ता­भि­नि­वे­शा­दयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रा­न­पे­क्ष­त्वम् । अपिकारः संभावनार्थः । दृष्ट­त्व­म­न्व­य­व्य­ति­रे­क­सि­द्ध­त्वम् । अदृष्टत्वं शास्त्र­मा­त्र­ग­म्य­त्वम् ।

अध­र्मो­प­च­य­प्रा­चुर्ये हेतुमाह —
स्वाभाविकेति ।

अथ वैराग्यार्थं कर्मफलं प्रप­ञ्च­य­न्न­ध­र्म­फ­ल­माह —
तत इति ।
उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(मनु १२.९) इति ।

तत्किं पुण्यो­प­च­या­भा­वा­द­न­व­काशं स्वर्गादिफलमिति नेत्याह —
कदाचिदिति ।

शास्त्री­य­सं­स्का­रस्य बलीयस्त्वे फलितमाह —
तत इति ।
आदिशब्दो वाग्देहविषयः ।

फलविभागं वक्तुं कर्म भिनत्ति —
तद्द्विविधमिति ।

तस्य मुक्तिफलत्वं निरसितुं फलं विभजते —
तत्रेति ।
केव­ल­मि­ष्टा­दि­क­र्मेति शेषः । ‘कर्मणा पितृलोकः” इति हि वक्ष्यति । तस्मिन्फले नाना­त्व­म­भि­प्रे­त्याऽऽ­दि­शब्दः ।

’विद्यया देवलोकः’ इति श्रुति­मा­श्रि­त्याऽऽह —
ज्ञानेति ।
देवलोको यस्याऽऽ­दि­र्ब्र­ह्म­लोको यस्या­न्त­स्त­स्या­र्थस्य प्राप्तिरेव फलमस्येति विग्रहः ।

उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति —
तथा चेति ।
सर्वत्र पर­मा­त्म­भा­व­ना­पु­रः­सरं नित्यं कर्मा­नु­ति­ष्ठ­न्ना­त्म­याजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः ।

’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’
इत्यादि मनुस्मृतिं चात्रैवोदाहरति —
स्मृतिश्चेति ।

धर्मा­ध­र्म­यो­रे­कै­कस्य फलमुक्त्वा मिश्रयोः फलमाह —
साम्ये चेति ।
उक्तं हि – ‘उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’(नै.सि.१.४१) इति ।

त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षि­प्यो­प­सं­ह­रति —
एवमिति ।

सा चावि­द्या­कृ­त­त्वा­द­न­र्थ­रू­पे­त्याह —
स्वाभाविकेति ।

विचि­त्र­क­र्म­ज­न्य­तया तस्या वैचित्र्यमाह —
धर्माधर्मेति ।

तर्हि धर्मा­ध­र्मा­भ्या­मेव तन्नि­र्मा­ण­सं­भ­वा­त्कृ­त­म­वि­द्य­ये­त्यत आह —
नामेति ।
तेषां सूक्ष्मा­व­स्थाऽ­विद्या तदालम्बनेति यावत् धर्मा­दे­र­वि­द्या­याश्च निमि­त्त­त्वो­पा­दा­न­त्वा­भ्या­मु­प­योग इति भावः ।

ननु संसा­र­ग­ते­रा­वि­द्य­त्व­म­युक्तं प्रत्य­क्षा­दि­प्र­ति­प­न्न­त्वा­त्त­न्ना­म­रू­पा­भ्या­मेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जग­तोऽ­भि­व्य­क्ति­श्र­व­णान्न च प्रामा­णि­क­स्या­वि­द्या­कृ­त­त्व­मत आह —
तदेवेदमिति ।
जगतः स्वरूपमात्मा तत्रा­ध्य­स्त­त्वा­त्त­स्मा­दा­त्म­त­त्त्वेऽ­न­भि­व्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जग­द­न­भि­व्य­क्त­मे­वेति न तस्या­वि­द्या­कृ­त­त्व­क्ष­ति­रिति भावः ।

अविद्याकृतां संसा­र­ग­ति­म­नु­भा­षते —
स एष इति ।

नन्व­वि­द्या­कृ­तत्वे कथ­म­ना­दि­त्व­मि­त्या­शङ्क्य तस्य प्रवा­ह­रू­पे­णे­त्याह —
बीजा­ङ्कु­रा­दि­व­दिति ।

चैतन्यवदात्मनि तस्या­वि­द्या­कृ­त­त्वा­नु­प­प­त्ति­मा­शङ्क्य नानारूपत्वेन ततो विल­क्ष­ण­त्वा­दे­क­रूपे युक्तं तस्य कल्पि­त­त्व­मि­त्याह —
क्रियेति ।

तर्हि कादाचित्कतया साध­ना­पे­क्षा­म­न्त­रेण नाशो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
अनादिरिति ।

अनादेरपि संसारस्य प्राग­भा­व­व­न्नि­वृत्तिः स्यादिति चेत्तथाऽपि ब्रह्म­वि­द्या­म­न्त­रेण नाशो नास्तीत्याह —
अनन्त इति ।
प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् ।

यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मा­त्स­नि­दा­न­सं­सा­र­नि­व­र्त­का­त्म­ज्ञा­ना­र्थ­त्वेन साध­न­च­तु­ष्ट­य­सं­प­न्न­म­धि­का­रि­ण­म­धि­कृत्य वेदान्तारम्भः संभ­व­ती­त्यु­प­सं­ह­रति —
इत्येतस्मादिति ।

यथो­क्त­ज्ञा­ना­र्थ­त्वे­नो­प­नि­ष­दा­रम्भे ‘ब्रह्म वा इदमग्र आसीत्’(बृ. उ. १ । ४ । १०) इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्यारम्भस्तु न युक्तः साक्षादत्र तद­नु­क्ते­रि­त्या­श­ङ्क्या­स्मा­दा­र­भ्यो­प­नि­ष­दा­र­म्भेऽ­भीष्टं फलमभिधित्समानः प्रथ­म­म­श्व­मे­धो­पा­स­न­फ­ल­माह —
अस्य त्विति ।
राज­य­ज्ञ­त्वा­द­श्व­मे­धस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फ­ला­र्थि­ना­म­स्मा­दे­वो­पा­स­ना­त्त­दा­प्ति­रिति मत्वा श्रुतौ तदु­पा­स­नो­क्ती­त्यर्थः ।

किमत्र निया­म­क­मि­त्या­शङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विक­ल्प­श्रु­ति­मु­दा­ह­रति —
विद्ययेति ।
तत्फ­ल­प्रा­प्ति­रिति पूर्वेण संबन्धः ।

तत्रैव श्रुत्यन्तरमाह —
तद्धेति ।
तदे­त­त्प्रा­ण­द­र्शनं लोक­प्रा­प्ति­सा­धनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्म­लो­का­प्ति­वा­दिन्यः श्रुतयो गृह्यन्ते ।

अश्वमेधे यदुपासनं तस्या­प्य­श्वा­दि­व­त्त­च्छे­ष­त्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्व­त्त्व­म­ङ्गेषु स्वत­न्त्र­फ­ला­भा­वा­दिति शङ्कते —
कर्मविषयत्वमिति ।

ज्ञानस्य क्रत्वर्थत्वं दूषयति —
नेति ।

पूर्वत्रार्थतो दर्शितां विक­ल्प­श्रु­ति­मत्र हेतुतया स्वरू­प­तोऽ­नु­क्रा­मति —
योऽश्वमेधेनेति ।
“सर्वं पाप्मानं तरति तरति ब्रह्म­ह­त्या”मिति संबन्धः । ज्ञान­क­र्म­णो­स्तु­ल्य­फ­ल­त्वस्य न्याय्यत्वादिति शेषः ।

उपा­स्ति­फ­ल­श्रु­ते­र­र्थ­वा­द­त्व­मा­श­ङ्क्या­श्व­मे­ध­व­दु­पा­स्ते­रपि कर्म­त्वा­द्वि­हि­त­त्वा­त्क­र्म­प्र­क­र­णा­द्व्यु­त्थि­त­त्वाच्च मैवमित्याह —
विद्येति ।

फल­श्रु­ते­र­र्थ­वा­द­त्वा­भावे हेत्वन्तरमाह —
कर्मान्तरे चेति ।
अश्व­मे­धा­ति­रिक्ते कर्मणि ‘अयं वाव लोकोऽ­ग्नि­रि’त्यादौ चित्या­ग्न्या­दा­वे­त­ल्लो­का­दि­सं­पा­द­नस्य स्वत­न्त्र­फ­लो­पा­स­नस्य दर्शनान्न फल­श्रु­ते­र­र्थ­वा­द­ते­त्यर्थः ।

अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधि­का­रोऽ­श्व­मे­ध­क्र­त्व­न­धि­का­रि­णा­म­पी­त्ये­ता­व­दे­वेष्टं चेदुपासने कर्म­प्र­क­र­ण­स्थेऽपि तल्ला­भा­द्वि­द्या­प्र­क­रणे नास्या­ध्य­य­म­र्थ­व­दि­त्या­श­ङ्क्याऽऽह —
सर्वेषां चेति ।

परत्वे हेतुः —
समष्टीति ।
अनु­वृ­त्त­व्या­वृ­त्त­रू­प­हि­र­ण्य­ग­र्भ­प्रा­प्ति­हे­त्त्वा­त्तस्य श्रेष्ठ­ते­त्यर्थः ।

तस्य पुण्य­श्रे­ष्ठ­त्वेऽपि प्रकृते किमायातं तदाह —
तस्य चेति ।
यदा क्रतु­प्र­धा­न­स्या­श्व­मे­ध­स्यो­पा­स्ति­स­हि­त­स्यापि संसारफलत्वं तदाऽ­ल्पी­य­सा­म­ग्नि­हो­त्रा­दीनां संसारफलत्वं किंवा­च्य­मि­त्य­स्मि­न्क­र्म­राशौ बन्धहेतौ विरक्ताः साध­न­च­तु­ष्ट­य­वि­शिष्टा ज्ञान­म­पे­क्ष­मा­णा­स्त­दु­पाये श्रवणादावेव सर्व­क­र्म­सं­न्या­स­पू­र्वके कथं प्रव­र्ते­र­न्नि­त्या­श­य­वती श्रुतिरुपासनां विद्या­र­म्भेऽ­भि­द­धाति । तेनोषा वा अश्व­स्ये­त्या­द्यु­प­नि­ष­दा­रम्भो युक्तोऽस्य विशि­ष्टा­धि­का­रि­स­म­र्प­क­त्वा­दि­त्यर्थः ।

उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह —
तथा चेति ।
‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ‘स वै नैव रेमे’(बृ. उ. १ । ४ । ३) ‘सोऽबिभे’(बृ. उ. १ । ४ । २)दिति भया­र­त्या­दि­श्र­व­णा­दु­पा­स्ति­यु­क्त­क्र­तु­फ­लस्य सूत्रस्य बन्ध­म­ध्य­पा­ति­त्वा­द्वि­शि­ष्टोऽपि क्रतुर्न मुक्तये पर्या­प्नो­ती­त्यर्थः ।

उक्ते सर्वकर्मणां बन्धफलत्वे नित्य­नै­मि­त्ति­कानां न तत्फलत्वं तेषां विध्युद्देशे फला­श्रु­ते­र्न­ष्टा­श्व­द­ग्ध­र­थ­न्या­येन मुक्ति­फ­ल­त्व­ला­भा­दिति शङ्कते —
न नित्यानामिति ।

’एतावान्वै काम’ इति सर्व­क­र्म­णा­म­वि­शे­षेण फल­सं­ब­न्ध­श्र­व­णा­त्प­श्वा­देश्च काम्यफलत्वस्य तद्वि­ध्यु­द्दे­श­व­शा­त्सि­द्ध­त्वात् ‘कर्मणापितृलोक’(बृ. उ. १ । ५ । १६) इति वाक्यस्य नित्या­दि­क­र्म­फ­ल­वि­ष­य­त्वान्न मोक्ष­फ­ल­त्वा­श­ङ्केति परिहरति —
नेति ।

उक्तमेव स्फुटयति —
सर्वं हीति ।

पत्नीसंबन्धे मानमाह —
जायेति ।

तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह —
एतावान्वै काम इति ।

कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह —
पुत्रेति ।

अथैवं फलविभागे कथं सम­ष्टि­व्य­ष्टि­प्रा­प्ति­फ­ल­त्व­म­श्व­मे­ध­स्यो­क्त­मत आह —
त्र्यन्ना­त्म­कतां चेति ।
अस्या­ध्या­य­स्या­व­साने कर्मफलस्य हिर­ण्य­ग­र्भ­रू­पतां त्रयमित्याद्या श्रुति­रु­प­सं­ह­रि­ष्य­ती­त्यर्थः ।

उप­सं­हा­र­श्रु­ते­स्ता­त्प­र्य­माह —
सर्वकर्मणामिति ।

कर्मफलं संसा­र­श्चे­त्प्रा­क्त­द­नु­ष्ठा­ना­त्त­द­भा­वा­न्मु­क्तानां पुनर्बन्धः स्यादि­त्या­श­ङ्क्याऽऽह —
इदमेवेति ।
तर्हि तस्या­म­व­स्था­या­मिति यावत् ।

तस्य पुनर्व्याकरणे कारणमाह —
तदेवेति ।

व्याकृ­ता­व्या­कृ­ता­त्मनः संसारस्य प्रामाणिकत्वेन सत्य­त्व­मा­श­ङ्क्या­वि­द्या­कृ­त­त्वेन तन्मि­थ्या­त्व­मुक्तं स्मारयति —
सोऽयमिति ।
स एव हि भ्रान्तिविषयो न प्रामा­णि­क­स्त­त्कु­तोऽस्य सत्यतेत्यर्थः ।

कथ­म­स्याऽऽ­त्म­न्य­द्वये कूटस्थे प्राप्ति­रि­त्या­श­ङ्क्याऽऽह —
क्रियेति ।

समारोपे मूलकारणमाह —
अविद्ययेति ।

आत्म­न्य­वि­द्या­रो­पितं द्वैतमित्यत्र ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’(बृ. उ. २ । ३ । १) त्यादिवाक्यं प्रमाणयति —
मूर्तेति ।

नन्वा­त्म­न्या­रोपो नोपपद्यते तस्य नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य द्वैत­वि­ल­क्ष­ण­त्वा­द­सति सादृ­श्येऽ­ध्या­सा­सि­द्धे­रत आह —
अत इति ।

संसा­रा­द्वै­ल­क्ष­ण्य­मेव प्रकटयति —
अनामेति ।
आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते ।

आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति —
अवभासत इति ।

आत्मन्यध्यासः सादृ­श्या­द्य­भा­वेऽपि नभसि मलि­न­त्वा­दि­व­द्य­तोऽ­नु­भू­य­तेऽतः सवि­ला­सा­वि­द्या­नि­व­र्त­क­ब्र­ह्म­वि­द्या­र्थ­त्वे­नो­प­नि­ष­दा­रम्भः संभ­व­ती­त्यु­प­सं­ह­रति —
अत इति ।
एता­व­दि­त्य­न­र्था­त्म­त्वोक्तिः ।

तत्त्व­ज्ञा­ना­द­ज्ञा­न­नि­वृत्तौ दृष्टान्तमाह —
रज्ज्वामिवेति ।

एवमुपनिषदारम्भे स्थिते प्राथ­मि­क­ब्रा­ह्म­ण­यो­र­वा­न्त­र­ता­त्प­र्य­माह —
तत्र तावदिति ।

आद्यस्य पुन­र­वा­न्त­र­ता­त्पर्यं दर्शयति —
तत्रेति ।

नन्व­श्व­मे­ध­स्या­ङ्ग­बा­हुल्ये कस्मा­द­श्वा­ख्या­ङ्ग­वि­ष­य­मे­वो­पा­स­न­मु­च्यते तत्राऽऽह —
प्राधान्यादिति ।

तदेव कथमिति तदाह —
प्राधान्यं चेति ।

प्रजा­प­ति­दे­व­ता­क­त्वा­च्चा­श्वस्य प्राधा­न्य­मि­त्याह —
प्राजा­प­त्य­त्वा­च्चेति ।

प्रतीकमादाय व्याचष्टे —
उषा इत्यादिना ।

स्मार­णा­र्थ­त्व­मेव निपातस्य स्फुटयति —
प्रसिद्धमिति ।
शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।

उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —
प्राधान्यादिति ।

तथापि कथं तत्र तच्छ­ब्द­प्र­यो­ग­स्त­त्राऽऽह —
शिरश्चेति ।

आश्व­मे­धि­का­श्व­शि­र­स्यु­षसो दृष्टिः कर्तव्येत्याह —
अश्वस्येति ।

काला­दि­दृ­ष्टि­र­श्वा­ङ्गेषु किमिति क्षिप्य­तेऽ­श्वा­ङ्ग­दृ­ष्टि­रेव तेषु किं न स्यादि­त्या­श­ङ्क्याऽऽह —
कर्माङ्गस्येति ।

अङ्गे­ष्व­न­ङ्ग­म­ति­क्षेपे हेत्वन्तरमाह —
प्राजापत्यत्वं चेति ।

अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —
प्रजापतीति ।

ननु काला­दि­दृ­ष्ट्योऽ­श्वा­व­य­वे­ष्वा­रो­प्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —
कालेति ।
कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा काला­दि­दृ­ष्टि­र­श्वा­व­य­वेषु तस्य प्रजा­प­ति­त्व­क­र­णम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्य­व­त्त­र­त्वार्थं काला­दि­दृ­ष्टी­र­श्वा­व­य­वेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशि­रः­प्र­भृ­तिषु काला­दि­दृ­ष्टि­क­र­णेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।

चक्षुषि सूर्यदृष्टौ हेतुमाह —
शिरस इति ।
उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृ­ष्टि­र्यु­क्ते­त्यर्थः ।

तत्रैव हेत्वन्तरमाह —
सूर्येति ।
“आदि­त्य­श्च­क्षु­र्भू­त्वाऽ­क्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽ­धि­ष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृ­ष्टि­रि­त्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।

अश्वस्य विदारिते मुखे भव­त्व­ग्नि­दृ­ष्टि­स्त­थाऽपि पर्यायोपादानं व्यर्थ­मि­त्या­शङ्क्य क्रव्या­दा­दि­व्या­वृ­त्त्यर्थं विशेषणमित्याह —
वैश्वानर इत्यग्नेरिति ।

“अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —
मुखस्येति ।
अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।

शरीरे संव­त्स­र­दृ­ष्टि­रि­त्य­त्राऽऽ­त्मत्वं हेतुमाह —
कालेति ।
आत्मा हस्ता­दी­ना­म­ङ्गा­ना­मिति शेषः ।

कालावयवानां संव­त्स­र­स्याऽऽ­त्म­त्व­व­द­ङ्गानां शरी­र­स्याऽऽ­त्मत्वे प्रमाणमाह —
मध्यं हीति ।

पुन­रु­क्ते­र­र्थ­व­त्त्व­माह —
अश्वस्येति ।

पृष्टे द्युलोकदृष्टौ हेतुमाह —
ऊर्ध्वत्वेति ।

उद­रेऽ­न्त­रि­क्ष­दृष्टौ निमित्तमाह —
सुषिरत्वेति ।

पादा अस्यन्ते यस्मिन्निति व्युत्प­त्ति­मा­श्रित्य विवक्षितमाह —
पादेति ।
अश्वस्य हि खुरे पादा­स­न­त्व­सा­मा­न्या­त्पृ­थि­वी­दृ­ष्टि­रि­त्यर्थः ।

पार्श्व­यो­र्दि­क्च­तु­ष्ट­य­दृष्टौ हेतुमाह —
पार्श्वेनेति ।

द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —
पार्श्वयोरिति ।

यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षि­णो­त्त­र­यो­स्त­न्मु­खत्वे च प्राक्प्र­ती­च्यो­र्दि­शो­स्ताभ्यां संब­न्ध­सं­भ­वा­त्तत्र तद्दृ­ष्टि­र­वि­रु­द्धेति परिहरति —
नेत्यादिना ।
तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वा­स्थि­ष्व­वा­न्त­र­दि­शा­मा­रोपे पार्श्व­दि­क्सं­बन्धो हेतुः ।

ऋतवः संव­त्स­र­स्या­ङ्गानि हस्तादीनि च देह­स्या­व­य­वा­स्त­स्मा­दृ­तु­दृ­ष्टि­र­ङ्गेषु कर्तव्येत्याह —
ऋतव इति ।

अस्ति मासादीनां संव­त्स­र­स­न्धि­त्व­मस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासा­दि­दृ­ष्टि­रि­त्याह —
सन्धीति ।
युगसहस्राभ्यां प्राजा­प­त्य­मे­क­म­हो­रा­त्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टि­घ­टि­का­भि­र्मा­नु­ष­मिति भेदः ।

प्रति­ष्ठा­श­ब्दस्य पादविषयत्वं व्युत्पादयति —
प्रतितिष्ठतीति ।

पादे­ष्व­हो­रा­त्र­दृ­ष्टि­सि­द्ध्यर्थं युक्तिमुपपादयति —
अहोरात्रैरिति ।

अस्थिषु नक्षत्रदृष्टौ हेतुमाह —
शुक्लत्वेति ।

नभः­श­ब्दे­ना­न्त­रिक्षं किमिति न गृह्यते मुख्ये सत्यु­प­चा­रा­यो­गा­दि­त्या­शङ्क्य पुनरुक्तिं परिहर्तुमित्याह —
अन्तरिक्षस्येति ।

उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेक­क­र्तृ­त्व­सा­मा­न्या­न्मां­सेषु मेध­दृ­ष्टि­रि­त्याह —
उदकेति ।

अश्व­ज­ठ­र­वि­प­रि­व­र्ति­न्य­र्ध­जीर्णे सिकतादृष्टौ हेतुमाह —
विश्लिष्टेति ।

किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्या­र्था­ति­क्रमः स्यात्तत्राह —
बहुवचनाच्चेति ।
चका­रोऽ­व­धा­र­णार्थः । यद्यपि बहूक्त्या शिरा­भ्योऽ­र्था­न्त­र­मपि गुदशब्दमर्हति तथाऽपि स्यन्द­न­सा­दृ­श्या­त्ता­स्वेव सिन्धु­दृ­ष्टि­रिति तासामिह ग्रहणमिति भावः ।

कुतो मांस­ख­ण्ड­यो­र्द्वि­त्व­मे­कत्र बहु­व­च­ना­द्ब­हु­त्व­प्र­ती­ते­रि­त्या­शङ्क्य दारा इति­व­द्ब­हू­क्ते­र्ग­ति­माह —
क्लोमान इति ।

तयोः पर्वतदृष्टौ हेतुद्वयमाह —
काठि­न्या­दि­त्या­दिना ।

क्षुद्र­त्व­सा­ध­र्म्या­दो­ष­धि­दृ­ष्टि­र्लो­मसु मह­त्त्व­सा­मा­न्या­द्व­न­स्प­ति­दृ­ष्टि­श्चा­श्व­के­शेषु कर्तव्येत्याह —
यथासंभवमिति ।

पूर्व­त्व­सा­मा­न्या­न्म­ध्या­ह्ना­त्प्रा­ग­व­स्था­दि­त्य­दृ­ष्टि­र­श्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —
उद्य­न्नि­त्या­दिना ।

अप­र­त्व­सा­दृ­श्या­द­श्वस्य नाभेरपरार्धे मध्या­ह्ना­द­न­न्त­र­भा­व्या­दि­त्य­दृ­ष्टिः­का­र्ये­त्याह —
निम्लो­च­न्नि­त्या­दिना ।
विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।

विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्यो­त­न­दृ­ष्टि­र्जृ­म्भणे कर्तव्येत्याह —
मुखेति ।

स्तनयतीति स्तनितमुच्यते तद्दृ­ष्टि­र्गा­त्र­कम्पे कर्तव्येत्यत्र हेतुमाह —
गर्जनेति ।

मूत्रकरण वर्षणदृष्टौ कारणमाह —
सेचनेति ।

अश्वस्य हेषितशब्दे नास्त्या­रो­प­ण­मि­त्यतो न सादृश्यं वक्तव्यमित्याह —
नात्रेति ॥१॥

अश्वावयवेषु काला­दि­दृ­ष्टी­र्वि­धा­याश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह —
अहरित्यादिना ।
ग्रहौ हव­नी­य­द्र­व्या­धारौ पात्र­वि­शे­षा­व­ग्रतः पृष्ठतश्चेति संज्ञ­प­ना­त्प्रा­गूर्ध्वं चेति यावत् ।

प्रसि­द्धा­ता­व­द­हनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्य­त­स्त­स्मि­न्न­ह­र्दृ­ष्टि­रिति दर्शनं विभजते —
अहरिति ।

अश्व­सं­ज्ञ­प­ना­त्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेद­ह­र्दृ­ष्ट्यो­पा­स्यते कथं सोऽश्व­म­न्व­जा­य­तेति पश्चादश्वस्य तज्ज­न्म­वा­चो­यु­क्ति­रिति शङ्कते —
अहरश्वमिति ।
नायं पश्चा­द­र्थोऽ­नु­शब्दः किन्तु लक्षणार्थः ।

तथा चाश्वस्य प्रजा­प­ति­रू­प­त्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृ­त्ते­रु­प­दे­शा­द­श्व­म­न्व­जा­य­ते­त्य­वि­रु­द्ध­मिति परिहरति —
अश्वस्येति ।

तदेव स्फुटयति —
प्रजापतिरिति ।
काललोकदेवतात्मा प्रजा­प­ति­र­श्वा­त्मना दृश्य­मा­नोऽ­त्रा­ह­र्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्व­म­न्व­जा­य­तेति श्रुति­र­वि­रु­द्धे­त्यर्थः ।

अनुशब्दो न पश्चा­द्वा­ची­त्यत्र दृष्टान्तमाह —
वृक्षमिति ।
यदा वृक्षं लक्षयित्वा तस्याग्रे विद्यु­द्वि­द्यो­तते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽ­त्रा­प्य­नु­शब्दो न पश्चादर्थ इत्यर्थः ।

यत्र च स्थाने ग्रहः स्थाप्यते तत्पू­र्व­स­मु­द्र­दृष्ट्या ध्येयमित्याह —
तस्येति ।
पूर्वत्रमत्र सादृश्यम् ।

कथं सप्तमी प्रथमार्थे योज्यते छन्द­स्य­र्था­नु­सा­रेण व्यत्य­य­सं­भ­वा­दि­त्याह —
विभक्तीति ।

यथा सौवर्णे ग्रहेऽ­र्दृ­ष्टि­रु­प­दिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह —
तथेति ।

अस्ति हि चन्द्रा­त­प­व­त्त्वा­द्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रि­द­र्श­न­मि­त्याह —
वर्णेति ।

रजतं सुव­र्णा­ज्ज­घ­न्य­म­ह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रि­दृ­ष्टि­रि­त्याह —
जघन्येति ।

प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्सं­ज्ञ­प­ना­त्प­श्चा­दस्य प्रवृत्तिं दर्शयति —
एनमिति ।

तदासादनस्थाने पश्चि­म­स­मु­द्र­दृ­ष्टि­र्वि­धे­ये­त्यह —
तस्येति ।

कथमेतौ ग्रहौ महिमाख्यावुक्तौ मह­त्त्वो­पे­र्त­त्वा­दि­त्याह —
महिमेति ।

अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह —
अश्वस्येति ।

किमत्र निया­म­क­मि­त्या­शङ्क्य पुनरुक्तिरिति मत्वाऽऽह —
तावित्यादिना ।

वैशब्दार्थकथनम् —
एवेति ।

वाक्य­शे­षोऽ­प्य­त्रा­नु­गु­णी­भ­व­ती­त्याह —
तथा चेति ।

हय­श­ब्द­नि­ष्प­त्ति­पु­रः­सरं तदर्थमाह —
हय इति ।

वाज्या­दि­श­ब्दानां जाति­वि­शे­ष­वा­चि­त्वा­द­त्रापि तदेव ग्राह्यमिति पक्षान्तरमाह —
जातीति ।

देवायनां देव­त्व­प्रा­प­कत्वं कथ­म­स्त्ये­त्या­श­ङ्क्याह —
प्रजा­प­ति­त्वा­दिति ।

अश्वं स्तोतुमारभ्य कल्पा­न्त­रोक्त्या तन्नि­न्दा­व­च­न­म­नु­चि­त­मिति शङ्कते —
नन्विति ।

उपक्रमविरोधो नास्तीति परिहरति —
नेत्यादिना ।

समुत्पद्य भूतानि द्रव­न्त्य­स्मि­न्निति व्युत्पत्त्या पर­म­ग­म्भी­र­स्ये­श्व­रस्य समुद्रशब्दतामाह —
परमात्मेति ।
तत्र योनि­त्व­मु­त्पा­द­कत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः ।

अथ पर­मा­त्म­यो­नि­त्वा­दि­व­च­न­मु­पा­स्या­श्वस्य क्वोपयुज्यते तत्राऽऽह —
एवमिति ।

श्रुत्य­न्त­रा­नु­रो­धेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —
अप्सुयोनिरिति ॥२॥