आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: प्रथमं ब्राह्मणम्
यदविद्यावशाद्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥
नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥
भगवत्पादाब्जद्वन्द्वं द्वन्द्वनिबर्हणम् ।
सुरेश्चरादिसद्भृङ्गैरवलम्बितमाभजे ॥३॥
बृहदारण्यके भाष्ये शिष्योपकृतिसिद्धये ।
सुरेश्वरोक्तिमाश्रित्य क्रियते न्यायनिर्णयः ॥४॥
काण्वोपनिषद्विवरणव्याजेनाशेषामेवोपनिषदं शोधयितुकामो भगवान्भाष्यकारो विघ्नोपशमादिसमर्थं शिष्टाचारप्रमाणकं परापरगुरुनमस्काररूपं मङ्गलमाचरति —
ओं नमो ब्रह्मादिभ्य इति ।
वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तदर्थत्वात्तदात्मकत्वाच्च ‘एष उ ह्येव सर्वे देवाः’(बृ. उ. ३ । ९ । ९) इति श्रुतेः । आदिपदेन परमेष्ठिप्रभृतयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मान्तर्भावस्तथाऽपि तेष्वनादरनिरासार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमःशब्दस्त्रिविधप्रह्वीभावविषयः ।
ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह —
ब्रह्मविद्येति ।
एतेषां तत्संप्रदायकर्तृत्वे वंशब्राह्मणं प्रमाणयति —
वंशऋषिभ्य इति ।
यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः ।
संप्रत्यपरगुरून्नमस्करोति —
नमो गुरुभ्य इति ।
यद्यपि ब्रह्मविद्यासंप्रदायकर्त्रन्तर्भावादेते प्रागेव नमस्कृतास्तथाऽपि शिष्याणां गुरुविषयादरातिरेककार्यार्थं पृथग्गुरुनमस्करणं ‘यस्य देवे परा भक्तिः’(श्वे. उ. ६ । २३) इत्यादिश्रुतेरिति ।
यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते —
उषा वा इति ।
एतेन चिकीर्षिताया वृत्तेर्भर्तृप्रपञ्चभाष्येणागतार्थत्वमुक्तम् । तद्धि ‘द्वया हे’(बृ. उ. १ । ३ । १) त्यादिमाध्यन्दिनश्रुतिमधिकृत्य प्रवृत्तम् । इयं पुनः ‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्यादिकाण्वश्रुतिमाश्रित्येति ।
अथोद्देश्यं निर्दिशति —
तस्या इति ।
भर्तृप्रपञ्चभाष्याद्विशेषान्तरमाह —
अल्पग्रन्थेति ।
अस्या ग्रन्थतोऽल्पत्वेऽपि नार्थतस्तथात्वमिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रानुकारिभिर्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्यलक्षणस्यात्र भावादिति ।
ननु कर्मकाण्डाधिकारिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधारणत्वाद्वैराग्यादेश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्रमारम्भमर्हतीत्यत आह —
संसारेति ।
कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसाराद्व्यावृत्तिमिच्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्धबुद्धेर्विवेकिनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि –
“शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति ।
अतो यथोक्तविशिष्टाधिकारिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः ।
तथाऽपि विषयप्रयोजनसंबन्धानामभावे कथं वृत्तिरारभ्यते तत्राऽह —
संसारहेत्विति ।
प्रमातृताप्रमुखः कर्तृत्वादिरनर्थः संसारस्तस्य हेतुरात्माविद्या तन्निवृत्तेः साधनं ब्रह्मात्मैकत्वविद्या तस्याः प्रतिपत्तिरप्रतिबद्धायाः प्राप्तिस्तदर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनिदानानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मात्मैक्यविद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञानफलयोरुपायोपेयत्वम् । शास्त्रतद्विषययोर्विषयविषयित्वं तदारभ्यं शास्त्रमिति ।
प्रयोजनादिषु प्रवृत्त्यङ्गतयोक्तेष्वपि सर्वव्यापाराणां प्रयोजनार्थत्वात्तस्य प्राधान्यम् । उक्तं हि –
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति ।
तथा च शास्त्रारम्भौपयिकं प्रयोजनमेव नामव्युत्पादनद्वारा व्युत्पादयति —
सेयमिति ।
अध्यात्मशास्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मात्मैक्यविद्या तन्निष्ठानां सर्वकर्मसंन्यासिनां सनिदानस्य संसारस्यात्यन्तनाशकत्वाद्भवत्युपनिषच्छब्दवाच्या । ‘उपनिषदं भो ब्रूहि’(के. उ. ४ । ७) इत्याद्या च श्रुतिः । तस्मादुपनिषच्छब्दवाच्यत्वप्रसिद्धेर्विद्यायास्ततो यथोक्तफलसिद्धिरित्यर्थः ।
कथं तस्यास्तच्छब्दवाच्यत्वेऽप्येतावानर्थो लभ्यते तत्राऽह —
उपनिपूर्वस्येति ।
अस्यार्थः – “षद्लृविशरणगत्यवसादनेषु” इति स्मर्यते । सदेर्धातोरुपनिपूर्वस्य क्विबन्तस्य सहेतुसंसारनिवर्तकब्रह्मविद्यार्थत्वादुपनिषच्छब्दवाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्चयार्थस्तस्मादैकात्म्यं निश्चितं तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते उक्तं हि – ‘अवसादनार्थस्य चावसादात्’ इति ।
ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धास्तच्छब्दं प्रयुञ्जते न खल्वेकस्य शब्दस्यानेकार्थत्वं न्याय्यमित्याशङ्क्याऽऽह —
तादर्थ्यादिति ।
ग्रन्थस्य ब्रह्मविद्याजनकत्वादुपचारात्तत्रोपनिषत्पदमित्यर्थः ।
यथोक्तविद्याजनकत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भवतीत्याशङ्क्यश्रवणादिपराणामेवारण्यानुवचनादिनियमाधीताक्षरेभ्यस्तज्जन्मेति बृहदारण्यकनामनिर्वचनपूर्वकमाह —
सेयमिति ।
अथारण्यानुवचनादिनियमाधीतवेदान्तानामपि केषाञ्चिद्विद्यानुपलम्भात्कुतो यथोक्ताक्षरेभ्यस्तदुत्पत्तिरित्यत आह —
बृहत्त्वादिति ।
उपनिषदन्तरेभ्यो ग्रन्थपरिमाणातिरेकादस्य बृहत्त्वं प्रसिद्धमर्थतोऽपि तस्य तदस्ति ब्रह्मणोऽखण्डैकरसस्यात्र प्रतिपाद्यत्वात्तज्ज्ञानहेतूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृहत्त्वादारण्यकत्वाच्च बृहदारण्यकम् । नचैतदशुद्धबुद्धेरधीतमपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्”(भा.शान्ति.२७०।३८) इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशिष्टाधिकार्यादिवैशिष्ट्येऽपि कर्मकाण्डेन नियतपूर्वापरभावानुपपत्तिलभ्यः संबन्धो वक्तव्यः । स च परीक्षकविप्रतिपत्तेरशक्यो विशेषतो ज्ञातुमित्याशङ्क्याऽऽह तस्येति ।
प्रतिज्ञातं संबन्धं प्रकटयितुमसिद्धप्रमाणभावानां वेदान्तानां संबन्धाभिधानावसराभावात्तत्प्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संबन्धविशेषवचनमुचितमिति मन्वानस्तत्प्रामाण्यं साधयति —
सर्वोऽपीति ।
प्रत्यक्षानुमानाभ्यामित्यागमातिरिक्तप्रमाणोपलक्षणार्थम् । एषोऽर्थोऽध्ययनविध्युपात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञापनपरस्तथा चाज्ञातज्ञापकत्वाविशेषात्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्देतरमानायोग्यो रूपादिहीनत्वात् । ‘एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टानिष्टप्राप्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्थानात् । ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) इत्यादिश्रुतेः । स च प्रकाशनः सर्वप्रकाशकत्वात् । ‘तमेव भान्तमनुभाति सर्वम्’(क. उ. २ । २ । १५) इति श्रुतेः । स च परोऽविद्यातत्कार्यातीतत्वात् । ‘विरजः पर आकाशात्’(श.ब्रा.१४.७.२.२३) इत्यादिश्रुतेः । एवंरूपो वेदपदवेदनीयश्चिदेकरसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधिवाक्यवत्प्रमाणमिति । अथवा प्रत्यक्षादिनाऽनवगतो योऽसाविष्टप्राप्त्याद्युपायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यैवाज्ञातत्वात्तत्र कर्मकाण्डं कर्मानुष्ठानप्रयुक्तबुद्धिशुद्धिद्वारा ब्रह्माधिगतावारादुपकारकम् । ‘विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । परमपुरुषस्यौपनिषदत्वश्रवणात् । ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रुतेः । तद्युक्तं कर्मकाण्डवज्ज्ञानकाण्डस्यापि प्रामाण्यमिति ।
अधिकारिसौलभ्यप्रतिपादनद्वारा ज्ञानकाण्डप्रामाण्यमेव स्फुटयति —
सर्वपुरुषाणामिति ।
अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरुषाणामनवच्छिन्नसुखादिमात्रेऽभिलाषोपलम्भात्तन्मात्रस्य च मोक्षत्वात्तकामिनो ज्ञानकाण्डाधिकारिणः सुलभत्वात्तस्मिन्प्रमां स्वार्थविषयामादधत्कथं तदप्रमाणमिति ।
ननु वेदस्य कार्यपरतया प्रामाण्यात्कर्मकाण्डवत्काण्डान्तरस्यापि कार्यपरतया प्रामाण्यमेष्टव्यमिति नेत्याह —
दृष्टविषय इति ।
क्रियाकारकफलेतिकर्तव्यतानामन्यतमस्मिन्कार्ये समीहितप्राप्त्याद्युपायभूते व्युत्पत्तिकाले प्रत्यक्षादिसिद्धे तथाविधकार्यधियोऽन्यथालब्धत्वात्तत्र नाऽऽगमोऽनुसन्धेयः । न हि लोकवेदयोस्तद्भिद्यते अलौकिके तस्मिन्नव्युत्पत्तिप्रसंगात् । नचाव्युत्पन्नानि पदानि बोधकान्यतिप्रसंगात् । न च ब्रह्मण्यपि तुल्या व्युत्पत्त्यनुपपत्तिः । तस्मिन्ब्रह्मत्वेनाऽऽत्मत्वेन च प्रसिद्धेः । तत्तत्सामान्योपाधौ विज्ञानादिपदानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लुण्ठितसामान्यविशेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः ।
किं च तिष्ठतु वेदान्तप्रामाण्यं कर्मकाण्डेऽपि व्यतिरिक्तात्मास्तित्वादौ सिद्धेऽर्थे प्रामाण्यमावश्यकम् । तदभावे तत्प्रामाण्यायोगात् । न हि भविष्यद्देहसंबन्ध्यात्मसद्भावानधिगमे पारलौकिकप्रवृत्तिविश्रम्भः । तस्मात्कर्मकाण्डप्रामाण्यमिच्छता सिद्धेऽर्थे भविष्यद्देहसंबन्धिन्यात्मनि स्वर्गादौ च तत्प्रामाण्यस्याभ्युपेयत्वात्कार्ये वेदप्रामाण्यानियमाद्वेदान्तानामपि स्वार्थे मानत्वं सिद्ध्यतीत्याह —
न चेति ।
ननु देहान्तरसंबन्ध्यात्मज्ञानं विनाऽपि विधिवशाददृष्टार्थक्रियासु प्रवृत्तिः स्यादिति नेत्याह —
स्वभावेति ।
यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रान्मानान्तराच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षापूर्वकारी यागाद्यनुतिष्ठेत् । लोकायतस्य व्यतिरिक्तात्मास्तित्वमजानतो जन्मान्तरेष्टानिष्टप्राप्तिहानीच्छया वैदिकक्रियास्वप्रवृत्तेर्दर्शनात् । अतो नातिरिक्तात्मज्ञानं विना साम्परायिके प्रवृत्तिरित्यर्थः ।
ननु विधयः साधनविशेषं बोधयन्तो नातिरिक्तात्मास्तित्त्ववादौ मानं वाक्यभेदप्रसंगादित्यत आह —
तस्मादिति ।
अतिरिक्तात्मधियं विना पारलौकिकप्रवृत्त्यनुत्पत्त्या कर्मकाण्डप्रामाण्यायोगादिति यावत् । विधीनां श्रुत्यर्थाभ्यामुभयार्थत्वमविरुद्धमित्यर्थः ।
न केवलं विधिभिरेवार्थादाक्षिप्तमतिरिक्तात्मास्तित्वं किन्तु श्रुत्याऽपि स्वमुखेनोक्तमित्याह —
येयमिति ।
निर्णयदर्शनाद्व्यतिरिक्तात्मास्तित्वमिति संबन्धः ।
तत्रैव प्रकृतोपयोगित्वेनोपक्रमोपसंहारान्तरे दर्शयति —
यथा चेति ।
पूर्ववदेव संबन्धद्योतनार्थं चकारः उपक्रमोपसंहारैकरूप्यात्कठवल्लीनामतिरिक्तात्मास्तित्वे तात्पर्यमुक्त्वा बृहदारण्यकवाक्यस्यापि तत्र तात्पर्यमाह —
स्वयमिति ।
न हि प्रसिद्धजडत्वस्य देहादेः स्वयञ्ज्योतिष्ट्वमिति ज्योतिर्ब्राह्मणगतोपक्रमस्तद्विषयो देहादिव्यतिरिक्तात्मानमधिकरोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फलदानायानुगच्छतः । स च गत्वा ज्ञानकर्मानुगुणं फलमनुभवतीति शारीरकब्राह्मणगतोपसंहारोऽपि जन्मान्तरसंबन्धविषयः । न चात्रैव भस्मीभवतो देहादेर्जन्मान्तरसंबन्धो युक्तः । तेनाऽऽत्मा देहादिव्यतिरिक्तो जन्मान्तरसंबन्धी सिद्धो ब्राह्मणाभ्यामित्यर्थः ।
अजातशत्रुब्राह्मणे च व्येव त्वा ज्ञपयिष्यामीत्युपक्रमो व्यतिरिक्तात्मास्तित्वविषयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ‘य एष विज्ञानमयः पुरुषः’(बृ. उ. २ । १ । १६) इति विज्ञानमयविशेषणादतिरिक्तात्मास्तित्वं दर्शितं न हि देहादेर्विज्ञानमयत्वमस्ति तस्मात्तदप्युपक्रमोपसम्हाराभ्यां व्यतिरिक्तात्मास्तित्वं गमयतीत्याह —
ज्ञपयिष्यामीत्युपक्रम्येति ।
नचोदाहृतानां वाक्यानामप्रामाण्यम् । तत्प्रामाण्यस्यौत्पत्तिकसूत्रहेत्वविशेषादभ्युपेयत्वादिति भावः ।
यथोक्तात्मन्यहम्प्रत्ययो मानं तत्र देहाकारास्फुरणादतिरिक्तात्मास्तित्वस्य तेनैव स्फूर्त्युपपत्तेरतो न तत्र श्रुतिप्रामाण्यमिति शङ्कते —
तत्प्रत्यक्षेति ।
प्रत्यक्षस्य विषयोऽवकाशो यस्मिन्नित्यतिरिक्तात्मास्तित्वमुच्यते ।
यद्यपि व्यतिरिक्तात्मास्तित्वं त्वदभिप्रायेणाहन्धीगोचर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्यागमविवेकशून्यानामहम्प्रत्ययभाजां व्यतिरेकप्रत्ययप्राप्तौ विपश्चितां विप्रतिपत्त्यभावप्रसंगादिति परिहरति —
न वादीति ।
वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह —
न हीति ।
तेषु प्रातिकूल्यसंभावनार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेदनस्यैवासंभवादध्यक्षविरोधादिति योजना ।
प्रत्यक्षे विषये विप्रतिपत्त्यभावे दृष्टान्तमाह —
न हीति ।
तत्र व्यभिचारं शङ्कते —
स्थाण्वादाविति ।
प्रत्यक्षे धर्मिणि स्थाणुर्वापुरुषो वेति विप्रतिपत्तेरुपलम्भान्न प्रत्यक्षे विप्रतिपत्त्यभावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजादिविप्रतिपत्तिः संगृह्यते ।
किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽङ्गीकारात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति —
नेत्यादिना ।
प्रत्यक्षतो विविक्तेऽर्थे विप्रतिपत्त्यभावं प्रपञ्चयति —
न हीति ।
आत्मनः स्थूलदेहव्यतिरिक्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्मदेहव्यतिरिक्तत्वमपि नाहम्प्रत्ययग्राह्यमित्याह —
वैनाशिकास्त्विति ।
ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूलदेहातिरिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धेरतिरिक्तस्याऽत्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्मदेहातिरिक्तात्मसिद्धिरित्यर्थः ।
किं च प्रत्यक्षस्य विषयो रूपादिस्तद्राहित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ‘अशब्दमस्पर्शमरूपम्’(क. उ. १ । ३ । १५) इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहाद्यतिरिक्तात्मास्तित्वस्य प्रत्यक्षात्प्रसिद्धिरित्याह —
तस्मादिति ।
प्रत्यक्षतो विविक्ते विप्रतिपत्त्ययोगात् । प्रकृते च तद्दर्शनादिति यावत् ।
अथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवदित्यनुमानादतिरिक्तात्मसिद्धिरिति नेत्याह —
तथेति ।
नाऽऽत्मास्तित्वप्रसिद्धिरिति संबन्धार्थस्तथाशब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये परस्पराश्रयत्वमाधारस्येदानीमेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्रयमात्रवचने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्धत्वादात्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति ।
’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राणनादिव्यापाराख्यस्य लिङ्गस्याऽऽत्मास्तित्वे प्रदर्शितत्वात्तस्य च व्याप्तिसापेक्षस्य प्रत्यक्षादिसिद्धात्मविषयत्वान्न तस्य शब्दैकगम्यतेति शङ्कते —
श्रुत्येति ।
आत्मनः स्वातन्त्र्येण लिङ्गगम्यत्वाभिप्रायेण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति —
नेति ।
योऽचेतनव्यापारः स चेतनाधिष्ठानपूर्वको यथा रथादिव्यापारः । प्राणनादिव्यापारस्याप्यचेतनव्यापारत्वाच्चेतनाधिष्ठानपूर्वकत्वमिति संभावनामात्रेण लिङ्गोपन्यासः ।
न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मान्तरसंबन्धस्य प्रमाणान्तरेणाग्रहणात्तद्व्याप्तलिङ्गायोगादित्याह —
जन्मान्तरेति ।
ननु व्यतिरिक्तात्मास्तित्वमागमैकगम्यं चेत्कथं तत्प्रत्यक्षमनुमेयं चेति वादिनो वदन्तीति तत्राऽऽह —
आगमेन त्विति ।
’येयं प्रेते विचिकित्से’त्याद्यागमेन ‘को ह्येवान्यात्’(तै. उ. २ । ७ । १) इत्यादिवेदोक्तैश्च प्राणनादिभिर्लौकिकैर्लिङ्गविशेषैरात्मास्तित्वे सिद्धे यथोक्तात्मसिद्धिमनुसरन्तो वादिनो वैदिकमेवाहम्प्रत्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रेक्षानिर्मितानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तुतस्त्वात्मा यथोक्तश्रुत्यैकसमधिगम्य इत्यर्थः ।
तस्यास्येत्यादिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदान्तप्रामाण्यं सर्वोऽपीत्यादिना प्रसाध्याधुना कर्मभिः शुद्धबुद्धेर्वैराग्यादिद्वारा ज्ञानोत्पत्तिरिति तयोः संबन्धं कथयति —
सर्वथाऽपीति ।
आगमात्मानान्तराद्वा व्यतिरिक्तात्मास्तित्वप्रतिपत्तावपीत्यर्थः ।
पुरुषार्थोपायविशेषार्थिनस्तज्ज्ञापनार्थं कर्मकाण्डमारब्धं चेत्तर्हि तत्रोक्तकर्मभिरेव विवक्षितपुमर्थसिद्धेर्वेदान्तारम्भवैयर्थ्यान्न संबन्धोक्तिः सावकाशेत्याशङ्क्याऽऽह —
नत्विति ।
आत्माज्ञानं खल्वनर्थकारणमन्वयव्यतिरेकशास्त्रगम्यं मिथ्याज्ञानकार्यलिङ्गकं च । तच्चाकर्तृभोक्तृब्रह्मात्मज्ञानादपनेयम् । न हि तत्कर्मकाण्डोक्तैरेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मात्तद्धानार्थं ज्ञानसिद्धये वेदान्तारम्भभावादुक्तसंबन्धसिद्धिरित्यर्थः ।
यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मिन्कर्मवशान्मोक्षः स्यादित्याशङ्क्याऽऽह —
यावद्धीति ।
सम्यग्ज्ञानमेव साक्षान्मोक्षहेतुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मात्कर्मकाण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । रागद्वेषादीत्यादिशब्देनाविद्यास्मिताभिनिवेशादयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रानपेक्षत्वम् । अपिकारः संभावनार्थः । दृष्टत्वमन्वयव्यतिरेकसिद्धत्वम् । अदृष्टत्वं शास्त्रमात्रगम्यत्वम् ।
अधर्मोपचयप्राचुर्ये हेतुमाह —
स्वाभाविकेति ।
अथ वैराग्यार्थं कर्मफलं प्रपञ्चयन्नधर्मफलमाह —
तत इति ।
उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(मनु १२.९) इति ।
तत्किं पुण्योपचयाभावादनवकाशं स्वर्गादिफलमिति नेत्याह —
कदाचिदिति ।
शास्त्रीयसंस्कारस्य बलीयस्त्वे फलितमाह —
तत इति ।
आदिशब्दो वाग्देहविषयः ।
फलविभागं वक्तुं कर्म भिनत्ति —
तद्द्विविधमिति ।
तस्य मुक्तिफलत्वं निरसितुं फलं विभजते —
तत्रेति ।
केवलमिष्टादिकर्मेति शेषः । ‘कर्मणा पितृलोकः” इति हि वक्ष्यति । तस्मिन्फले नानात्वमभिप्रेत्याऽऽदिशब्दः ।
’विद्यया देवलोकः’ इति श्रुतिमाश्रित्याऽऽह —
ज्ञानेति ।
देवलोको यस्याऽऽदिर्ब्रह्मलोको यस्यान्तस्तस्यार्थस्य प्राप्तिरेव फलमस्येति विग्रहः ।
उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति —
तथा चेति ।
सर्वत्र परमात्मभावनापुरःसरं नित्यं कर्मानुतिष्ठन्नात्मयाजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः ।
’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’
इत्यादि मनुस्मृतिं चात्रैवोदाहरति —
स्मृतिश्चेति ।
धर्माधर्मयोरेकैकस्य फलमुक्त्वा मिश्रयोः फलमाह —
साम्ये चेति ।
उक्तं हि – ‘उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’(नै.सि.१.४१) इति ।
त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षिप्योपसंहरति —
एवमिति ।
सा चाविद्याकृतत्वादनर्थरूपेत्याह —
स्वाभाविकेति ।
विचित्रकर्मजन्यतया तस्या वैचित्र्यमाह —
धर्माधर्मेति ।
तर्हि धर्माधर्माभ्यामेव तन्निर्माणसंभवात्कृतमविद्ययेत्यत आह —
नामेति ।
तेषां सूक्ष्मावस्थाऽविद्या तदालम्बनेति यावत् धर्मादेरविद्यायाश्च निमित्तत्वोपादानत्वाभ्यामुपयोग इति भावः ।
ननु संसारगतेराविद्यत्वमयुक्तं प्रत्यक्षादिप्रतिपन्नत्वात्तन्नामरूपाभ्यामेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जगतोऽभिव्यक्तिश्रवणान्न च प्रामाणिकस्याविद्याकृतत्वमत आह —
तदेवेदमिति ।
जगतः स्वरूपमात्मा तत्राध्यस्तत्वात्तस्मादात्मतत्त्वेऽनभिव्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जगदनभिव्यक्तमेवेति न तस्याविद्याकृतत्वक्षतिरिति भावः ।
अविद्याकृतां संसारगतिमनुभाषते —
स एष इति ।
नन्वविद्याकृतत्वे कथमनादित्वमित्याशङ्क्य तस्य प्रवाहरूपेणेत्याह —
बीजाङ्कुरादिवदिति ।
चैतन्यवदात्मनि तस्याविद्याकृतत्वानुपपत्तिमाशङ्क्य नानारूपत्वेन ततो विलक्षणत्वादेकरूपे युक्तं तस्य कल्पितत्वमित्याह —
क्रियेति ।
तर्हि कादाचित्कतया साधनापेक्षामन्तरेण नाशो भविष्यतीत्याशङ्क्याऽऽह —
अनादिरिति ।
अनादेरपि संसारस्य प्रागभाववन्निवृत्तिः स्यादिति चेत्तथाऽपि ब्रह्मविद्यामन्तरेण नाशो नास्तीत्याह —
अनन्त इति ।
प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् ।
यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मात्सनिदानसंसारनिवर्तकात्मज्ञानार्थत्वेन साधनचतुष्टयसंपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः संभवतीत्युपसंहरति —
इत्येतस्मादिति ।
यथोक्तज्ञानार्थत्वेनोपनिषदारम्भे ‘ब्रह्म वा इदमग्र आसीत्’(बृ. उ. १ । ४ । १०) इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्यारम्भस्तु न युक्तः साक्षादत्र तदनुक्तेरित्याशङ्क्यास्मादारभ्योपनिषदारम्भेऽभीष्टं फलमभिधित्समानः प्रथममश्वमेधोपासनफलमाह —
अस्य त्विति ।
राजयज्ञत्वादश्वमेधस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फलार्थिनामस्मादेवोपासनात्तदाप्तिरिति मत्वा श्रुतौ तदुपासनोक्तीत्यर्थः ।
किमत्र नियामकमित्याशङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विकल्पश्रुतिमुदाहरति —
विद्ययेति ।
तत्फलप्राप्तिरिति पूर्वेण संबन्धः ।
तत्रैव श्रुत्यन्तरमाह —
तद्धेति ।
तदेतत्प्राणदर्शनं लोकप्राप्तिसाधनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्मलोकाप्तिवादिन्यः श्रुतयो गृह्यन्ते ।
अश्वमेधे यदुपासनं तस्याप्यश्वादिवत्तच्छेषत्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्वत्त्वमङ्गेषु स्वतन्त्रफलाभावादिति शङ्कते —
कर्मविषयत्वमिति ।
ज्ञानस्य क्रत्वर्थत्वं दूषयति —
नेति ।
पूर्वत्रार्थतो दर्शितां विकल्पश्रुतिमत्र हेतुतया स्वरूपतोऽनुक्रामति —
योऽश्वमेधेनेति ।
“सर्वं पाप्मानं तरति तरति ब्रह्महत्या”मिति संबन्धः । ज्ञानकर्मणोस्तुल्यफलत्वस्य न्याय्यत्वादिति शेषः ।
उपास्तिफलश्रुतेरर्थवादत्वमाशङ्क्याश्वमेधवदुपास्तेरपि कर्मत्वाद्विहितत्वात्कर्मप्रकरणाद्व्युत्थितत्वाच्च मैवमित्याह —
विद्येति ।
फलश्रुतेरर्थवादत्वाभावे हेत्वन्तरमाह —
कर्मान्तरे चेति ।
अश्वमेधातिरिक्ते कर्मणि ‘अयं वाव लोकोऽग्निरि’त्यादौ चित्याग्न्यादावेतल्लोकादिसंपादनस्य स्वतन्त्रफलोपासनस्य दर्शनान्न फलश्रुतेरर्थवादतेत्यर्थः ।
अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधिकारोऽश्वमेधक्रत्वनधिकारिणामपीत्येतावदेवेष्टं चेदुपासने कर्मप्रकरणस्थेऽपि तल्लाभाद्विद्याप्रकरणे नास्याध्ययमर्थवदित्याशङ्क्याऽऽह —
सर्वेषां चेति ।
परत्वे हेतुः —
समष्टीति ।
अनुवृत्तव्यावृत्तरूपहिरण्यगर्भप्राप्तिहेत्त्वात्तस्य श्रेष्ठतेत्यर्थः ।
तस्य पुण्यश्रेष्ठत्वेऽपि प्रकृते किमायातं तदाह —
तस्य चेति ।
यदा क्रतुप्रधानस्याश्वमेधस्योपास्तिसहितस्यापि संसारफलत्वं तदाऽल्पीयसामग्निहोत्रादीनां संसारफलत्वं किंवाच्यमित्यस्मिन्कर्मराशौ बन्धहेतौ विरक्ताः साधनचतुष्टयविशिष्टा ज्ञानमपेक्षमाणास्तदुपाये श्रवणादावेव सर्वकर्मसंन्यासपूर्वके कथं प्रवर्तेरन्नित्याशयवती श्रुतिरुपासनां विद्यारम्भेऽभिदधाति । तेनोषा वा अश्वस्येत्याद्युपनिषदारम्भो युक्तोऽस्य विशिष्टाधिकारिसमर्पकत्वादित्यर्थः ।
उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह —
तथा चेति ।
‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ‘स वै नैव रेमे’(बृ. उ. १ । ४ । ३) ‘सोऽबिभे’(बृ. उ. १ । ४ । २)दिति भयारत्यादिश्रवणादुपास्तियुक्तक्रतुफलस्य सूत्रस्य बन्धमध्यपातित्वाद्विशिष्टोऽपि क्रतुर्न मुक्तये पर्याप्नोतीत्यर्थः ।
उक्ते सर्वकर्मणां बन्धफलत्वे नित्यनैमित्तिकानां न तत्फलत्वं तेषां विध्युद्देशे फलाश्रुतेर्नष्टाश्वदग्धरथन्यायेन मुक्तिफलत्वलाभादिति शङ्कते —
न नित्यानामिति ।
’एतावान्वै काम’ इति सर्वकर्मणामविशेषेण फलसंबन्धश्रवणात्पश्वादेश्च काम्यफलत्वस्य तद्विध्युद्देशवशात्सिद्धत्वात् ‘कर्मणापितृलोक’(बृ. उ. १ । ५ । १६) इति वाक्यस्य नित्यादिकर्मफलविषयत्वान्न मोक्षफलत्वाशङ्केति परिहरति —
नेति ।
उक्तमेव स्फुटयति —
सर्वं हीति ।
पत्नीसंबन्धे मानमाह —
जायेति ।
तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह —
एतावान्वै काम इति ।
कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह —
पुत्रेति ।
अथैवं फलविभागे कथं समष्टिव्यष्टिप्राप्तिफलत्वमश्वमेधस्योक्तमत आह —
त्र्यन्नात्मकतां चेति ।
अस्याध्यायस्यावसाने कर्मफलस्य हिरण्यगर्भरूपतां त्रयमित्याद्या श्रुतिरुपसंहरिष्यतीत्यर्थः ।
उपसंहारश्रुतेस्तात्पर्यमाह —
सर्वकर्मणामिति ।
कर्मफलं संसारश्चेत्प्राक्तदनुष्ठानात्तदभावान्मुक्तानां पुनर्बन्धः स्यादित्याशङ्क्याऽऽह —
इदमेवेति ।
तर्हि तस्यामवस्थायामिति यावत् ।
तस्य पुनर्व्याकरणे कारणमाह —
तदेवेति ।
व्याकृताव्याकृतात्मनः संसारस्य प्रामाणिकत्वेन सत्यत्वमाशङ्क्याविद्याकृतत्वेन तन्मिथ्यात्वमुक्तं स्मारयति —
सोऽयमिति ।
स एव हि भ्रान्तिविषयो न प्रामाणिकस्तत्कुतोऽस्य सत्यतेत्यर्थः ।
कथमस्याऽऽत्मन्यद्वये कूटस्थे प्राप्तिरित्याशङ्क्याऽऽह —
क्रियेति ।
समारोपे मूलकारणमाह —
अविद्ययेति ।
आत्मन्यविद्यारोपितं द्वैतमित्यत्र ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’(बृ. उ. २ । ३ । १) त्यादिवाक्यं प्रमाणयति —
मूर्तेति ।
नन्वात्मन्यारोपो नोपपद्यते तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य द्वैतविलक्षणत्वादसति सादृश्येऽध्यासासिद्धेरत आह —
अत इति ।
संसाराद्वैलक्षण्यमेव प्रकटयति —
अनामेति ।
आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते ।
आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति —
अवभासत इति ।
आत्मन्यध्यासः सादृश्याद्यभावेऽपि नभसि मलिनत्वादिवद्यतोऽनुभूयतेऽतः सविलासाविद्यानिवर्तकब्रह्मविद्यार्थत्वेनोपनिषदारम्भः संभवतीत्युपसंहरति —
अत इति ।
एतावदित्यनर्थात्मत्वोक्तिः ।
तत्त्वज्ञानादज्ञाननिवृत्तौ दृष्टान्तमाह —
रज्ज्वामिवेति ।
एवमुपनिषदारम्भे स्थिते प्राथमिकब्राह्मणयोरवान्तरतात्पर्यमाह —
तत्र तावदिति ।
आद्यस्य पुनरवान्तरतात्पर्यं दर्शयति —
तत्रेति ।
नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वाख्याङ्गविषयमेवोपासनमुच्यते तत्राऽऽह —
प्राधान्यादिति ।
तदेव कथमिति तदाह —
प्राधान्यं चेति ।
प्रजापतिदेवताकत्वाच्चाश्वस्य प्राधान्यमित्याह —
प्राजापत्यत्वाच्चेति ।
प्रतीकमादाय व्याचष्टे —
उषा इत्यादिना ।
स्मारणार्थत्वमेव निपातस्य स्फुटयति —
प्रसिद्धमिति ।
शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।
उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —
प्राधान्यादिति ।
तथापि कथं तत्र तच्छब्दप्रयोगस्तत्राऽऽह —
शिरश्चेति ।
आश्वमेधिकाश्वशिरस्युषसो दृष्टिः कर्तव्येत्याह —
अश्वस्येति ।
कालादिदृष्टिरश्वाङ्गेषु किमिति क्षिप्यतेऽश्वाङ्गदृष्टिरेव तेषु किं न स्यादित्याशङ्क्याऽऽह —
कर्माङ्गस्येति ।
अङ्गेष्वनङ्गमतिक्षेपे हेत्वन्तरमाह —
प्राजापत्यत्वं चेति ।
अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —
प्रजापतीति ।
ननु कालादिदृष्ट्योऽश्वावयवेष्वारोप्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —
कालेति ।
कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा कालादिदृष्टिरश्वावयवेषु तस्य प्रजापतित्वकरणम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्यवत्तरत्वार्थं कालादिदृष्टीरश्वावयवेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।
चक्षुषि सूर्यदृष्टौ हेतुमाह —
शिरस इति ।
उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृष्टिर्युक्तेत्यर्थः ।
तत्रैव हेत्वन्तरमाह —
सूर्येति ।
“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽधिष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृष्टिरित्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।
अश्वस्य विदारिते मुखे भवत्वग्निदृष्टिस्तथाऽपि पर्यायोपादानं व्यर्थमित्याशङ्क्य क्रव्यादादिव्यावृत्त्यर्थं विशेषणमित्याह —
वैश्वानर इत्यग्नेरिति ।
“अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —
मुखस्येति ।
अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।
शरीरे संवत्सरदृष्टिरित्यत्राऽऽत्मत्वं हेतुमाह —
कालेति ।
आत्मा हस्तादीनामङ्गानामिति शेषः ।
कालावयवानां संवत्सरस्याऽऽत्मत्ववदङ्गानां शरीरस्याऽऽत्मत्वे प्रमाणमाह —
मध्यं हीति ।
पुनरुक्तेरर्थवत्त्वमाह —
अश्वस्येति ।
पृष्टे द्युलोकदृष्टौ हेतुमाह —
ऊर्ध्वत्वेति ।
उदरेऽन्तरिक्षदृष्टौ निमित्तमाह —
सुषिरत्वेति ।
पादा अस्यन्ते यस्मिन्निति व्युत्पत्तिमाश्रित्य विवक्षितमाह —
पादेति ।
अश्वस्य हि खुरे पादासनत्वसामान्यात्पृथिवीदृष्टिरित्यर्थः ।
पार्श्वयोर्दिक्चतुष्टयदृष्टौ हेतुमाह —
पार्श्वेनेति ।
द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —
पार्श्वयोरिति ।
यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोस्तन्मुखत्वे च प्राक्प्रतीच्योर्दिशोस्ताभ्यां संबन्धसंभवात्तत्र तद्दृष्टिरविरुद्धेति परिहरति —
नेत्यादिना ।
तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वास्थिष्ववान्तरदिशामारोपे पार्श्वदिक्संबन्धो हेतुः ।
ऋतवः संवत्सरस्याङ्गानि हस्तादीनि च देहस्यावयवास्तस्मादृतुदृष्टिरङ्गेषु कर्तव्येत्याह —
ऋतव इति ।
अस्ति मासादीनां संवत्सरसन्धित्वमस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासादिदृष्टिरित्याह —
सन्धीति ।
युगसहस्राभ्यां प्राजापत्यमेकमहोरात्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टिघटिकाभिर्मानुषमिति भेदः ।
प्रतिष्ठाशब्दस्य पादविषयत्वं व्युत्पादयति —
प्रतितिष्ठतीति ।
पादेष्वहोरात्रदृष्टिसिद्ध्यर्थं युक्तिमुपपादयति —
अहोरात्रैरिति ।
अस्थिषु नक्षत्रदृष्टौ हेतुमाह —
शुक्लत्वेति ।
नभःशब्देनान्तरिक्षं किमिति न गृह्यते मुख्ये सत्युपचारायोगादित्याशङ्क्य पुनरुक्तिं परिहर्तुमित्याह —
अन्तरिक्षस्येति ।
उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेककर्तृत्वसामान्यान्मांसेषु मेधदृष्टिरित्याह —
उदकेति ।
अश्वजठरविपरिवर्तिन्यर्धजीर्णे सिकतादृष्टौ हेतुमाह —
विश्लिष्टेति ।
किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्यार्थातिक्रमः स्यात्तत्राह —
बहुवचनाच्चेति ।
चकारोऽवधारणार्थः । यद्यपि बहूक्त्या शिराभ्योऽर्थान्तरमपि गुदशब्दमर्हति तथाऽपि स्यन्दनसादृश्यात्तास्वेव सिन्धुदृष्टिरिति तासामिह ग्रहणमिति भावः ।
कुतो मांसखण्डयोर्द्वित्वमेकत्र बहुवचनाद्बहुत्वप्रतीतेरित्याशङ्क्य दारा इतिवद्बहूक्तेर्गतिमाह —
क्लोमान इति ।
तयोः पर्वतदृष्टौ हेतुद्वयमाह —
काठिन्यादित्यादिना ।
क्षुद्रत्वसाधर्म्यादोषधिदृष्टिर्लोमसु महत्त्वसामान्याद्वनस्पतिदृष्टिश्चाश्वकेशेषु कर्तव्येत्याह —
यथासंभवमिति ।
पूर्वत्वसामान्यान्मध्याह्नात्प्रागवस्थादित्यदृष्टिरश्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —
उद्यन्नित्यादिना ।
अपरत्वसादृश्यादश्वस्य नाभेरपरार्धे मध्याह्नादनन्तरभाव्यादित्यदृष्टिःकार्येत्याह —
निम्लोचन्नित्यादिना ।
विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।
विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्योतनदृष्टिर्जृम्भणे कर्तव्येत्याह —
मुखेति ।
स्तनयतीति स्तनितमुच्यते तद्दृष्टिर्गात्रकम्पे कर्तव्येत्यत्र हेतुमाह —
गर्जनेति ।
मूत्रकरण वर्षणदृष्टौ कारणमाह —
सेचनेति ।
अश्वस्य हेषितशब्दे नास्त्यारोपणमित्यतो न सादृश्यं वक्तव्यमित्याह —
नात्रेति ॥१॥
अश्वावयवेषु कालादिदृष्टीर्विधायाश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह —
अहरित्यादिना ।
ग्रहौ हवनीयद्रव्याधारौ पात्रविशेषावग्रतः पृष्ठतश्चेति संज्ञपनात्प्रागूर्ध्वं चेति यावत् ।
प्रसिद्धातावदहनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्यतस्तस्मिन्नहर्दृष्टिरिति दर्शनं विभजते —
अहरिति ।
अश्वसंज्ञपनात्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेदहर्दृष्ट्योपास्यते कथं सोऽश्वमन्वजायतेति पश्चादश्वस्य तज्जन्मवाचोयुक्तिरिति शङ्कते —
अहरश्वमिति ।
नायं पश्चादर्थोऽनुशब्दः किन्तु लक्षणार्थः ।
तथा चाश्वस्य प्रजापतिरूपत्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृत्तेरुपदेशादश्वमन्वजायतेत्यविरुद्धमिति परिहरति —
अश्वस्येति ।
तदेव स्फुटयति —
प्रजापतिरिति ।
काललोकदेवतात्मा प्रजापतिरश्वात्मना दृश्यमानोऽत्राहर्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्वमन्वजायतेति श्रुतिरविरुद्धेत्यर्थः ।
अनुशब्दो न पश्चाद्वाचीत्यत्र दृष्टान्तमाह —
वृक्षमिति ।
यदा वृक्षं लक्षयित्वा तस्याग्रे विद्युद्विद्योतते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽत्राप्यनुशब्दो न पश्चादर्थ इत्यर्थः ।
यत्र च स्थाने ग्रहः स्थाप्यते तत्पूर्वसमुद्रदृष्ट्या ध्येयमित्याह —
तस्येति ।
पूर्वत्रमत्र सादृश्यम् ।
कथं सप्तमी प्रथमार्थे योज्यते छन्दस्यर्थानुसारेण व्यत्ययसंभवादित्याह —
विभक्तीति ।
यथा सौवर्णे ग्रहेऽर्दृष्टिरुपदिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह —
तथेति ।
अस्ति हि चन्द्रातपवत्त्वाद्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रिदर्शनमित्याह —
वर्णेति ।
रजतं सुवर्णाज्जघन्यमह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रिदृष्टिरित्याह —
जघन्येति ।
प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्संज्ञपनात्पश्चादस्य प्रवृत्तिं दर्शयति —
एनमिति ।
तदासादनस्थाने पश्चिमसमुद्रदृष्टिर्विधेयेत्यह —
तस्येति ।
कथमेतौ ग्रहौ महिमाख्यावुक्तौ महत्त्वोपेर्तत्वादित्याह —
महिमेति ।
अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह —
अश्वस्येति ।
किमत्र नियामकमित्याशङ्क्य पुनरुक्तिरिति मत्वाऽऽह —
तावित्यादिना ।
वैशब्दार्थकथनम् —
एवेति ।
वाक्यशेषोऽप्यत्रानुगुणीभवतीत्याह —
तथा चेति ।
हयशब्दनिष्पत्तिपुरःसरं तदर्थमाह —
हय इति ।
वाज्यादिशब्दानां जातिविशेषवाचित्वादत्रापि तदेव ग्राह्यमिति पक्षान्तरमाह —
जातीति ।
देवायनां देवत्वप्रापकत्वं कथमस्त्येत्याशङ्क्याह —
प्रजापतित्वादिति ।
अश्वं स्तोतुमारभ्य कल्पान्तरोक्त्या तन्निन्दावचनमनुचितमिति शङ्कते —
नन्विति ।
उपक्रमविरोधो नास्तीति परिहरति —
नेत्यादिना ।
समुत्पद्य भूतानि द्रवन्त्यस्मिन्निति व्युत्पत्त्या परमगम्भीरस्येश्वरस्य समुद्रशब्दतामाह —
परमात्मेति ।
तत्र योनित्वमुत्पादकत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः ।
अथ परमात्मयोनित्वादिवचनमुपास्याश्वस्य क्वोपयुज्यते तत्राऽऽह —
एवमिति ।
श्रुत्यन्तरानुरोधेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —
अप्सुयोनिरिति ॥२॥