अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

षष्ठोऽध्यायः: तृतीयं ब्राह्मणम्

ब्राह्म­णा­न्त­र­मा­व­तार्य संगतिमाह —
स य इति ।
तत्रेति निर्धारणे सप्तमी ।

कथं तर्हि वित्तोपार्जनं संभवति तत्राऽऽह —
तच्चेति ।
तदर्थं वित्त­सि­द्ध्य­र्थ­मिति यावत् ।

ननु मह­त्त्व­सि­द्ध्य­र्थ­मिदं कर्माऽऽरभ्यते मह­त्प्रा­प्नु­या­मिति श्रुते­स्त­त्क­थ­म­न्यथा प्रतिज्ञातमिति शङ्कते —
महत्त्वेति ।

परिहरति —
महत्त्वे चेति ।

उक्तेऽर्थे श्रुत्यक्षराणि योजयति —
तदुच्यत इत्यादिना ।
स यो वित्तार्थी कामयेत तस्येदं कर्मेति शेषः ।

यस्य कस्य­चि­द्वि­त्ता­र्थि­न­स्त­र्हीदं कर्म स्यादि­त्या­श­ङ्क्याऽऽह —
कर्मण्यधिकृत इति ।
तत्र वित्तार्थिनि पुंसीति यावत् । उपसदो नामेष्टिविशेषाः । ज्योतिष्टोमे प्रव­र्ग्या­ह­स्त्विति शेषः ।

किं पुनस्तासु व्रतमिति तदाह —
तत्र चेति ।
यदुपसत्सु स्तनो­प­च­या­प­च­याभ्यां पयोभक्षणं यजमानस्य प्रसिद्धं तद­त्रो­प­स­द्व्र­त­मि­त्यर्थः ।

प्रकृतेऽपि तर्हि स्तनो­प­च­या­प­च­याभ्यां पयोभक्षणं स्यादिति चेन्नेत्याह —
अत्र चेति ।
मन्थाख्यं कर्म सप्तम्यर्थः । तत्क­र्मे­त्यु­प­स­द्रू­प­क­र्मोक्तिः ।

केव­ल­मि­त्य­स्यै­वा­र्थ­माह —
इति कर्त­व्य­ता­शू­न्य­मिति ।

समा­सा­न्त­र­मा­श्रित्य शङ्कते —
नन्विति ।
कर्मधारयरूपं समासवाक्यं तदित्युक्तम् ।

मन्थाख्यस्य कर्मणः स्मार्तत्वादत्र श्रुत्यु­क्ता­ना­मु­प­स­दा­मु­प­सं­ग्र­हा­भा­वान्न कर्मधारयः सिध्य­ती­त्यु­त्त­र­माह —
उच्यत इति ।

मन्थकर्मणः स्मार्त­त्व­मा­क्षि­पति —
नन्विति ।

परि­स­मू­ह­न­प­रि­ले­प­ना­ग्न्यु­प­स­मा­धा­नादेः स्मार्ता­र्थ­स्या­त्रो­च्य­मा­न­त्वा­दियं श्रुतिः स्मृत्यनुवादिनी युक्ता । तथा चैतत्कर्म भवत्येव स्मार्तमिति परिहरति —
स्मृतीति ।

ननु श्रुतेर्न स्मृत्य­नु­वा­दि­नीत्वं वैपरीत्यादतो भवतीदं श्रौत­मि­त्या­श­ङ्क्याऽऽह —
श्रौतत्वे हीति ।
यदीदं कर्म श्रौतं तदा ज्योति­ष्टो­मे­नास्य प्रकृ­ति­वि­कृ­ति­भावः स्यात् । सम­ग्रा­ङ्ग­सं­युक्ता प्रकृ­ति­र्वि­क­ला­ङ्ग­सं­युक्ता च विकृतिः । प्रकृ­ति­वि­कृ­ति­भावे च विकृतिकर्मणः प्राकृ­त­ध­र्म­ग्रा­हि­त्वा­दु­प­सद एव व्रतमिति विगृह्य सर्व­मि­ति­क­र्त­व्य­ता­रूपं शक्यं ग्रहीतुं न चात्र श्रौतत्वमस्ति परि­ले­प­ना­दि­सं­ब­न्धात् । न च पूर्वभाविन्याः श्रुते­रु­त्त­र­भा­वि­स्मृ­त्य­नु­वा­दि­त्वा­सि­द्धि­स्त­स्या­स्त्रै­का­ल्य­वि­ष­य­त्वा­भ्यु­प­ग­मा­दिति भावः ।

मन्थकर्मणः स्मार्तत्वे लिङ्गमाह —
अत एवेति ।

तत्रैव हेत्वन्तरमाह —
सर्वा चेति ।
मन्थ­ग­ते­ति­क­र्त­व्य­ताऽ­त्राऽ­वृ­दि­त्यु­च्यते । उपसद एव व्रतमिति विग्र­हा­सं­भ­वा­दु­प­सत्सु व्रत­मि­त्य­स्म­दुक्तं सिद्ध­मु­प­सं­ह­र्तु­मि­ति­शब्दः । पयोव्रती सन्वक्ष्यमाणेन क्रमेण जुहोतीति संबन्धः ।

ताम्र­मौ­दु­म्ब­र­मिति शङ्कां वारयति —
उदुम्बरवृक्षमय इति ।
तस्यैवेति प्रकृ­त­मा­त्र­प­रा­मर्शः ।

औदुम्बरत्वे विक­ल्प­मा­श­ङ्क्याऽऽह —
आकार इति ।
अत्रेति पात्रनिर्देशः ।

असं­भ­वा­द­श­क्य­त्वाच्च सर्वौषधं समा­हृ­त्ये­त्य­यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
यथासंभवमिति ।

ओषधिषु नियमं दर्शयति —
तत्रेति ।

परिसंख्यां वारयति —
अधिकेति ।

इति संभृ­त्या­त्रे­ति­श­ब्दस्य प्रद­र्श­ना­र्थत्वे फलितं वाक्यार्थं कथयति —
अन्यदपीति ।

ओषधीनां संभरणानन्तरं परि­स­मू­ह­ना­दि­क्रमे किं प्रमा­ण­मि­त्या­श­ङ्क्याऽऽह —
क्रम इति ।
तत्रेति परि­स­मू­ह­ना­द्युक्तिः ।

होमाधारत्वेन त्रेता­ग्नि­प­रि­ग्रहं वारयति —
अग्निमिति ।
आवसथ्येऽग्नौ होम इति शेषः ।

कथमेतावता त्रेता­ग्नि­प­रि­त्या­ग­स्त­त्राऽऽह —
एकवचनादिति ।

कथ­मु­प­स­मा­धा­न­श्र­वणं त्रेता­ग्नि­नि­वा­रकं तत्राऽऽह —
विद्यमानस्येति ।
आह­व­नी­या­दे­श्चाऽऽ­धे­य­त्वान्न प्रागेव सत्त्वमिति भावः । मध्ये स्वस्या­ग्ने­श्चेति शेषः । आवा­प­स्था­न­मा­हु­ति­वि­शे­ष­प्र­क्षे­प­प्र­देशः । भो जात­वे­द­स्त्व­द­धीना यावन्तो देवा वक्रमतयः सन्तो ममा­र्था­न्प्र­ति­ब­ध्नन्ति तेभ्योऽ­ह­मा­ज्य­भागं त्वय्यर्पयामि ते च तेन तृप्ता भूत्वा सर्वैरपि पुरुषार्थैर्मां तर्पयन्तु । अहं च त्वदधीनोऽर्पित इत्या­द्य­म­न्त्र­स्यार्थः । जातं जातं वेत्तीति वा जाते जाते विद्यत इति वा जातवेदाः । या देवता कुटि­ल­म­ति­र्भूत्वा सर्वस्यैवाहमेव धारयन्तीति मत्वा त्वामाश्रित्य वर्तते तां सर्वसाधनीं देवतामहं घृतस्य धारया यजे स्वाहेति पूर्ववदेव द्विती­य­म­न्त्रार्थः ॥१॥

ज्येष्ठा­ये­त्या­दि­म­न्त्रेषु ध्वनितमर्थमाह —
एतस्मादेवेति ।

द्वे द्वे आहुती हुत्वेत्युक्तं तत्र सर्वत्र द्वित्वप्रसंगं प्रत्याचष्टे —
रेतस इत्यारभ्येति ।
संस्रवः स्रुवा­व­लि­प्त­मा­ज्यम् ॥२ – ३ ॥

मन्थद्रव्यस्य प्राण­दे­व­ता­क­त्वा­त्प्रा­णे­नै­की­कृत्य सर्वात्मकत्वं तथा च सर्वदेहेषु प्राणरूपेण त्वं भ्रमदसि प्राणस्य चल­ना­त्म­क­त्वा­त्त­द्रू­प­त्वाच्च । तत्राग्निरूपेण च त्वं ज्वलदसि प्रका­शा­त्म­क­त्वा­द­ग्ने­स्त­द्रू­प­त्वाच्च । तदनु ब्रह्मरूपेण त्वं पूर्णमसि । नभोरूपेण प्रस्तब्धं निष्कम्पमसि सर्वै­र­वि­रो­धि­त्वा­त्स­र्व­मपि जग­दे­क­सं­भ­व­दा­त्म­न्य­न्त­र्भा­व्या­प­रि­च्छि­न्न­तया स्थितं वस्तु त्वमसि । प्रस्तोत्रा यज्ञारम्भे त्वमेव हिङ्कृतमसि । तेनैव यज्ञमध्ये हिङ्क्रियमाणं चासि । उद्गात्रा च यज्ञारम्भे तन्मध्ये चोद्गी­थ­मु­द्गी­य­मानं चासि । अध्वर्युणा त्वं श्रावितमसि । आग्नीध्रेण च प्रत्या­श्रा­वि­त­मसि । आर्द्रे मेघोदरे सम्यग्दीप्तमसि । विविधं भवतीति विभुः । प्रभुः समर्थो भोग्यरूपेण सोमात्मना स्थितत्वादन्नं भोक्तृ­रू­पे­णा­ग्न्या­त्मना ज्योतिः­का­र­ण­त्वा­न्नि­धनं लयोऽ­ध्या­त्मा­धि­दै­व­यो­र्वा­गा­दी­ना­म­ग्न्या­दीनां च संहरणात्त्वं संव­र्गोऽ­सी­त्य­भि­म­र्श­न­म­न्त्र­स्यार्थः ॥४॥

आमंसि त्वं सर्वं विजानासि वयं च ते तव महि महत्तरं रूपममांहि मन्यामहे । स हि प्राणो राजादिगुणः स च मां तथाभूतं करो­त्वि­त्यु­द्य­म­न­म­न्त्र­स्यार्थः ॥५॥

तत्स­वि­तु­र्व­रेण्यं वरणीयं श्रेष्ठं पदं धीमहीति संबन्धः । वाता वायुभेदा मधु सुखमृतायते वहन्ति । सिन्धवो नद्यो मधु क्षरन्ति मधु­र­र­सा­न्स्र­वन्ति । ओष­धी­श्चा­स्मा­न्प्रति माध्वीर्मधुरसाः सन्तु । देवस्य सवि­तु­र्भ­र्ग­स्ते­जोऽन्नं वा प्रस्तुतं पदं चिन्तयामः । नक्तं रात्रिरुतोषतो दिवसाश्च मधु प्रीतिकराः सन्तु । पार्थिवं रजो मधु­म­द­नु­द्वे­ग­क­र­मस्तु । द्यौश्च पिता नोऽस्माकं मधु सुखकरोऽस्तु । यः सविता नोऽस्माकं धियो बुद्धीः प्रचो­द­या­त्प्रे­र­ये­त्तस्य तद्वरेण्यमिति संबन्धः । वनस्पतिः सोमोऽस्माकं मधुमानस्तु । गावो रश्मयो दिशो वा माध्वीः सुखकराः सन्तु । अन्त­श­ब्दा­दि­ति­श­ब्दा­च्चो­प­रि­ष्टा­दु­क्त्वे­त्य­नु­षङ्गः । एवं ग्रासचतुष्टये निवृत्ते सत्यवशिष्टे द्रव्ये किं कर्तव्यं तत्राऽऽह —
यथेति ।

पात्रावशिष्टस्य परित्यागं वारयति —
यदिति ।
निर्णिज्य प्रक्षाल्येति यावत् ।

पाणि­प्र­क्षा­ल­न­व­च­न­सा­म­र्थ्या­त्प्राप्तं शुद्ध्यर्थं स्मार्त­मा­च­म­न­म­नु­जा­नाति —
अप आचम्येति ।
एक­पु­ण्ड­री­क­श­ब्दोऽ­ख­ण्ड­श्रे­ष्ठ­वाची ॥६॥

तमेतं नापु­त्रा­ये­त्या­दे­र­र्थ­माह —
विद्येति ।
शिष्यः श्रोत्रियो मेधावी धनदायी प्रियः पुत्रो विद्यया विद्यादातेति षट् तीर्थानि संप्रदानानि ॥७ – १३ ॥