अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: त्रयोदशं ब्राह्मणम्

अन्न­प्रा­ण­यो­र्गु­ण­द्व­य­वि­शि­ष्ट­यो­र्मि­लि­त­यो­रु­पा­स­न­मु­क्त­मि­दानीं ब्राह्म­णा­न्त­र­मा­दाय तात्पर्यमाह —
उक्थमिति ।

सत्सु शस्त्रान्तरेषु किमि­त्यु­क्थ­मु­पा­स्य­त्वे­नो­प­न्य­स्यते तत्राऽऽह —
तद्धीति ।

कस्मि­न्कि­मा­रोप्य कस्यो­पा­स्य­त्व­मिति प्रश्नद्वारा विवृणोति —
किं पुनरिति ।

तस्मि­न्नु­क्थ­दृष्टौ हेतुमाह —
प्राणश्चेति ।

तस्मि­न्नु­क्थ­श­ब्दस्य समवेतार्थत्वं प्रश्नपूर्वकमाह —
कथमित्यादिना ।

उत्थानस्य स्वतोऽपि संभवान्न प्राण­कृ­त­त्व­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।
उक्थस्य प्राण­स्यै­त­द्वि­ज्ञा­न­ता­र­त­म्य­म­पेक्ष्य सायुज्यं सालोक्यं च व्याख्येयम् ॥१॥

यजुः­श­ब्द­स्या­न्यत्र रूढत्वादयुक्तं प्राण­वि­ष­य­त्व­मिति शङ्कित्वा परिहरति —
कथमित्यादिना ।

असत्यपि प्राणे योगः संभ­व­ती­त्या­श­ङ्क्याऽऽह —
न हीति ।

प्रक­र­णा­नु­गृ­ही­त­प्रा­ण­श­ब्द­श्रुत्या यजुःशब्दस्य रूढिं त्यक्त्वा योगोऽङ्गीक्रियत इत्याह —
अत इति ॥२॥

संग­म­ना­दि­त्ये­त­देव व्याचष्टे —
साम्येति ॥३॥

शाखान्तरशब्देन माध्य­न्दि­न­शा­खो­च्यते ॥४॥