अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: षष्ठं ब्राह्मणम्

ब्राह्म­णा­न्त­र­मु­त्था­प­यति —
उपाधीनामिति ।
अने­क­वि­शे­ष­ण­त्वाच्च प्रत्येकं तेषामिति शेषः ।

तत्प्रायत्वे हेतुमाह —
मनसीति ।

प्रकारान्तरेण तत्प्रायत्वमाह —
मनसा चेति ।

तस्य भास्वररूपत्वं साधयति —
मनस इति ।

तस्य ध्यानार्थं स्थानं दर्शयति —
तस्मिन्निति ।

औपाधिकमिदं परिमाणं स्वाभाविकं त्वान­न्त्य­मि­त्य­भि­प्रे­त्याऽऽह —
स एष इति ।

यदुक्तं सर्वस्येशान इति तन्निगमयति —
सर्वमिति ।

यथाऽन्यत्र तथाऽ­त्रा­फ­ल­मि­द­मु­पा­स­न­म­का­र्य­मिति चेन्नेत्याह —
एवमिति ॥१॥