आनन्दगिरिटीका (बृहदारण्यक)
पञ्चमोऽध्यायः: पञ्चमं ब्राह्मणम्
इदमा ब्राह्मणं गृह्यते । तस्यावान्तरसंगतिमाह —
महदिति ।
आहुतीनामेव कर्मसमवायित्वं न त्वपामित्याशङ्क्याऽऽह —
अग्निहोत्रादीति ।
यद्यप्यापः सोमाद्या हूयमानाः कर्मसमवायिन्यस्तथाऽप्युत्तरकाले कथं तासां तथात्वं कर्मणोऽस्थायित्वादित्याशङ्क्याऽऽह —
ताश्चेति ।
कर्मसमवायित्वमपरित्यजन्त्यस्तत्संबन्धित्वेनाऽऽपः प्रथमं प्रवृत्तास्तन्नाशोत्तरकालं सूक्ष्मेणादृष्टेनाऽऽत्मनाऽतीन्द्रियेणाऽऽत्मना तिष्ठन्तीति योजना ।
आप इति विशेषणं भूतान्तरव्यासेधार्थमिति मतिं वारयति —
इतरेति ।
कथं तर्हि तासामेव श्रुतावुपादानं तदाह —
कर्मेति ।
इति तासामेवात्र ग्रहणमिति शेषः ।
विवक्षितपदार्थं निगमयति —
सर्वाण्येवेति ।
पदार्थमुक्तमनूद्य वाक्यार्थमाह —
ता इति ।
यास्ता यथोक्ता आपस्ता एवेति यच्छब्दानुबन्धेन योजना ।
सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूतान्तरसहिताभ्योऽद्भ्यो जायते तत्राऽऽह —
तदेतदिति ।
तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति —
तत्सत्यमिति ।
सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति —
कथमित्यादिना ।
तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति —
कथमिति ।
महत्त्वमुपसंहरति —
यस्मादिति ।
विशेषणत्रये सिद्धे फलितमाह —
तस्मादिति ।
तस्यापीत्यपिशब्दो हृदयब्रह्मदृष्टान्तार्थः ।
बुद्धिपूर्वकमनृतं विदुषोऽपि बाधकमित्यभिप्रेत्य विशिनष्टि —
प्रमादोक्तमिति ॥१॥
ब्राह्मणान्तरमवतार्य व्याकरोति —
अस्येत्यादिना ।
तत्राऽऽधिदैविकं स्थानविशेषमुपन्यस्यति —
तदित्यादिना ।
संप्रत्याध्यात्मिकं स्थानविशेषं दर्शयति —
यश्चेति ।
प्रदेशभेदवर्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति —
तावेताविति ।
अन्योन्यमुपकार्योपकारकत्वेनान्योन्यस्मिन्प्रतिष्ठितत्वं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
प्राणैश्चक्षुरादिभिरिन्द्रियैरिति यावत् । अनुगृह्णन्नादित्यमण्डलात्मानं प्रकाशयन्नित्यर्थः । प्रासंगिकमुपासनाप्रसंगागतमित्यर्थः ।
तत्प्रदर्शनस्य किं फलमित्याशङ्क्याऽऽह —
कथमिति ।
पुरुषद्वयस्यान्योन्यमुपकार्योपकारकत्वमुक्तं निगमयति —
नेत्यादिना ।
पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मीनामचेतनत्वादिशब्दः । पुनर्नकारोच्चारणमन्वयप्रदर्शनार्थम् ॥२॥
तत्र स्थानद्वयसंबन्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरोदृष्ट्यारोपे विवक्षिते । तस्योपनिषदित्यादि व्याचष्टे —
तस्येत्यादिना ।
यथा लोके गवादिः स्वेनाभिधानेनाभिधीयमानः संमुखीभवति तद्वदित्याह —
लोकवदिति ।
नामोपास्तिफलमाह —
अहरिति चेति ॥३॥
यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोपनिषत्कस्याधिदैवतमुपासनमुक्तं तथाऽध्यात्मं चाक्षुषपुरुषस्योक्तविशेषणस्योपासनमुच्यते इत्याह —
एवमिति ।
चाक्षुषस्य पुरुषस्य कथमहमित्युपनिषदिष्यते तत्राऽऽह —
प्रत्यगिति ।
हन्तेर्जहातेश्चाहमित्येतद्रूपमिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्ववत्फलवाक्यं योज्यमित्याह —
पूर्ववदिति ॥४॥