अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

द्वितीयोऽध्यायः: चतुर्थं ब्राह्मणम्

संब­न्धा­भि­धि­त्सया वृत्तं कीर्तयति —
आत्मेत्येवेति ।

किमि­त्या­त्म­त­त्त्व­मेव ज्ञातव्यं तत्राऽऽह —
तदेवेति ।

इत्थं सूत्रितस्य विद्याविषयस्य वाक्यस्य व्याख्यानमेव विषयस्तत्र विद्या साधनं साध्या मुक्तिरिति संबन्धो मुक्तिश्च फलमित्येते तदा­त्मा­न­मि­त्या­दिना दर्शिते इत्याह —
इत्यु­प­न्य­स्त­स्येति ।

विद्या­वि­ष­य­मुक्तं निगमयति —
एवमिति ।

उक्तमर्थान्तरं स्मारयति —
अविद्यायाश्चेति ।

अन्योऽ­सा­वि­त्या­द्या­र­भ्या­वि­द्याया विषयश्च संसार उप­सं­हृ­त­स्त्र­य­मि­त्या­दि­नेति संबन्धः संसारमेव विशिनष्टि —
चातुर्वर्ण्येति ।
चातुर्वर्ण्यं चातु­रा­श्र­म्य­मिति प्रवि­भा­गा­दि­नि­मित्तं यस्य पाङ्क्तस्य कर्मणस्तस्य साध्य­सा­ध­न­मि­त्ये­व­मा­त्मक इति यावत् ।

तस्यानादित्वं दर्शयति —
बीजाङ्कुरवदिति ।

तमेव त्रिधा संक्षिपति —
नामेति ।

स चोत्क­र्षा­प­क­र्षाभ्यां द्विधा भिद्यते तत्राऽऽ­द्य­मु­दा­ह­रति —
शास्त्रीय इति ।
उत्कृष्टो हि संसा­र­स्त्र्य­न्ना­त्म­भावः शास्त्री­य­ज्ञा­न­क­र्म­लभ्य इत्यर्थः ।

द्वितीयं कथयति —
अधोभावश्चेति ।
निकृष्टः संसारः स्वाभा­वि­क­ज्ञा­न­क­र्म­साध्य इत्यर्थः ।

किमि­त्य­वि­द्या­वि­षयो व्याख्यातो न हि स पुरु­ष­स्यो­प­यु­ज्यते तत्राऽऽह —
एतस्मादिति ।
प्रत्यगात्मैव विषयस्तस्मिन्या ब्रह्मेति विद्या तस्यामिति यावत् ।

तार्तीयमनूद्य चातुर्थिकमर्थं कथयति —
चतुर्थे त्विति ।

एवं वृत्त­म­नू­द्यो­त्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
अस्या इति ।

किमिति संन्यासो विधित्स्यते कर्मणैव विद्या­ला­भा­दि­त्या­श­ङ्क्याऽऽह —
जायेति ।
अविद्याया विषय एव विषयो यस्येति विग्रहः । तस्मात्संन्यासो विधित्सित इति पूर्वेण संबन्धः ।

ननु प्रकृतं कर्मा­वि­द्या­वि­ष­य­मपि किमि­त्या­त्म­ज्ञानं ताद­र्थ्ये­ना­नु­ष्ठी­य­मानं नोपनयति तत्राऽऽह —
अन्येति ।

तदेव दृष्टान्तेन स्पष्टयति —
न हीति ।

पाङ्क्तस्य कर्म­णोऽ­न्य­सा­ध­न­त्व­मेव कथ­म­धि­ग­त­मि­त्या­श­ङ्क्याऽऽह —
मनुष्येति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यः कर्मणा पितृलोको विद्यया देवलोक इति विशेषितत्वम् । श्रुतत्वमेव विशे­षि­त­त्वो­क्ति­द्वारा स्फुटीकृतमिति चकारेण द्योत्यते ।

ननु ब्रह्मविद्या स्वफले विहितं कर्मापेक्षते श्रौत­सा­ध­न­त्वा­द्द­र्शा­दि­व­त्तथा च समुच्चयान्न कर्म­सं­न्या­स­सि­द्धि­रत आह —
न चेति ।

कर्मणां काम्यत्वेऽपि ब्रह्मविदस्तानि किं न स्युरि­त्या­श­ङ्क्याऽऽह —
ब्रह्मविदश्चेति ।

इतश्च तस्य पुत्रा­दि­सा­ध­ना­नु­प­प­त्ति­रि­त्याह —
येषामिति ।

समु­च्च­य­प­क्ष­म­नु­भाष्य श्रुतिविरोधेन दूषयति —
केचित्त्विति ।

श्रुतिविरोधमेव स्फोरयति —
पुत्रादीति ।
अवि­द्व­द्वि­ष­यत्वं श्रुतं तत्प्रकारेण तेषामुपदेशादिति शेषः । किं प्रजया करिष्याम इत्यत आरभ्य येषां नोऽयमात्माऽयं लोक इति च विद्याविषये श्रुतिरिति योजना । एष विभागः श्रुत्या कृतस्तैः समु­च्च­य­वा­दि­भिर्न श्रुत इति संबन्धः ।

न केवलं श्रुतिविरोधादेव समुच्चयासिद्धिः किन्तु युक्ति­वि­रो­धा­च्चे­त्याह —
सर्वेति ।
द्विती­य­श्च­का­रोऽ­व­धा­र­णार्थो नञा संबध्यते ।

स्मृतिविरोधाच्च समु­च्च­या­सि­द्धि­रि­त्याह —
व्यासेति ।

तत्र प्रथमं पूर्वोक्तं युक्तिविरोधं स्फुटयति —
कर्मेति ।
प्रतिकूलवर्तनं निव­र्त्य­नि­व­र्त­क­भावः ।

संप्रति स्मृतिविरोधं स्फोरयति —
यदिदमिति ।

प्रसिद्धं वेदवचनं कुरु कर्मेत्यज्ञं प्रति यदिदमुपलभ्यते विवेकिनं प्रति च त्यजेति तत्र कां गतिमित्यादिः शिष्यस्य व्यासं प्रति प्रश्नस्तस्य बीजमाह —
एताविति ।
विद्या­क­र्मा­ख्या­वु­पायौ पर­स्प­र­वि­रु­द्धत्वे वर्तेते साभि­मा­न­त्व­नि­र­भि­मा­न­त्वा­दि­पु­र­स्का­रेण प्राति­कू­ल्या­त्स­मु­च्च­या­नु­प­प­त्ते­र्य­थो­क्तस्य प्रश्नस्य साव­का­श­त्व­मि­त्यर्थः । इत्येवं पृष्ठस्य भगवतो व्यासस्येति शेषः । विरोधो ज्ञानकर्मणोः समुच्चयस्येति वक्तव्यम् ।

समु­च्च­या­नु­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादिति ।

कथं तर्हि ब्रह्मविद्या पुरु­षा­र्थ­सा­ध­न­मिति तत्राऽऽह —
सर्वविरोधादिति ।
सर्वस्य क्रिया­का­र­क­फ­ल­भे­दा­त्म­कस्य द्वैते­न्द्र­जा­लस्य ब्रह्मविद्यया विरोधादिति यावत् ।

एकाकिनी ब्रह्मविद्या मुक्तिहेतुरिति स्थिते फलितमाह —
इति पारिव्राज्यमिति ।

न केवलं संन्यासस्य श्रव­णा­दि­पौ­ष्क­ल्य­दृ­ष्ट­द्वा­रेण विद्या­प­रि­पा­रा­का­ङ्गत्वं श्रुत्या­दि­व­शा­द­व­ग­म्यते किन्तु लिङ्गादपीत्याह —
एतावदेवेति ।

तत्रैव लिङ्गान्तरमाह —
षष्ठसमाप्तविति ।
एतच्चोभयतः संबध्यते । यदि कर्मसहितं ज्ञानं मुक्तिहेतुस्तदा किमिति कर्मणः सतो याज्ञवल्क्यस्य पारि­व्रा­ज्य­मु­च्यते तस्मा­त्त­त्त्या­ग­स्त­द­ङ्ग­त्वेन विधित्सत इत्यर्थः ।

तत्रैव लिङ्गान्तरमाह —
मैत्रेय्यै चेति ।
न हि मैत्रेयी भर्तरि त्यक्तकर्मणि स्वयं कर्मा­धि­क­र्तु­म­र्हति पतिद्वारमन्तरेण भार्या­या­स्त­द­न­धि­का­रात् । यथा च तस्यै कर्मशून्यायै मुक्तेः साधनत्वेन विद्यो­प­दे­शा­त्क­र्म­त्या­ग­स्त­द­ङ्ग­त्वेन ध्वनित इत्यर्थः ।

तत्रैव हेत्वन्तरमाह —
वित्तेति ।
किमहं तेन कुर्यामिति वित्तं निन्द्यते । अतश्च तत्साध्यं कर्म ज्ञानसहायत्वेन मुक्तौ नोपकरोतीत्यर्थः ।

तदेव विवृणोति —
यदि हीति ।
तन्नि­न्दा­व­च­न­मि­त्यत्र तच्छब्देन वित्तमुच्यते ।

त्वत्पक्षे वा कथं निन्दावचनमिति तत्राऽऽह —
यदि त्विति ।

किञ्च ब्राह्मणोऽहं क्षत्रि­योऽ­ह­मि­त्या­द्य­भि­मा­नस्य कर्मा­नु­ष्ठा­न­नि­मि­त्तस्य निन्दया सर्व­मि­द­मा­त्मै­वेति प्रत्यये श्रुते­स्ता­त्प­र्य­द­र्श­ना­द्वि­द्या­लि­ङ्ग­त्वेन संन्यासो विधित्सत इत्याह —
कर्माधिकारेति ।

ननु जाग्रति विधौ कर्मा­नु­ष्ठा­न­म­श­क्य­म­प­हा­र­यि­तु­मत आह —
न हीति ।

ननु वर्णा­श्र­मा­भि­मा­न­वतः संन्या­सोऽ­पी­ष्यते स कथं तदभावे तत्राऽऽह —
यस्यैवेति ।
अर्थ­प्रा­प्त­श्चे­त्य­व­धा­र­णा­र्थ­श्च­कारः । प्रयोजकज्ञानवतो वैध­सं­न्या­सा­भ्यु­प­ग­मा­द­वि­रोध इति भावः ।

आत्म­ज्ञा­ना­ङ्गत्वं संन्यासस्य श्रुति­स्मृ­ति­न्या­य­सिद्धं चेत्कि­म­र्थ­मि­य­मा­ख्या­यिका प्रणीयते तत्राऽऽह —
तस्मादिति ।
विध्य­पे­क्षि­ता­र्थ­वा­द­सि­द्ध्य­र्थ­मा­ख्या­यि­केति भावः ।

भार्या­मा­मन्त्र्य किं कृतवानिति तदाह —
उद्यासन्निति ।
वैश­ब्दोऽ­व­धा­र­णार्थः । आश्रमान्तरं यास्य­न्ने­वा­ह­म­स्मीति संबन्धः ।

यथो­क्ते­च्छा­न­न्तरं भार्यायाः कर्तव्यं दर्शयति —
अत इति ।
सति भार्यादौ संन्यासस्य तद­नु­ज्ञा­पू­र्व­क­त्व­नि­य­मा­दिति भावः ।

कर्तव्यान्तरं कथयति —
किञ्चेति ।

आवयोर्विच्छेदः स्वाभाविकोऽस्ति किं तत्र कर्त­व्या­मि­त्या­श­ङ्क्याऽऽह —
पतिद्वारेणेति ।

त्वयि प्रव्रजिते स्वय­मे­वाऽऽ­व­यो­र्वि­च्छेदो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
द्रव्येति ।
वित्ते तु न स्त्रीस्वा­त­न्त्र्य­मिति भावः ॥१॥

मैत्रेयी मोक्ष­मे­वा­पे­क्ष­माणा भर्तारं प्रत्या­नु­कू­ल्य­मा­त्मनो दर्शयति —
सैवमिति ।
कर्मसाध्यस्य गृह­प्रा­सा­दा­दि­व­न्नि­त्य­त्वा­नु­प­प­त्ति­रा­क्षे­प­नि­दा­नम् ।

कथंशब्दस्य प्रश्नार्थपक्षे वाक्यं योजयति —
तेनेति ।
कथं तेनेत्यत्र कथंशब्दस्य किमहं तेनेत्यत्रत्यं किंशब्दमुपादाय वाक्यं योजनीयम् । वित्तसाध्यस्य कर्म­णोऽ­मृ­त­त्व­सा­ध­न­त्व­मा­त्रा­सिद्धौ तत्प्र­का­र­प्र­श्नस्य निर­व­का­श­त्वा­दि­त्यर्थः ।

मुनिरपि भार्या­हृ­द­या­भिज्ञः सन्तुष्टः सन्नापेक्षं प्रश्नं च प्रतिवदतीत्याह —
प्रत्युवाचेति ।

वित्तेन ममामृतत्वाभावे तद­कि­ञ्चि­त्क­र­म­व­से­य­मि­त्या­श­ङ्क्याऽऽह —
किं तर्हीति ॥२॥

वित्त­स्या­मृ­त­त्व­सा­ध­ना­भा­व­म­धि­गम्य तस्मिन्नास्थां त्यक्त्वा मुक्ति­सा­ध­न­मे­वाऽऽ­त्म­ज्ञा­न­मा­त्मार्थं दातुं पतिं नियुञ्जाना ब्रूते —
सा हीति ॥३॥

भार्यापेक्षितं मोक्षोपायं विवक्षुस्तामादौ स्तौति —
स हेत्यादिना ।
वित्तेन साध्यं कर्म तस्मि­न्न­मृ­त­त्व­सा­धने शङ्किते किमहं तेन कुर्यामिति भार्यायाऽपि प्रत्याख्याते सतीति यावत् । स्वाभिप्रायो न कर्म मुक्तिहेतुरिति तस्य भार्याद्वाराऽपि संपत्तौ सत्यामित्यर्थः ॥४॥

अमृ­त­त्व­सा­ध­न­मा­त्म­ज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्यु­रि­त्या­दि­वा­क्य­मि­त्या­श­ङ्क्याऽऽह —
जायेति ।

उवाच जाया­दी­ना­त्मा­र्थ­त्वेन प्रिय­त्व­मा­त्म­न­श्चा­नौ­पा­धि­क­प्रि­य­त्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे —
न वा इति ।

किं तन्निपातेन स्मार्यते तदाह —
प्रसिद्धमिति ।

यथोक्ते क्रमे नियामकमाह —
पूर्वं पूर्वमिति ।
यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना ।

तत्र हेतुमाह —
तत्रेति ।

न वा अरे सर्व­स्ये­त्य­युक्तं पत्या­दी­ना­मु­क्त­त्वा­दं­शेन पुन­रु­क्ति­प्र­सं­गा­दि­त्या­श­ङ्क्याऽऽह —
सर्वग्रहणमिति ।
उक्त­व­द­नु­क्ता­ना­मपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः ।

सर्वपर्यायेषु सिद्ध­म­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह —
तदेतदिति ।

अथो­प­न्या­स­वि­व­र­णाभ्यां प्रीति­रा­त्म­न्ये­वे­त्य­युक्तं पुत्रादावपि तद्दर्शनादत आह —
तस्मादिति ।

आत्मनो निर­ति­श­य­प्री­त्या­स्प­द­त्वेन पर­मा­न­न्द­त्व­म­भि­धा­यो­त्त­र­वा­क्य­मा­दाय व्याचष्टे —
तस्मादित्यादिना ।

कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह —
श्रोतव्य इति ।

श्रव­णा­दी­ना­म­न्य­त­मे­नाऽऽ­त्म­ज्ञा­न­ला­भा­त्कि­मिति सर्वे­षा­म­ध्य­य­न­मि­त्या­श­ङ्क्याऽऽह —
एवं हीति ।
विध्य­नु­सा­रि­त्व­मे­वं­श­ब्दार्थः ।

श्रुत­त्वा­वि­शे­षा­द्वि­क­ल्प­हे­त्व­भा­वाच्च सर्वै­रे­वाऽऽ­त्म­ज्ञानं जायते चेत्तेषां सम­प्र­धा­न­त्व­मा­ग्ने­या­दि­व­दा­प­ते­दि­त्या­श­ङ्क्याऽऽह —
यदेति ।
श्रवणस्य प्रमा­ण­वि­चा­र­त्वेन प्रधा­न­त्वा­द­ङ्गित्वं मन­न­नि­दि­ध्या­स­न­योस्तु तत्का­र्य­प्र­ति­ब­न्ध­प्र­ध्वं­सि­त्वा­द­ङ्ग­त्व­मि­त्य­ङ्गा­ङ्गि­भा­वेन यदा श्रव­णा­दी­न्य­स­कृ­द­नु­ष्ठा­नेन समुच्चितानि तदा साम­ग्री­पौ­ष्क­ल्या­त्त­त्त्व­ज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रति­ब­न्धा­प्र­ध्वंसे वाक्यस्य फल­व­ज्ज्ञा­न­ज­न­क­त्वा­यो­गा­दि­त्यर्थः ।

परामर्शवाक्यस्य तात्पर्यमाह —
यदेत्यादिना ।
कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णा­श्र­मा­व­स्था­दि­रू­प­मा­त्म­न्य­वि­द्य­याऽ­ध्या­रो­पि­तस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदु­प­म­र्द­ना­र्थ­मा­हेति संबन्धः ।

अवि­द्या­ध्या­रो­पि­त­प्र­त्य­य­वि­ष­य­मि­त्ये­त­देव व्याकरोति —
अविद्येति ।

अवि­द्या­ज­नि­त­प्र­त्य­य­वि­ष­यत्वे दृष्टान्तमाह —
रज्ज्वामिति ॥५॥

आत्मनि विदिते सर्वं विदि­त­मि­व्यु­क्त­मा­क्षि­पति —
नन्विति ।

दृष्टिविरोधं निराचष्टे —
नैष दोष इति ।

आत्मनि ज्ञाते ज्ञातमेव सर्वं ततोऽ­र्था­न्त­र­स्या­भा­वा­दि­त्यु­क्त­मेव स्फुटयति —
यदीत्यादिना ।

आका­ङ्क्षा­पू­र्व­क­मु­त्त­र­वा­क्य­मु­दा­हृत्य व्याचष्टे —
कथमित्यदिना ।

पुरुषं विशेषतो ज्ञातुं प्रश्नमुपन्यस्य प्रतीकं गृहीत्वा व्याकरोति —
कमित्यादिना ।

पराकरणे पुरु­ष­स्या­प­रा­धित्वं दर्शयति —
अनात्मेति ।

परमात्मातिरेकेण दृश्यमानामपि ब्राह्मणजातिं स्वस्वरूपेण पश्यन्कथमपराधी स्यादि­त्या­श­ङ्क्याऽऽह —
परमात्मेति ।
इदं ब्रह्मे­त्यु­त्त­र­वा­क्या­नु­वा­द­स्तस्य व्याख्यानं यान्य­नु­क्रा­न्ता­नी­त्यादि ।

आत्मैव सर्व­मि­त्ये­त­त्प्र­ति­पा­द­यति —
यस्मादित्यादिना ।
स्थितिकाले तिष्ठति तस्मादात्मेव सर्वं तद्व्य­ति­रे­के­णा­ग्र­ह­णा­दिति योजना ॥६॥

स्थित्यवस्थायां सर्व­स्याऽऽ­त्म­मा­त्रत्वं ज्ञातुमशक्यं ज्ञाप­का­भा­वा­दि­त्या­क्षि­पति —
कथं पुनरिति ।

घटः स्फुर­ती­त्या­दि­प्र­त्य­य­मा­श्रित्य परिहरति —
चिन्मात्रेति ।

स यथा दुन्दु­भे­रि­त्यादि वाक्यमवतारयति —
तत्रेति ।
सर्वत्र चिद­ति­रे­के­णा­सत्त्वं सप्तम्यर्थः ।

दृष्टान्ते विवक्षितं संक्षिपति —
यत्स्वरूपेति ।

दुन्दु­भि­दृ­ष्टा­न्त­मा­दा­या­क्ष­राणि व्याचष्टे —
स यथेत्यादिना ।

शब्दविशेषानेव विशदयति —
दुन्दुभीति ।

कथं तर्हि दुन्दु­भि­श­ब्द­वि­शे­षाणां ग्रहणं तदाह —
दुन्दु­भे­स्त्विति ।
दुन्दु­भि­श­ब्द­सा­मा­न्य­स्येति यावत् ।

उक्तेऽर्थे दुन्दु­भ्या­घा­त­स्ये­त्या­दि­वा­क्य­मु­त्थाप्य व्याचष्टे —
दुन्दु­भ्या­घा­त­स्येति ।

वाशब्दार्थमाह —
तद्गता विशेषा इति ।

उक्तमर्थं व्यतिरेकमुखेन विशदयति —
न त्वति ।

विवक्षितं दार्ष्टा­न्ति­क­मा­चष्टे —
तथेति ।
तत्रैव वस्तु­वि­शे­ष­ग्र­ह­ण­सं­भा­व­ना­म­भि­प्रेत्य स्वप्न­जा­ग­रि­त­यो­रि­त्यु­क्तम् ॥७॥

तथा दुन्दु­भि­दृ­ष्टा­न्त­व­दिति यावत् । शङ्खस्य तु ग्रह­णे­ने­त्या­दि­वा­क्य­मा­दि­श­ब्दार्थः । दुन्दुभेस्तु ग्रह­णे­ने­त्या­दि­वाक्यं दृष्टान्तयति —
पूर्ववदिति ॥८॥
तथेति दृष्टा­न्त­द्व­य­प­रा­मर्शः ।

एकेनैव दृष्टान्तेन विव­क्षि­ता­र्थ­सिद्धौ किमि­त्य­ने­क­दृ­ष्टो­न्तो­पा­दा­न­मि­त्या­श­ङ्क्याऽऽह —
अनेकेति ।
इहेति जगदुच्यते श्रुतिर्वा ।

सामा­न्य­ब­हु­त्व­मेव स्फुटयति —
अनेक इति ।

तेषां स्वस्व­सा­मा­न्येऽ­न्त­र्भा­वेऽपि कुतो ब्रह्मणि पर्य­व­सा­न­मि­त्या­श­ङ्क्याऽऽह —
तेषामिति ।
कथ­मि­त्य­स्मा­त्पूर्वं तथेत्यध्याहारः । इति मन्यते श्रुतिरिति शेषः ।

विमतं नाऽऽत्मातिरेकि तद­ति­रे­के­णा­गृ­ह्य­मा­ण­त्वा­द्य­द्य­द­ति­रे­के­णा­गृ­ह्य­माणं तत्तदतिरेकि न भवति यथा दुन्दु­भ्या­दि­श­ब्दा­स्त­त्सा­मा­न्या­ति­रे­के­णा­गृ­ह्य­मा­णा­स्त­द­ति­रे­केण न सन्तीत्यनुमानं विवक्षन्नाह —
दुन्दुभीति ।
शब्द­त्वेऽ­न्त­र्भा­व­स्तथा प्रज्ञानघने सर्वं जगदन्तर्भवतीति शेषः ।

दृष्टा­न्त­त्र­य­म­व­ष्टभ्य निष्ट­ङ्कि­त­म­र्थ­मु­प­सं­ह­रति —
एवमिति ॥९॥

स यथाऽऽ­द्रै­धा­ग्ने­रि­त्या­दि­वा­क्यस्य तात्पर्यमाह —
एवमित्यादिना ।

स्थिति­का­ल­व­दि­त्ये­वं­श­ब्दार्थः तत्र वाक्यमवतार्य व्याचष्टे —
इत्येतदिति ।
मह­तोऽ­न­व­च्छि­न्नस्य भूतस्य परमार्थस्येति यावत् ।

निःश्व­सि­त­मि­वे­त्युक्तं व्यनक्ति —
यथेति ।
अरे मैत्रेयि ततो जातमिति शेषः ।

तदे­वाऽऽ­का­ङ्क्षा­पू­र्वकं विशदयति —
किं तदित्यादिना ।
इतिहास इति ब्राह्मणमेवेति संबन्धः । संवा­दा­दि­रि­त्या­दि­प­देन प्राण­सं­वा­दा­दि­ग्र­ह­णम् । असद्वा इदमग्र आसी­दि­त्या­दी­त्य­त्राऽऽ­दि­श­ब्दे­ना­स­दे­वे­द­मग्र आसीदिति गृह्यते । देवजनविद्या नृत्य­गी­ता­दि­शा­स्त्रम् । वेदः सोऽयं वेदाद्बहिर्न भवतीत्यर्थः । इत्याद्या विद्येति संबन्धः । आदिशब्दः शिल्प­शा­स्त्र­सं­ग्र­हार्थः । प्रिय­मि­त्ये­न­दु­पा­सी­ते­त्याद्या इत्य­त्राऽऽ­दि­शब्दः सत्यस्य सत्य­मि­त्यु­प­नि­ष­त्सं­ग्र­हार्थः । तदेते श्लोका इत्यादय इत्य­त्राऽऽ­दि­श­ब्देन तदप्येष श्लोको भवति । असन्नेव स भवतीत्यादि गृह्यते । इत्या­दी­नी­त्या­दि­प­द­मथ योऽन्यां देवतामुपास्ते ब्रह्म­वि­दा­प्नोति परमित्यादि ग्रहीतुम् ।

अर्थवादेषु व्याख्या­न­प­द­प्र­वृत्तौ हेत्वभावं शङ्कित्वा पक्षान्तरमाह —
अथवेति ।

इति­हा­सा­दि­श­ब्द­व्या­ख्या­न­मु­प­सं­ह­रति —
एवमिति ।
ब्राह्म­ण­मि­ति­हा­सा­दि­प­द­वे­द­नी­य­मिति शेषः ।

ऋगा­दि­श­ब्दा­ना­मि­ति­हा­सा­दि­श­ब्दानां च प्रसि­द्धा­र्थ­त्यागे को हेतु­रि­त्या­शङ्क्य निःश्व­सि­त­श्रु­ति­रि­ति­हा­सा­दि­श­ब्दानां प्रसि­द्धा­र्थ­त्यागे हेतुः परि­शे­ष­स्त्व­न्य­त्रे­त्य­भि­प्रे­त्याऽऽह —
एवं मन्त्रेति ।

ननु प्रथमे काण्डे वेदस्य नित्यत्वेन प्रामाण्यं स्थापितं तदनित्यत्वे तद्धानिरित्यत आह —
नियतेति ।
नियतेत्यादौ वेदो विशेष्यते । कल्पा­न्तेऽ­न्त­र्हि­ता­न्वे­दा­नि­त्या­दि­वा­क्या­न्नि­य­त­र­च­ना­वत्त्वं वेदस्य गम्यते । ‘अना­दि­नि­ध­ना’इ­त्या­देश्च सदातनत्वं तस्य निश्चीयते । न च कृत­क­त्वा­द­प्रा­माण्यं प्रत्यक्षादौ व्यभिचारात् । न च पौरु­षे­य­त्वा­द­न­पे­क्ष­त्व­हे­त्व­भा­वा­द­प्रा­मा­ण्यम् । बुद्धि­पू­र्व­प्र­णी­त­त्वा­भा­वेन तत्सिद्धेः । न चोन्म­त्त­वा­क्य­सा­दृ­श्य­म­बा­धि­ता­र्थ­त्वा­दिति भावः ।

सिद्धे वेदस्य प्रामाण्ये फलितमाह —
तस्मादिति ।

नाम­प्र­प­ञ्च­सृ­ष्टि­रे­वा­त्रो­प­दिष्टा न रूप­प्र­प­ञ्च­सृष्टिः सा चोपदेष्टव्या सृष्टि­प­रि­पू­र्ते­र­न्य­थाऽ­नु­प­प­त्ते­रि­त्या­श­ङ्क्याऽऽह —
नामेति ।

यद्यपि नामतन्त्रा रूपसृष्टिरिति नामसृष्टिवचनेन रूप­सृ­ष्टि­र­र्था­दुक्ता तथाऽपि सर्व­सं­सा­र­सृ­ष्टि­र्नोक्ता नामरूपयोरेव संसारत्वे प्राक्त­त्सृष्टेः संसारो न स्यादि­त्या­श­ङ्क्याऽऽह —
नामरूपयोरिति ।
सर्वा­व­स्थ­यो­र्व्य­क्ता­व्य­क्ता­व­स्थ­यो­रिति यावत् ।

नाम­प्र­प­ञ्च­स्यै­वात्र सर्गो­क्ति­मु­प­पा­दि­ता­मु­प­सं­ह­रति —
इतीति ।

अतःशब्दार्थं स्फुटयति —
तद्वचनेनेति ।

निःश्व­सि­त­श्रुतिं विधा­न्त­रे­णा­व­ता­र­यति —
अथवेत्यादिना ।

मिथ्यात्वेऽपि प्रति­बि­म्ब­व­त्प्रा­मा­ण्य­सं­भ­वा­दु­न्म­त्ता­दि­वा­क्यानां च मिथ्या­ज्ञा­ना­धी­न­प्र­य­त्न­ज­न्य­त्वे­ना­मा­न­त्वा­द्वे­दस्य तद­भा­वा­द्वि­ष­या­व्य­भि­चा­राच्च नाप्रा­मा­ण्य­मि­त्याह —
तदाशङ्केति ।
अन्यो ग्रन्थो बुद्धादिप्रणीतः ‘स्वर्ग­का­म­श्चैत्यं वन्देते’त्यादिः ॥१०॥

स यथा सर्वा­सा­म­पा­मि­त्या­दि­स­म­न­न्त­र­ग्र­न्थ­मु­त्था­प­यति —
किञ्चान्यदिति ।

तदेव व्याकरोति —
न केवलमिति ।
प्रलयकाले च प्रज्ञा­न­व्य­ति­रे­के­णा­भा­वा­ज्ज­गतो ब्रह्मत्वमिति संबन्धः ।

उक्तमर्थं दृष्टान्तेन स्पष्टयते —
जलेति ।

तथाऽपि प्रज्ञा­न­मे­वै­क­मेव स्यान्न ब्रह्मे­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
सत्य­ज्ञा­ना­दि­वा­क्या­द्ब्र­ह्म­ण­स्त­न्मा­त्र­त्वा­दि­त्यर्थः ।

यथोक्तं ब्रह्म चेत्प्र­ति­प­त्तव्यं किमिति तर्हि स यथेत्यादि वाक्य­मि­त्या­शङ्क्य तच्छेषत्वेन प्रलयं दर्शयितुं दृष्टा­न्त­व­च­न­मे­त­दि­त्याह —
अत आहेति ।

प्रली­य­तेऽ­स्मि­न्निति प्रलय एकश्चासौ प्रल­य­श्चे­त्ये­क­प्र­लयः तडा­गा­दि­ग­ता­ना­मपां कुतः समुद्रे लयो न हि तासां तेन संग­ति­रि­त्या­श­ङ्क्याऽऽह —
अविभागेति ।
अत्र हि समुद्रशब्देन जल­सा­मा­न्य­मु­च्यते । तद्व्यतिरेकेण च जलविशेषाणामभावो विवक्षितस्तेषां तत्सं­स्था­न­मा­त्र­त्वा­द­त­श्चाऽऽ­सा­म­स्मि­न्न­वि­भा­गस्य प्राप्तिरिति समु­द्रेऽ­वि­भा­ग­प्रा­प्ति­रि­त्यर्थः । पिच्छि­ला­दी­ना­मि­त्या­दि­श­ब्दे­ना­नु­क्त­स्प­र्शं­वि­शेषाः सर्वे गृह्यन्ते ।

विष­या­णा­मि­न्द्रि­य­का­र्य­त्वा­भा­वा­त्कुतः स्पर्शानां त्वचि विलयः स्यादि­त्या­श­ङ्क्याऽऽह —
त्वगितीति ।

स्पर्शविशेषाणां स्पर्श­सा­मा­न्येऽ­न्त­र्भावं प्रपञ्चयति —
तस्मिन्निति ।

तथाऽपि समस्तस्य जगतो ब्रह्म­व्य­ति­रे­के­णा­भा­वा­द्ब्र­ह्म­त्व­मि­त्ये­त­त्कथं प्रति­ज्ञा­त­मि­त्या­शङ्क्य परम्परया ब्रह्मणि सर्वप्रविलयं दर्शयितुं क्रममनुक्रामति —
तथेति ।
मनसि सति विषयविषयिभावस्य दर्शनादसति चाद­र्श­ना­न्म­नः­स्प­न्दि­त­मात्रं विषयजातमिति तस्य तद्विषयमात्रे प्रविष्टस्य तद­ति­रे­के­णा­स­त्त्व­मि­त्यर्थः ।

संक­ल्प­वि­क­ल्पा­त्म­क­म­नः­स्प­न्दि­त­द्वै­तस्य संकल्पात्मके मन­स्य­न्त­र्भा­वा­त्तस्य च संक­ल्प­स्या­ध्य­व­सा­य­पा­र­त­न्त्र्य­द­र्श­ना­द­ध्य­व­सा­या­त्मि­कायां च बुद्धौ तद्विषयस्य पूर्व­व­द­नु­प्र­वे­शा­न्म­नो­वि­ष­य­सा­मा­न्यस्य बुद्धि­वि­ष­य­सा­मान्ये प्रविष्टस्य तद्व्य­ति­रे­के­णा­स­त्त्व­मि­त्याह —
एवमिति ।

सर्वं जगदुक्तेन न्यायेन बुद्धिमात्रं भूत्वा तद्यच्छेच्छान्त आत्मनीति श्रुत्या ब्रह्मणि पर्यवस्यतीत्याह —
विज्ञा­न­मा­त्र­मिति ।

ननु जगदिदं विलीयमानं शक्तिशेषमेव विलीयते । तत्त्व­ज्ञा­ना­दृते तस्य निःशे­ष­ना­शा­ना­श्र­य­णात् । तथा च कुतो ब्रह्मैकरसस्य प्रतिपत्तिरत आह —
एवमिति ।
शक्तिशेषलयेऽपि तस्या दुर्नि­रू­प­त्वा­द्व­स्त्वे­क­र­सस्य धीरविरुद्धेति भावः ।

एका­य­न­प्र­क्रि­या­ता­त्प­र्य­मु­प­सं­ह­रति —
तस्मादिति ।
घ्राण­वि­ष­य­सा­मा­न्य­मि­त्या­दा­वे­का­य­न­मिति सर्वत्र संबन्धः ।

कथं पुनरत्र प्रतिपर्यायं ब्रह्मणि पर्यवसानं तत्राऽऽह —
तथेति ।
यथा सर्वेषु पर्यायेषु ब्रह्मणि पर्यवसानं तथोच्यत इति यावत् । पूर्ववदिति त्वग्वि­ष­य­सा­मा­न्य­व­दि­त्यर्थः । संकल्पे लय इति शेषः । विज्ञानमात्र इत्यत्रापि तथैव ।

एवं सर्वेषां कर्म­णा­मि­त्या­दे­र­र्थ­माह —
तथा कर्मे­न्द्रि­या­णा­मिति ।

क्रिया­सा­मा­न्यानां सूत्रा­त्म­सं­स्था­न­भे­द­त्व­म­भ्यु­पे­त्याऽऽह —
तानि चेति ।

क्रिया­ज्ञा­न­श­क्त्यो­श्चि­दु­पा­धि­भू­त­यो­श्चि­द­भे­दा­भे­द­म­भि­प्रेत्य प्राणश्चेत्यादि भाष्यम् । तत्र तयो­र­न्यो­न्या­भेदे मानमाह —
यो वा इति ।

श्रुति­मु­खा­त्क­र­ण­लयो न प्रतिभाति स्वयं च व्याख्यायते तत्र को हेतुरिति पृच्छति —
नन्विति ।

श्रुत्या कर­ण­ल­य­स्या­नु­क्त­त्व­म­ङ्गी­क­रोति —
बाढमिति ।

पृष्टमभिप्रायं प्रकटयति —
किन्त्विति ।

करणस्य विषयसाजात्यं विवृणोति —
विषयस्यैवेति ।

किमत्र प्रमा­ण­मि­त्या­श­ङ्क्या­नु­मा­न­मति सूचयति —
प्रदीपवदिति ।
चक्षुषस्तेजसं रूपादिषु मध्ये रूपस्यैव व्यञ्ज­क­द्र­व्य­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्या­दी­न्य­नु­मा­नानि शास्त्र­प्र­का­शि­का­या­म­धि­ग­न्त­व्यानि ।

करणानां विषयसाजात्ये फलितमाह —
तस्मादिति ।
पृथ­ग्वि­ष­य­प्र­ल­या­दिति शेषः । एका­य­न­प्र­क्रि­या­स­मा­प्ता­वि­ति­शब्दः ॥११॥

स यथा सैन्धवखिल्य इत्यादेः संबन्धं वक्तुं वृत्तं कीर्तयति —
तत्रेत्यादिना ।
पूर्वः सन्द­र्भ­स्त­त्रे­त्यु­च्यते ।

प्रति­ज्ञा­तेऽर्थे पूर्वोक्तं हेतुमनूद्य साध्यसिद्धिं फलं दर्शयति —
तस्मादिति ।
उक्त­हे­तो­र्य­थोक्तं ब्रह्मैव सर्वमिदं जगदिति यत्प्र­ति­ज्ञा­त­मिदं सर्वं यदयमात्मेति तत्पू­र्वो­क्त­दृ­ष्टा­न्त­प्र­ब­न्ध­रू­प­त­र्क­व­शा­त्सा­धि­त­मिति योजना ।

उत्तरवाक्यस्य विष­य­प­रि­शे­षा­र्थ­मु­क्त­प्र­लये पौरा­णि­क­स­म्म­ति­माह —
स्वाभाविक इति ।
कार्याणां प्रकृ­ता­वा­श्रि­तत्वं स्वाभाविकत्वम् ।

प्रलयान्तरेऽपि तेषां सम्मतिं संगिरते —
यस्त्विति ।

द्विती­य­प्र­ल­य­म­धि­कृ­त्या­न­न्त­र­ग्र­न्थ­म­व­ता­र­यति —
अविद्येति ।
तत्रे­त्या­त्य­न्ति­क­प्र­ल­योक्तिः ।

उदकं विली­य­मा­न­मि­त्य­युक्तं काठिन्यविलयेऽपि तल्ल­या­द­र्श­ना­दि­त्या­श­ङ्क्याऽऽह —
यत्तदिति ।

न हेति प्रतीकमादाय व्याचष्टे —
नैवेति ।
अन्व­य­प्र­द­र्श­नार्थं नैवेति पुनरुक्तम् । मह­द्भू­त­मे­क­द्वै­त­मि­त्यु­त्त­रत्र संबन्धः । अस्यार्थस्य सर्वो­प­नि­ष­त्प्र­सि­द्ध­त्व­प्र­द­र्श­नार्थो वैशब्दः ।

इदं मह­द्भू­त­मि­त्य­त्रे­दं­श­ब्दार्थं विशदयति —
यस्मादित्यादिना ।
तदिदं परमात्माख्यं महद्भूतमिति पूर्वेण संबन्धः ।

खिल्या­भा­वा­प­त्ति­कार्यं कथयति —
मर्त्येत्यादिना ।

कोऽसौ खिल्य­भा­वोऽ­भि­प्रे­त­स्त­त्राऽऽह —
नामरूपेति ।
कार्यकारणसंघाते तादा­त्म्या­भि­मा­न­द्वारा जात्या­द्य­भि­मा­नोऽत्र खिल्यभाव इत्यर्थः । इतिशब्देनाभिमतो लक्ष्यते ।

यथोक्ते खिल्यभावे सति कुतो भूतस्य मह­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
स खिल्यभाव इति ।
खिल्यभावः स्वशब्दार्थः । परस्य परि­शु­द्ध­त्वा­र्थ­म­ज­रा­दि­वि­शे­ष­णानि ।

केन रूपेणैकरस्यं तदाह —
प्रज्ञानेति ।

तस्या­प­रि­च्छि­न्न­त्व­माह —
अनन्त इति ।

तस्य सापेक्षत्वं वारयति —
अपार इति ।

प्रतिभासमाने भेदे कथं यथोक्तं तत्त्व­मि­त्या­श­ङ्क्याऽऽह —
अविद्येति ।

भवतु यथोक्ते तत्त्वे खिल्यभावस्य प्रवेशस्तथाऽपि किं स्यादित्यत आह —
तस्मिन्निति ।

महत्त्वं साधयति —
सर्वेति ।

भूतत्वमुपपादयति —
त्रिष्वपीति ।

महदित्युक्ते पारमार्थिकं चेति विशेषणं किम­र्थ­मि­त्या­श­ङ्क्याऽऽह —
लौकिकमिति ।
जाग्रत्कालीनं परिदृश्यमानं हिमवदादि महद्यद्यपि भवति तथाऽपि स्वप्न­मा­या­दि­स­म­त्वान्न तत्परमार्थवस्तु । न हि दृश्यं जड­मि­न्द्र­जा­ला­दे­र्वि­शि­ष्य­तेऽतो लौकिकान्महतो ब्रह्म व्यावर्तयितुं विशेषणमित्यर्थः । आपेक्षिकं स्यादा­न­न्त्य­मिति शेषः ।

अव­धा­र­ण­रू­प­म­र्थ­मेव स्फोरयति —
नान्यदिति ।

एतेभ्यो भूतेभ्यः समु­त्था­ये­त्या­दि­स­म­न­न्त­र­वा­क्य­व्या­व­र्त्या­मा­श­ङ्का­माह —
यदीदमिति ।

वस्तुतः शुद्धत्वे किं सिध्यति तदाह —
संसारेति ।

तर्हि तस्मि­न्नि­मि­त्ता­भा­वान्न तस्य खिल्यत्वमिति मत्वाऽऽह —
किंनिमित्त इति ।

खिल्यभावमेव विशिनष्टि —
जात इति ।
अनेकः संसाररूपो धर्मोऽ­श­ना­या­पि­पा­सा­दि­स्ते­नो­प­द्रुतो दूषित इति यावत् ।

खिल्यभावे निमित्तं दर्श­य­न्नु­त्त­र­माह —
उच्यत इति ।

एतच्छब्दार्थं व्याकरोति —
यानीति ।
स्वच्छस्य परमात्मनः कार्य­का­र­ण­वि­ष­या­क­र­प­रि­ण­ता­नीति संबन्धः ।

तानि व्यव­हा­र­सि­द्ध्यर्थं विशिनष्टि —
नाम­रू­पा­त्म­का­नीति ।

तेषा­म­ति­दु­र्ब­लत्वं सूचयति —
सलिलेति ।

स्वच्छत्वे दृष्टान्तमाह —
सलिलोपमस्येति ।

तेषां प्रत्य­क्ष­त्वेऽपि प्रकृतत्वाभावे कथमेतच्छब्देन परामर्शः स्यादि­त्या­श­ङ्क्याऽऽह —
येषामिति ।

उक्त­मे­का­य­न­प्र­क्रि­या­या­मिति शेषः ब्रह्मणि प्रज्ञानघने भूतानां प्रलये दृष्टान्तमाह —
नदीति ।

हेतौ पञ्चमीति दर्शयति —
हेतुभूतेभ्य इति ।

पूर्व­स्मि­न्ब्रा­ह्मणे षष्ठ्य­न्त­स­त्य­श­ब्द­वा­च्य­तया तेषां प्रकृतत्वमाह —
सत्येति ।

यथा सैन्धवः सन्खिल्यः सिन्धोस्तेजः संब­न्ध­म­पे­क्ष्यो­द्ग­च्छति तथा भूतेभ्यः खिल्यभावो भवतीत्याह —
सैन्धवेति ।

समुत्थानमेव विवृणोति —
यथेत्यादिना ।

तान्येवेत्यादि व्यचष्टे —
येभ्य इति ।
खिल्यहेतुभूतानि तत्र हेतु­त्वो­पे­ता­नीति यावत् ।

ब्रह्म­वि­द्यो­त्पत्तौ हेतुमाह —
शास्त्रेति ।

तत्फलं सदृ­ष्टा­न्त­मा­चष्टे —
नदीति ।

यथा सलिले फेनादयो विनश्यन्ति तथा तेषु भूतेषु विनश्यत्सु सत्स्वनु पश्चा­त्खि­ल्य­भावो नश्यतीत्याह —
सलिलेति ।

किं पुनर्भूतानां खिल्यभावस्य च विनाशे सत्यवशिष्यते तत्राऽऽह —
यथेति ।

तत्रेति कैवल्योक्तिः उक्तमेव वाक्यार्थं स्फुटयति —
नास्तीति ।

ब्रह्म­वि­दोऽ­श­री­रस्य विशेषसंज्ञाभावं कैमुतिकन्यायेन कथयति —
शरी­रा­व­स्थि­त­स्येति ।
सुषुप्तस्येति यावत् । सर्वतः कार्य­का­र­ण­वि­मु­क्त­स्येति संबन्धः ॥१२॥

उक्तं परमार्थदर्शनमेव व्यक्तीकर्तुं चोदयति —
एवमिति ।
तेन याज्ञ­व­ल्क्ये­नेति यावत् । इति वदता विरु­द्ध­ध­र्म­व­त्त्व­मु­क्त­मिति शेषः ।

एवं वदनेऽपि कुतो विरु­द्ध­ध­र्म­व­त्त्वो­क्ति­स्त­त्राऽऽह —
कथमिति ।

एकस्यैव विज्ञानघनत्वे संज्ञाराहित्ये च कुतो विरो­ध­धी­रि­त्या­श­ङ्क्याऽऽह —
न हीति ।

विरो­ध­बु­द्धि­फ­ल­माह —
अत इति ।
अत्रे­त्यु­क्त­वि­ष­य­प­रा­मर्शः ।

न वा इति प्रतीकं गृहीत्वा व्याकरोति —
अर इति ।

मोहनं वाक्यं ब्रवीत्येव भवानिति शङ्कते —
नन्विति ।

समाधत्ते —
न मयेति ।

कथं तर्हि ममैकस्मिन्नेव वस्तुनि विरु­द्ध­ध­र्म­व­त्त्व­बु­द्धि­रि­त्या­श­ङ्क्याऽऽह —
त्वयैवेति ।

त्वया तर्हि किमुक्तमिति तत्राऽऽह —
मया त्विति ।

खिल्यभावस्य विनाशे प्रत्य­गा­त्म­स्व­रू­प­मेव विन­श्य­ती­त्या­श­ङ्क्याऽऽह —
न पुनरिति ।

ब्रह्म­स्व­रू­प­स्या­नाशे विज्ञानघनस्य किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
तदिति ।

विज्ञानघनस्य प्रत्यक्त्वं दर्शयति —
आत्मेति ।

कथं तर्हि तान्ये­वा­नु­वि­न­श्य­तीति तत्राऽऽह —
भूतनाशेति ।

खिल्य­भा­व­स्या­वि­द्या­कृ­तत्वे प्रमाणमाह —
वाचाऽऽरम्भणमिति ।

खिल्य­भा­व­व­त्प्र­त्य­गा­त्म­नोऽपि विनाशित्वं स्यादिति चेन्नेत्याह —
अयं त्विति ।

पारमार्थिकत्वे प्रमाणमाह —
अविनाशीति ।

अविनाशित्वफलमाह —
अत इति ।
पर्याप्तं विज्ञातुमिति संबन्धः ।

इद­मि­त्या­दि­प­दानां गता­र्थ­त्वा­द­व्या­ख्ये­यत्वं सूचयति —
यथेति ।

विज्ञानघन एवेत्यत्र वाक्यशेषं प्रमाणयति —
नहीति ॥१३॥

आत्मनो विज्ञानघनत्वं प्रामाणिकं चेत्तर्हि निषे­ध­वा­क्य­म­यु­क्त­मिति शङ्कते —
कथमिति ।

अवि­द्या­कृ­त­वि­शे­ष­वि­ज्ञा­ना­भा­वा­भि­प्रा­येण निषे­ध­वा­क्यो­प­प­त्ति­रि­त्यु­त्त­र­माह —
शृण्विति ।
यस्मि­न्नु­क्त­ल­क्षणे खिल्यभावे सति यस्माद्यथोक्ते ब्रह्मणि द्वैतमिव द्वैत­मु­प­ल­क्ष्यते तस्मा­त्त­स्मि­न्स­ती­तर इतरं जिघ्रतीति संबन्धः ।

द्वैत­मि­वे­त्यु­क्त­म­नूद्य व्याचष्टे —
भिन्नमिवेति ।

इव­श­ब्द­स्यो­प­मा­र्थ­त्व­मु­पेत्य शङ्कते —
नन्विति ।
द्वैतेन द्वैत­स्यो­प­मी­य­मा­न­त्वा­द्दृ­ष्टा­न्तस्य दार्ष्टा­न्ति­कस्य च तस्य वस्तुत्वं स्यादु­प­मा­नो­प­मो­य­यो­श्च­न्द्र­मु­ख­यो­र्व­स्तु­त्वो­प­ल­म्भा­दि­त्यर्थः ।

द्वैत­प्र­पु­ञ्चस्य मिथ्या­त्व­वा­दि­श्रु­ति­वि­रो­धान्न तस्य सत्यतेति परिहरति —
न वाचाऽऽरम्भणमिति ।
तत्र तस्मि­न्खि­ल्य­भावे सतीति यावत् । स्वप्ना­दि­द्वै­त­मिव जागरितेऽपि द्वैतं यस्मादालक्ष्यते तस्मा­त्प­र­मा­त्मनः सका­शा­दि­त­रोऽ­सा­वात्मा खिल्य­भू­तोऽ­प­र­मार्थः सन्नितरं जिघ्रतीति योजना ।

पर­स्मा­दि­त­र­स्मि­न्ना­त्म­न्य­प­र­मार्थे खिल्यभूते दृष्टान्तमाह —
चन्द्रादेरिति ।

इतरशब्दमनूद्य तस्यार्थमाह —
इतरो घ्रातीति ।

अविद्यादशायां सर्वाण्यपि कारकाणि सन्ति कर्तृ­क­र्म­नि­र्दे­शस्य सर्व­का­र­को­प­ल­क्ष­ण­त्वा­दि­त्याह —
इतर इति ।

क्रिया­फ­ल­यो­रे­क­श­ब्दत्वे दृष्टान्तं विवृणोति —
यथेति ।

दृष्टान्तेऽपि विप्र­ति­प­त्ति­मा­श­ङ्क्या­न­न्त­रोक्तं हेतुमेव स्पष्टयति —
क्रियेति ।
अतश्च जिघ्र­ती­त्य­त्रापि क्रिया­फ­ल­यो­रे­क­श­ब्द­त्व­म­वि­रु­द्ध­मिति शेषः ।

उक्तं वाक्यार्थमनूद्य वाक्या­न्त­रे­ष्व­ति­दि­शति —
इतर इति ।
तथेतरो द्रष्टेतरेण चक्षुषेतरं द्रष्टव्यं पश्यतीत्यदि द्रष्टव्यमिति शेषः ।

उत्तरेष्वपि वाक्येषु पूर्व­वा­क्य­व­त्क­र्तृ­क­र्म­नि­र्दे­शस्य सर्व­का­र­को­प­ल­क्ष­णत्वं क्रियापदस्य च क्रिया­त­त्फ­ला­भि­धा­यित्वं तुल्यमित्याह —
सर्वमिति ।

यत्र हीत्या­दि­वा­क्या­र्थ­मु­प­सं­ह­रति —
इयमिति ।

यत्र वा अस्ये­त्या­दि­वा­क्यस्य तात्पर्यमाह —
यत्र त्विति ।

उक्तेऽर्थे वाक्याक्षराणि व्याचष्टे —
यत्रेति ।

तमेवार्थं संक्षिपति —
यत्रैवमिति ।
सर्वं कर्तृकरणादीति शेषः ।

तत्केनेत्यादि व्याकरोति —
तत्तत्रेति ।

किंश­ब्द­स्याऽऽ­क्षे­पार्थं कथयति —
सर्वत्र हीति ।

ब्रह्मविदोऽपि कारकद्वारा क्रियादि स्वीक्रि­य­ता­मि­त्या­श­ङ्क्याऽऽह —
आत्मत्वादिति ।

सर्व­स्याऽऽ­त्म­त्वा­सि­द्धि­मा­शङ्क्य सर्व­मा­त्मै­वा­भू­दिति श्रुत्या समाधत्ते —
न चेति ।

कथं तर्हि सर्व­मा­त्म­व्य­ति­रे­केण भाती­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।

भेद­भा­न­स्या­वि­द्या­कृ­तत्वे फलितमाह —
तस्मा­त्प­र­मा­र्थेति ।
तद्धे­तो­र­ज्ञा­न­स्या­प­नी­य­त्वा­दिति शेषः ।

एक­त्व­प्र­त्य­या­द­ज्ञा­न­नि­वृ­त्ति­द्वारा क्रिया­दि­प्र­त्यये निवृत्तेऽपि क्रियादि स्यान्नेत्याह —
अत इति ।
कर­ण­प्र­मा­ण­यो­र­भावे कार्यस्य विरुद्धत्वादिति यावत् ।

ननु किंशब्दे प्रश्नार्थे प्रतीयमाने कथं क्रिया­त­त्सा­ध­न­यो­र­त्य­न्त­नि­वृ­त्ति­र्वि­दुषो विवक्ष्यते तत्राऽऽह —
केनेति ।
किंशब्दस्य प्रागेव क्षेपा­र्थ­त्व­मुक्तं तच्च क्षेपार्थं वचो विदुषः सर्व­प्र­का­र­क्रि­या­का­र­का­द्य­सं­भ­व­प्र­द­र्श­ना­र्थ­मि­त्य­त्य­न्त­मेव क्रिया­दि­नि­वृ­त्ति­र्वि­दुषो युक्तेत्यर्थः ।

सर्व­प्र­का­रा­नु­प­प­त्ति­मे­वा­भि­न­यति —
केनचिदिति ।

कैव­ल्या­व­स्था­मा­स्थाय संज्ञा­भा­व­व­च­न­मि­त्युक्त्वा तत्रैव किम्पुनर्न्यायं वक्तु­म­वि­द्या­व­स्था­या­मपि साक्षिणो ज्ञाना­वि­ष­य­त्व­माह —
यत्रापीति ।

येन कूटस्थबोधेन व्याप्तो लोकः सर्वं जानाति तं साक्षिणं केन करणेन को वा ज्ञाता जानीयादित्यत्र हेतुमाह —
येनेति ।
येन चक्षुरादिना लोको जानाति तस्य विष­य­ग्र­ह­णे­नै­वो­प­क्षी­ण­त्वान्न साक्षिणि प्रवृ­त्ति­रि­त्यर्थः ।

आत्म­नोऽ­स­न्दि­ग्ध­भा­व­त्वाच्च प्रमे­य­त्वा­सि­द्धि­रि­त्याह —
ज्ञतुश्चेति ।

किञ्चाऽऽत्मा स्वेनैव ज्ञायते ज्ञात्रन्तरेण वा । नाऽऽद्य इत्याह —
न चेति ।

न द्वितीय इत्याह —
न चाविषय इति ।
ज्ञात्र­न्त­र­स्या­भा­वा­त्त­स्या­वि­ष­योऽ­य­मात्मा कुतस्तेन ज्ञातुं शक्यते । न हि ज्ञात्र­न्त­र­मस्ति नान्योऽतोऽस्ति द्रष्टे­त्या­दि­श्रु­ते­रि­त्यर्थः ।

आत्मनि प्रमा­तृ­प्र­मा­ण­यो­र­भावे ज्ञानाविषयत्वं फलतीत्याह —
तस्मादिति ।

विज्ञा­ता­र­मि­त्या­दि­वा­क्य­स्यार्थं प्रपञ्चयति —
यदा त्विति ।
तदेवं स्वरूपापेक्षं विज्ञानघनत्वं विशे­ष­वि­ज्ञा­ना­पेक्षं तु संज्ञा­भा­व­व­च­न­मि­त्य­वि­रोध इति ॥१४॥