अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: पञ्चदशं ब्राह्मणम्

ब्राह्म­णा­न्त­रस्य तात्पर्यमाह —
यो ज्ञानकर्मेति ।

आदि­त्य­स्या­प्र­स्तु­त­त्वा­त्कथं तत्प्रा­र्थ­ने­त्या­श­ङ्क्याऽऽह —
अस्ति चेति ।

तथाऽपि कथमादित्यस्य प्रसं­ग­स्त­त्राऽऽह —
तदुपस्थानमिति ।
नमस्ते तुरीयायेति हि दर्शितमित्यर्थः ।

आदित्यस्य प्रसंगे सति फलितमाह —
अत इति ।

समाहितचेतसां प्रयततां दृश्य­त्वा­न्ना­पि­हि­त­मेव किन्तु पिहितमिवेत्यत्र हेतुमाह —
असमाहितेति ।
जगतः पोष­णा­द्घ­र्म­हि­म­वृ­ष्ट्या­दि­दा­ने­नेति शेषः ।

अपावरणकरणमेव विवृणोति —
दर्शनेति ।
सत्यं परमार्थस्वरूपं ब्रह्म धर्मस्वभाव इति यावत् ।

ननु दर्शनार्थं तत्प्र­ति­ब­न्ध­क­नि­वृत्तौ पूषणि नियुक्ते किमित्यन्ये संबोध्य नियुज्यन्ते तत्राऽऽह —
पूष­न्नि­त्या­दी­नीति ।

दर्श­ना­दृ­षि­रि­त्युक्तं विशदयति —
स हीति ।

’सूर्य आत्मा जगतस्तस्थुषश्च’ इति मन्त्र­व­र्ण­मा­श्रि­त्यो­क्तम् —
जगत आत्मेति ।

’चक्षु­र्मि­त्रस्य वरुणस्याग्नेः’ इत्ये­त­दा­श्रि­त्याऽऽह —
चक्षुश्चेति ।

स्वाभाविका रश्मयो न निगमयितुं शक्या इत्याशङ्क्याऽऽह —
समूहेति ।

मदीयतेजः संक्षेपं विनाऽपि ते मत्स्वरूपदर्शनं स्यादि­त्या­श­ङ्क्याऽऽह —
तेजसा हीति ।

विद्योतनं विद्यु­त्प्र­का­श­स्त­स्मि­न्सति रूपाणां स्वरूपमञ्जसा चक्षुषा न शक्यं द्रष्टुं तस्य चक्षु­र्मो­षि­त्वा­त्त­थे­त्याह —
विद्योतन इवेति ।

तेजःसंक्षेपस्य प्रयोजनमाह —
यदिति ।

किञ्च नाहं त्वां भृत्य­व­द्या­चेऽ­भे­देन ध्यात­त्वा­दि­त्याह —
योऽसाविति ।

व्याहृतिशरीरे कथमहमिति प्रयो­गो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
अहरिति ।
तदे­वे­द­मि­त्य­हं­रू­प­मु­च्यते ।

ननु तव शरीरपातेऽपि नामृ­त­त्व­मा­ध्या­त्मि­क­वा­य्वा­दि­प्र­ति­ब­न्धा­दत आह —
ममेति ।

वायु­ग्र­ह­ण­स्यो­प­ल­क्ष­णत्वं विवक्षित्वाऽऽह —
तथेति ।

देह­स्थ­दे­व­ता­ना­म­प्र­ति­ब­न्ध­क­त्वेऽपि देहस्यैव सूक्ष्मतां गतस्य प्रति­ब­न्ध­क­त्वान्न तवा­मृ­त­त्व­मि­त्या­श­ङ्क्याऽऽह —
अथेति ।

मन्त्रा­न्त­र­म­व­तार्य व्याकरोति —
अथे­दा­नी­मि­त्या­दिना ।
अवतीत्योमीश्वरः सर्वस्य रक्षकस्तस्य जाठ­रा­ग्नि­प्र­ती­क­त्वेन ध्यात­त्वा­द­ग्नि­श­ब्देन निर्देशः ।

एवमग्निदेवतां संबोध्य नियुङ्क्ते —
स्मरेति ।

इष्टां गतिं जिगमिषता किमिति स्मरणे देवता नियुज्यते तत्राऽऽह —
स्मरणेति ।

प्रार्थनान्तरं समुच्चिनोति —
किञ्चेति ।

उक्तमेव व्यनक्ति —
नेत्यादिना ।
अस्मान्नयेति पूर्वेण संबन्धः । प्रज्ञानग्रहणं कर्मा­दी­ना­मु­प­ल­क्ष­णम् ।

प्रार्थनान्तरं दर्शयति —
किञ्चेति ।

पापवियोजनफलमाह —
तेनेति ।

भवद्भिराराधितो भवतां यथोक्तं फलं साध­यि­ष्या­मी­त्या­श­ङ्क्याऽऽह —
किं त्विति ।
बहुतमत्वं भक्ति­श्र­द्धा­ति­रे­क­यु­क्त­त्वम् ।

यागादिनाऽपि परिचरणं क्रिय­ता­मि­त्या­श­ङ्क्याऽऽह —
अन्यदिति ।
सन्त­त­न­म­स्का­रोक्त्या परिचरेमेति पूर्वेण संबन्धः । अशक्तिश्च मुमूर्षावशादिति द्रष्टव्यम् । इति­श­ब्दोऽ­ध्या­य­स­मा­प्त्यर्थः ॥१॥