आनन्दगिरिटीका (बृहदारण्यक)
द्वितीयोऽध्यायः: प्रथमं ब्राह्मणम् (२)
श्रुतेरनाक्षेपत्वे त्वदीयं चोद्यं निरवकाशमित्याह —
किं तर्हीति ।
तस्य सावकाशत्वं पूर्ववादी साधयति —
द्वितीयस्येति ।
पूर्ववादिन्यपादानादर्थान्तरे पञ्चम्याः शुश्रूषमाणे सत्येकदेशी ब्रवीति —
एवं तर्हीति ।
कथमन्यार्थत्वं तदाह —
अस्त्विति ।
तर्हि तस्यामपादानार्थत्वेन पुनरुक्तत्वामवस्थायामित्यर्थः ।
एकदेशिनं पूर्ववादी दूषयति —
नेति ।
अपादानार्थतावदित्यपेरर्थः ।
तदेव सफुटयति —
आत्मनश्चेति ।
जगतः सर्वस्य चेतनस्याचेतनस्य चेति वक्तुं चशब्दः ।
तर्हि भवत्वपादानार्था पञ्चमीत्याशङ्क्य पूर्ववादी पूर्वोक्तं स्मारयति —
नन्विति ।
सर्वाविद्यातज्जनिर्मुक्तं प्रत्यगद्वयं ब्रह्म प्रश्नद्वयव्याजेन प्रतिपिपादयिषितमिति न पुनरुक्तिरिति सिद्धान्ती स्वाभिसन्धिमुद्घाटयति —
नैष देष इति ।
यथोक्तं वस्तु प्रश्नाभ्यां विवक्षितमिति कुतो ज्ञातमित्याशङ्क्य तद्वक्तुं तार्तीयमर्थमनुवदति —
इह हीति ।
विद्याविषयनिर्णयस्य कर्तव्यत्वमत्र न प्रतिभातीत्याशङ्क्याऽऽह —
तन्निर्णयाय चेति ।
अन्यथा प्रक्रमभङ्गः स्यादिति भावः ।
किं तद्याथात्म्यं तदाह —
तस्य चेति ।
कथं यथोक्तयाथात्म्यव्याख्यानोपयोगित्वं प्रश्नयोरित्याशङ्क्य तयोः श्रौतमर्थमाह —
तत्रेति ।
प्रश्नप्रवृत्तिमुक्त्वा प्रतिवचनप्रवृत्तिमाह —
सेति ।
निवर्तयितव्येति तत्प्रवृत्तिरिति शेषः ।
संप्रति प्रतिवचनयोस्तात्पर्यमाह —
नायमिति ।
स्वात्मन्येवाभूदित्यत्र प्रमाणमाह —
स्वात्मानमिति ।
सुषुप्तौ स्वात्मन्येव स्थितिरतःशब्दार्थः ।
प्रबोधदशायामात्मन एवाऽऽगमनापादानत्वमित्यत्र मानत्वेनान्तरश्रुतिमुत्थापयति —
तच्छ्रुत्यैवेति ।
स्थित्यागत्योरात्मन एवावधित्वमित्यत्रोपपत्तिमाह —
आत्मेति ।
वस्त्वन्तराभावस्यासिद्धिं शङ्कित्वा दूषयति —
नन्वित्यादिना ॥१९॥
क्रियावतो मृदादेर्घटाद्युत्पत्तिदर्शनाद्ब्रह्मणोऽक्रियात्वात्ततो न प्राणाद्युत्पत्तिरिति शङ्कते —
तत्कथमिति ।
सृष्टेर्मायामयत्वमाश्रित्य श्रुत्या परिहरति —
उच्यत इति ।
स्वात्माप्रविभक्तेनेत्युक्तमन्वयं व्यतिरेकद्वारा स्फोरयति —
न चेति ।
असहायस्य कारणत्वे दृष्टान्तमुक्त्वा कूटस्थस्य तद्भावे दृष्टान्तमाह —
यथाचेति ।
माध्यन्दिनश्रुतिमाश्रित्याह —
सर्व एत इति ।
तस्येत्याद्यवतार्य व्याचष्टे —
यस्मादित्यादिना ।
ननु प्रत्यग्भूतस्य ब्रह्मणो वाचकेषु शब्दान्तरेष्वपि सत्सु किमित्येतच्छब्दविषयमादरणं क्रियत तत्राऽऽह —
शास्त्रेति ।
ब्राह्मणवाक्यार्थोऽपि कथं निश्चीयतामित्याशङ्क्याऽऽह —
एतस्येति ।
उक्तमङ्गीकृत्य विशेषदृष्ट्या संशयानो विचारं प्रस्तौति —
भवत्विति ।
सन्दिग्धं सप्रयोजनं च विचार्यमिति न्यायेन सन्देहमुक्त्वा विचारप्रयोजकं प्रयोजनं पृच्छति —
किञ्चात इति ।
कस्मिन्पक्षे किं फलतीति पृष्टे प्रथमपक्षमनूद्य तस्मिन्फलमाह —
यदीति ।
यद्विज्ञानान्मुक्तिस्तस्यैव ज्ञेयता न जीवस्येत्याशङ्क्याऽऽह —
तद्विज्ञानादिति ।
ब्रह्मज्ञानादेव सा न संसारिज्ञानादित्याशङ्क्याऽऽह —
स एवेति ।
तद्विद्या ब्रह्मविद्या तदेव ब्रह्म न संसारीत्याशङ्क्याऽऽह —
तद्विद्यैवेति ।
आद्यकल्पीयफलसमाप्तावितिशब्दः ।
पक्षान्तरमनूद्य तस्मिन्फलमाह —
अथेत्यादिना ।
किमत्र नियामकमित्याशङ्क्य ब्रह्म वा इदमित्यादि शास्त्रमित्याह —
सर्वमेतदिति ।
ब्रह्मोपनिषत्पक्षे शास्त्रप्रामाण्यात्सर्वं समञ्जसं चेत्तथैवास्तु किं विचारेणेत्याशङ्क्य जीवब्रह्मणोर्भेदोऽभोदो वेति विकल्प्याऽऽद्ये दोषमाह —
किन्त्विति ।
अभेदपक्षं दूषयति —
संसारिणश्चेति ।
उपेदेशानर्थक्यादभेदपक्षानुपपत्तिरिति शेषः ।
विशेषानुपलम्भस्य संशयहेतुत्वमनुवदति —
यत इति ।
पक्षद्वये फलप्रतीतिं परामृशति —
एवमिति ।
अन्वयव्यतिरेककौशलं पाण्डित्यम् । एतदित्यैकात्म्योक्तिः । महत्त्वं मोहस्य विचारोत्थनिर्णयं विनाऽनुच्छिन्नत्वम् । तस्य स्थानमालम्बनं केनापि नोक्तं प्रतिवचनं यस्य किं तदैकात्म्यमिति प्रश्नस्य तस्य विषयभूतमिति यावत् । न हि येन केनचिदैकात्म्यं प्रष्टुं प्रतिवक्तुं वा शक्यते । ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिश्रुतेरित्यर्थः ।
विचारप्रयोजकमुक्त्वा तत्कार्यं विचारमुपसंहरति —
अत इति ।
संशयादिना विचारकार्यतामवतार्य पूर्वपक्षयति —
न तावदिति ।
जगत्कर्ता हीश्वरो विवक्ष्यते प्रकृते च सुषुप्तिविशिष्टाज्जीवाज्जगज्जन्मोच्यते तस्मादीश्वरो जीवादतिरिक्तो नास्तीत्यर्थः ।
तदेव प्रपञ्चयति —
नेत्यादिना ।
प्रकृतेऽपि जीवे जगत्कारणत्वमीश्वरस्यैवात्र श्रुतमित्याशङ्क्याऽऽह —
न चेति ।
तत्र प्रकरणविरोधं हेतुमाह —
विज्ञानेति ।
श्रुत्यन्तरवशादपि जीव एवात्र जगत्कर्तेत्याह —
समानप्रकरणे चेति ।
श्रुत्यन्तरस्य च जीवविषयत्वं जगद्वाचित्वाधिकरणपूर्वपक्षन्यायेन द्रष्टव्यम् ।
वाक्यशेषवशादपि जीवस्यैव वेदितव्यत्वं वाक्यान्वयाधिकरणपूर्वपक्षन्यायेन दर्शयति —
तथा चेति ।
जीवातिरिक्तस्य परस्य वेदितव्यस्याभावे पूर्वोत्तरवाक्यानामानुकूल्यं हेत्वन्तरमाह —
तथा चेत्यादिना ।
इतश्च जीवस्यैव वेद्यतेत्याह —
सर्वेति ।
तत्रैव हेत्वन्तरमाह —
तथेति ।
स वै वेदितव्य इत्यत्र न स्पष्टं जीवस्य वेदितव्यत्वमिह तु स्पष्टमिति भेदः ।
स्वापावस्थाज्जीवाज्जगज्जन्मश्रुतेस्तस्यैव वेद्यत्वदृष्टेश्च जगद्धेतुरीश्वरो वेदान्तवेद्यो नास्तीत्युक्ते सेश्वरवादी चोदयति —
अवस्थान्तरेति ।
चोद्यमेव विवृणोति —
अथापीति ।
उक्तोपपत्तिसत्त्वेऽपीति यावत् ।
नावस्थाभेदाद्वस्तुभेदस्तथाऽननुभवादपराद्धान्ताच्चेति परिहरति —
नादृष्टत्वादिति ।
अवस्थाभेदाद्वस्तुभेदाभावं दृष्टान्तेन स्पष्टयति —
नहीति ।
तत्रैव हेत्वन्तरमाह —
न्यायाच्चेति ।
जागरादिविशिष्टस्यैव स्वापवैशिष्ट्यात्तस्य संसारित्वान्नेश्वरोऽन्योऽस्तीत्युक्त्वा तदभावे वादिसंमतिमाह —
तथा चेति ।
आदिशब्दो लोकायतादिसमस्तनिरीश्वरवादिसंग्रहार्थः —
युक्तिशतैरिति ।
तस्य देहित्वेऽस्मदादितुल्यत्वात्तदभावे मुक्तवज्जगत्कर्तृत्वायोगाज्जीवानामेवादृष्टद्वरा तत्कर्तृत्वसंभवात्तस्याकिञ्चित्करत्वमित्यादिभिरित्यर्थः ।
जीवो जगज्जन्मादिहेतुर्न भवति तत्रासमर्थत्वापाषाणवत्तच्च संसारित्वादिति शङ्कते —
संसारिणोऽपीति ।
ईश्वरस्येवेत्यपेरर्थः । अयुक्तं प्राणादिकर्तृत्वमिति शेषः ।
संग्रहवाक्यं विवृणोति —
यन्महतेत्यादिना ।
कालात्ययापदेशेन दूषयति —
न शास्त्रादिति ।
निरीश्वरवादमुपसंहरति —
तस्मादिति ।
सेश्वरवादमुत्थापयति —
यः सर्वज्ञ इत्यादिना ।
तान्पृथिव्याद्यभिमानिनः पुरुषान्निरुह्योत्पाद्य योऽतिक्रान्तवान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशिष्टज्ञानपूर्वकं प्रासादादौ तथोपलम्भादित्यादिः ।
प्रकरणमनुसृत्य जीवस्य प्राणादिकारणत्वमुक्तं स्मारयति —
नन्विति ।
नेदं जीवस्य प्रकरणमिति परिहरति —
नेत्यादिना ।
प्रतिवचनस्थाकाशशब्दस्य परविषयत्वमसिद्धमित्याङ्क्याऽऽह —
क्वैष इति ।
इतश्चाकाशशब्दस्य परमात्मविषयतेत्याह —
दहरोऽस्मिन्निति ।
य आत्माऽपहतपाप्मेत्यात्मशब्दप्रयोगः ।
प्रतिवचने परस्याऽऽकाशशब्दवाच्यत्वे फलितमाह —
प्रकृत एवेति ।
तस्य प्रकृतत्वे लब्धमर्थमाह —
तस्मादिति ।
इतश्च परस्मादेव प्राणादिसृष्टिरित्याह —
संसारिण इति ।
यन्महता प्रपञ्चेनेत्यादाविति शेषः ।
अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्येयमुपनिषदिति सिद्धान्तमाशङ्क्य दूषयति —
अत्र चेति ।
तृतीयोऽध्यायः सप्तम्यर्थः ।
का पुनः सा ब्रह्मविद्येति तत्राऽऽह —
ब्रह्मविषयञ्चेति ।
इति ब्रह्मविद्यां प्रसिद्धमिति शेषः ।
चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह —
ब्रह्मेति ।
सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीवब्रह्मणोरभेदादित्याशङ्क्याऽऽह —
तत्रेति ।
ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरुद्धत्वप्रतीत्यवस्थायामित्येतत् । अन्योन्यविरुद्धत्वं तच्छब्दार्थः ।
विपक्षे दोषमाह —
परमिति ।
कथं तर्हीश्वरे मतिं कुर्यादित्याशङ्क्य स्वामित्वेनेत्याह —
तस्मादिति ।
आदिपदं प्रदक्षिणादिसंग्रहार्थम् ।
ऐकात्म्यशास्त्रादात्ममतिरेव ब्रह्मणि कर्तव्येत्याशङ्क्याऽऽह —
न पुनरिति ।
का तर्हि शास्त्रगतिस्ताऽऽह —
ब्रह्मेति ।
मुख्यार्थत्वसंभवे किमित्यर्थवादतेत्याशङ्क्याऽऽह —
सर्वेति ।
संसारित्वासंसारित्वादिना मिथो विरुद्धयोर्जीवेश्वरयोः शीतोष्णवदैक्यानुपपत्तिर्न्यायः ।
विज्ञानात्मविषयत्वं तटस्थेश्वरविषयत्वं चोपनिषदो निवारयन्परिहरति —
नेत्यादिना ।
परस्यैव प्रवेशादिमन्त्रब्राह्मणवादानुदाहरति —
पुर इत्यादिना ।
यत्त्वहं ब्रह्मेति न गृह्णीयादिति तत्राऽऽह —
सर्वश्रुतिषु चेति ।
शास्त्रीयमप्येकत्वमनिष्टप्रसंगान्न स्वीकर्तव्यमिति शङ्कते —
यदेति ।
परस्य संसारित्वे तदसंसारित्वशास्त्रानर्थक्यं फलितमाह —
तथा चेति ।
संसारिणोऽनन्यस्यापि परस्यासंसारित्वे संसारित्वाभिमतोऽप्यसंसारीत्युपदेशानर्थक्यं तं विनैव मुक्तिसिद्धिरिति दोषान्तरमाह —
असंसारित्वे चेति ।
तत्राऽऽद्यं दोषं विवृणोति —
यदि तावदिति ।
‘न लिप्यते लोकदुःखेन बाह्य’ इत्याद्याः श्रुतयः । ‘यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते’(भ.गी.१८-१७) इत्याद्याः स्मृतयः । कूटस्थासंगत्वादयो न्यायाः ।
द्वितीयं दोषप्रसंगमापाद्य प्रकटयति —
अथेत्यादिना ।
दोषद्वये स्वयूथ्यसमाधिमुत्थापयति —
अत्रेति ।
कथं तर्हि तस्य कार्ये प्रविष्टस्य जीवत्वं तत्राऽऽह —
किं तर्हीति ।
जीवस्य ब्रह्मविकारत्वेऽपि ततो भेदान्नाहं ब्रह्मेति धीः अभेदे ब्रह्मणोऽपि संसारितेत्याशङ्क्याऽऽह —
स चेति ।
तथाऽपि कथं शङ्कितदोषाभावस्तत्राऽऽह —
येनेति ।
एवमिति भिन्नाभिन्नत्वपरामर्शः । सर्वमित्युपदेशादिनिर्देशः ।
एकदेशिमतं निराकर्तुं विकल्पयति —
तत्रेति ।
एता गतय इत्येते पक्षा वक्ष्यमाणाः संभवन्ति न गत्यन्तरमित्यर्थः ।
यथा पृथिवीशब्दितं द्रव्यमनेकावयवसमुदायस्तथा भूतभौतिकात्मकानेकद्रव्यसमुदायः सावयवः परमात्मा तस्यैकदेशश्चैतन्यलक्षणस्तद्विकारो जीवः पृथिव्येकदेशमृद्विकारघटशरावादिवदित्येकः कल्पः । यथा भूमेरूषरादिदेशो नखकेशादिर्वा पुरुषस्य विकारस्तथाऽवयविनः परस्यैकदेशविकारो जीव इति द्वितीयः कल्पः । यथा क्षीरं स्वर्णं वा सर्वात्मना दधिरुचकादिरूपेण परिणमते तथा कृत्स्न एव परो जीवभावेन परिणमेदिति कल्पान्तरम् । तत्राऽऽद्यमनूद्य दूषयति —
तत्रेत्यादिना ।
नानाद्रव्याणां समाहारो वा तानि वाऽन्योन्यापेक्षाणि परश्चेन्न तस्यैक्यं स्यान्नहि बहूनां मुख्यमैक्यं समाहारस्य च समुदायापरपर्यायस्य समुदायिभ्यो भेदाभेदाभ्यां दुर्भणत्वेन कल्पितत्वादित्यर्थः ।
तर्हि ब्रह्मणो मुख्यमैक्यं मा भूत्तत्राऽऽह —
तथा चेति ।
न हि तन्नानात्वं कस्यापि सम्मतमिति भावः ।
द्वितीयमनूद्य निराकरोति —
अथेत्यादिना ।
सर्वदैव पृथगवस्थितेष्ववयवेषु जीवेष्वनुस्यूतश्चेतनोऽवयवी परश्चेत्तर्हि यथा प्रत्यवयवं मलसंसर्गे देहस्य मलिनत्वं तथा परस्य जीवगतैर्दुःखैर्महद्दुःखं स्यादिति प्रथमकल्पनाद्द्वितीयाऽपि कल्पना न युक्तेत्यर्थः ।
तृतीयं प्रत्याह —
क्षीरवदिति ।
‘न जायते म्रियते वा विपश्चित्’ इत्याद्याः श्रुतयः । ‘न जायते म्रियते वा कदाचित्’(भ. गी. २ । २०) इत्याद्याः स्मृतयः ।
श्रुत्यादिकोपस्येष्टत्वमाशङ्क्य वैदिकं प्रत्याह —
स चेति ।
श्रुतिस्मृती विवेचयन्पक्षत्रयसाधारणं दूषणमाह —
निष्कलमित्यादिना ।
कूटस्थस्य निरवयवस्य कार्त्स्नैकदेशाभ्यां परिणामासंभवो न्यायः ।
जीवस्य परमात्मैकदेशत्वे दोषान्तरमाह —
अचलस्येति ।
एकदेशस्यैकदेशिव्यतिरेकेणाभावाज्जीवस्य स्वर्गादिषु गत्यनुपपत्तिरित्युक्तमन्यथा परस्यापि गतिः स्यान्नहि पटावयवेषु चलत्सु पटो न चलतीत्याह —
परस्य वेति ।
उक्तं यदि तावत्परमात्मेत्यादाविति शेषः ।
जीवस्य संसारित्वेऽपि परस्य तन्नास्तीति शङ्कते —
परस्येति ।
परस्य निरवयवत्वश्रुतेरवयवस्फुटनानुपपत्तिं मन्वानो दूषयति —
तथाऽपीति ।
यत्र परस्यावयवः स्फुटयति तत्र तस्य क्षत्तं प्राप्नोति तदीयावयवसंसरणे च परमात्मनः प्रदेशान्तरेऽवयवानां व्यूहे सत्युपचयः स्यात्तथा च परस्यावयवा यतो निर्गच्छन्ति तत्र च्छिद्रताप्राप्तिर्यत्र च ते गच्छन्ति तत्रोपचयः स्यादित्यकायमव्रणमस्थूलमनण्वह्रस्वमित्यादिवाक्यविरोधो भवेदित्यर्थः ।
परस्यैकदेशो विज्ञानमात्मेति पक्षे दुःखित्वमपि तस्य दुर्वारमापतेदिति दोषान्तरमाह —
आत्मावयवेति ।
मृल्लोहविस्फुलिङ्गदृष्टान्तश्रुतिवशात्परस्यावयवा जीवाः सिध्यन्तीत्यतो जीवानां परैकदेशत्वे नोक्तो दोषोऽवतरति युक्त्यपेक्षया श्रुतेर्बलवत्त्वादिति शङ्कते —
अग्निविस्फुलिङ्गादीति ।
शास्त्रार्थो युक्तिविरुद्धो न सिध्यतीति दूषयति —
न श्रुतेरिति ।
नञर्थं विवृणोति —
न शास्त्रमिति ।
हेतुभागमाकाङ्क्षापूर्वकं विभजते —
किं तर्हीति ।
स्मृत्यादिव्यावृत्त्यर्थमज्ञातानामित्युक्तम् ।
अस्तु शास्त्रमज्ञातार्थज्ञापकं तथाऽपि परस्य नास्ति सावयवत्वमित्यत्र किमायातमिति पृच्छति —
किञ्चात इति ।
शास्त्रस्य यथोक्तस्वभावत्वे यत्परस्य निरवयवत्वं फलति तदुच्यमानं समाहितेन श्रोतव्यमित्याह —
शृण्विति ।
तत्र प्रथमं लोकाविरोधेन शास्त्रप्रवृत्तिं दर्शयति —
यथेति ।
आदिपदेन भावाभावादि गृह्यते । पदार्थेष्वेव भोक्तृपारतन्त्र्याद्धर्मशब्दः तेषां लोकप्रसिद्धपदार्थानां दृष्टान्तानामुपन्यासेनेति यावत् । तदविरोधि लोकप्रसिद्धपदार्थाविरोधीत्यर्थः । वस्त्वन्तरं निरवयवादि दार्ष्टान्तिकम् ।
तदविरोध्येवेत्येवकारस्य व्यावर्त्यमाह —
न लौकिकेति ।
विपक्षे दोषमाह —
उपादीयमानोऽपीति ।
सामान्येनोक्तमर्थं दृष्टान्तविशेषनिविष्टतया स्पष्टयति —
न हीति ।
अग्नेरुष्णत्वमादित्यस्य तापकत्वमन्यथेत्युच्यते ।
ननु लौकिकं प्रमाणं लौकिकपदार्थाविरुद्धमेव स्वार्थं समर्पयति वैदिकं पुनरपौरुषेयं तद्विरुद्धमपि स्वार्थं प्रमापयेदलौकिकविषयत्वादत आह —
न चेति ।
ननु श्रुतेरज्ञातज्ञापकत्वे लोकानपेक्षत्वात्तद्विरोधेऽपि का हिनिस्तत्राऽऽह —
न चेति ।
लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधक इति न्यायात्तदनपेक्षा श्रुतिर्नाज्ञातं ज्ञपयितुमलमित्यर्थः ।
शास्त्रस्य लोकानुसारित्वे सिद्धे फलितमाह —
तस्मादिति ।
प्रसिद्धो न्यायो लौकिको दृष्टान्तः । न हि नित्यस्याऽऽकाशादेः सावयवत्वं परश्च नित्योऽभ्युपगतस्तन्न तस्य सावयवत्वेनांशांशित्वकल्पना वस्तुतः संभवति लोकविरोधादित्यर्थः ।
जीवस्य परांशत्वानङ्गीकारे श्रुतिस्मृत्योर्गतिर्वक्तव्येति शङ्कते —
क्षुद्रा इति ।
तयोर्गतिमाह —
नेत्यादिना ।
विस्फुलिङ्गे दर्शितं न्यायं सर्वत्रांशमात्रेऽतिदिशति —
तथा चेति ।
दृष्टान्ते यथोक्तनीत्या स्थिते दार्ष्टान्तिकमाह —
तत्रेति ।
परमात्मना सह जीवस्यैकत्वविषयं प्रत्ययमाधातुमिच्छन्तीति तथोक्ताः ।
तेषामेकत्वप्रत्ययावतारहेतुत्वे हेत्वन्तरं संगृह्णाति —
उपक्रमेति ।
तदेव स्फुटयति —
सर्वासु हीति ।
उक्तमर्थमुदाहरणनिष्ठतया विभजते —
तद्यथेति ।
इहेति प्रकृतोपनिषदुक्तिः । आदिशब्देनांशांशित्वादि गृह्यते ।
विवृतं संग्रहवाक्यमुपसंहरति —
तस्मादिति ।
तेषां स्वार्थनिष्ठत्वे दोषं वदन्नेकत्वप्रत्ययार्थत्वे हेत्वन्तरमाह —
अन्यथेति ।
‘संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्येते’ इति न्यायेनोक्तं प्रपञ्चयति —
सर्वोपनिषत्स्विति ।
किञ्च तेषां स्वार्थनिष्ठत्वे श्रुतफलाभावात्फलान्तरं कल्पनीयम् । न चैकत्वप्रत्ययविषयतया तत्फले निराकाङ्क्षेषु तेषु तत्कल्पना युक्ता ।
दृष्टे सत्यदृष्टकल्पनानवकाशादित्याह —
फलान्तरञ्चेति ।
उत्पत्त्यादिश्रुतीनां स्वार्थनिष्ठत्वासंभवे फलितमुपसंहरति —
तस्मादिति ।
तत्त्वमस्यादिवाक्यमैक्यपरं तच्छेषः सृष्ट्यादिवाक्यमित्युक्तेऽर्थे द्रविडाचार्यसम्मतिमाह —
अत्र चेति ।
तत्र दृष्टान्तरूपामाख्यायिकां प्रमाणयति —
कश्चिदिति ।
जातमात्रे प्रागवस्थायामेव राजाऽसीत्यभिमानाभिव्यक्तेरित्यर्थः । ताभ्यां तत्परित्यागे निमित्तविशेषस्यानिश्चितत्वद्योतनार्थं किलेत्युक्तम् । व्याधिजाति प्रत्ययः तत्प्रयुक्तो व्याधोऽस्मीत्यभिमानो यस्य स तथा व्याधजातकर्माणि तत्प्रयुक्तानि मांसविक्रयणादीनि । राजाऽस्मीत्यभिमानपूर्वकं तज्जातिप्रयुक्तानि परिपालनादीनि कर्माणि ।
अज्ञानं तत्कार्यं चोक्त्वा ज्ञानं तत्फलं च दर्शयति —
यदेत्यादिना ।
बोधनप्रकारमभिनयति —
न त्वमिति ।
कथं तर्हि शबरवेश्मप्रवेशस्तत्राऽऽह —
कथञ्चिदिति ।
राजाऽहमस्मीत्यभिमानपूर्वकमात्मनः पितृपैतामहीं पदवीमनुवर्तत इति संबन्धः ।
दार्ष्टान्तिकरूपामाख्यायिकामाचष्टे —
तथेति ।
जीवस्य परस्माद्विभागे निमित्तमज्ञानं तत्कार्यञ्च प्रसिद्धमिति द्योतयितुं किलेत्युक्तम् ।
संसारधर्मानुवर्तने हेतुमाह —
परमात्मतामिति ।
उक्ताविद्यातत्कार्यविरोधिनीं ब्रह्मात्मविद्यां लम्भयति —
न त्वमिति ।
राजपुत्रस्य राजाऽस्मीति प्रत्ययवद्वाक्यादेवाधिकारिणि ब्रह्मास्मीति प्रत्ययश्चेत्कृतं विस्फुलिङ्गादिदृष्टान्तश्रुत्येत्याशङ्क्याऽऽह —
अत्रेति ।
तथाऽपि कथं ब्रह्मप्रत्ययदार्ढ्यं तत्राऽऽह —
विस्फुलिङ्गस्येति ।
दृष्टान्तेष्वेकत्वदर्शनं तस्मादिति परामृष्टम् ।
उत्पत्त्यादिभेदे नास्ति शास्त्रतात्पर्यमित्यत्र हेत्वन्तरमाह —
सैन्धवेति ।
चकारोऽवधारणादिति पदमनुकर्षति ।
संगृहीतमर्थं विवृणोति —
यदि चेत्यादिना ।
निन्दावचनं च न प्रायोक्ष्यतेति संबन्धः ।
एकत्वस्यावधारणफलमाह —
तस्मादिति ।
एकत्वस्य भेदसहत्वं वारयितुमेकरूपविशेषणम् । आदिशब्देन प्रवेशनियमने गृह्येते । न तत्प्रत्ययकरणायेत्यत्र तच्छब्देनोत्पत्त्यादिभेदो विवक्षितः ।
किञ्च परस्यैकदेशो विज्ञानात्मेत्यत्र तदेकदेशः स्वाभाविको वा स्यादौपाधिको वेति विकल्प्याऽऽद्यं दूषयति —
न चेति ।
विपक्षे दोषमाह —
अदेशस्येति ।
द्वितीयमुत्थपयति —
अथेति ।
एकदेशस्यौपाधिकत्वपक्षे परस्मिन्विवेकवतां तदखण्डत्वबुद्धिभाजां तदेकदेशो वस्तुतः पृथग्भूत्वा व्यवहारालम्बनमिति नैव बुद्धिर्जायत औपाधिकस्य स्फटिकलौहित्यवन्मिथ्यात्वादित्युत्तरमाह —
न तदेति ।
ननु जीवे कर्ताऽहं भोक्ताऽहमिति परिच्छिन्नधीः सर्वेषामुपलभ्यते । सा च तस्य वस्तुतोऽपरिच्छिन्नब्रह्ममात्रत्वान्मञ्चक्रोशनधीवदुपचरिता । तस्मादुभयेषामुक्तात्मबुद्धिदर्शनात्मपरमात्मैकदेशत्वं जीवस्य दुर्वारमिति चोदयति —
अविवेकिनामिति ।
तत्राविवेकिनां यथोक्ता बुद्धिरुपचरिता न भवत्यतस्मिंस्तद्बुद्धित्वेनाविद्यात्वादिति परिहरति —
नेत्यादिना ।
तथाऽपि विवेकिनामीदृशधीरुपचरितेति चेत्तत्राऽऽह —
विवेकिनाञ्चेति ।
तेषां संव्यवहारोऽभिज्ञाभिवदनात्मकस्तावन्मात्रस्याऽऽलम्बनमाभासभूतोऽर्थस्तद्विषयत्वात्तद्बुद्धेरपि मिथ्याबुद्धित्वादुपचरितत्वासिद्धिरित्यर्थः ।
विवेकिनामविवेकिनाञ्चाऽऽत्मनि परिच्छिन्नधीरुपलब्धेत्येतावता न तस्य वस्तुतो ब्रह्मांशत्वादि सिध्यतीत्येतद्दृष्टान्तेन साधयति —
यथेति ।
अविवेकिनामिवेत्यपेरर्थः ।
ब्रह्मणि वस्तुतोंऽशादिकल्पना न कर्तव्येति दार्ष्टान्तिकमुपसंहरति —
अत इति ।
अंशांशिनोर्विशदीकरणमेकदेशैकदेशीति ।
अतःशब्दोपात्तमेव हेतुं स्फुटयति —
सर्वकल्पनेति ।
सर्वासां कल्पनानामपनयनमेवार्थः सारत्वेनाभीष्टस्तत्परत्वादुपनिषदां तदेकसमाधिगम्ये ब्रह्मणि न कदाचिदपि कल्पनाऽस्तीत्यर्थः ।
उपनिषदां निर्विकल्पकवस्तुपरत्वे फलितमाह —
अतो हित्वेति ।
ब्रह्मणो निर्विशेषत्वेऽप्यात्मनस्तदेकदेशस्य सविशेषत्वं किं न स्यादित्याशङ्क्याऽऽह —
नाऽऽत्मानमिति ।
आत्मा निर्विशेषश्चेत्कथं तस्मिन्व्यवहारत्रयमित्याशङ्क्याऽऽह —
तस्मादिति ।
आत्मनि सर्वो व्यवहारो नामरूपोपाधिप्रयुक्त इत्यत्र प्रमाणमाह —
रूपं रूपमिति ।
असंसारधर्मिणीत्युक्तं विशेषणं विशदयति —
न स्वत इति ।
भ्रान्त्या संसारित्वमात्मनीत्र मानमाह —
ध्यायतीति ।
कूटस्थत्वासंगत्वादिर्न्यायः । परमात्मनः सांशत्वपक्षो निराकृतः ।
ननु तस्य निरंशत्वेऽपि कुतो जीवस्य तन्मात्रत्वं तदेकदेशत्वादिसंभवादत आह —
एकदेश इति ।
कथं तर्हि ‘पादोऽस्य विश्वा भूतानि’(ऋ. १० । ८ । ९० । ३) ‘ममैवांशो जीवलोके’(भ. गी. १५ । ७) ‘अंशो नानाव्यपदेशात्’(ब्र. सू. २-३-४२.) ‘ सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुतिस्मृतिवादास्तत्राऽऽह —
अंशादीति ।
न्यायागमाभ्यां जीवेश्वरयोरंशांशित्वादिकल्पनां निराकृत्य वेदान्तानामैक्यपरत्वे स्थिते सति द्वैतासिद्धिः फलतीत्याह —
सर्वोपनिषदामिति ।
एकत्वज्ञानस्य सनिदानद्वैतध्वंसित्वमथशब्दार्थः । प्रकृतं ज्ञानं तत्पदेन परामृश्यते । इत्यद्वैतमेव तत्त्वमिति शेषः ।
किमर्थमिति प्रश्नं मन्वानो द्वैतिनां मतमुत्थापयति —
कर्मकाण्डेति ।
वेदान्तानामैक्यपरत्वेऽपि कथं तत्प्रामाण्यविरोधप्रसंगस्तत्राऽऽह —
कर्मेति ।
तथाऽपि कथं विरोधावकाशः स्यादित्याशङ्क्याऽऽह —
विज्ञानात्मेति ।
केवलाद्वैतपक्षे कर्मकाण्डविरोधमुक्त्वा तत्रैव ज्ञानकाण्डविरोधमाह —
कस्य वेति ।
परस्य नित्यमुक्तत्वादन्यस्य स्वतः परतो वा बद्धस्याभावाच्छिष्याभावस्तथा चाधिकार्यभावादुपनिषदारम्भासिद्धिरित्यर्थः ।
कर्मकाण्डास्य काण्डान्तरस्य च प्रामाण्यानुपपत्तिर्विज्ञानात्माभेदं कल्पयतीत्यर्थापत्तिद्वयमुक्तं तत्र द्वितीयामर्थापत्तिं प्रपञ्चयति —
अपि चेति ।
का पुनरुपदेशस्यानुपपत्तिस्तत्राऽऽह —
बद्धस्येति ।
तदभाव इत्यत्र तच्छब्दो बद्धमधिकरोति । निर्विषयं निरधिकारम् । किञ्च यद्यर्थापत्तिद्वयमुक्त्वा विधयोत्तिष्ठति तर्हि भेदस्य दुर्निरूपत्वात्कथं कर्मकाण्डं प्रमाणमिति यद्ब्रह्मवादिना कर्मवादी चोद्यते तद्ब्रह्मवादस्य कर्मवादेन तुल्यम् । ब्रह्मवादेऽपि शिष्यशासित्रादिभेदाभावे कथमुपनिषत्प्रामाण्यमित्याक्षेप्तुं सुकरत्वाद्यश्चोपनिषदां प्रतीयमानं शिष्यशासित्रादिभेदमाश्रित्य प्रामाण्यमिति परिहारः स कर्मकाण्डस्यापि समानः ।
तत्रापि प्रातीतिकभेदमादाय प्रामाण्यस्य सुप्रतिपन्नत्वात् न च भेदप्रतीतिर्भ्रान्तिर्बाधाभावादित्यभिप्रेत्याऽऽह —
एवं तर्हीति ।
चोद्यसाम्यं विवृणोति —
येनेति ।
इति चोद्यसाम्यात्परिहारस्यापि साम्यमिति शेषः ।
ननु कर्मकाण्डं भेदपरं ब्रह्मकाण्डमभेदपरं प्रतिभाति न च वस्तुनि विकल्पः संभवत्यतोऽन्यतरस्याऽप्रामाण्यमत आह —
एवं तर्हीति ।
तुल्यमुपनिषदामपि स्वार्थाविघातकत्वमित्याशङ्क्याऽऽह —
उपनिषदामिति ।
स्वार्थः शब्दशक्तिवशात्प्रतीयमानः सृष्ट्यादिभेदः ।
यत्तूच्यते कर्मकाण्डस्य व्यावहारिकं प्रामाण्यं न तात्त्विकम् , तात्त्विकं तु काण्डान्तरस्येति तत्राऽऽह —
न हीति ।
यद्धि प्रामाण्यस्य व्यावहारिकत्वं तदेव तस्य तात्त्विकत्वं न हि प्रमाणं तत्त्वं च नाऽऽवेदयति व्याघातादित्यभिप्रेत्य दृष्टान्तमाह —
न हीति ।
स्वार्थविघातात्कर्मकाण्डविरोधाच्चोपनिषदामप्रामाण्यमित्युक्तमुपसंहर्तुमितिशब्दः ।
उपनिषदप्रामाण्ये हेत्वन्तरमाह —
प्रत्यक्षादीति ।
प्रत्यक्षादीनि निश्चितानि भेदप्रतिपत्त्यर्थानि प्रमाणानि तैरिति विग्रहः ।
अध्ययनविध्युपादापितानां कुतस्तासामप्रामाण्यमित्याशङ्क्याऽऽह —
अन्यार्थता वेति ।
सिद्धान्तयति —
नेत्यादिना ।
तदेव स्फुटयितुं सामान्यन्यायमाह —
प्रमाणस्येति ।
स्वार्थे प्रमोत्पादकत्वाभावेऽपि प्रामाण्यमिच्छन्तं प्रत्याह —
अन्यथेति ।
यथोक्तप्रयोजकप्रयुक्तं प्रामाण्यमप्रामाण्यं वेत्येतस्मिन्पक्षे किं फलतीति पृच्छति —
किञ्चेति ।
तत्र किमुपनिषदः स्वार्थं बोधयन्ति न वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
यदि तावदिति ।
द्वितीयमुत्थाप्य निराकरोति —
नेत्यादिना ।
अग्निर्यथा शीतं न करोति तथोपनिषदोऽपि ब्रह्मैकत्वे प्रमां न कुर्वन्तीति वदन्तं प्रति प्रतिबन्दिग्रहो न युक्तोऽनुभवविरोधादित्यशङ्क्याऽऽह —
यदीति ।
तर्हि स्वार्थे प्रमितिजनकत्वाद्वाक्यस्य प्रामाण्यं स्यादित्याशङ्क्याऽऽह —
प्रतिषेधेति ।
उपनिषदप्रामाण्ये भवद्वाक्याप्रामाण्यं तत्प्रामाण्ये तूपनिषत्प्रामाण्यं दुर्वारमिति साम्ये प्राप्ते व्यवस्थापकः समाधिर्वक्तव्य इत्याह —
अत्रेति ।
उक्तमेवार्थं चोद्यसमाधिभ्यां विशदयति —
नन्वित्यादिना ।
प्रतिषेधमङ्गीकृत्योक्ता ।
यथोक्तोपनिषदुपलम्भे सति तस्य निरवकाशत्वात्प्रद्वेषानुपपत्तिरित्याह —
प्रतिषेधेति ।
उपनिषदुत्थाया धियो वैफल्यात्तासाममानतेत्याशङ्क्याऽऽह —
शोकेति ।
एकत्वप्रतिपत्तिस्तावदापातेन जायते । सा च विचारं प्रयुज्य मननादिद्वारा दृढीभवति । सा पुनरशेषं शोकादिकमपनयतीति पारम्पर्यजनितं फलमिति द्रष्टव्यम् ।
स्वार्थे प्रमाजनकत्वादुपनिषदां प्रामाण्यमित्युक्तमुपसंहरति —
तस्मादिति ।
प्रामाण्यहेतुसद्भावादुपनिषदां प्रामाण्यं प्रतिपाद्य तदप्रामाण्यं परोक्तमनुवदति —
यच्चोक्तमिति ।
कथं हि तासां स्वार्थविघातकत्वं किं ताभ्यो ब्रह्मैकमेवाद्वितीयं नैव चेति प्रतिपत्तिरुत्पद्यते किं वा काश्चिद्ब्रह्मैकत्वप्रतिपत्तिमन्याश्चोपनिषदस्तत्प्रतिषेधं कुर्वन्तीति विकल्प्याऽऽद्यं दूषयति —
तदपि नेति ।
तदेव प्रपञ्चयति —
न हीति ।
एकस्य वाक्यस्यानेकार्थत्वमङ्गीकृत्य वैधर्म्योदाहरणमुक्तमाह —
अभ्युपगम्येति ।
तस्याङ्गीकारवादत्वे हेतुमाह —
न त्विति ।
उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
सति चेति ।
भवत्वेकस्य वाक्यस्यानेकार्थत्वं नेत्याह —
न त्वति ।
कस्तर्हि तेषां समयस्तत्राऽऽह —
अर्थैकत्वादिति ।
तदुक्तं प्रथमे तन्त्रे – अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विविभागे स्यादिति ।
द्वितीयं दूषयति —
न चेति ।
एकस्य वाक्यस्यानेकार्थत्वं लोके दृष्टमित्याशङ्क्याऽऽह —
यत्त्विति ।
तदेकदेशस्येत्यादिवाक्यं विवृणोति —
अग्निरिति ।
अनुवादकबोधकभागयोरेकवाक्यत्वाभावं फलितमाह —
अत इति ।
हेत्वर्थमुक्तमेव स्फुटयति —
प्रमाणान्तरेति ।
शीतः शैशिरोऽग्निरित्येद्बोधकमेव चेद्वाक्यं कथं तर्हि तत्र बोधकस्य विरुद्धार्थधीरित्याशङ्क्याऽऽह —
यत्त्विति ।
स्वार्थविघातकत्वादप्रामाण्यमुपनिषदामित्येतन्निराकृत्य चोद्यन्तरमनूद्य निराकरोति —
यच्चेत्यादिना ।
तस्मिन्नितीष्टार्थप्रापकसाधनोक्तिः ।
ननूपनिषद्वाक्यं ब्रह्मात्मैकत्वं साक्षात्प्रतिपादयदर्थात्कर्मकाण्डप्रामाण्यविघातकमिति चेत्तत्र तदप्रामाण्यमनुपपत्तिलक्षणं विपर्यासलक्षणं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
न चेति ।
विदितपदतदर्थसंगतेर्वाक्यार्थन्यायविदस्तदर्थेषु प्रमोत्पत्तिदर्शनादित्यर्थः ।
स्वार्थे प्रमामुत्पादयति वाक्यं मानान्तरविरोधादप्रमाणमित्याशङ्क्याऽऽह —
असाधारणे चेदिति ।
स्वगोचरशूरत्वात्प्रमाणानामित्यर्थः ।
विमतं न प्रमोत्पादकं प्रमाणाहृतविषयत्वादनुष्णाग्निवाक्यवदिति शङ्कते —
ब्रह्मेति ।
प्रत्यक्षविरोधादनुमानमनवकाशमिति परिहरति —
नेत्यादिना ।
इतश्च कर्मकाण्डस्य नाप्रामाण्यमिति वदन् द्वितीयं प्रत्याह —
अपि चेति ।
यथाप्राप्तस्येत्यस्यैव व्याख्यानमविद्याप्रत्युपस्थापितस्येति । साध्यसाधनसंबन्धबोधकस्य कर्मकाण्डस्य न विपर्यासो मिथ्यार्थत्वेऽपि तस्यार्थक्रियाकारित्वसामर्थ्यानपहारात्प्रामाण्योपपत्तेरिति भावः ।
ननु कर्मकाण्डस्य मिथ्यार्थत्वे मिथ्याज्ञानप्रभवत्वादनर्थनिष्ठत्वेनाप्रवर्तकत्वादप्रामाण्यमित्यत आह —
यथेति ।
विमतमप्रमाणं मिथ्यार्थत्वाद्विप्रलम्भकवाक्यवदित्याशङ्क्य व्यभिचारमाह —
यथाकाम्येष्विति ।
अग्निहोत्रादिषु काम्येषु कर्मसु मिथ्याज्ञानजनितं मिथ्याभूतं काममुपादाय शास्त्रप्रवृत्तिवन्नित्येष्वपि तेषु साधनमसदेवाऽऽदाय शास्त्रं प्रवर्ततां तथापि बुद्धिमन्तो न प्रवर्तिष्यन्ते वेदान्तेभ्यस्तन्मिथ्यात्वावगमादित्याशङ्क्याऽऽह —
न चेति ।
अविद्यावतां कर्मसु प्रवृत्तिमाक्षिपति —
विद्यावतामेवेति ।
द्रव्यदेवतादिज्ञानं वा कर्मसु प्रवर्तकमिति विकल्प्याऽऽद्यमङ्गीकृत्य द्वितीयं दूषयति —
नेत्यादिना ।
कर्मकाण्डप्रामाण्यानुपपत्तिरित्याद्यामर्थापत्तिं निराकृत्य द्वितीयामर्थापत्तिमतिदेशेन निराकरोति —
एतेनेति ।
कर्मकाण्डस्याज्ञं प्रति सार्थकत्वोपपादनेनेति यावत् ।
ननु कर्मकाण्डं साध्यसाधनसंबन्धं बोधयत्प्रवृत्त्यादिपरमतो रागादिवशात्तदयोगाच्छास्त्रीयप्रवृत्त्यादिविषयस्य द्वैतस्य सत्यत्वमन्यथा तद्विषयत्वानुपपत्तिरित्यर्थापत्त्यन्तरमायातमिति तत्राऽऽह —
पुरुषेच्छेति ।
न प्रवृत्तिनिवृत्ती शास्त्रवशादिति शेषः ।
तदेव स्फुटयति —
अनेका हीति ।
शास्त्रस्याकारकत्वात्प्रवर्तकत्वाद्यभावमुक्त्वा तत्रैव युक्त्यन्तरमाह —
दृश्यन्ते हीति ।
तर्हि शास्त्रस्य किं कृत्यमित्याशङ्क्याऽऽह —
तस्मादिति ।
तत्र संबन्धविशेषोपदेशे सतीति यावत् ।
यथारुचि पुरुषाणाम्प्रवृत्तिश्चेत्परमपुरुषार्थं कैवल्यमुद्दिश्य सम्यग्ज्ञानसिद्धये तदुपायश्रवणादिषु संन्यासपूर्विका प्रवृत्तिर्बुद्धिपूर्वकारिणामुचितेत्याशङ्क्याऽऽह —
तथेति ।
रागादिवैचित्र्यानुसारेणेति यावत् । उक्तं हि –
“अपि वृन्दावने शून्ये शृगालत्वं स इच्छति ।
न तु निर्विषयं मोक्षं गन्तुमर्हति गौतम ॥” इत्यादि ।
तर्हि कथं पुरुषार्थविवेकसिद्धिस्तत्राऽऽह —
यस्येति ।
पुरुषार्थदर्शनकार्यमाह —
तदनुरूपाणीति ।
स्वाभिप्रायानुसारेण पुरुषाणाम्पुरुशार्थप्रतिपत्तिरित्यत्र गमकमाह —
तथाचेति ।
यथा दकारत्रये प्रजापतिनोक्तदेवादयः स्वाभिप्रायेण दमाद्यर्थत्रयं जगृहुस्तथा स्वाभिप्रायवशादेव पुरुषाणां पुरुषार्थप्रतिपत्तिरित्यर्थवादतोऽवगतमित्यर्थः ।
पूर्वोक्तकाण्डयोरविरोधमुपसंहरति —
तस्मादिति ।
एकस्य वाक्यस्य द्व्यर्थत्वायोगादिति यावत् ।
अर्थाद्बाधकत्वमाशङ्क्याऽऽह —
न चेति ।
एतावता वेदान्तानां ब्रह्मैकत्वज्ञापकत्वमात्रेणेत्यर्थः ।
वेदान्तानामबाधकत्वेऽपि कर्मकाण्डस्य तत्प्रामाण्यनिवर्तकत्वमस्तीत्याशङ्क्याऽऽह —
नापीति ।
स्वपक्षे सर्वविरोधनिरासद्वारा स्वार्थे वेदान्तानां प्रामाण्यमुक्तं संप्रति तार्किकपक्षमुत्थापयति —
तत्रेति ।
ऐक्ये शास्त्रगम्ये स्वीकृते सतीति यावत् । सर्वं प्रमाणमित्यागमवाक्यं प्रत्यक्षादि चेत्यर्थः ।
कथमैक्यावेदकमागमवाक्यं प्रत्यक्षादिना विरुध्यते तत्राऽऽह —
तथेति ।
यथा ब्रह्मैकत्वे प्रवृत्तस्य शास्त्रस्य प्रत्यक्षादिविरोधं मन्यन्ते तथा तमस्मान्प्रति चोदयन्त्यपीति योजना ।
तत्र प्रत्यक्षविरोधं प्रकटयति —
शब्दादय इति ।
संप्रत्यनुमानविरोधमाह —
तथेति ।
स्वदेहसमवेतचेष्टातुल्यचेष्टा देहान्तरे दृष्टा सा च प्रयत्नपूर्विका विशिष्टचेष्टात्वात्सम्मतवदित्यनुमानविरुद्धमद्वैतशास्त्रमित्यर्थः ।
तत्रैव प्रमाणान्तरविरोधमाह —
तथा चेति ।
मानत्रयविरोधान्न ब्रह्मैकत्वमिति प्राप्ते प्रत्याह —
ते तु कुतर्केति ।
इति दूष्यता तेषामिति शेषः ।
द्वैतग्राहिप्रमाणविरुद्धमद्वैतमिति वदतां कथं शोच्यतेति पृच्छति —
कथमिति ।
त्र ब्रह्मैकत्वे प्रत्यक्षविरोधं परिहरति —
श्रोत्रादीति ।
तथात्वे तदेकत्वाभ्युपगमविरोधः स्यादिति शेषः ।
यथा सर्वभूतस्थमेकमाकाशमित्यत्र न शब्दादिभेदग्राहिप्रत्यक्षविरोधस्तथैकं ब्रह्मेत्यत्रापि न तद्विरोधोऽस्तीत्याह —
अथेति ।
तस्य कल्पितभेदविषयत्वादिति भावः ।
अनुमानविरोधं परोक्तमनुवदति —
यच्चेति ।
या चेष्टा सा प्रयत्नपूर्विकेत्येतावता नाऽऽत्मभेदः स्वप्रयत्नपूर्वकत्वस्यापि संभवादनुपलब्धिविरोधे त्वनुमानस्यैवानुत्थानात्स्वदेहचेष्टायाः स्वप्रयत्नपूर्वकत्ववत्परदेहचेष्टायास्तद्यत्नपूर्वकत्वे चाऽऽदावेव स्वपरभेदः सिध्येत्स च नाध्यक्षात्परस्यानध्यक्षत्वान्नानुमानादन्योन्याश्रयादित्याशयवानाह —
भिन्ना इति ।
दोषान्तराभिधित्सया शङ्कयति —
अथेति ।
अस्मदर्थं पृच्छति —
के यूयमिति ।
स हि स्थूलदेहो वा करणजातं देहद्वयादन्यो वा । नाऽऽद्यः । तयोरचेतनत्वादनुमातृत्वायोगात् । न तृतीयस्तस्याविकारित्वादिति भावः ।
किंशब्दस्य प्रश्नार्थतां मत्वा पूर्ववाद्याह —
शरीरेति ।
आत्मा देहादिबहुसाधनविशिष्टोऽनुमाता क्रियाणामनेककारकसाध्यत्वादेवं विशिष्टात्मकर्तृकानुमानात्प्रतिदेहमात्मभेदधीरित्यर्थः ।
विशिष्टस्याऽऽत्मनोऽनुमानकर्तृकत्वे क्रियाणामनेककारकसाध्यत्वादिति हेतुश्चेत्तदा तव देहादेश्चैकैकस्याप्यनेकत्वं स्यादित्युत्तरमाह —
एवं तर्हीति ।
तदेव विवृणोति —
अनेकेति ।
आत्मनो देहादीनां चानुमानकारकाणां प्रत्येकमवान्तरक्रियाऽस्ति वह्न्यादिषु तथा दर्शनात्तथा चाऽऽत्मनोऽवान्तरक्रिया किमनेककारकसाध्या किंवा न ? आद्येप्यात्मातिरिक्तानेककारकसाध्या किंवा तदनतिरिक्ततत्साध्या वा ? नाऽऽद्योऽनवस्थानात् । द्वितीये त्वात्मनोऽनेकत्वापत्तेर्नैरात्म्यं स्यान्न चावान्तरक्रिया नानेककारकसाध्या प्रधानक्रियायामपि तथात्वप्रसंगात् । एतेन देहादिष्वपि कारकत्वं प्रत्युक्तमिति भावः ।
यत्त्वात्माऽऽत्मप्रतियोगिकभेदवान्वस्तु वाद्घटवदिति, तत्राऽऽत्मा प्रतिपन्नोऽप्रतिपन्नो वेति विकल्प्य द्वितीयं प्रत्याह —
यो हीति ।
प्रतिपन्नत्वपक्षेऽपि भेदेनाभेदेन वा तत्प्रतिपत्तिरुभयथाऽपि नानुमानप्रवृत्तिरित्याह —
तत्रेति ।
इतश्चाऽऽत्मभेदानुमानानुत्थानमित्याह —
केनेति ।
किंशब्दस्याऽऽक्षेपार्थत्वं स्फुटयति —
न हीति ।
जन्मादीनां प्रतिनियमादिलिङ्गवशादात्मभेदः सेत्स्यति चेन्नेत्याह —
यानीति ।
आत्मनः सजातीयभेदे लिङ्गाभावं दृष्टान्तेन साधयति —
यदेति ।
किञ्चौपाधिको वा स्वाभाविको वाऽत्मभेदः साध्यते ? नाऽऽद्यः सिद्धसाध्यत्वादित्यभिप्रात्याह —
नहीति ।
न द्वितीय इत्याह —
स्वतस्त्विति ।
आत्मा द्रव्यत्वातिरिक्तापरजातीयोऽश्रावणविशेषगुणवत्त्वाद्घटवदित्यनुमानान्तरमाशङ्क्यान्यतरासिद्धिं दर्शयति —
यद्यदिति ।
ताभ्यामात्मनोऽन्यत्वाभ्युपगमे मानमुपन्यस्यति —
आकाश इति ।
तत्रैवोपपत्तिमाह —
उत्पत्तीति ।
अनुमानाविरोधमुपसंहरति —
अत इति ।
आगमविरोधमुक्तन्यायातिदेशेन निराकरोति —
एतेनेति ।
औपाधिकभेदाश्रयत्वेन व्यवहारस्योपपन्नत्वोपदर्शनेनेति यावत् ।
प्रत्यक्षानुमानागमैरद्वैतस्याविरोधेऽपि स्याद्विरोधोऽर्थापत्त्येति चेदत आह —
यदुक्तमिति ।
उपदेशो यस्मै क्रियते यस्य चोपदेशग्रहणप्रयुक्तं फलं तयोर्ब्रह्मैकत्वे सत्युपदेशानर्थक्यमित्यनुवादार्थः ।
किं क्रियाणामनेककारकसाध्यत्वादेवं चोद्यते किंवा ब्रह्मणो नित्यमुक्तत्वादिति विकल्प्याऽऽद्यं दूषयति —
तदपीति ।
तासामनेककारकसाध्यत्वस्य प्रत्यु (पर्यु)दस्तत्वादिति भावः ।
यदि ब्रह्मणो नित्यमुक्तत्वाभिप्रायेणोपदेशानर्थक्यं चोद्यते तत्र नित्यमुक्ते ब्रह्मणि ज्ञातेऽज्ञाते वा तदानर्थक्यं चोद्यत इति विकल्प्याऽऽद्यमङ्गीकरोति —
एकस्मिन्निति ।
द्वतीयमुत्थापयति —
अथेति ।
उपदेशस्तावदनेकेषां कारकाणां साध्यतया विषयस्तदानर्थक्यमज्ञाते नित्यमुक्ते ब्रह्मणि चोद्यते चेदित्यर्थः ।
सर्वैरात्मवादिभिरुपदेशस्य ज्ञानार्थमिष्टत्वात्तद्विरोधादज्ञाते ब्रह्मणि तदानर्थक्यचोद्यमनुपपन्नमित्याह —
न स्वत इति ।
अद्वैते विरोधान्तराभावेऽपि तार्किकसमयविरोधोऽस्तीत्याशङ्क्याऽऽह —
तस्मादिति ।
प्रमाणविरोधाभावस्तच्छब्दार्थः । आर्यमर्यादां भिन्दानाश्चाटा विवक्ष्यन्ते । भटास्तु सेवका मिथ्याभाषिणस्तेषां सर्वेषां राजानस्तार्किकास्तैरप्रवेश्यमानाक्रमणीयमिदं ब्रह्मात्मैकत्वमिति यावत् ।
शास्त्रादिप्रसादशून्यैरागम्यत्वे प्रमाणमाह —
कस्तमिति ।
देवतादेर्वरप्रसादेन लभ्यमित्यत्र श्रुतिस्मृतिवादाः सन्ति तेभ्यश्च शास्त्रादिप्रसादहीनैरलभ्यं तत्त्वमिति निश्चितमित्यर्थः ।
शास्त्रादिप्रसादवतामेव तत्त्वं सुगममित्यत्र श्रौतं स्मार्तञ्च लिङ्गान्तरं दर्शयति —
तदेजतीति ।
ब्रह्मणोऽद्वितीयत्वे सर्वप्रकारविरोधाभावे फलितमाह —
तस्मादिति ।
संसारिणो ब्रह्मणोऽर्थान्तरत्वाभावे श्रुतीनामानुकूल्यं दर्शयति —
तस्मादिति ।
अद्वैते श्रुतिसिद्धे विचारनिष्पन्नमर्थमुपसंहरति —
तस्मात्परस्येति ॥२०॥