आनन्दगिरिटीका (बृहदारण्यक)
प्रथमोऽध्यायः: द्वितीयं ब्राह्मणम्
अश्वादिदर्शनोक्त्यनन्तरमग्निदर्शनं वक्तुं ब्राह्मणान्तरमवतारयति —
अथेति ।
नैवेहेत्यादौ तद्दृष्टिर्नास्तीति चेत्सत्यं तत्राग्नेर्जन्म वक्तुं भूमिका क्रियत इत्याह —
अग्नेरिति ।
वायोरग्निरित्यादौ प्रसिद्धं तज्जन्मेति चेत्सत्यं तद्विशेषस्यात्र जन्मोक्तिरित्याह —
अश्वमेधेति ।
दर्शने विधित्सिते किं जन्मोक्त्येति चेत्तत्राऽऽह —
तद्विषयेति ।
अग्निदर्शनस्य विधातुमिष्टस्य सिद्ध्यर्थमुपास्याग्निस्तुतिफला तदुत्पत्तिरिष्टा शुद्धजन्मत्वादुत्कृष्टत्वेनायमुपास्यो राजादिवदित्यर्थः ।
तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याचष्टे —
नैवेत्यादिना ।
नामरूपाभ्यां विभक्तो विशेषो यस्मिन्निति बहुव्रीहिः ।
अत्र शून्यवादी लब्धावकाशोऽविमृश्य परेष्टश्रुत्यवष्टम्भेन स्वपक्षमाह —
किमित्यादिना ।
कार्यस्य प्रागसत्त्वे हेत्वन्तरमाह —
उत्पत्तेश्चेति ।
विमतं प्रागसदुत्पद्यमानत्वाद्यन्नैवं न तदेवं यथा परेष्टं ब्रह्मेत्यर्थः ।
हेत्वसिद्धिं शङ्क्तित्वोत्तरमाह —
उत्पद्यते हीति ।
घटग्रहणं कार्यमात्रस्योपलक्षणार्थम् ।
उक्तमनुमानं निगमयति —
अत इति ।
तत्र तार्किको ब्रूते —
नन्विति ।
यदुक्तं न कार्यं कारणं वाऽऽसीदिति तत्र भागे बाधो भागे चानुमतिरित्यर्थः ।
कार्यस्यापि कथं प्रागसत्त्वोपपत्तिरित्याशङ्क्याऽऽह —
यन्नेति ।
एतेनानुमानस्य सिद्धसाध्यतोक्ता ।
कार्यवत्कारणप्स्यापि प्रागसत्त्वं किं न स्यादित्याशङ्क्योक्तहेत्वभावुन्मैवमित्याह —
नन्विति ।
शून्यवाद्याह —
न प्रागुत्पत्तेरिति ।
विमतं प्रागसद्योग्यत्वे सति तदाऽनुपलब्धत्वात्संमतवत् । न चासिद्धो हेतुः श्रुतेरनतिशङ्क्यत्वात् । तद्विरोधे सत्युपलब्धेराभासत्वादित्यर्थः ।
तदेव प्रपञ्चयति —
अनुपलब्धिश्चेदिति ।
कार्यवत्कारणस्यापि प्रागसत्त्वे प्राप्ते सिद्धान्तयति —
नेत्यादिना ।
नैवेत्यादिश्रुतिरव्यक्तनामरूपादिविषया न प्रागसत्त्वं कार्यकारणयोराह । अन्यथा वाक्यशेषविरोधादित्यर्थः ।
श्रुतिं विवृणोति —
यदि हीति ।
द्वयोरसत्त्वे का वाचोयुक्तेरिनुपपत्तिस्तत्राऽऽह —
न हीति ।
मा तर्हि वाक्यमेव भूदित्याशङ्क्याऽऽह —
ब्रवीति चेति ।
मृत्युनेत्यादिवाक्यार्थमुपसंहरति —
तस्मादिति ।
श्रुतेः प्रामाण्यादिति । तत्प्रामाण्यस्य प्रमाणलक्षणे स्थितत्वादिति यावत् ।
परकीयेऽनुमाने श्रुतिविरोधमभिधायानुमनविरोधमाह —
अनुमेयत्वाच्चेति ।
कार्यकारणयोः सत्त्वस्यानुमेयतया तदसत्त्वमनुमातुमशक्यम् । उपजीव्यविषयतया सत्त्वानुमानस्य बलीयस्त्वादित्यर्थः ।
कार्यकारणवयोः सत्त्वानुमानं प्रतिज्ञाय प्रथमं कारणसत्त्वमनुमिनोति —
अनुमीयते चेत्यादिना ।
कार्यस्य सत्त्वेऽनुमानमाह —
कार्यस्य हीति ।
विमतं पूर्वं सत् कार्यत्वात्कुम्भवदित्यर्थः ।
नानुपमृद्य प्रादुर्भावादिति न्यायेन दृष्टान्तस्य साध्यवैकल्यं चोदयति —
घटादीति ।
न तावदसिद्धो घटः स्वकारणमुपमृद्नात्यसतोऽकारकत्वात्सिद्धस्य तूपमर्दकत्वेनासत्पूर्वकत्वमिति कुतः साध्यविकलतेत्याह —
नेति ।
किञ्चान्वयिद्रव्यमेव सर्वत्र कारणं न पिण्डाकारविशेषोऽनन्वयादनवस्थानाच्चेति कुतः साध्यवैकल्यमित्याह —
मृदादेरिति ।
तदेव स्फुटयति —
मृत्सुवर्णादीति ।
तत्रेति दृष्टान्तोक्तिः ।
किञ्चान्वयव्यतिक्रेकाभ्यां कारणमवधेयम् । न च पिण्डाभावे घटो न भवतीति व्यतिरेकोऽस्ति । पिण्डाभावेऽपि शकलादिभ्योऽपि घटाद्युद्भावोपलम्भादित्याह —
तदभाव इति ।
तदेव स्फुटयति —
असत्यपीति ।
त्वन्मतेऽपि व्यतिरेकराहित्यं तुल्यमित्याशङ्क्याऽऽह —
असतीति ।
मृदाद्येव घटादिकारणं चेत्किमिति पिण्डादौ सत्येव ततो घटाद्यनुत्पत्तिरित्याशङ्क्याऽऽह —
सर्वमिति ।
ब्रह्मणि त्वविद्यावशादुत्पत्तिरिति भावः ।
अन्वयिद्रव्यं पूर्वोत्पन्नस्वकार्यतिरोधानेन कार्यान्तरं जनयति चेत्कार्यतादात्म्येन स्वयमपि नश्येत्तत्रोत्तरकार्योत्पत्तिहेत्वभावादित्याशङ्क्याऽऽह —
न चेति ।
कार्यान्तरेऽप्यनुवृत्तिदर्शनात्कार्यान्तरात्मना भावाच्चेत्यर्थः ।
अन्वयिद्रव्यस्यैव कारणत्वे फलितमाह —
तस्मादिति ।
अन्वयिनो मृदादेर्मानाभावेनाभावान्न कारणतेति शङ्कते —
पिण्डादीति ।
तदेव चोद्यं विवृणोति —
पिण्डादीत्यादिना ।
मृद्घटः सुवर्णं कुण्डलमित्यादितादात्म्यप्रत्ययस्य पिण्डाद्यतिरिक्तमृदाद्याभावेऽनुपपत्तेरनुगतं मृदाद्युपेयमिति परिहरति —
नेति ।
किञ्च या पिण्डात्मना पूर्वेद्युर्मृदासीत्सैव घटाद्यभूदिति प्रत्यभिज्ञया मृदोऽन्वयिन्याः सिद्धेस्तत्कारणत्वं दुरपह्नवमित्याह —
मृदादीति ।
यत्सत्तत्क्षणिकं यथा दीपः सन्तश्चेमे भावा इत्यनुमानात्सर्वार्थानां क्षणिकत्वसिद्धेरन्वयदृष्टिः सादृश्याद्भ्रान्तिरिति शङ्कते —
सादृश्यादिति ।
प्रत्यभिज्ञासिद्धस्थाय्यर्थविरुद्धं क्षणिकार्थबोधिलिङ्गमनुष्णतानुमानवन्न मानमिति दूषयति —
नेत्यादिना ।
सादृश्यादीत्यादिशब्देन प्रत्यभिज्ञाभ्रान्तित्वादि गृह्यते ।
प्रत्यक्षात्कारणैक्यं गम्यते । अनुमानात्तद्भेदः । अतो द्वयोर्विरुद्धत्वस्याव्यभिचारित्वान्नाध्यक्षेणानुमानबाधो वैपरीत्यसंभवादित्याशङ्क्याऽऽह —
नचेति ।
प्रत्यभिज्ञामुपजीव्यक्षणिकत्वानुमानाप्रवृत्तावप्युजीव्यतीयत्वात्तत्प्राबल्यादुपजीवकजातीयकमुक्तानुमानं दुर्बलं तद्बाध्यमित्यर्थः ।
प्रत्यभिज्ञा स्वार्थे स्वतो न मानं बुद्ध्यन्तरसंवादादेव बुद्धीनां मानत्वस्य बौद्धैरिष्टत्वात् । न च बुद्ध्यन्तरं स्थाययित्वसाधकमस्तीति प्रत्यभिज्ञायमानस्यापि क्षणिकत्वमित्याशङ्क्याऽऽह —
सर्वत्रेति ।
प्रसंगमेव प्रकटयति —
यदि चेति ।
क्षणिकत्वादिबुद्धेरपि स्वार्थे स्वतो मानत्वाभावात्तादृग्बुद्ध्यन्तरापेक्षायां तस्यापि तथात्वेनानवस्थानाद्बुद्धेः स्वतःप्रामाण्यमुपेयम् । तथा च प्रत्यभिज्ञानं सर्वं तथैवाबाधादित्यर्थः ।
किं च प्रत्यभिज्ञाया भ्रान्तित्वं वदता स्वरूपानपह्नवात्तदिदम्बुद्ध्योः सामानाधिकरण्येन संबन्धो वाच्यः, स च वक्तुं न शक्यते क्षणद्वयसंबन्धिनो द्रष्टुरभावादित्याह —
तदिदमिति ।
असति संबन्धे बुद्ध्योः सादृश्यात्तद्बुद्धिरिति शङ्क्यते —
सादृश्यादिति ।
तयोः स्वसंवेद्यत्वाद्ग्राहकान्तरस्य चाभावान्न सादृश्यसिद्धिरिति दूषयति —
न तदिदम्बुद्ध्योरिति ।
तथाऽपि किमिति सादृस्यासिद्धिरित्याशङ्क्याऽऽह —
असति चेति ।
सादृश्यासिद्धिमभ्युपेत्य शङ्कते —
असत्येवेति ।
यत्र सत्येवार्थे धीस्तत्रैव साधकपेक्षा नान्यत्रेति भावः ।
तत्र बाह्यार्थवादिनं प्रत्याह —
न तदिदम्बुद्ध्योरिति ।
विज्ञानवाद्याह —
असदिति ।
तथा सत्यनालम्बनं क्षणिकविज्ञानमित्यस्यापि ज्ञानस्यातद्विषयतया विज्ञानवादासिद्धिरित्याह —
नेति ।
शून्यवाद्याह —
तदपीति ।
सर्वा धीरसद्विषयेत्येषा धीरसद्विषया स्यात्ततश्च सर्वबुद्धेरसद्विषयत्वासिद्धिरिति दूषयति —
नेत्यादिना ।
परपक्षासंभवात्तत्प्रत्यभिज्ञायाः स्थायिहेतुसिद्धौ दृष्टान्तस्य साध्यवैकल्यं परिहृत्यावान्तरप्रकृतमुपसंहरति —
तस्मादिति ।
संप्रति कारणसत्त्वानुमानं निगमयति —
अत इति ।
कार्यकारणयोर्द्वयोरपि प्रागुत्पत्तेः सत्त्वमनुमेयमिति प्रतिज्ञाय कारणास्तित्वं प्रपञ्चितमिदानीं कार्यास्तित्वानुमानं दर्शयति —
कार्यस्य चेति ।
प्रागुत्पत्तेः सद्भावः प्रसिद्ध इति चकारार्थः ।
प्रतिज्ञाभागं विभजते —
कार्यस्येति ।
हेतुभागमाक्षिपति —
कथमिति ।
अभिव्यक्तिर्लिङ्गमस्येति व्युत्पत्त्या कथमभिव्यक्तिलिङ्गत्वादिति कार्यसत्त्वे हेतुरुच्यते सिद्धे हि सत्त्वेऽभिव्यक्तिर्लिङ्गमस्येति सिद्ध्यति तद्बलाच्च सत्त्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।
संप्रतिपन्नयाऽभिव्यक्त्या विप्रतिपन्नं सत्त्वं साध्यते तन्नान्योन्याश्रयत्वमिति परिहरति —
अभिव्यक्तिरिति ।
कथं तर्हीहानुमानं प्रयोक्तव्यमित्याशङ्क्य प्रथमं व्याप्तिमाह —
यद्धीति ।
यदभिव्यज्यमानं तत्प्रागभिव्यक्तेरस्ति यथा तमोन्तःस्थं घटादीत्यर्थः ।
संप्रत्यनुमिनोति —
तथेति ।
विमतं प्रागभिव्यक्तेः सत् अभिव्यक्तिविषयत्वात् यद्ध्यभिव्यज्यते तत्प्राक्सत्संप्रतिपन्नवदित्यर्थः ।
ननु तमोन्तःस्थो घटोऽभिव्यञ्जकसामीप्यादभिव्यज्यते न तत्र प्राक्कालिकं सत्त्वं प्रयोजकमित्याशङ्क्याऽऽह —
न हीति ।
उक्तेऽनुमाने कार्यस्य सदोपलब्धिप्रसंगं विपक्षे बाधकमाशङ्कते —
नेत्यादिना ।
उक्तानुमाननिषेधो नञर्थः । अविद्यमानत्वाभावादिति च्छेदः ।
अनुमाने बाधकोपन्यासं विवृणोति —
न हीति ।
वर्तमानवदतीतमागामि च घटादि सदेव चेदुपलब्धिसामग्र्यां सत्यां तद्वत्प्राग्जनेर्नाशाच्चोर्ध्वमुपलभ्येत न चैवमुपलभ्यते तस्मादयुक्तं कार्यस्य सदा सत्त्वमित्यर्थः । मृत्पिण्डग्रहणं विरोधिकार्यान्तरोपलक्षणार्थम् । असन्निहिते सतीति च्छेदः ।
न तावद्विद्यमानत्वमात्रं कार्यस्य सदोपलम्भापादकं सतोऽपि घटादेरभिव्यक्त्यनभिव्यक्त्योरुपलब्धत्वादिति समाधत्ते —
नेति ।
अभिव्यक्तिसामग्रीसत्त्वं त्वभिव्यक्तिसाधकं न तु सतस्तत्सामग्रीनियमोऽस्तीत्यभिप्रेत्याऽऽह —
द्विविधत्वादिति ।
उत्पन्नस्य कुड्याद्यावरणमनुत्पन्नस्य विशिष्टं कारणमिति द्वैविध्यमेव प्रतिज्ञापूर्वकं साधयति —
घटादीति ।
यदोपलभ्यमानकारणावयवानां कार्यान्तराकारेण स्थितिस्तदा नेदं कार्यमुपलभ्यते तत्रान्यथा चोपलभ्यत इत्यन्वयव्यतिरेकसिद्धं कारणस्य कार्यान्तररूपेण स्थितस्य कार्यावरकत्वमिति द्रष्टव्यम् ।
विशिष्टस्य कारणस्याऽऽवरकत्वसिद्धौ सिद्धमर्थमाह —
तस्मादिति ।
प्राक्कार्यास्तित्वे सिद्धे सदा तदुपलब्धिप्रसंगबाधकं निराकृत्य नष्टो घटो नास्तीत्यादिप्रयोगप्रत्ययभेदानुपपत्तिं बाधकान्तरमाशङ्क्याऽऽह —
नष्टेति ।
कपालादिना तिरोभावे नष्टव्यवहारः पिण्डाद्यावरणभङ्गेनाभिव्यक्तावुत्पन्नव्यवहारो दीपादिना तमोनिरासेनाभिव्यक्तौ भावव्यवहारः पिण्डादिना तिरोभावेऽभावव्यवहारः । तदेवं कार्यस्य सदा सत्त्वेऽपि प्रयोगप्रत्ययभेदसिद्धिरित्यर्थः ॥
पिण्डादि न घटाद्यावरणं तेन समानदेशत्वात् । यद्यस्याऽऽवरणं न तत्तेन समानदेशं यथा कुड्यादीति शङ्कते —
पिण्डेति ।
व्यतिरेक्यनुमानं विवृणोति —
तम इत्यादिना ।
अनुमानफलं निगमयति —
तस्मादिति ।
किमिदं समानदेशत्वं किमेकाश्रयत्वं किंवैककारणत्वमिति विकल्प्याऽऽद्यं विरुद्धत्वेन दूषयति —
नेत्यादिना ।
क्षीरेण संकीर्णस्योदकादेराव्रियमाणस्येति यावत् ।
द्वितीयमुत्थापयति —
घटादीति ।
यस्येदं कार्यं तस्मिन्मृदात्मनि तेषामवस्थानात्तद्वत्तेषामनावरणत्वमित्यर्थः घटावस्थमृन्मात्रवृत्तिकपालादेर्घटानावरणत्वमिष्टमेवेति सिद्धसाध्यता ।
अव्यक्तघटावस्थमृद्वृत्तिकपालादेरनावरणत्वसाधने हेत्वसिद्धिर्घटस्य कपालादेश्चाऽऽश्रयमृदवयवभेदादिति दूषयति —
न, विभक्तानामिति ।
विद्यमानस्यैवाऽऽवृतत्वादनुपलब्धिश्चेदावरणतिरस्कारे यत्नः स्यान्न घटादेरुत्पत्तावतोऽनुभवविरोधः सत्कार्यवादिनः स्यादिति शङ्कते —
आवरणेति ।
तदेव प्रपञ्चयति —
पिण्डेति ।
यत्राऽवृतं वस्तु व्यज्यते तत्राऽऽवरणभङ्ग एव यत्न इति व्याप्त्यभावान्नानुभवविरोधोऽस्तीति दूषयति —
नानियन्मादिति ।
अनियमं साधयति —
न हीति ।
तमसाऽवृते घटादौ दीपोत्पत्तौ यत्नोऽस्तीत्यत्र चोदयति —
सोऽपीति ।
अनुभवविरोधमाशङ्क्योक्तमेव व्यनक्ति —
दीपादीति ।
दीपस्तमस्तिरयति चेत्कथं कुम्भोपलब्धिरत आह —
तस्मिन्निति ।
तत्र हेतुमाह —
न हीति ।
अनुभवमनुसृत्य परिहरति —
नेत्यादिना ।
किमिदानीमावरणभङ्गे प्रयत्नो नेत्येव नियमोऽस्तु नेत्याह —
क्वचिदिति ।
अनियमं निगमयन्ननुभवविरोधाभावमुपसंहरति —
तस्मादिति ।
किञ्चाभिव्यञ्जकव्यापारे सति नियमेन घटो व्यज्यते तदभावे नेत्यन्वयव्यतिरेकावधारितो घटार्थः ।
कुलालादिव्यापारस्तस्यार्थवत्त्वार्थमभिव्यक्त्यर्थ एव प्रयत्नो वक्तव्यः आवरणभङ्गस्त्वार्थिक इत्याह —
नियमेति ।
उक्तं स्मारयन्नेतदेव विवृणोति —
कारण इत्यादिना ।
आवृत्तिभङ्गार्थे यत्ने यतो घटानुपलब्धिरतस्तदुपलब्ध्यर्थत्वेन नियतः सन्यत्नः सफलः स्यादिति फलितमाह —
तस्मादिति ।
प्रकृतमभिव्यक्तिलिङ्गकमनुमानं निर्दोषत्वादादेयं मन्वानस्तत्फलमुपसंहरति —
तस्मात्प्रागिति ।
कार्यस्य सत्त्वे युक्त्यन्तरमाह —
अतीतेति ।
विमतं सदर्थं प्रमाणत्वात्संप्रतिपन्नवदित्यर्थः ।
तदेवानुमानं विशदयति —
अतीत इति ।
अत्रैवोपपत्त्यन्तरमाह —
अनागतेति ।
आगामिनि घटे तदर्थित्वेन लोके प्रवृत्तिर्दृष्टा न चात्यन्तासति सा युक्ता तेन तस्यासद्विलक्षणतेत्यर्थः ।
किञ्च योगिनामीशस्य चातीतादिविषयं प्रत्यक्षज्ञानमिष्टं तच्च विद्यमानोपलम्भनमतो घटस्य सदा सत्त्वमित्याह —
योगिनां चेति ।
ईश्वरसमुच्चयार्थश्चकारः । भविष्यद्ग्रहणमतीतोपलक्षणार्थम् । ऐश्वरं यौगिकं चेति द्रष्टव्यम् ।
प्रसंगस्येष्टत्वमाशङ्क्याऽऽह —
न चेति ।
अधिकबलं हि बाधकं न चानतिशयादैशादिज्ञानादधिकबलं ज्ञानं दृष्टमतो बाधकाभावान्न तन्मिथ्येत्यर्थः ।
तस्य सम्यक्त्वेऽपि पूर्वोत्तरकालयोरसद्घटविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —
घटेति ।
पूर्वोत्तरकालयोरिति शेषः ।
घटस्य प्रागसत्त्वाभावे हेत्वन्तरमाह —
विप्रतिषेधादिति ।
स हि कारकव्यापारदशायामसन्निति कोऽर्थः किं तस्य भविष्यत्त्वादि तदा नास्ति किं वाऽर्थक्रियासामर्थ्यम् ? आद्ये व्याहतिं साधयति —
यदीति ।
घटार्थं कुलालादिषु व्याप्रियमाणेषु सत्सु घटो भविष्यतीति प्रमाणेन निश्चितं चेत्कथं तद्विरुद्धं प्रागसत्त्वमुच्यते । कारकव्यापारावच्छिन्नेन हि कालेन घटस्य भविष्यत्त्वेनातीतत्वेन वा भविष्यत्यभूदिति वा संबन्धो विवक्ष्यते । तथा च तस्मिन्नेव काले घटस्य तथाविधसत्त्वनिषेधे व्याहतिरतिव्यक्तेत्यर्थः ।
तामेवाभिनयति —
भविष्यन्निति ।
यो हि कारकव्यापारदशायां भविष्यत्त्वादिरूपेणास्ति स तदा नास्तीत्युक्ते तस्य तस्यामवस्थायां तेनाऽऽकारेणासत्त्वमर्थो भवति । तथा च घटो यदा येनाऽऽकारेणास्ति स तदा तेनाऽऽकारेण नास्तीति व्याहतिरित्यर्थः ।
द्वितीयमुत्थापयति —
अथेति ।
प्रागुत्पत्तेर्घटार्थं कुलालादिषु प्रवृत्तेषु सोऽसन्नित्यसच्छब्दार्थं स्वयमेव विवेचयति —
तत्रेत्यादिना ।
तत्र सिद्धान्ती ब्रूते —
न विरुध्यत इति ।
कथं पुनः सत्कार्यवादिनस्तदसत्त्वमविरुद्धमित्याह —
कस्मादिति ।
प्रागुत्पत्तेस्तुच्छव्यावृत्तिरूपं सत्त्वं घटस्य सिषाधयिषितं तच्चेद्भवानपि तस्य सदातनमनर्थक्रियासामर्थ्यं निषेधन्ननुमन्यते नाऽऽवयोर्विप्रतिपत्तिरित्यभिप्रेत्याऽऽह —
स्वेन हीति ।
ननु त्वन्मते सर्वस्य मृन्मात्रत्वाविशेषात्पिण्डादेर्वर्तमानता घटस्य स्यात्तस्य चातीतता भविष्यत्ता च पिण्डकपालयोः स्यादिति साङ्कर्यमाशङ्क्याऽऽह —
न हीति ।
व्यवहारदशायां यथाप्रतिभासमनिर्वाच्यसंस्थानभेदाश्रयणादित्यर्थः ।
प्रागवस्थायां घटस्यार्थक्रियासामर्थ्यलक्षणसत्त्वनिषेधे विरोधाभावमुपपादितमुपसंहरति —
तस्मादिति ।
उक्तमेव व्यतिरेकद्वारा विवृणोति यदीत्यादिना । यदा कारकाणि व्याप्रियन्ते तदा घटोऽसन्निति तस्य भविष्यत्त्वादिरूपं तत्काले निषिध्यते चेदुक्तविधया व्याघातः स्यात् । न च तस्य तस्मिन्काले भविष्यत्त्वादिरूपं तत्त्वं निषिध्यते । अर्थक्रियासामर्थ्यस्यैव निषेधात्तन्न तद् विरोधावकाशोऽस्तीत्यर्थः ।
न हि पिण्डस्येत्यादिना साङ्कर्यसमाधिरुक्तस्तमिदानीं सर्वतन्त्रसिद्धान्ततया स्फुटयति —
न चेति ।
भविष्यत्त्वमतीतत्वं चेति शेषः ।
कार्यस्य प्रागुत्पत्तेर्नाशाच्चोर्ध्वमसत्त्वाभावे हेत्वन्तरमाह —
अपि चेति ।
तदेवानुमानतया स्पष्टयितुं दृष्टान्तं साधयति —
चतुर्विधानामिति ।
षष्ठी निर्धारणे ।
घटान्योन्याभावस्य घटादन्यत्वे तत्राप्यन्योन्याभावान्तराङ्गीकारादनवस्थेत्याशङ्क्याऽऽह —
दृष्ट इति ।
न यौक्तिकमन्यत्वं किन्तु घटो न भवति पट इति प्रातीतिकं तथा च घटाभावः पटादिरेवेति पटादेस्ततोऽन्यत्वाद्घटान्योन्याभावस्यापि घटादन्यत्वसिद्धिरित्यर्थः ।
ननु घटाभावः पटादिरित्ययुक्तं विशेषणत्वेन घटस्यापि पटादावन्तर्भावप्रसंगादिति चेन्मैवं दृष्टपदेन निराकृतत्वात् । घटाभावस्य पटादित्वाभावेऽपि न स्वातन्त्र्यमभावत्वविरोधात् । नापि तदन्योन्याभावः पटादेर्धर्मः संसर्गाभावान्तर्भावापातात् । न च स घटस्यैव धर्मः स्वरूपं वा घटो घटो न भवतीति प्रतीत्यभावादित्यभिप्रेत्याऽऽह —
न घटस्वरूपमेवेति ।
यदि प्रतीतिमाश्रित्य घटान्योन्याभावः पटादिरिष्यते तदा पटादेर्भावस्याभावत्वविधानाद्व्याघात इत्याशङ्क्याऽऽह —
न चेति ।
स्वरूपपररूपाभ्यां सर्वं सदसदात्मकमिति हि वृद्धाः । तथा च पटादेः स्वेनाऽत्मना भावत्वं घटतादात्म्याभावात्तदभावत्वं चेत्यव्याहतिरित्यर्थः ।
सिद्धे प्रतीत्यनुसारिणि दृष्टान्ते विवक्षितमनुमानमाह —
एवमिति ।
किं च तेषामभावानां घटाद्भिन्नत्वात्पटवदेव सत्त्वमेष्टव्यमित्यनुमानान्तरमाह —
तथेति ।
अनुमानफलं कथयति —
एवं चेति ।
तेषां घटादन्यत्वे तस्यानाद्यनन्तत्वमद्वयत्वं सर्वात्मत्वं च प्राप्नोति । सत्त्वे च तेषामभावाभावान्न भावाभावयोर्मिथः संगतिरित्यर्थः ।
ननु प्रसिद्धोऽभावो भाववदशक्योऽपह्नोतुमिति चेत्स तर्हि घटस्य स्वरूपमर्थान्तरं वेति विकल्प्याऽऽद्यमनूद्य दूषयते —
अथेत्यादिना ।
प्रागभावादेर्घटत्वेऽपि संबन्धं कल्पयित्वा घटस्येत्युक्तिरिति शङ्कते —
अथेति ।
संबन्धस्य कल्पितत्वे संबन्धिनोऽप्यभावस्य तथात्वं स्यादिति दूषयति —
तथाऽपीति ।
यत्र संबन्धं कल्पयित्वा व्यपदेशस्तत्र न वास्तवो भेदो यथा राहुशिरसोस्तथाऽत्रापि कल्पिते संबन्धे भेदस्य तथात्वाद्वास्तवत्त्वं संबन्धिनोरन्यतरस्य स्यात् । न चाभावस्तथा सापेक्षत्वादतो घटस्तथेत्यर्थः ।
कल्पान्तरमनुवदति —
अथेति ।
अनुमानफलं वदद्भिर्घटस्य कारणात्मना ध्रुवत्ववचनेन समाहितमेतदित्याह —
उक्तोत्तरमिति ।
असत्कार्यवादे दोषान्तरमाह —
किञ्चेति ।
स्वहेतुसंबन्धः सत्तासंबन्धो वा जन्मेति तार्किकाः । न च प्रागुत्पत्तेरसतः संबन्धस्तस्य सतोर्वृत्तेरित्यर्थः ।
युतसिद्धयो रज्जुघटयोर्मिथःसंयोगे पृथक्सिद्धिरपेक्ष्यतेऽयुतसिद्धानां परस्परपरिहारेण प्रतीत्यनर्हाणां कार्यकारणादीनां मिथोयोगे पृथक्सिद्ध्यभावो न दोषमावहतीति शङ्कते —
अयुतेति ।
परिहरति —
नेति ।
उक्तमेव स्फोरयति —
भावेति ।
व्यवहारदृष्ट्या कार्यकारणयोः साधितां तुच्छव्यावृत्तिमुपसम्हरति —
तस्मादिति ।
नैवेहेत्यत्र सर्वस्य प्रागुत्पत्तेरसत्त्वशङ्का मृत्युनेत्यादिवाक्यव्याख्यानेन निरस्ता ।
संप्रति मृत्युशब्दस्य अर्थान्तरे रूढत्वान्न तेनाऽवरणं जगतः संभवतीत्याक्षिपति —
किंलक्षणेनेति ।
अनभिव्यक्तनामरूपमध्यक्षाद्ययोग्यमपञ्चीकृतपञ्चमहाभूतावस्थातिरिक्तं मायारूपं साभासं मृत्युरित्युच्यते ।
न हि सर्वं कार्यमवान्तरकारणादुत्पत्तुमर्हतीत्यभिप्रेत्याह —
अत आहेति ।
कथं यथोक्तो मृत्युरशनायया लक्ष्यते । न हि मूलकारणस्याशनायादिमत्त्वम् । अशनायापिपासे प्राणस्येति स्थितेरिति शङ्कते —
कथमिति ।
मूलकारणस्यैव सूत्रत्वं प्राप्तस्य सर्वसंहर्तृत्वान्मृत्युत्वे सति वाक्यशेषोपपत्तिरिति परिहरति —
उच्यत इति ।
प्रसिद्धमेव प्रकटयति —
यो हीति ।
तथापि प्रसिद्धं मृत्युं हित्वा कथं हिरण्यगर्भोपादानमत आह —
बुद्ध्यात्मना इति ।
उक्तं हेतुं कृत्वा फलितमाह —
इति स इति ।
ननु न तेन जगदाव्रियते मूलकारणेनैव तदावरणात्तत्कथं वाक्योपक्रमोपपत्तिरत आह —
तेनेति ।
ननु हिरण्यगर्भे प्रकृते कथं स्रष्टरि नपुंसकप्रयोगस्तत्राऽऽह —
तदिति मनस इति ।
वाक्यार्थमधुना कथयति —
स प्रकृत इति ।
भूतसृष्ट्यतिरेकेण भौतिकस्य मनसः सृष्टिरयुक्तेति मत्वा पृच्छति —
केनेति ।
अपञ्चीकृतानां भूतानां हिरण्यगर्भदेहभूतानां प्रागेवालब्धात्मकत्वात्तेभ्यो मनोव्यक्तिरविरुद्धेति मन्वानो ब्रूते —
उच्यत इति ।
स्वात्मवत्त्वस्य स्वाभाविकत्वान्न तदाशंसनीयमित्याशङ्क्य वाक्यार्थमाह —
अहमिति ।
मनसो व्यक्तस्योपयोगमाह —
स प्रजापतिरिति ।
ननु तैत्तिरीयकाणामाकाशादिसृष्टिरुच्यते तत्कथमिहापामादौ सृष्टिवचनं तत्राऽऽह —
अत्रेति ।
सप्तम्या हिरण्यगर्भकर्तृकसर्गोक्तिः । त्रयाणां पञ्चीकृतानामिति यावत् ।
नन्वाकाशाद्या तैत्तिरीये सृष्टिरिह त्वबाद्येत्युदितानुदितहोमवद्विकल्पो भविष्यति । नेत्याह —
विकल्पेति ।
पुरुषतन्त्रत्वात्क्रियाया युक्तो विकल्पः सिद्धेर्थे तु पुरुषानधीने नासौ संभवत्यतः सृष्टिर्विवक्षिता चेदाकाशाद्येव सा युक्ता विद्याप्रधानत्वात्तु नाऽऽदरः सृष्टाविति भावः ।
अपामादौ सृष्टिवचनमनुपयुक्तं न स्रष्टुस्ताभिरेव पूजा सिद्ध्यतीत्याशङ्क्याऽऽश्वमेधिकाग्नेरर्कनामसिद्ध्यर्थं तदुपयोगमुपन्यस्यति —
अर्चत इति ।
कोऽसौ हेतुरित्यपेक्षायामर्चतिपदावयवस्यार्कशब्देन संगतिरिति मन्वानः सन्नाह —
अर्कत्वमिति ।
एवं मृत्योरर्कत्वेऽपि कथमग्नेरर्कत्वमित्याशङ्क्य मृत्युसंबन्धादित्याह —
अग्नेरिति ।
किमर्थमग्नेरर्कनामनिर्वचनमित्याशङ्क्यापूर्वसंज्ञायोगस्य फलान्तराभावादुपासनार्थमित्याह —
अग्नेरिति ।
निर्वचनमेव स्फोरयति —
अर्चनादिति ।
फलवत्त्वाच्च यथोक्तनामवतोऽग्नेरुपास्तिरत्र विवक्षितेत्याह —
य एवमिति ॥१॥
अपामर्कत्वश्रवणान्नाग्नेरर्कत्वमिति शङ्कते —
कः पुनरिति ।
प्रकरणमाश्रित्य तासामर्कत्वमौपचारिकमित्युत्तरमाह —
उच्यत इति ।
तास्वन्तर्हिरण्मयमण्डं संबभूवेति श्रुतिमनुसरन्नुपचारे हेत्वन्तरमाह —
अप्सु चेति ।
मुख्यमर्कत्वमपां वारयति —
न पुनरिति ।
ननु ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’(जै. सू. ३ । ३ । १४) इतिन्यायात्प्रकरणादापो वा अर्क इति वाक्यं बलवदित्याशङ्क्य वाक्यसहकृतं प्रकरणमेव केवलवाक्याद्बलवदित्याशयवानाह —
वक्ष्यति चेति ।
भूतान्तरसहितास्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवोऽग्निः प्रतिष्ठित इत्युक्तमिदानीं पृथिवीसर्गं ताभ्यो दर्शयति —
तदित्यादिना ।
अप्सु भूतान्तरसहितासूत्पन्नासु सतीष्विति सप्तम्यर्थः ।
शर इव शर इत्युक्तमेव व्याचष्टे —
दध्न इवेति ।
संघाते सहकारिकारणमाह —
तेजसेति ।
यत्तदिति पदे नपुंसकत्वेन श्रुते कथं तयोः शरशब्देन कारणस्योच्छूनत्ववाचिना पुंल्लिङ्गेनान्वयस्तत्राऽऽह —
लिङ्गव्यत्ययेनेति ।
उक्तानुपपत्तिद्योतनार्थो वाशब्दः ।
व्यत्ययेनान्वयमेवाभिनयति —
योऽपामिति ।
वाक्यतात्पर्यमाह —
ताभ्य इति ।
स्थूलप्रपञ्चात्मकविराजः सूक्ष्मप्रपञ्चात्मकसूत्रादुत्पत्तिं वक्तुं पातनिकामाह —
तस्यामिति ।
उक्तेऽर्थे लोकप्रसिद्धिमनुकूलयति —
सर्वो हीति ।
इदानीं विराडुत्पत्तिमुपदिशति —
किं तस्येत्यादिना ।
अग्निशब्दार्थं स्फुटयति —
सोऽण्डस्येति ।
तस्य प्रथमशरीरित्वे मानमाह —
स वा इति ॥२॥
विराजो ध्यानार्थमवच्छेदभेदमाह —
स चेति ।
कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह —
स्वयमेवेति ।
कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह —
कथमिति ।
मृदो घटशरावाद्यनेकरूपत्ववद्विराजो बहुरूपत्वं साधयति —
आहेत्यादिना ।
कथमग्निं तृतीयमित्यश्रुतं कल्प्यते तत्राऽऽह —
सामर्थ्यस्येति ।
वाय्वादित्ययोरिवाग्नेरपि संख्यापूरणत्वशक्तेरविशिष्टत्वादग्निं तृतीयमकुरुतेत्युपसंख्यायते स त्रेधाऽऽत्मानमिति चोपक्रमादित्यर्थः ।
ननु किमयं त्रेधाभावो विराट्स्वरूपोपमर्देन क्रियते ? न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह —
स एष इति ।
यथा तन्त्ववस्थानुपमर्दनेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वतन्त्रेणानुगतेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो मायाविवदुपपत्तेरित्यर्थः ।
तस्य प्राचीत्यादेस्तात्पर्यमाह —
तस्येति ।
उक्तानि विशेषणानि प्रकरणाविच्छेदार्थमनूद्यन्ते ।
अग्निविषयं दर्शनमिदानीमुच्यते चेन्नैवेहेत्यादि पूर्वोक्तमनर्थकमित्याशङ्क्याऽऽह —
सर्वा हीति ।
स्तुतिमेवाभिनयति —
इत्थमिति ।
कर्माङ्गस्याग्नेः संस्कर्तव्यत्वाच्चित्याग्निशिरसि प्राचीदृष्टिः कर्तव्येत्याह —
तस्येति ।
आरोपे सादृश्यमाह —
विशिष्टत्वेति ।
शिरसोऽनन्तरभावित्वात्तद्बाह्वोरैशान्यादिदृष्टिमाह —
असौ चेति ।
कथमीर्मशब्दो बाहुवाचीत्याशङ्क्य तदुत्पत्तिमाह —
ईरयतेरिति ।
गत्यर्थयोगादीर्मशब्दो बाहुमधिकरोतीत्यर्थः ।
तत्पुच्छादिषु प्रतीच्यादिदृष्टीरध्यस्यति —
अथेत्यादिना ।
चित्यस्याग्नेः शिरसि बाह्वोः प्राच्यादिदृष्टिकरणानन्तरमित्यर्थः । सक्थिपदं पृष्ठनिष्ठोन्नतास्थिद्वयविषयम् । उभयशब्देन प्राचीप्रतीचीद्वयं गृह्यते ।
उरसि पृथिवीदृष्टिमाह —
इयमिति ।
उपास्यमग्निमुक्तमनुवदति —
स एष इति ।
तस्योपासनार्थमेवाप्सु प्रतिष्ठितत्वं गुणमुपदिशति —
अग्निरिति ।
भूतान्तरसहितानामपां सर्वलोककारणत्वादशेषलोकात्मकोऽग्निस्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति —
एवमिति ।
यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् ।
फलश्रुतिं व्याचष्टे —
यत्रेति ।
अथोपास्तिफलमपपुनर्मृत्युं जयतीत्यादिना वक्ष्यते ।
किमिदमस्थाने फलसंकीर्तनमत आह —
गुणेति ॥३॥
उत्तरग्रन्थमवतार्य तस्य पूर्वग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सोऽकामयतेत्यादिना ।
अवान्तरव्यापारमन्तरेण कर्तृत्वानुपपत्तिरिति मत्वा पृच्छति —
स किं व्यापार इति ।
कामनादिरूपमवान्तरव्यापारमुत्तरवाक्यावष्टम्भेन दर्शयति —
उच्यत इति ।
कामनाकार्यं मनःसंयोगमुपन्यस्यति —
स एवमिति ।
कोऽयं मनसा सह वाचो द्वन्द्वभावस्तत्राऽऽह —
मनसेति ।
वाक्यार्थमेव स्फुटयति —
त्रयीविहितमिति ।
वेदोक्तसृष्टिक्रमालोचनं प्रजापतेर्नेदं प्रथमं संसारस्यानादित्वादिति वक्तुमनुशब्दः ।
“सोऽकामयत” इत्यादौ सर्वनाम्नोऽव्यवहितविराड्विषयत्वमाशङ्क्य परिहरति —
कोऽसावित्यादिना ।
कथं तया मृत्युर्लक्ष्यते तत्राऽऽह —
अशनायेति ।
किमिति तर्हि पुनरुक्तिरित्याशङ्क्याऽऽह —
तमेवेति ।
अन्यत्रानन्तरप्रकृते विराडात्मनीति यावत् ।
अवान्तरव्यापारान्तरमाह —
तदित्यादिना ।
प्रसिद्धं रेतो व्यावर्तयति —
ज्ञानेति ।
ननु प्रजापतेर्न ज्ञानं कर्म वा संभवति । तत्रानधिकारादित्याशङ्क्याऽऽसीदित्यस्यार्थमाह —
जन्मान्तरेति ।
वाक्यस्यापेक्षितं पूरयित्वा वाक्यान्तरमादाय व्याकरोति —
तद्भावेत्यादिना ।
ननु संवत्सरस्य प्रागेव सिद्धत्वान्न प्रजापतेस्तन्निर्माणेन तदात्मत्वमित्याशङ्क्योत्तरं वाक्यमुपादत्ते —
न ह पुरेति ।
तद्व्याचष्टे —
पूर्वमिति ।
प्रजापतेरादित्यात्मकत्वात्तदधीनत्वाच्च संवत्सरव्यवहारस्याऽऽदित्यात्पूर्वं तद्व्यवहारो नाऽऽसीदेवेत्यर्थः ।
कियन्तं कालमण्डरूपेण गर्भो बभूवेत्यपेक्षायामाह —
तमित्यादिना ।
अवान्तरव्यापारमनेकविधमभिधाय विराडुत्पत्तिमाकाङ्क्षाद्वारोपसंहरति —
यावानित्यादिना ।
केयं पूर्वमेव गर्भतया विद्यमानस्य विराजः सृष्टिस्तत्राऽऽह —
अण्डमिति ।
विराडुत्पत्तिमुक्त्वा शब्दमात्रस्य सृष्टिं विवक्षुर्भूमिकां करोति —
तमेवमिति ।
अयोग्येऽपि पुत्रभक्षणे प्रवर्तकं दर्शयति —
अशनायावत्त्वादिति ।
विराजो भयकारणमाह —
स्वाभाविक्येति ।
इन्द्रियं देवतां च व्यावर्तयति —
वाक्शब्द इति ॥४॥
इदानीमृगादिसृष्टिमुपदेष्टुं पातनिकां करोति —
स इत्यादिना ।
ईक्षणप्रतिबन्धकसद्भावं दर्शयति —
अशनायावानपीति ।
अभिपूर्वो मन्यतिरिति ।
रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् ।
अन्नस्य कनीयस्त्वे का हानिरित्याशङ्क्याऽऽह —
बहु हीति ।
तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह —
तद्भक्षणे हीति ।
तस्यान्नात्मकत्वात्तदुत्पादकत्वाच्चेति शेषः ।
कारणनिवृत्तौ कार्यनिवृत्तिरित्यत्र दृष्टान्तमाह —
बीजेति ।
यथोक्तेक्षणानन्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति —
स एवमिति ।
ननु विराजः सृष्ट्या स्थावरजङ्गमात्मनो जगतः सृष्टेरुक्तत्वात्किं पुनरुक्त्येत्याशयेन पृष्ट्वा परिहरति —
किं तदिति ।
गायत्र्यादीनीत्यादिपदेनोष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दांस्युक्तानि ।
केवलानां छन्दसां सर्गासंभवात्तदारूढानामृग्यजुःसामात्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह —
स्तोत्रेति ।
उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्यतेऽध्वर्युप्रभृतिभिश्च प्रयुज्यते तदप्यत्र ग्राह्यमित्यभिप्रेत्याऽदिपदम् (यजूंषि) । अत एव त्रिविधानित्युक्तम् । अजादयो ग्राम्याः पशवो गवयादयस्त्वारण्या इति भेदः । कर्मसाधनभूतानसृजतेति संबन्धः ।
स मनसा वाचं मिथुनं समभवदित्युक्तत्वात्प्रागेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते —
नन्विति ।
व्यक्ताव्यक्तविभागेन परिहरति —
नेत्यादिना ।
इति मिथुनीभावसर्गयोरुपपत्तिरिति शेषः ।
अत्तृसर्गश्चान्नसर्गश्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजापतेर्गुणान्तरं निर्दिशति —
स प्रजापतिरित्यादिना ।
कथं मृत्योरदितिनामत्वं सिद्धवदुच्यते तत्राह —
तथा चेति ।
अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्योरदितिनामत्वं सूचितमिति भावः ।
मृत्योरदितित्वविज्ञानवतोऽवान्तरफलमाह —
सर्वस्येति ।
सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह —
अन्यथेति ।
सर्वरूपेणावस्थानाभावे सर्वान्नभक्षणस्याशक्यत्वादित्यर्थः ।
विरोधमेव साधयति —
न हीति ।
फलस्योपासनाधीनत्वात्प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येयात्मा भूत्वा तत्तद्रूपत्वमापन्नः सर्वस्यान्नस्यात्ता स्यादित्यर्थः ।
अन्नमन्नमेवास्य सदा न कदाचित्तदस्यात्तृ भवतीति वक्तुमनन्तरवाक्यमादत्ते —
सर्वमिति ।
अत एवेत्युक्तं व्यक्तीकरोति —
सर्वात्मनो हीति ॥५॥
उपास्तिविधौ सफले सति समाप्तिरेव ब्राह्मणस्योचिता किमुत्तरग्रन्थेनेत्याशङ्क्य प्रतीकमादाय तात्पर्यमाह —
सोऽकामयतेत्यादिना ।
तदेवाश्वमेधस्याश्वमेधत्वमित्येतदन्तं वाक्यमिदमा निर्दिश्यते । भूयोदक्षिणाकत्वादश्वमेधस्य भूयस्त्वम् । इतिशब्दोऽकामयतेत्यनेन संबध्यते ।
कथं पुनस्तेन यक्ष्यमाणस्य प्रजापतेर्भूयःशब्दोक्तिः । न हि स पूर्वमश्वमेधमन्वतिष्ठत्कर्मानधिकारित्वात्तत्राऽऽह —
जन्मान्तरेति ।
तदेव स्पष्टयति —
स प्रजापतिरिति ।
अथातीते जन्मनि यजमानोऽश्वमेधस्य कर्ताऽभूत् । अधुना हिरण्यगर्भो भूयो यजेयेत्याह । तथा च कर्तृभेदाद्भूयःशब्दसामञ्जस्यमत आह —
स तद्भावेति ।
स प्रजापतिरश्वमेधवासनाविशिष्टो ज्ञानकर्मफलत्वेन कल्पादौ निर्वृत्तो भूयो यजेयेत्याह कर्तृभोक्त्रोरैक्येन साधकफलावस्थयोर्यजमानसूत्रयोर्भेदाभावादित्यर्थः ।
प्रजापतिरीश्वरो न तस्य दुःखात्मकक्रत्वनुष्ठानेच्छा युक्तेत्याशङ्क्य प्रकृतिवशात्तदुपपत्तिमभिप्रेत्याऽऽह —
सोऽश्वमेधेति ।
कथमेतावता विवक्षितास्तुतिः सिद्धेत्याशङ्क्याऽऽह —
एवमिति ।
श्रमकार्यमाह —
स तप इति ।
चक्षुरादीनां यशस्त्वे हेतुमाह —
यशोहेतुत्वादिति ।
तदेव साधयति —
तेषु हीति ।
प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः ।
उक्तमर्थं व्यतिरेकद्वारा स्फोरयति —
न हीति ।
प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति —
तदेवमिति ।
तत्प्राणेष्वित्यादि व्याचष्टे —
तदेवमित्यादिना ।
शरीरान्निर्गतस्य प्रजापतेर्मुक्तत्वमाशङ्क्याऽऽह —
तस्येति ॥६॥
सम्यग्ज्ञानाभावादासंगे सत्यपि न पुनस्तस्मिन्प्रवेशो युक्तः परित्यक्तपरिग्रहायोगादिति शङ्कते —
स तस्मिन्निति ।
अज्ञानवशात्परित्यक्तपरिग्रहोऽपि संभवतीत्याह —
उच्यत इति ।
वीतदेहस्य कामनाऽयुक्तेति शङ्कते —
कथमिति ।
सामर्थ्यातिशयादशरीरस्यापि प्रजापतेस्तदुपपत्तिरिति मन्वानो ब्रूते —
मेध्यमिति ।
कामनाफलमाह —
इति प्रविवेशेति ।
तथापि कथं प्रकृतनिरुक्तिसिद्धिरित्याशङ्क्याऽऽह —
यस्मादिति ।
यच्छब्दो यस्मादिति व्याख्यातः ।
देहस्याश्वत्वेऽपि कथं प्रजापतेस्तथात्वमित्याशङ्क्य तत्तादात्म्यादित्याह —
तत इति ।
अश्वस्य प्रजापतित्वेन स्तुतत्वात्तस्योपास्यत्वं फलतीति भावः ।
तथापि कथमश्वमेधनामनिर्वचनमित्याशङ्क्याऽऽह —
यस्माच्चेति ।
क्रतोस्तदात्मकस्य प्रजापतेरिति यावत् । देहो हि प्राणवियोगादश्वयत्पुनस्तत्प्रवेशाच्च मेधार्होऽभूदतः सोऽश्वमेधस्तत्तादात्म्यात्प्रजापतिरपि तथेत्यर्थः ।
ननु प्रजापतित्वेनाश्वमेधस्य स्तुतिर्नोपयोगिनी, अग्नेरुपास्यत्वेन प्रस्तुतत्वात्क्रतूपासनाभावादत आह —
क्रियेति ।
ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह —
क्रतुनिर्वर्तकस्येति ।
उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।
अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —
तस्यैवेति ।
य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह —
पूर्वत्रेति ।
यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।
तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति —
एष इति ।
यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् ।
विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह —
तस्मादिति ।
अश्वमेधो विशेष्यत्वेन संबध्यते ।
एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह —
कथमिति ।
एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —
तत्रेत्यादिना ।
उपास्तिविधिप्रस्तावः सप्तम्यर्थः ।
कथं नु पशुविषयं दर्शनं तद्दर्शयति —
तत्रेति ।
एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।
अथ विवक्षितविधिमभिदधाति —
यस्माच्चेति ।
प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह —
अत एवेति ।
प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः ।
उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —
एष इति ।
द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः ।
विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह —
कोऽसाविति ।
क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —
तस्यास्येति ।
आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः ।
क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह —
तस्यैवेति ।
ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह —
तस्य चेति ।
तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह —
तथा चेति ।
तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः ।
अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह —
ताविति ।
यथाविशेषितत्वमादित्यरूपत्वम् ।
कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह —
क्रियात्मक इति ।
तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह —
क्रतुसाध्यत्वादिति ।
नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —
क्रतुसाध्यत्वादिति ।
नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —
ताविति ।
क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः ।
एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते —
का सेति ।
कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह —
पूर्वमपीति ।
उक्तेऽर्थे वाक्योपक्रममनुकूलयति —
तथा चेति ।
पुनरित्यादेरर्थं निगमयति —
सा पुनरिति ।
ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —
यः पुनरिति ।
एकत्वमभिन्नत्वम् ॥७॥