आनन्दगिरिटीका (बृहदारण्यक)
पञ्चमोऽध्यायः: चतुर्दशं ब्राह्मणम्
वृत्तमनूद्य गायत्रीब्राह्मणस्य तात्पर्यमाह —
ब्रह्मण इत्यादिना ।
छन्दोन्तरेष्वपि विद्यमानेषु किमिति गायत्र्युपाधिकमेव ब्रह्मोपास्यमिष्यते तत्राऽऽह —
सर्वच्छन्दसामिति ।
तत्प्राधान्ये हेतुमाह —
तत्प्रयोक्त्रिति ।
तुल्यं प्रयोक्तृप्राणत्राणसामर्थ्यं छन्दोऽन्तराणामपीति चेन्नेत्याह —
न चेति ।
प्रमाणाभावादिति भावः ।
किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्वर्तकत्वादात्मा तथा च सर्वच्छन्दोव्यापकगायत्र्युपाधिकब्रह्मोपासनमेवात्र विवक्षितमित्याह —
प्राणात्मेति ।
तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —
प्राणश्चेति ।
तत्प्रयोक्तृगयत्राणाद्धि गायत्री । प्राणश्च वागादीनां त्राता । ततश्चैकलक्षणत्वात्तयोस्तादात्म्यमित्यर्थः ।
प्राणगायत्र्योस्तादात्म्ये फलितमाह —
तस्मादिति ।
गायत्रीप्राधान्ये हेत्वन्तरमाह —
द्विजोत्तमेति ।
तदेव स्फुटयति —
गायत्र्येति ।
तत्प्राधान्ये हेत्वन्तरमाह —
ब्राह्मणा इति ।
कथमेतावता गायत्रीप्राधान्यं तत्राऽऽह —
तच्चेति ।
अतो वक्तव्यमित्यत्रातः शब्दार्थमाह —
गायत्र्या हीति ।
अधिकारित्वकृतं कार्यमाह —
अत इति ।
तच्छब्दो गायत्रीविषयः ।
गायत्रीवैशिष्ट्यं परामृश्य फलितमुपसंहरति —
तस्मादिति ।
गायत्रीप्रथमपादस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टाक्षरत्वमित्याशङ्क्याऽऽह —
यकारेणेति ।
गायत्रीप्रथमपादस्य त्रैलोक्यनाम्नश्च संख्यासामान्यप्रयुक्तं कार्यमाह —
एतदिति ।
गायत्रीप्रथमपादे त्रैलोक्यदृष्ट्यारोपस्य प्रयोजनं दर्शयति —
एवमिति ।
प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥
प्रथमे पादे त्रैलोक्यदृष्टिवद्द्वितीये पादे कर्तव्या त्रैविद्यदृष्टिरित्याह —
तथेति ।
दृष्टिविध्युपयोगित्वेन संख्यासामान्यं कथयति —
ऋच इति ।
संख्यासामान्यफलमाह —
एतदिति ।
विद्याफलं दर्शयति —
स यावतीति ॥२॥
प्रथमद्वितीयपादयोस्त्रैलोक्यविद्यदृष्टिवत्तृतीये पादे प्राणादिदृष्टिः कर्तव्येत्याह —
तथेति ।
ननु त्रिपदा गायत्री व्याख्याता चेत्किमुत्तरग्रन्थेनेत्याशङ्क्याऽऽह —
अथेति ।
शब्दात्मकगायत्रीप्रकरणविच्छेदार्थोऽथशब्दः ।
यद्वै चतुर्थमित्यादिग्रन्थस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —
तुरीयमिति ।
इहेति प्रकृतवाक्योक्तिः ।
योगिभिर्दृश्यत इवेति लक्ष्यते न तु मुख्यमीश्वरस्य दृश्यत्वमतीन्द्रियत्वादित्याह —
दृश्यत इवेति ।
’लोका रजांस्युच्यन्ते’ इति श्रुत्यन्तरमाश्रित्याऽऽह —
समस्तमिति ।
आधिपत्यभावेनेति कथं व्याख्यानमित्याशङ्क्याऽऽह —
उपर्युपरीति ।
वीप्सामाक्षिपति —
नन्विति ।
सर्वं रजस्तपतीत्येतावतैव सर्वाधिपत्यस्य सिद्धत्वाद्ध्यर्था वीप्सेति चोद्यं दूषयति —
नैष दोष इति ।
येषां लोकानामिति यावत् ।
मण्डलपुरुषस्य निरङ्कुशमाधिपत्यमित्यत्र च्छन्दोग्यश्रुतिमनुकूलयति —
ये चेति ।
वीप्सार्थवत्त्वमुपसंहरति —
तस्मादिति ।
चतुर्थपादज्ञानस्य फलवत्त्वं कथयति —
यथेति ॥३॥
अभिधानाभिधेयात्मिकां गायत्रीं व्याख्यायाभिधानस्याभिधेयतन्त्रत्वमाह —
सैषेति ।
आदित्ये प्रतिष्ठिता मूर्तामूर्तात्मिका गायत्रीत्यत्र हेतुमाह —
मूर्तेति ।
भवतु मूर्तामूर्तब्राह्मणानुसारेणाऽऽदित्यस्य तत्सारत्वं तथाऽपि कथं गायत्र्यास्तत्प्रतिष्ठितत्वं पृथगेव सा मूर्ताद्यात्मिका स्थास्यतीत्याशङ्क्याऽऽह —
रसेति ।
तद्वदादित्यसंबन्धाभावे मूर्ताद्यात्मिका गायत्री स्यादप्रतिष्ठितेति शेषः ।
सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —
तथेति ।
आदित्यस्य स्वातन्त्र्यं वारयति —
तद्वा इति ।
सत्यशब्दस्यानृतविपरीतवाग्विषयत्वं शङ्काद्वारा वारयति —
किं पुनरित्यादिना ।
चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —
कथमित्यादिना ।
श्रोतरि श्रद्धाभावे हेतुमाह —
श्रोतुरिति ।
द्रष्टुरपि मृषादर्शनं संभवतीत्याशङ्क्याऽऽह —
न त्विति ।
क्वचित्कथञ्चित्संभवेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —
तस्मान्नेति ।
विश्वासातिशयफलमाह —
तस्मादिति ।
आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रतिपादितमित्याह —
उक्तं चेति ।
सत्यस्य स्वातन्त्र्यं प्रत्याह —
तद्वा इति ।
सत्यस्य प्राणप्रतिष्ठितत्वं च पाञ्चमिकमित्याह —
तथा चेति ।
सूत्रं प्राणो वायुः । तच्छब्देन सत्यशब्दितसर्वभूतग्रहणम् ।
सत्यं बले प्रतिष्ठितमित्यत्र लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।
तदेवोपपादयति —
लोकेऽपीति ।
तदेव व्यतिरेकमुखेनाऽऽह —
न हीति ।
एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —
एवमिति ।
तस्मिन्नर्थे वाक्यं योजयति —
सैषेति ।
गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —
अत इति ।
तदेव स्पष्टयति —
यस्मिन्नित्यादिना ।
गायत्रीनामनिर्वचनेन तस्या जगज्जीवनहेतुत्वमाह —
सा हैषेति ।
प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागुपलक्षिताश्चक्षुरादयः ।
ब्राह्मण्यमूलत्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —
स आचार्य इति ।
पच्छः पादशः ।
सावित्र्या गायत्रीत्वं साधयति —
स इति ।
अतः सावित्री गायत्रीति शेषः ॥४॥
मतान्तरमुद्भावयति —
तामेतामिति ।
’तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भागस्य धीमहि’ इत्यनुष्टुभं सावित्रीमाहुः । सवितृदेवताकत्वादित्यर्थः । उपनीतस्य माणवकस्य प्रथमतः सरस्वत्यां वर्णात्मिकायां सापेक्षत्वं द्योतयितुं हि शब्दः ।
दूषयति —
नेत्यादिना ।
नन्वपेक्षितवागात्मकसरस्वतीसमर्पणं विना गायत्रीसमर्पणमुक्तमिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।
यदि हेत्यादेरुत्तरस्य ग्रन्थस्याव्यवहितपूर्वग्रन्थासंगतिमाशङ्क्याऽऽह —
किञ्चेदमिति ।
सावित्र्या गायत्रीत्वमिति यावत् ।
इवशब्दार्थं दर्शयति —
न हीति ।
यद्यपि बहु प्रतिगृह्णाति विद्वानिति पूर्वेण संबन्धः । तथाऽपि न तेन प्रतिग्रहजातेनैकस्यापि गायत्रीपदस्य विज्ञानफलं भुक्तं स्यात् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥५॥
गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामान्येनोक्त्वा विशेषस्तदभावमाह —
स य इति ।
यथा त्रैलोक्यावच्छिन्नस्य त्रैविद्यावच्छिन्नस्य चार्थस्य प्रतिग्रहेण पादद्वयविज्ञानफलमेव भुक्तं नाधिकं दूषणं तथेति यावत् ।
प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यैतत्कल्पितमित्याह —
कल्पयित्वेति ।
उक्तमेव संगृह्णाति —
पादत्रयेति ।
कल्पयित्वेदमुच्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
कल्पनाऽपि तर्हि किमर्थेत्याशङ्क्याऽऽह —
गायत्रीति ।
अङ्गीकृत्योत्तरवाक्यमुत्थापयति —
दातेति ।
तदेवाऽऽकाङ्क्षापूर्वकमाह —
कस्मादिति ।
वागात्मकपदत्रयविज्ञानफलभोगोक्त्यानन्तर्यमथशब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।
तत्रैव वैधर्म्यदृष्टान्तमाह —
यथेति ।
तानि प्रतिग्रहेण यथाऽऽप्यानि न तथैतदाप्यमित्यर्थः ।
कुत इत्यादिवाक्यस्य तात्पर्यमाह —
एतान्यपीति ।
गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —
तस्मादिति ।
एवम्प्रकारा पादचतुष्टयरूपा सर्वात्मिकेत्यर्थः ॥६॥
प्रकृतमुपासनमेव मन्त्रेण संगृह्णाति —
तस्या इत्यादिना ।
ध्येयं रूपमुक्त्वा ज्ञेयं गायत्र्या रूपमुपन्यस्यति —
अतःपरमिति ।
चतुर्थस्य पादस्य पादत्रयापेक्षया प्राधान्यमभिप्रेत्याऽऽह —
अत इति ।
यथोक्तनमस्कारस्य प्रयोजनमाह —
असाविति ।
द्विविधमुपस्थानमाभिचारिकमाभ्युदयिकं च तत्राऽऽद्यं द्वेधा व्युत्पादयति —
यं द्विष्यादिति ।
नामगृह्णीयात्तदीयं नाम गृहीत्वा च तदभिप्रेतं मा प्रापदित्यनेनोपास्थानमिति संबन्धः ।
आभ्युदयिकमुपस्थानं दर्शयति —
अहमिति ।
कीदृगुपस्थानमत्र मन्त्रपदेन कर्तव्यमित्याशङ्क्य यथारुचि विकल्पं दर्शयति —
असाविति ॥७॥
किं तद्गायत्रीविज्ञानप्रतिकूलमुपलभ्यते तदाह —
अथेति ।
पूर्वापरविरोधावद्योतकोऽथशब्दः ।
तथाऽपि गायत्रीविज्ञानस्य फलवत्त्वे सति प्रतिकूलमिदं हस्तीभूतस्य तव मां प्रति वहनमित्याशङ्क्याऽऽह
एकाङ्गेति ।
राजा ब्रूते
श्रुण्विति ।
मुखविज्ञानस्य दृष्टान्तावष्टम्भेन फलमाचष्टे —
यदीत्यादिना ।
इवशब्दोऽवधारणार्थः । पापसंस्पर्शराहित्यं शुद्धिस्तत्फलासंस्पर्शस्तु पूततेति भेदः ।
गायत्रीज्ञानस्य क्रममुक्तिफलत्वं दर्शयति —
गायत्र्यात्मेति ॥८॥