अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: पञ्चमं ब्राह्मणम्

इदमा ब्राह्मणं गृह्यते । तस्या­वा­न्त­र­सं­ग­ति­माह —
महदिति ।

आहुतीनामेव कर्मसमवायित्वं न त्वपा­मि­त्या­श­ङ्क्याऽऽह —
अग्निहोत्रादीति ।

यद्यप्यापः सोमाद्या हूयमानाः कर्म­स­म­वा­यि­न्य­स्त­थाऽ­प्यु­त्त­र­काले कथं तासां तथात्वं कर्म­णोऽ­स्था­यि­त्वा­दि­त्या­श­ङ्क्याऽऽह —
ताश्चेति ।
कर्म­स­म­वा­यि­त्व­म­प­रि­त्य­ज­न्त्य­स्त­त्सं­ब­न्धि­त्वे­नाऽऽपः प्रथमं प्रवृ­त्ता­स्त­न्ना­शो­त्त­र­कालं सूक्ष्मे­णा­दृ­ष्टे­नाऽऽ­त्म­नाऽ­ती­न्द्रि­ये­णाऽऽ­त्मना तिष्ठन्तीति योजना ।

आप इति विशेषणं भूता­न्त­र­व्या­से­धा­र्थ­मिति मतिं वारयति —
इतरेति ।

कथं तर्हि तासामेव श्रुतावुपादानं तदाह —
कर्मेति ।
इति तासामेवात्र ग्रहणमिति शेषः ।

विवक्षितपदार्थं निगमयति —
सर्वाण्येवेति ।

पदा­र्थ­मु­क्त­म­नूद्य वाक्यार्थमाह —
ता इति ।
यास्ता यथोक्ता आपस्ता एवेति यच्छ­ब्दा­नु­ब­न्धेन योजना ।

सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतं भूता­न्त­र­स­हि­ता­भ्योऽद्भ्यो जायते तत्राऽऽह —
तदेतदिति ।

तस्य ब्रह्मत्वं प्रश्नपूर्वकं विशदयति —
तत्सत्यमिति ।

सत्यस्य ब्रह्मणो महत्त्वं प्रश्नद्वारा साधयति —
कथमित्यादिना ।

तस्य सर्वस्रष्टृत्वं प्रश्नद्वारेण स्पष्टयति —
कथमिति ।

मह­त्त्व­मु­प­सं­ह­रति —
यस्मादिति ।

विशेषणत्रये सिद्धे फलितमाह —
तस्मादिति ।
तस्या­पी­त्य­पि­शब्दो हृद­य­ब्र­ह्म­दृ­ष्टा­न्तार्थः ।

बुद्धि­पू­र्व­क­म­नृतं विदुषोऽपि बाध­क­मि­त्य­भि­प्रेत्य विशिनष्टि —
प्रमादोक्तमिति ॥१॥

ब्राह्म­णा­न्त­र­म­व­तार्य व्याकरोति —
अस्येत्यादिना ।

तत्राऽऽधिदैविकं स्थान­वि­शे­ष­मु­प­न्य­स्यति —
तदित्यादिना ।

संप्र­त्या­ध्या­त्मिकं स्थानविशेषं दर्शयति —
यश्चेति ।

प्रदे­श­भे­द­व­र्तिनोः स्थानभेदेन भेदं शङ्कित्वा परिहरति —
तावेताविति ।

अन्यो­न्य­मु­प­का­र्यो­प­का­र­क­त्वे­ना­न्यो­न्य­स्मि­न्प्र­ति­ष्ठि­तत्वं प्रश्नपूर्वकं प्रकटयति —
कथमित्यादिना ।
प्राणै­श्च­क्षु­रा­दि­भि­रि­न्द्रि­यै­रिति यावत् । अनु­गृ­ह्ण­न्ना­दि­त्य­म­ण्ड­ला­त्मानं प्रका­श­य­न्नि­त्यर्थः । प्रासं­गि­क­मु­पा­स­ना­प्र­सं­गा­ग­त­मि­त्यर्थः ।

तत्प्रदर्शनस्य किं फल­मि­त्या­श­ङ्क्याऽऽह —
कथमिति ।

पुरु­ष­द्व­य­स्या­न्यो­न्य­मु­प­का­र्यो­प­का­र­क­त्व­मुक्तं निगमयति —
नेत्यादिना ।
पुनःशब्देन मृतेरुत्तरकालो गृह्यते । रश्मी­ना­म­चे­त­न­त्वा­दि­शब्दः । पुन­र्न­का­रो­च्चा­र­ण­म­न्व­य­प्र­द­र्श­ना­र्थम् ॥२॥

तत्र स्थान­द्व­य­सं­ब­न्धिनः सत्यस्य ब्रह्मणो ध्याने प्रस्तुते सतीत्यर्थः । तत्रेति प्रथमव्याहृतौ शिरो­दृ­ष्ट्या­रोपे विवक्षिते । तस्यो­प­नि­ष­दि­त्यादि व्याचष्टे —
तस्येत्यादिना ।

यथा लोके गवादिः स्वेना­भि­धा­ने­ना­भि­धी­य­मानः संमुखीभवति तद्वदित्याह —
लोकवदिति ।

नामोपास्तिफलमाह —
अहरिति चेति ॥३॥

यथा मण्डलपुरुषस्य व्याहृत्यवयवस्य सोप­नि­ष­त्क­स्या­धि­दै­व­त­मु­पा­स­न­मुक्तं तथाऽध्यात्मं चाक्षु­ष­पु­रु­ष­स्यो­क्त­वि­शे­ष­ण­स्यो­पा­स­न­मु­च्यते इत्याह —
एवमिति ।

चाक्षुषस्य पुरुषस्य कथ­म­ह­मि­त्यु­प­नि­ष­दि­ष्यते तत्राऽऽह —
प्रत्यगिति ।

हन्ते­र्ज­हा­ते­श्चा­ह­मि­त्ये­त­द्रू­प­मिति यो वेद स हन्ति पाप्मानं जहाति चेति पूर्व­व­त्फ­ल­वाक्यं योज्यमित्याह —
पूर्ववदिति ॥४॥