अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: द्वादशं ब्राह्मणम्

ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह —
अन्नमिति ।

यथा पूर्व­स्मि­न्ब्रा­ह्मणे फल­व­द­ब्र­ह्मो­पा­स­न­मुक्तं तद्वदित्याह —
तथेति ।
एतदिति ब्रह्म­वि­ष­योक्तिः ।

उपास्यं ब्रह्म निर्धारयितुं विचारयति —
अन्नमित्यादिना ।

अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह —
ब्रह्म हीति ।

कथमन्नं विना प्राणस्य शोष­प्रा­प्ति­स्त­त्राऽऽह —
अत्ता हीति ।
प्रत्येकं नाशि­त्व­म­तः­श­ब्दार्थः ।

किंस्वि­दि­त्या­दि­वा­क्य­स्यार्थं विवृणोति —
अन्नप्राणाविति ।

कस्त्विति प्रतीकमादाय व्याकरोति —
एनयोरिति ।
यद्ये­व­मु­क्त­रीत्या परमत्वं यदि नास्तीत्यर्थः ।

उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह —
सर्वभूतेति ।

अन्नगुणं विना प्राण­गु­णा­दे­त­द्व्यानं सिद्ध्य­ती­त्या­श­ङ्क्याऽऽह —
न हीति ।

प्राण­गु­ण­स्या­प्य­न्न­गु­ण­त्व­सं­भ­वा­दलं प्राणे­ने­त्या­श­ङ्क्याऽऽह —
नापीति ।

गुणद्वयस्य पर­स्प­रा­पे­क्षा­म­नु­भ­वा­नु­सा­रेण स्फोरयति —
यदा त्विति ।

आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्ति­री­य­श्रुतिं संवादयति —
युवा स्यादिति ।
आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि­त्ये­त­दा­दि­श­ब्देन गृह्यते ॥१॥