आनन्दगिरिटीका (बृहदारण्यक)
द्वितीयोऽध्यायः: चतुर्थं ब्राह्मणम्
संबन्धाभिधित्सया वृत्तं कीर्तयति —
आत्मेत्येवेति ।
किमित्यात्मतत्त्वमेव ज्ञातव्यं तत्राऽऽह —
तदेवेति ।
इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदात्मानमित्यादिना दर्शिते इत्याह —
इत्युपन्यस्तस्येति ।
विद्याविषयमुक्तं निगमयति —
एवमिति ।
उक्तमर्थान्तरं स्मारयति —
अविद्यायाश्चेति ।
अन्योऽसावित्याद्यारभ्याविद्याया विषयश्च संसार उपसंहृतस्त्रयमित्यादिनेति संबन्धः संसारमेव विशिनष्टि —
चातुर्वर्ण्येति ।
चातुर्वर्ण्यं चातुराश्रम्यमिति प्रविभागादिनिमित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्यसाधनमित्येवमात्मक इति यावत् ।
तस्यानादित्वं दर्शयति —
बीजाङ्कुरवदिति ।
तमेव त्रिधा संक्षिपति —
नामेति ।
स चोत्कर्षापकर्षाभ्यां द्विधा भिद्यते तत्राऽऽद्यमुदाहरति —
शास्त्रीय इति ।
उत्कृष्टो हि संसारस्त्र्यन्नात्मभावः शास्त्रीयज्ञानकर्मलभ्य इत्यर्थः ।
द्वितीयं कथयति —
अधोभावश्चेति ।
निकृष्टः संसारः स्वाभाविकज्ञानकर्मसाध्य इत्यर्थः ।
किमित्यविद्याविषयो व्याख्यातो न हि स पुरुषस्योपयुज्यते तत्राऽऽह —
एतस्मादिति ।
प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।
तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —
चतुर्थे त्विति ।
एवं वृत्तमनूद्योत्तरब्राह्मणतात्पर्यमाह —
अस्या इति ।
किमिति संन्यासो विधित्स्यते कर्मणैव विद्यालाभादित्याशङ्क्याऽऽह —
जायेति ।
अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।
ननु प्रकृतं कर्माविद्याविषयमपि किमित्यात्मज्ञानं तादर्थ्येनानुष्ठीयमानं नोपनयति तत्राऽऽह —
अन्येति ।
तदेव दृष्टान्तेन स्पष्टयति —
न हीति ।
पाङ्क्तस्य कर्मणोऽन्यसाधनत्वमेव कथमधिगतमित्याशङ्क्याऽऽह —
मनुष्येति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशेषितत्वोक्तिद्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।
ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौतसाधनत्वाद्दर्शादिवत्तथा च समुच्चयान्न कर्मसंन्याससिद्धिरत आह —
न चेति ।
कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरित्याशङ्क्याऽऽह —
ब्रह्मविदश्चेति ।
इतश्च तस्य पुत्रादिसाधनानुपपत्तिरित्याह —
येषामिति ।
समुच्चयपक्षमनुभाष्य श्रुतिविरोधेन दूषयति —
केचित्त्विति ।
श्रुतिविरोधमेव स्फोरयति —
पुत्रादीति ।
अविद्वद्विषयत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समुच्चयवादिभिर्न श्रुत इति संबन्धः ।
न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्तिविरोधाच्चेत्याह —
सर्वेति ।
द्वितीयश्चकारोऽवधारणार्थो नञा संबध्यते ।
स्मृतिविरोधाच्च समुच्चयासिद्धिरित्याह —
व्यासेति ।
तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —
कर्मेति ।
प्रतिकूलवर्तनं निवर्त्यनिवर्तकभावः ।
संप्रति स्मृतिविरोधं स्फोरयति —
यदिदमिति ।
प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —
एताविति ।
विद्याकर्माख्यावुपायौ परस्परविरुद्धत्वे वर्तेते साभिमानत्वनिरभिमानत्वादिपुरस्कारेण प्रातिकूल्यात्समुच्चयानुपपत्तेर्यथोक्तस्य प्रश्नस्य सावकाशत्वमित्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।
समुच्चयानुपपत्तिमुपसंहरति —
तस्मादिति ।
कथं तर्हि ब्रह्मविद्या पुरुषार्थसाधनमिति तत्राऽऽह —
सर्वविरोधादिति ।
सर्वस्य क्रियाकारकफलभेदात्मकस्य द्वैतेन्द्रजालस्य ब्रह्मविद्यया विरोधादिति यावत् ।
एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —
इति पारिव्राज्यमिति ।
न केवलं संन्यासस्य श्रवणादिपौष्कल्यदृष्टद्वारेण विद्यापरिपाराकाङ्गत्वं श्रुत्यादिवशादवगम्यते किन्तु लिङ्गादपीत्याह —
एतावदेवेति ।
तत्रैव लिङ्गान्तरमाह —
षष्ठसमाप्तविति ।
एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारिव्राज्यमुच्यते तस्मात्तत्त्यागस्तदङ्गत्वेन विधित्सत इत्यर्थः ।
तत्रैव लिङ्गान्तरमाह —
मैत्रेय्यै चेति ।
न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्माधिकर्तुमर्हति पतिद्वारमन्तरेण भार्यायास्तदनधिकारात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्योपदेशात्कर्मत्यागस्तदङ्गत्वेन ध्वनित इत्यर्थः ।
तत्रैव हेत्वन्तरमाह —
वित्तेति ।
किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।
तदेव विवृणोति —
यदि हीति ।
तन्निन्दावचनमित्यत्र तच्छब्देन वित्तमुच्यते ।
त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —
यदि त्विति ।
किञ्च ब्राह्मणोऽहं क्षत्रियोऽहमित्याद्यभिमानस्य कर्मानुष्ठाननिमित्तस्य निन्दया सर्वमिदमात्मैवेति प्रत्यये श्रुतेस्तात्पर्यदर्शनाद्विद्यालिङ्गत्वेन संन्यासो विधित्सत इत्याह —
कर्माधिकारेति ।
ननु जाग्रति विधौ कर्मानुष्ठानमशक्यमपहारयितुमत आह —
न हीति ।
ननु वर्णाश्रमाभिमानवतः संन्यासोऽपीष्यते स कथं तदभावे तत्राऽऽह —
यस्यैवेति ।
अर्थप्राप्तश्चेत्यवधारणार्थश्चकारः । प्रयोजकज्ञानवतो वैधसंन्यासाभ्युपगमादविरोध इति भावः ।
आत्मज्ञानाङ्गत्वं संन्यासस्य श्रुतिस्मृतिन्यायसिद्धं चेत्किमर्थमियमाख्यायिका प्रणीयते तत्राऽऽह —
तस्मादिति ।
विध्यपेक्षितार्थवादसिद्ध्यर्थमाख्यायिकेति भावः ।
भार्यामामन्त्र्य किं कृतवानिति तदाह —
उद्यासन्निति ।
वैशब्दोऽवधारणार्थः । आश्रमान्तरं यास्यन्नेवाहमस्मीति संबन्धः ।
यथोक्तेच्छानन्तरं भार्यायाः कर्तव्यं दर्शयति —
अत इति ।
सति भार्यादौ संन्यासस्य तदनुज्ञापूर्वकत्वनियमादिति भावः ।
कर्तव्यान्तरं कथयति —
किञ्चेति ।
आवयोर्विच्छेदः स्वाभाविकोऽस्ति किं तत्र कर्तव्यामित्याशङ्क्याऽऽह —
पतिद्वारेणेति ।
त्वयि प्रव्रजिते स्वयमेवाऽऽवयोर्विच्छेदो भविष्यतीत्याशङ्क्याऽऽह —
द्रव्येति ।
वित्ते तु न स्त्रीस्वातन्त्र्यमिति भावः ॥१॥
मैत्रेयी मोक्षमेवापेक्षमाणा भर्तारं प्रत्यानुकूल्यमात्मनो दर्शयति —
सैवमिति ।
कर्मसाध्यस्य गृहप्रासादादिवन्नित्यत्वानुपपत्तिराक्षेपनिदानम् ।
कथंशब्दस्य प्रश्नार्थपक्षे वाक्यं योजयति —
तेनेति ।
कथं तेनेत्यत्र कथंशब्दस्य किमहं तेनेत्यत्रत्यं किंशब्दमुपादाय वाक्यं योजनीयम् । वित्तसाध्यस्य कर्मणोऽमृतत्वसाधनत्वमात्रासिद्धौ तत्प्रकारप्रश्नस्य निरवकाशत्वादित्यर्थः ।
मुनिरपि भार्याहृदयाभिज्ञः सन्तुष्टः सन्नापेक्षं प्रश्नं च प्रतिवदतीत्याह —
प्रत्युवाचेति ।
वित्तेन ममामृतत्वाभावे तदकिञ्चित्करमवसेयमित्याशङ्क्याऽऽह —
किं तर्हीति ॥२॥
वित्तस्यामृतत्वसाधनाभावमधिगम्य तस्मिन्नास्थां त्यक्त्वा मुक्तिसाधनमेवाऽऽत्मज्ञानमात्मार्थं दातुं पतिं नियुञ्जाना ब्रूते —
सा हीति ॥३॥
भार्यापेक्षितं मोक्षोपायं विवक्षुस्तामादौ स्तौति —
स हेत्यादिना ।
वित्तेन साध्यं कर्म तस्मिन्नमृतत्वसाधने शङ्किते किमहं तेन कुर्यामिति भार्यायाऽपि प्रत्याख्याते सतीति यावत् । स्वाभिप्रायो न कर्म मुक्तिहेतुरिति तस्य भार्याद्वाराऽपि संपत्तौ सत्यामित्यर्थः ॥४॥
अमृतत्वसाधनमात्मज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्युरित्यादिवाक्यमित्याशङ्क्याऽऽह —
जायेति ।
उवाच जायादीनात्मार्थत्वेन प्रियत्वमात्मनश्चानौपाधिकप्रियत्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे —
न वा इति ।
किं तन्निपातेन स्मार्यते तदाह —
प्रसिद्धमिति ।
यथोक्ते क्रमे नियामकमाह —
पूर्वं पूर्वमिति ।
यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना ।
तत्र हेतुमाह —
तत्रेति ।
न वा अरे सर्वस्येत्ययुक्तं पत्यादीनामुक्तत्वादंशेन पुनरुक्तिप्रसंगादित्याशङ्क्याऽऽह —
सर्वग्रहणमिति ।
उक्तवदनुक्तानामपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः ।
सर्वपर्यायेषु सिद्धमर्थमुपसंहरति —
तस्मादिति ।
ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह —
तदेतदिति ।
अथोपन्यासविवरणाभ्यां प्रीतिरात्मन्येवेत्ययुक्तं पुत्रादावपि तद्दर्शनादत आह —
तस्मादिति ।
आत्मनो निरतिशयप्रीत्यास्पदत्वेन परमानन्दत्वमभिधायोत्तरवाक्यमादाय व्याचष्टे —
तस्मादित्यादिना ।
कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह —
श्रोतव्य इति ।
श्रवणादीनामन्यतमेनाऽऽत्मज्ञानलाभात्किमिति सर्वेषामध्ययनमित्याशङ्क्याऽऽह —
एवं हीति ।
विध्यनुसारित्वमेवंशब्दार्थः ।
श्रुतत्वाविशेषाद्विकल्पहेत्वभावाच्च सर्वैरेवाऽऽत्मज्ञानं जायते चेत्तेषां समप्रधानत्वमाग्नेयादिवदापतेदित्याशङ्क्याऽऽह —
यदेति ।
श्रवणस्य प्रमाणविचारत्वेन प्रधानत्वादङ्गित्वं मनननिदिध्यासनयोस्तु तत्कार्यप्रतिबन्धप्रध्वंसित्वादङ्गत्वमित्यङ्गाङ्गिभावेन यदा श्रवणादीन्यसकृदनुष्ठानेन समुच्चितानि तदा सामग्रीपौष्कल्यात्तत्त्वज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रतिबन्धाप्रध्वंसे वाक्यस्य फलवज्ज्ञानजनकत्वायोगादित्यर्थः ।
परामर्शवाक्यस्य तात्पर्यमाह —
यदेत्यादिना ।
कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णाश्रमावस्थादिरूपमात्मन्यविद्ययाऽध्यारोपितस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदुपमर्दनार्थमाहेति संबन्धः ।
अविद्याध्यारोपितप्रत्ययविषयमित्येतदेव व्याकरोति —
अविद्येति ।
अविद्याजनितप्रत्ययविषयत्वे दृष्टान्तमाह —
रज्ज्वामिति ॥५॥
आत्मनि विदिते सर्वं विदितमिव्युक्तमाक्षिपति —
नन्विति ।
दृष्टिविरोधं निराचष्टे —
नैष दोष इति ।
आत्मनि ज्ञाते ज्ञातमेव सर्वं ततोऽर्थान्तरस्याभावादित्युक्तमेव स्फुटयति —
यदीत्यादिना ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमुदाहृत्य व्याचष्टे —
कथमित्यदिना ।
पुरुषं विशेषतो ज्ञातुं प्रश्नमुपन्यस्य प्रतीकं गृहीत्वा व्याकरोति —
कमित्यादिना ।
पराकरणे पुरुषस्यापराधित्वं दर्शयति —
अनात्मेति ।
परमात्मातिरेकेण दृश्यमानामपि ब्राह्मणजातिं स्वस्वरूपेण पश्यन्कथमपराधी स्यादित्याशङ्क्याऽऽह —
परमात्मेति ।
इदं ब्रह्मेत्युत्तरवाक्यानुवादस्तस्य व्याख्यानं यान्यनुक्रान्तानीत्यादि ।
आत्मैव सर्वमित्येतत्प्रतिपादयति —
यस्मादित्यादिना ।
स्थितिकाले तिष्ठति तस्मादात्मेव सर्वं तद्व्यतिरेकेणाग्रहणादिति योजना ॥६॥
स्थित्यवस्थायां सर्वस्याऽऽत्ममात्रत्वं ज्ञातुमशक्यं ज्ञापकाभावादित्याक्षिपति —
कथं पुनरिति ।
घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य परिहरति —
चिन्मात्रेति ।
स यथा दुन्दुभेरित्यादि वाक्यमवतारयति —
तत्रेति ।
सर्वत्र चिदतिरेकेणासत्त्वं सप्तम्यर्थः ।
दृष्टान्ते विवक्षितं संक्षिपति —
यत्स्वरूपेति ।
दुन्दुभिदृष्टान्तमादायाक्षराणि व्याचष्टे —
स यथेत्यादिना ।
शब्दविशेषानेव विशदयति —
दुन्दुभीति ।
कथं तर्हि दुन्दुभिशब्दविशेषाणां ग्रहणं तदाह —
दुन्दुभेस्त्विति ।
दुन्दुभिशब्दसामान्यस्येति यावत् ।
उक्तेऽर्थे दुन्दुभ्याघातस्येत्यादिवाक्यमुत्थाप्य व्याचष्टे —
दुन्दुभ्याघातस्येति ।
वाशब्दार्थमाह —
तद्गता विशेषा इति ।
उक्तमर्थं व्यतिरेकमुखेन विशदयति —
न त्वति ।
विवक्षितं दार्ष्टान्तिकमाचष्टे —
तथेति ।
तत्रैव वस्तुविशेषग्रहणसंभावनामभिप्रेत्य स्वप्नजागरितयोरित्युक्तम् ॥७॥
तथा दुन्दुभिदृष्टान्तवदिति यावत् । शङ्खस्य तु ग्रहणेनेत्यादिवाक्यमादिशब्दार्थः । दुन्दुभेस्तु ग्रहणेनेत्यादिवाक्यं दृष्टान्तयति —
पूर्ववदिति ॥८॥
तथेति दृष्टान्तद्वयपरामर्शः ।
एकेनैव दृष्टान्तेन विवक्षितार्थसिद्धौ किमित्यनेकदृष्टोन्तोपादानमित्याशङ्क्याऽऽह —
अनेकेति ।
इहेति जगदुच्यते श्रुतिर्वा ।
सामान्यबहुत्वमेव स्फुटयति —
अनेक इति ।
तेषां स्वस्वसामान्येऽन्तर्भावेऽपि कुतो ब्रह्मणि पर्यवसानमित्याशङ्क्याऽऽह —
तेषामिति ।
कथमित्यस्मात्पूर्वं तथेत्यध्याहारः । इति मन्यते श्रुतिरिति शेषः ।
विमतं नाऽऽत्मातिरेकि तदतिरेकेणागृह्यमाणत्वाद्यद्यदतिरेकेणागृह्यमाणं तत्तदतिरेकि न भवति यथा दुन्दुभ्यादिशब्दास्तत्सामान्यातिरेकेणागृह्यमाणास्तदतिरेकेण न सन्तीत्यनुमानं विवक्षन्नाह —
दुन्दुभीति ।
शब्दत्वेऽन्तर्भावस्तथा प्रज्ञानघने सर्वं जगदन्तर्भवतीति शेषः ।
दृष्टान्तत्रयमवष्टभ्य निष्टङ्कितमर्थमुपसंहरति —
एवमिति ॥९॥
स यथाऽऽद्रैधाग्नेरित्यादिवाक्यस्य तात्पर्यमाह —
एवमित्यादिना ।
स्थितिकालवदित्येवंशब्दार्थः तत्र वाक्यमवतार्य व्याचष्टे —
इत्येतदिति ।
महतोऽनवच्छिन्नस्य भूतस्य परमार्थस्येति यावत् ।
निःश्वसितमिवेत्युक्तं व्यनक्ति —
यथेति ।
अरे मैत्रेयि ततो जातमिति शेषः ।
तदेवाऽऽकाङ्क्षापूर्वकं विशदयति —
किं तदित्यादिना ।
इतिहास इति ब्राह्मणमेवेति संबन्धः । संवादादिरित्यादिपदेन प्राणसंवादादिग्रहणम् । असद्वा इदमग्र आसीदित्यादीत्यत्राऽऽदिशब्देनासदेवेदमग्र आसीदिति गृह्यते । देवजनविद्या नृत्यगीतादिशास्त्रम् । वेदः सोऽयं वेदाद्बहिर्न भवतीत्यर्थः । इत्याद्या विद्येति संबन्धः । आदिशब्दः शिल्पशास्त्रसंग्रहार्थः । प्रियमित्येनदुपासीतेत्याद्या इत्यत्राऽऽदिशब्दः सत्यस्य सत्यमित्युपनिषत्संग्रहार्थः । तदेते श्लोका इत्यादय इत्यत्राऽऽदिशब्देन तदप्येष श्लोको भवति । असन्नेव स भवतीत्यादि गृह्यते । इत्यादीनीत्यादिपदमथ योऽन्यां देवतामुपास्ते ब्रह्मविदाप्नोति परमित्यादि ग्रहीतुम् ।
अर्थवादेषु व्याख्यानपदप्रवृत्तौ हेत्वभावं शङ्कित्वा पक्षान्तरमाह —
अथवेति ।
इतिहासादिशब्दव्याख्यानमुपसंहरति —
एवमिति ।
ब्राह्मणमितिहासादिपदवेदनीयमिति शेषः ।
ऋगादिशब्दानामितिहासादिशब्दानां च प्रसिद्धार्थत्यागे को हेतुरित्याशङ्क्य निःश्वसितश्रुतिरितिहासादिशब्दानां प्रसिद्धार्थत्यागे हेतुः परिशेषस्त्वन्यत्रेत्यभिप्रेत्याऽऽह —
एवं मन्त्रेति ।
ननु प्रथमे काण्डे वेदस्य नित्यत्वेन प्रामाण्यं स्थापितं तदनित्यत्वे तद्धानिरित्यत आह —
नियतेति ।
नियतेत्यादौ वेदो विशेष्यते । कल्पान्तेऽन्तर्हितान्वेदानित्यादिवाक्यान्नियतरचनावत्त्वं वेदस्य गम्यते । ‘अनादिनिधना’इत्यादेश्च सदातनत्वं तस्य निश्चीयते । न च कृतकत्वादप्रामाण्यं प्रत्यक्षादौ व्यभिचारात् । न च पौरुषेयत्वादनपेक्षत्वहेत्वभावादप्रामाण्यम् । बुद्धिपूर्वप्रणीतत्वाभावेन तत्सिद्धेः । न चोन्मत्तवाक्यसादृश्यमबाधितार्थत्वादिति भावः ।
सिद्धे वेदस्य प्रामाण्ये फलितमाह —
तस्मादिति ।
नामप्रपञ्चसृष्टिरेवात्रोपदिष्टा न रूपप्रपञ्चसृष्टिः सा चोपदेष्टव्या सृष्टिपरिपूर्तेरन्यथाऽनुपपत्तेरित्याशङ्क्याऽऽह —
नामेति ।
यद्यपि नामतन्त्रा रूपसृष्टिरिति नामसृष्टिवचनेन रूपसृष्टिरर्थादुक्ता तथाऽपि सर्वसंसारसृष्टिर्नोक्ता नामरूपयोरेव संसारत्वे प्राक्तत्सृष्टेः संसारो न स्यादित्याशङ्क्याऽऽह —
नामरूपयोरिति ।
सर्वावस्थयोर्व्यक्ताव्यक्तावस्थयोरिति यावत् ।
नामप्रपञ्चस्यैवात्र सर्गोक्तिमुपपादितामुपसंहरति —
इतीति ।
अतःशब्दार्थं स्फुटयति —
तद्वचनेनेति ।
निःश्वसितश्रुतिं विधान्तरेणावतारयति —
अथवेत्यादिना ।
मिथ्यात्वेऽपि प्रतिबिम्बवत्प्रामाण्यसंभवादुन्मत्तादिवाक्यानां च मिथ्याज्ञानाधीनप्रयत्नजन्यत्वेनामानत्वाद्वेदस्य तदभावाद्विषयाव्यभिचाराच्च नाप्रामाण्यमित्याह —
तदाशङ्केति ।
अन्यो ग्रन्थो बुद्धादिप्रणीतः ‘स्वर्गकामश्चैत्यं वन्देते’त्यादिः ॥१०॥
स यथा सर्वासामपामित्यादिसमनन्तरग्रन्थमुत्थापयति —
किञ्चान्यदिति ।
तदेव व्याकरोति —
न केवलमिति ।
प्रलयकाले च प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वमिति संबन्धः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयते —
जलेति ।
तथाऽपि प्रज्ञानमेवैकमेव स्यान्न ब्रह्मेत्याशङ्क्याऽऽह —
तस्मादिति ।
सत्यज्ञानादिवाक्याद्ब्रह्मणस्तन्मात्रत्वादित्यर्थः ।
यथोक्तं ब्रह्म चेत्प्रतिपत्तव्यं किमिति तर्हि स यथेत्यादि वाक्यमित्याशङ्क्य तच्छेषत्वेन प्रलयं दर्शयितुं दृष्टान्तवचनमेतदित्याह —
अत आहेति ।
प्रलीयतेऽस्मिन्निति प्रलय एकश्चासौ प्रलयश्चेत्येकप्रलयः तडागादिगतानामपां कुतः समुद्रे लयो न हि तासां तेन संगतिरित्याशङ्क्याऽऽह —
अविभागेति ।
अत्र हि समुद्रशब्देन जलसामान्यमुच्यते । तद्व्यतिरेकेण च जलविशेषाणामभावो विवक्षितस्तेषां तत्संस्थानमात्रत्वादतश्चाऽऽसामस्मिन्नविभागस्य प्राप्तिरिति समुद्रेऽविभागप्राप्तिरित्यर्थः । पिच्छिलादीनामित्यादिशब्देनानुक्तस्पर्शंविशेषाः सर्वे गृह्यन्ते ।
विषयाणामिन्द्रियकार्यत्वाभावात्कुतः स्पर्शानां त्वचि विलयः स्यादित्याशङ्क्याऽऽह —
त्वगितीति ।
स्पर्शविशेषाणां स्पर्शसामान्येऽन्तर्भावं प्रपञ्चयति —
तस्मिन्निति ।
तथाऽपि समस्तस्य जगतो ब्रह्मव्यतिरेकेणाभावाद्ब्रह्मत्वमित्येतत्कथं प्रतिज्ञातमित्याशङ्क्य परम्परया ब्रह्मणि सर्वप्रविलयं दर्शयितुं क्रममनुक्रामति —
तथेति ।
मनसि सति विषयविषयिभावस्य दर्शनादसति चादर्शनान्मनःस्पन्दितमात्रं विषयजातमिति तस्य तद्विषयमात्रे प्रविष्टस्य तदतिरेकेणासत्त्वमित्यर्थः ।
संकल्पविकल्पात्मकमनःस्पन्दितद्वैतस्य संकल्पात्मके मनस्यन्तर्भावात्तस्य च संकल्पस्याध्यवसायपारतन्त्र्यदर्शनादध्यवसायात्मिकायां च बुद्धौ तद्विषयस्य पूर्ववदनुप्रवेशान्मनोविषयसामान्यस्य बुद्धिविषयसामान्ये प्रविष्टस्य तद्व्यतिरेकेणासत्त्वमित्याह —
एवमिति ।
सर्वं जगदुक्तेन न्यायेन बुद्धिमात्रं भूत्वा तद्यच्छेच्छान्त आत्मनीति श्रुत्या ब्रह्मणि पर्यवस्यतीत्याह —
विज्ञानमात्रमिति ।
ननु जगदिदं विलीयमानं शक्तिशेषमेव विलीयते । तत्त्वज्ञानादृते तस्य निःशेषनाशानाश्रयणात् । तथा च कुतो ब्रह्मैकरसस्य प्रतिपत्तिरत आह —
एवमिति ।
शक्तिशेषलयेऽपि तस्या दुर्निरूपत्वाद्वस्त्वेकरसस्य धीरविरुद्धेति भावः ।
एकायनप्रक्रियातात्पर्यमुपसंहरति —
तस्मादिति ।
घ्राणविषयसामान्यमित्यादावेकायनमिति सर्वत्र संबन्धः ।
कथं पुनरत्र प्रतिपर्यायं ब्रह्मणि पर्यवसानं तत्राऽऽह —
तथेति ।
यथा सर्वेषु पर्यायेषु ब्रह्मणि पर्यवसानं तथोच्यत इति यावत् । पूर्ववदिति त्वग्विषयसामान्यवदित्यर्थः । संकल्पे लय इति शेषः । विज्ञानमात्र इत्यत्रापि तथैव ।
एवं सर्वेषां कर्मणामित्यादेरर्थमाह —
तथा कर्मेन्द्रियाणामिति ।
क्रियासामान्यानां सूत्रात्मसंस्थानभेदत्वमभ्युपेत्याऽऽह —
तानि चेति ।
क्रियाज्ञानशक्त्योश्चिदुपाधिभूतयोश्चिदभेदाभेदमभिप्रेत्य प्राणश्चेत्यादि भाष्यम् । तत्र तयोरन्योन्याभेदे मानमाह —
यो वा इति ।
श्रुतिमुखात्करणलयो न प्रतिभाति स्वयं च व्याख्यायते तत्र को हेतुरिति पृच्छति —
नन्विति ।
श्रुत्या करणलयस्यानुक्तत्वमङ्गीकरोति —
बाढमिति ।
पृष्टमभिप्रायं प्रकटयति —
किन्त्विति ।
करणस्य विषयसाजात्यं विवृणोति —
विषयस्यैवेति ।
किमत्र प्रमाणमित्याशङ्क्यानुमानमति सूचयति —
प्रदीपवदिति ।
चक्षुषस्तेजसं रूपादिषु मध्ये रूपस्यैव व्यञ्जकद्रव्यत्वात्संप्रतिपन्नवदित्यादीन्यनुमानानि शास्त्रप्रकाशिकायामधिगन्तव्यानि ।
करणानां विषयसाजात्ये फलितमाह —
तस्मादिति ।
पृथग्विषयप्रलयादिति शेषः । एकायनप्रक्रियासमाप्तावितिशब्दः ॥११॥
स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
तत्रेत्यादिना ।
पूर्वः सन्दर्भस्तत्रेत्युच्यते ।
प्रतिज्ञातेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति —
तस्मादिति ।
उक्तहेतोर्यथोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्रतिज्ञातमिदं सर्वं यदयमात्मेति तत्पूर्वोक्तदृष्टान्तप्रबन्धरूपतर्कवशात्साधितमिति योजना ।
उत्तरवाक्यस्य विषयपरिशेषार्थमुक्तप्रलये पौराणिकसम्मतिमाह —
स्वाभाविक इति ।
कार्याणां प्रकृतावाश्रितत्वं स्वाभाविकत्वम् ।
प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते —
यस्त्विति ।
द्वितीयप्रलयमधिकृत्यानन्तरग्रन्थमवतारयति —
अविद्येति ।
तत्रेत्यात्यन्तिकप्रलयोक्तिः ।
उदकं विलीयमानमित्ययुक्तं काठिन्यविलयेऽपि तल्लयादर्शनादित्याशङ्क्याऽऽह —
यत्तदिति ।
न हेति प्रतीकमादाय व्याचष्टे —
नैवेति ।
अन्वयप्रदर्शनार्थं नैवेति पुनरुक्तम् । महद्भूतमेकद्वैतमित्युत्तरत्र संबन्धः । अस्यार्थस्य सर्वोपनिषत्प्रसिद्धत्वप्रदर्शनार्थो वैशब्दः ।
इदं महद्भूतमित्यत्रेदंशब्दार्थं विशदयति —
यस्मादित्यादिना ।
तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः ।
खिल्याभावापत्तिकार्यं कथयति —
मर्त्येत्यादिना ।
कोऽसौ खिल्यभावोऽभिप्रेतस्तत्राऽऽह —
नामरूपेति ।
कार्यकारणसंघाते तादात्म्याभिमानद्वारा जात्याद्यभिमानोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते ।
यथोक्ते खिल्यभावे सति कुतो भूतस्य महत्त्वमित्याशङ्क्याऽऽह —
स खिल्यभाव इति ।
खिल्यभावः स्वशब्दार्थः । परस्य परिशुद्धत्वार्थमजरादिविशेषणानि ।
केन रूपेणैकरस्यं तदाह —
प्रज्ञानेति ।
तस्यापरिच्छिन्नत्वमाह —
अनन्त इति ।
तस्य सापेक्षत्वं वारयति —
अपार इति ।
प्रतिभासमाने भेदे कथं यथोक्तं तत्त्वमित्याशङ्क्याऽऽह —
अविद्येति ।
भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह —
तस्मिन्निति ।
महत्त्वं साधयति —
सर्वेति ।
भूतत्वमुपपादयति —
त्रिष्वपीति ।
महदित्युक्ते पारमार्थिकं चेति विशेषणं किमर्थमित्याशङ्क्याऽऽह —
लौकिकमिति ।
जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्नमायादिसमत्वान्न तत्परमार्थवस्तु । न हि दृश्यं जडमिन्द्रजालादेर्विशिष्यतेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादानन्त्यमिति शेषः ।
अवधारणरूपमर्थमेव स्फोरयति —
नान्यदिति ।
एतेभ्यो भूतेभ्यः समुत्थायेत्यादिसमनन्तरवाक्यव्यावर्त्यामाशङ्कामाह —
यदीदमिति ।
वस्तुतः शुद्धत्वे किं सिध्यति तदाह —
संसारेति ।
तर्हि तस्मिन्निमित्ताभावान्न तस्य खिल्यत्वमिति मत्वाऽऽह —
किंनिमित्त इति ।
खिल्यभावमेव विशिनष्टि —
जात इति ।
अनेकः संसाररूपो धर्मोऽशनायापिपासादिस्तेनोपद्रुतो दूषित इति यावत् ।
खिल्यभावे निमित्तं दर्शयन्नुत्तरमाह —
उच्यत इति ।
एतच्छब्दार्थं व्याकरोति —
यानीति ।
स्वच्छस्य परमात्मनः कार्यकारणविषयाकरपरिणतानीति संबन्धः ।
तानि व्यवहारसिद्ध्यर्थं विशिनष्टि —
नामरूपात्मकानीति ।
तेषामतिदुर्बलत्वं सूचयति —
सलिलेति ।
स्वच्छत्वे दृष्टान्तमाह —
सलिलोपमस्येति ।
तेषां प्रत्यक्षत्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादित्याशङ्क्याऽऽह —
येषामिति ।
उक्तमेकायनप्रक्रियायामिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह —
नदीति ।
हेतौ पञ्चमीति दर्शयति —
हेतुभूतेभ्य इति ।
पूर्वस्मिन्ब्राह्मणे षष्ठ्यन्तसत्यशब्दवाच्यतया तेषां प्रकृतत्वमाह —
सत्येति ।
यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संबन्धमपेक्ष्योद्गच्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह —
सैन्धवेति ।
समुत्थानमेव विवृणोति —
यथेत्यादिना ।
तान्येवेत्यादि व्यचष्टे —
येभ्य इति ।
खिल्यहेतुभूतानि तत्र हेतुत्वोपेतानीति यावत् ।
ब्रह्मविद्योत्पत्तौ हेतुमाह —
शास्त्रेति ।
तत्फलं सदृष्टान्तमाचष्टे —
नदीति ।
यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चात्खिल्यभावो नश्यतीत्याह —
सलिलेति ।
किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह —
यथेति ।
तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति —
नास्तीति ।
ब्रह्मविदोऽशरीरस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति —
शरीरावस्थितस्येति ।
सुषुप्तस्येति यावत् । सर्वतः कार्यकारणविमुक्तस्येति संबन्धः ॥१२॥
उक्तं परमार्थदर्शनमेव व्यक्तीकर्तुं चोदयति —
एवमिति ।
तेन याज्ञवल्क्येनेति यावत् । इति वदता विरुद्धधर्मवत्त्वमुक्तमिति शेषः ।
एवं वदनेऽपि कुतो विरुद्धधर्मवत्त्वोक्तिस्तत्राऽऽह —
कथमिति ।
एकस्यैव विज्ञानघनत्वे संज्ञाराहित्ये च कुतो विरोधधीरित्याशङ्क्याऽऽह —
न हीति ।
विरोधबुद्धिफलमाह —
अत इति ।
अत्रेत्युक्तविषयपरामर्शः ।
न वा इति प्रतीकं गृहीत्वा व्याकरोति —
अर इति ।
मोहनं वाक्यं ब्रवीत्येव भवानिति शङ्कते —
नन्विति ।
समाधत्ते —
न मयेति ।
कथं तर्हि ममैकस्मिन्नेव वस्तुनि विरुद्धधर्मवत्त्वबुद्धिरित्याशङ्क्याऽऽह —
त्वयैवेति ।
त्वया तर्हि किमुक्तमिति तत्राऽऽह —
मया त्विति ।
खिल्यभावस्य विनाशे प्रत्यगात्मस्वरूपमेव विनश्यतीत्याशङ्क्याऽऽह —
न पुनरिति ।
ब्रह्मस्वरूपस्यानाशे विज्ञानघनस्य किमायातमित्याशङ्क्याऽऽह —
तदिति ।
विज्ञानघनस्य प्रत्यक्त्वं दर्शयति —
आत्मेति ।
कथं तर्हि तान्येवानुविनश्यतीति तत्राऽऽह —
भूतनाशेति ।
खिल्यभावस्याविद्याकृतत्वे प्रमाणमाह —
वाचाऽऽरम्भणमिति ।
खिल्यभाववत्प्रत्यगात्मनोऽपि विनाशित्वं स्यादिति चेन्नेत्याह —
अयं त्विति ।
पारमार्थिकत्वे प्रमाणमाह —
अविनाशीति ।
अविनाशित्वफलमाह —
अत इति ।
पर्याप्तं विज्ञातुमिति संबन्धः ।
इदमित्यादिपदानां गतार्थत्वादव्याख्येयत्वं सूचयति —
यथेति ।
विज्ञानघन एवेत्यत्र वाक्यशेषं प्रमाणयति —
नहीति ॥१३॥
आत्मनो विज्ञानघनत्वं प्रामाणिकं चेत्तर्हि निषेधवाक्यमयुक्तमिति शङ्कते —
कथमिति ।
अविद्याकृतविशेषविज्ञानाभावाभिप्रायेण निषेधवाक्योपपत्तिरित्युत्तरमाह —
शृण्विति ।
यस्मिन्नुक्तलक्षणे खिल्यभावे सति यस्माद्यथोक्ते ब्रह्मणि द्वैतमिव द्वैतमुपलक्ष्यते तस्मात्तस्मिन्सतीतर इतरं जिघ्रतीति संबन्धः ।
द्वैतमिवेत्युक्तमनूद्य व्याचष्टे —
भिन्नमिवेति ।
इवशब्दस्योपमार्थत्वमुपेत्य शङ्कते —
नन्विति ।
द्वैतेन द्वैतस्योपमीयमानत्वाद्दृष्टान्तस्य दार्ष्टान्तिकस्य च तस्य वस्तुत्वं स्यादुपमानोपमोययोश्चन्द्रमुखयोर्वस्तुत्वोपलम्भादित्यर्थः ।
द्वैतप्रपुञ्चस्य मिथ्यात्ववादिश्रुतिविरोधान्न तस्य सत्यतेति परिहरति —
न वाचाऽऽरम्भणमिति ।
तत्र तस्मिन्खिल्यभावे सतीति यावत् । स्वप्नादिद्वैतमिव जागरितेऽपि द्वैतं यस्मादालक्ष्यते तस्मात्परमात्मनः सकाशादितरोऽसावात्मा खिल्यभूतोऽपरमार्थः सन्नितरं जिघ्रतीति योजना ।
परस्मादितरस्मिन्नात्मन्यपरमार्थे खिल्यभूते दृष्टान्तमाह —
चन्द्रादेरिति ।
इतरशब्दमनूद्य तस्यार्थमाह —
इतरो घ्रातीति ।
अविद्यादशायां सर्वाण्यपि कारकाणि सन्ति कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वादित्याह —
इतर इति ।
क्रियाफलयोरेकशब्दत्वे दृष्टान्तं विवृणोति —
यथेति ।
दृष्टान्तेऽपि विप्रतिपत्तिमाशङ्क्यानन्तरोक्तं हेतुमेव स्पष्टयति —
क्रियेति ।
अतश्च जिघ्रतीत्यत्रापि क्रियाफलयोरेकशब्दत्वमविरुद्धमिति शेषः ।
उक्तं वाक्यार्थमनूद्य वाक्यान्तरेष्वतिदिशति —
इतर इति ।
तथेतरो द्रष्टेतरेण चक्षुषेतरं द्रष्टव्यं पश्यतीत्यदि द्रष्टव्यमिति शेषः ।
उत्तरेष्वपि वाक्येषु पूर्ववाक्यवत्कर्तृकर्मनिर्देशस्य सर्वकारकोपलक्षणत्वं क्रियापदस्य च क्रियातत्फलाभिधायित्वं तुल्यमित्याह —
सर्वमिति ।
यत्र हीत्यादिवाक्यार्थमुपसंहरति —
इयमिति ।
यत्र वा अस्येत्यादिवाक्यस्य तात्पर्यमाह —
यत्र त्विति ।
उक्तेऽर्थे वाक्याक्षराणि व्याचष्टे —
यत्रेति ।
तमेवार्थं संक्षिपति —
यत्रैवमिति ।
सर्वं कर्तृकरणादीति शेषः ।
तत्केनेत्यादि व्याकरोति —
तत्तत्रेति ।
किंशब्दस्याऽऽक्षेपार्थं कथयति —
सर्वत्र हीति ।
ब्रह्मविदोऽपि कारकद्वारा क्रियादि स्वीक्रियतामित्याशङ्क्याऽऽह —
आत्मत्वादिति ।
सर्वस्याऽऽत्मत्वासिद्धिमाशङ्क्य सर्वमात्मैवाभूदिति श्रुत्या समाधत्ते —
न चेति ।
कथं तर्हि सर्वमात्मव्यतिरेकेण भातीत्याशङ्क्याऽऽह —
तस्मादिति ।
भेदभानस्याविद्याकृतत्वे फलितमाह —
तस्मात्परमार्थेति ।
तद्धेतोरज्ञानस्यापनीयत्वादिति शेषः ।
एकत्वप्रत्ययादज्ञाननिवृत्तिद्वारा क्रियादिप्रत्यये निवृत्तेऽपि क्रियादि स्यान्नेत्याह —
अत इति ।
करणप्रमाणयोरभावे कार्यस्य विरुद्धत्वादिति यावत् ।
ननु किंशब्दे प्रश्नार्थे प्रतीयमाने कथं क्रियातत्साधनयोरत्यन्तनिवृत्तिर्विदुषो विवक्ष्यते तत्राऽऽह —
केनेति ।
किंशब्दस्य प्रागेव क्षेपार्थत्वमुक्तं तच्च क्षेपार्थं वचो विदुषः सर्वप्रकारक्रियाकारकाद्यसंभवप्रदर्शनार्थमित्यत्यन्तमेव क्रियादिनिवृत्तिर्विदुषो युक्तेत्यर्थः ।
सर्वप्रकारानुपपत्तिमेवाभिनयति —
केनचिदिति ।
कैवल्यावस्थामास्थाय संज्ञाभाववचनमित्युक्त्वा तत्रैव किम्पुनर्न्यायं वक्तुमविद्यावस्थायामपि साक्षिणो ज्ञानाविषयत्वमाह —
यत्रापीति ।
येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा ज्ञाता जानीयादित्यत्र हेतुमाह —
येनेति ।
येन चक्षुरादिना लोको जानाति तस्य विषयग्रहणेनैवोपक्षीणत्वान्न साक्षिणि प्रवृत्तिरित्यर्थः ।
आत्मनोऽसन्दिग्धभावत्वाच्च प्रमेयत्वासिद्धिरित्याह —
ज्ञतुश्चेति ।
किञ्चाऽऽत्मा स्वेनैव ज्ञायते ज्ञात्रन्तरेण वा । नाऽऽद्य इत्याह —
न चेति ।
न द्वितीय इत्याह —
न चाविषय इति ।
ज्ञात्रन्तरस्याभावात्तस्याविषयोऽयमात्मा कुतस्तेन ज्ञातुं शक्यते । न हि ज्ञात्रन्तरमस्ति नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतेरित्यर्थः ।
आत्मनि प्रमातृप्रमाणयोरभावे ज्ञानाविषयत्वं फलतीत्याह —
तस्मादिति ।
विज्ञातारमित्यादिवाक्यस्यार्थं प्रपञ्चयति —
यदा त्विति ।
तदेवं स्वरूपापेक्षं विज्ञानघनत्वं विशेषविज्ञानापेक्षं तु संज्ञाभाववचनमित्यविरोध इति ॥१४॥