अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: सप्तमं ब्राह्मणम्

ब्राह्म­णा­न्त­र­मु­द्भाव्य विभजते —
तथैवेत्यादिना ।
तमसो विदा­ना­द्वि­द्यु­दिति संबन्धः ।

तदेव स्फुटयति —
मेघेति ।

उक्तमेव फलं प्रकटयति —
एनमिति ॥१॥