अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

द्वितीयोऽध्यायः: पञ्चमं ब्राह्मणम्

पूर्वो­त्त­र­ब्रा­ह्म­णयोः संगतिं वक्तुं वृत्तं कीर्तयति —
यत्केवलमिति ।

कैवल्यं व्याचष्टे —
कर्म­नि­र­पे­क्ष­मिति ।
तच्चाऽऽ­त्म­ज्ञा­न­मु­क्त­मिति संबन्धः । ततो निराकाङ्क्षत्वं सिद्धमिति चकारार्थः ।

आत्मज्ञानं संन्या­सि­ना­मे­वेति नियन्तुं विशिनष्टि —
सर्वेति ।

ननु कुतस्ततो नैराकाङ्क्ष्यं सत्यपि तस्मि­न्वि­ज्ञे­या­न्त­र­सं­भ­वा­दत आह —
आत्मनि चेति ।

न वा अरे पत्यु­रि­त्या­दा­वुक्तं स्मारयति —
आत्मा चेति ।

तस्य निर­ति­श­य­प्रे­मा­स्प­द­त्वेन परमानन्दत्वे फलितमाह —
तस्मादिति ।

स चेद्द­र्श­ना­र्ह­स्तर्हि तद्दर्शने कानि साध­ना­नी­त्या­सं­क्याऽऽह —
स चेति ।
दर्शनप्रकारा दर्श­न­स्यो­पा­य­प्र­भेदाः ।

श्रवणमननयोः स्वरूपविशेषं दर्शयति —
तत्रेति ।

कोऽसौ तर्को येनाऽऽत्मा मन्तव्यो भवति तत्राऽऽह —
तत्र चेति ।
दुन्दु­भ्या­दि­ग्रन्थः सप्तम्यर्थः ।

उक्तमेव तर्कं संगृह्णाति —
आत्मैवेति ।

प्रधा­ना­दि­वा­द­मा­दाय हेत्व­सि­द्धि­श­ङ्कायां तन्नि­रा­क­र­णा­र्थ­मिदं ब्राह्मणमिति संगतिं संगिरन्ते —
तत्रायमिति ।

कथं हेत्व­सि­द्धि­श­ङ्को­द्ध्रि­यते तत्राऽऽह —
यस्मादिति ।
तस्मात्तथाभूतं भवि­तु­म­र्ह­ती­त्यु­त्त­रत्र संबन्धः ।

अन्यो­न्यो­प­का­र्यो­प­का­र­क­भूतं जग­दे­क­चै­त­न्या­नु­वि­द्ध­मे­क­प्र­कृ­तिकं चेत्यत्र व्याप्तिमाह —
यच्चेति ।
दृष्टं स्वप्नादीति शेषः ।

दृष्टान्ते सिद्धमर्थं दार्ष्टान्तिके योजयति —
तस्मादिति ।

तच्छब्दार्थं स्फुटयति —
परस्परेति ।
तथा­भू­त­मि­त्ये­क­का­र­ण­पू­र्व­कादि गृह्यते । विमतमेककारणं पर­स्प­रो­प­का­र्यो­प­का­र­क­भू­त­त्वा­त्स्व­प्न­व­दि­त्य­युक्तं हेत्वसिद्धेः ।

न हि सर्वं जग­त्प­र­स्प­रो­प­का­र्यो­प­रा­र­क­भू­त­मि­त्या­श­ङ्क्याऽऽह —
एष हीति ।

हेत्व­सि­द्धि­शङ्कां परिहर्तुं ब्राह्मणमिति संगतिमुक्त्वा प्रकारान्तरेण तामाह —
अथवेति ।

प्रतिज्ञाहेतू क्रमेणोक्त्वा हेतुसहितस्य प्रतिज्ञार्थस्य पुनर्वचनं निगमनमित्यत्र तार्कि­क­स­म्म­ति­माह —
तथा हीति ।

भर्तृ­प्र­प­ञ्चानां ब्राह्म­णा­र­म्भ­प्र­का­र­म­नु­व­दति —
अन्यैरिति ।
द्रष्ट­व्या­दि­वा­क्या­दा­रा­भ्याऽऽ­दु­न्दु­भि­दृ­ष्टा­न्ता­दा­ग­म­व­चनं श्रोतव्य इत्यु­क्त­श्र­व­ण­नि­रू­प­णा­र्थम् । दुन्दु­भि­दृ­ष्टा­न्ता­दा­रभ्य मधु­ब्रा­ह्म­णा­त्प्रा­गु­प­प­त्ति­प्र­द­र्श­नेन मन्तव्य इत्यु­क्त­म­न­न­नि­रू­प­णा­र्थ­मा­ग­म­व­च­नम् । निदिध्यासनं व्याख्यातुं पुन­रे­त­द्ब्रा­ह्म­ण­मि­त्यर्थः ।

एतद्दूषयति —
सर्वथाऽपीति ।
श्रव­णा­दे­र्वि­धे­य­त्वेऽ­वि­धे­य­त्वेऽ­पीति यावत् । अन्व­य­व्य­ति­रे­काभ्यां श्रवणे प्रवृत्तस्य तत्पौष्कल्ये सत्यर्थलब्धं मननं न विधिमपेक्षते । यथा तर्कतो मतं तत्त्वं तथा तस्य तर्कागमाभ्यां निश्चि­त­स्यो­भ­य­सा­म­र्थ्या­देव निदि­ध्या­स­न­सिद्धौ तदपि विध्य­न­पे­क्ष­मे­वे­त्यर्थः ।

त्रयाणां विध्यनपेक्षत्वे फलितमाह —
तस्मादिति ।
इति पर­की­य­व्या­ख्या­न­म­यु­क्त­मिति शेषः ।

सिद्धान्तेऽपि श्रव­णा­दि­वि­ध्य­भ्यु­प­ग­मा­त्कथं परकीयं प्रस्थानं प्रत्या­ख्या­त­मि­त्या­श­ङ्क्याऽऽह —
सर्वथापि त्विति ।
तद्वि­ध्य­भ्यु­प­ग­मेऽ­पीति यावत् ।

एवं संगतिं ब्राह्म­ण­स्योक्त्वा तदक्षराणि व्याकरोति —
इयमित्यादिना ।

यदुक्तं मध्विव मध्विति तद्विवृणोति —
यथेति ।

न केवलमुक्तं मधुद्वयमेव किन्तु मध्वन्तरं चास्तीत्याह —
किञ्चेति ।

पुरुषशब्दस्य क्षेत्रविषयत्वं वारयति —
स चेति ।

तस्य पृथि­वी­व­न्म­धु­त्व­माह —
स च सर्वेषामिति ।

सर्वेषां च भूतानां तं प्रति मधुत्वं दर्शयति —
सर्वाणि चेति ।

नन्वाद्यमेव मधुद्वयं श्रुतमश्रुतं तु मधुद्वयमशक्यं कल्पयितुं कल्पकाभावादत आह —
चशब्देति ।

प्रथ­म­प­र्या­या­र्थ­मु­प­सं­ह­रति —
एवमिति ।
पृथिवी सर्वाणि भूतानि पार्थिवः पुरुषः शरीरश्चेति चतुष्टयमेकं मध्विति शेषः ।

मधुशब्दार्थमाह —
सर्वेति ।
अस्येति पृथिव्यादेरिति यावत् ।

पर­स्प­रो­प­का­र्यो­प­का­र­क­भावे फलितमाह —
अत इति ।
अस्येति सर्वं जगदुच्यते । उक्तं च यस्मा­त्प­र­स्प­रो­प­का­र्यो­प­का­र­क­भू­त­मि­त्यादि ।

भवत्वनेन न्यायेन मधुपर्यायेषु सर्वेषु कारणोपदेशो ब्रह्मोपदेशस्तु कथ­मि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।
स प्रकृत आत्मैवायं चतुर्धोक्तो भेद इति योजना । इदमिति चतु­ष्ट­य­क­ल्प­ना­धि­ष्ठा­न­वि­षयं ज्ञानं परामृशति । इदं ब्रह्मेत्यत्र चतु­ष्ट­या­धि­ष्ठा­न­मि­दं­श­ब्दार्थः ।

तृतीये च तस्य प्रकृतत्वं दर्शयति —
यद्विषयेति ।
इदं सर्वमित्यत्र ब्रह्म­ज्ञा­न­मि­द­मि­त्यु­क्तम् । सर्वं सर्वा­प्ति­सा­ध­न­मिति यावत् ।

तदेव स्पष्टयति —
यस्मादिति ॥१॥

यथा पृथिवी मधुत्वेन व्याख्याता तथाऽऽपोऽपि व्याख्येया इत्याह —
तथेति ।

रैतस इति विशे­ष­ण­स्या­र्थ­माह —
अध्यात्ममिति ।
‘आपो रेतो भूत्वा शिश्नं प्राविशन्’ इति हि श्रुत्यन्तरम् ॥२॥

पृथिव्यामप्सु चोक्तं न्याय­म­ग्ना­व­ति­दि­शति —
तथेति ।

वाङ्मय इत्यस्यार्थमाह —
वाचीति ।
अग्नि­र्वा­ग्भूत्वा मुखं प्राविशदिति हि श्रूयते ॥३॥

अग्नावुक्तं न्यायं वायौ योजयति —
तथेति ।

‘वायुः प्राणो भूत्वा नासिके प्राविशत्’ इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह —
अध्यात्ममिति ।

पृथिव्यादीनां तदन्तर्वर्तिनां च पुरु­षा­णा­मे­क­वा­क्यो­पा­त्ता­ना­मे­क­रूपं मधुत्वमिति शङ्कां परि­ह­र­न्न­वा­न्त­र­वि­भा­ग­माह —
भूतानामिति ।

पृथिव्यादीनां कार्यत्वं तेजोमयादीनां करणत्वमित्यत्र सप्ता­न्ना­धि­का­र­सं­म­ति­माह —
तथा चोक्तमिति ॥४॥

यद्य­प्या­दि­त्य­स्तृ­तीये भूतेऽन्तर्भवति तथापि देव­ता­भे­द­मा­श्रि­त्या­ग्ना­वुक्तं न्यायं तस्मिन्नतिदिशति —
तथेति ।

‘आदि­त्य­श्च­क्षु­र्भूत्वा अक्षिणि प्राविशत्’ इति श्रुति­मा­श्रि­त्याऽऽह —
चाक्षुष इति ॥५॥

आदित्यगतं न्यायं दिक्षु संपादयति —
तथेति ।

‘दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्’(ऐ.उ.१-२-४) इति श्रुतेः श्रोत्रमेव दिशामध्यात्मं तथा चाध्यात्मं श्रौत्र इत्येव वक्तव्ये कथं प्रातिश्रुत्क इति विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
दिशामिति ।
तथाऽ­पी­त्य­स्मि­न्नर्थे तुशब्दः ॥६॥

दिक्षु व्यवस्थितं न्यायं चन्द्रे दर्शयति —
तथेति ।

‘चन्द्रमा मनो भूत्वा हृदयं प्राविशत्’ इति श्रुति­म­नु­सृ­त्याऽऽह —
अध्यात्ममिति ॥७॥

चन्द्र­व­द्वि­द्यु­तोऽपि मधुत्वमाह —
तथेति ।

अध्यात्मं तैजस इत्यस्यार्थमाह —
त्वगिति ॥८॥

पर्जन्योऽपि विद्यु­दा­दि­व­त्स­र्वेषां भूतानां मधु भवतीत्याह —
तथेति ।

अध्यात्मं शाब्दः सौवर इत्यस्यार्थमाह —
शब्दे भव इति ।
यद्यप्यध्यात्मं शब्दे भव इति व्युत्पत्त्या शाब्दः पुरुषस्तथाऽपि स्वरे विशेषतो भवतीत्यध्यात्मं सौवरः पुरुष इति योजना ॥९॥

स्तन­यि­त्ना­वुक्तं न्याय­मा­का­शेऽ­ति­दि­शति —
तथेति ॥१०॥

पर्यायान्तरं वृत्त­म­नू­द्यो­त्था­प­यति —
आकाशान्ता इति ।
प्रतिशरीरिणं सर्वेषां शरीरिणां प्रत्येकमिति यावत् ।

धर्मस्य शास्त्रै­क­ग­म्य­त्वेन परो­क्ष­त्वा­द­य­मिति निर्दे­शा­न­र्ह­त्व­मा­श­ङ्क्याऽऽह —
अयमितीति ।
यद्यपि धर्मोऽ­प्र­त्य­क्षोऽ­य­मिति निर्दे­शा­न­र्ह­स्त­थाऽपि पृथि­व्या­दि­ध­र्म­का­र्यस्य प्रत्य­क्ष­त्वा­त्तेन कार­ण­स्या­भे­द­मौ­प­चा­रि­क­मा­दाय प्रत्य­क्ष­घ­टा­दि­व­दयं धर्म इति व्यप­दे­शो­प­प­त्ति­रि­त्यर्थः ।

कोऽसौ धर्मो यस्य प्रत्यक्षत्वेन व्यप­दे­श­स्त­त्राऽऽह —
धर्मश्चेति ।
व्याख्या­त­स्त­च्छ्रे­यो­रू­प­म­त्य­सृ­जत धर्म­मि­त्या­दा­विति शेषः ।

तर्हि तस्य प्रत्य­क्ष­त्वान्न चोद­ना­ल­क्ष­ण­त्व­मि­त्या­शङ्क्य गौण­त्व­मु­ख्य­त्वा­भ्या­म­वि­रो­ध­म­भि­प्रे­त्याऽऽह —
श्रुतीति ।

तस्मिन्नेव कार्य­लि­ङ्ग­क­म­नु­मानं सूचयति —
क्षत्त्रा­दी­ना­मिति ।

तत्रै­वा­नु­मा­ना­न्तरं विव­क्षि­त्वो­क्तम् —
जगत इति ।

जग­द्वै­चि­त्र्य­का­रित्वे हेतुमाह —
पृथि­व्या­दी­ना­मिति ।

धर्मस्य प्रत्यक्षेण व्यपदेशे हेत्वन्तरमाह —
प्राणिभिरिति ।
तेना­नु­ष्ठी­य­मा­ना­चा­रेण प्रत्यक्षेण धर्मस्य लक्ष्य­मा­ण­त्वे­नेति यावत् ।

ननु तृतीयेऽध्याये ‘यो वै स धर्मः सत्यं वै तदि’(बृ.उ.१-४-१४)ति सत्य­ध­र्म­यो­र­भे­द­व­च­ना­त्त­यो­र्भे­दे­नात्र पर्या­य­द्व­यो­पा­दा­न­म­नु­प­प­न्न­मत आह —
सत्येति ।

कथमेकत्वे सति भेदे­नो­क्ति­रि­त्या­श­ङ्क्याऽऽह —
दृष्टेति ।

अदृष्टेन रूपेण कार्यारम्भकत्वं प्रकटयति —
यस्त्विति ।

सामा­न्या­त्म­नाऽऽ­र­म्भ­क­त्व­मु­दा­ह­रति —
सामान्यरूपेणेति ।

विशेषात्मना कार्यारम्भकत्वं व्यनक्ति —
विशेषेति ।

धर्मस्य द्वौ भेदावुक्तौ तयोर्मध्ये प्रथममधिकृत्य यश्चेत्यादि वाक्यमित्याह —
तत्रेति ।

द्वितीयं विषयीकृत्य यश्चा­य­म­ध्या­त्म­मि­त्यादि प्रवृत्तमित्याह —
तथेति ॥११॥

इदं सत्य­मि­त्य­स्मि­न्प­र्याये सत्यशब्दार्थमाह —
तथा दृष्टेनेति ।
सोऽपीत्यपिशब्दो धर्मोदाहरणार्थः ।

द्वयोरपि प्रका­र­यो­र्वि­नि­योगं विभजते —
सामान्यरूप इति ।
उभयत्र समवेतशब्दस्तत्र तत्र कार­ण­त्वे­ना­नु­ग­त्यर्थः ।

यश्चा­य­म­स्मि­न्नि­त्या­दि­वा­क्यस्य विषयमाह —
तत्रेति ।
सत्ये यश्चेत्यादि वाक्यमिति शेषः ।

यश्चा­य­म­ध्या­त्म­मि­त्या­दि­वा­क्यस्य विषयमाह —
तथाऽध्यात्ममिति ।

सत्यस्य पृथिव्यादौ कार्यकारणसंघाते च कारणत्वे प्रमाणमाह —
सत्येनेति ॥१२॥

इदं मानुषमित्यत्र मानुषग्रहणं सर्व­जा­त्यु­प­ल­क्ष­ण­मि­त्य­भि­प्रे­त्याऽऽह —
धर्म­स­त्या­भ्या­मिति ।

कथं पुनरेषा जातिः सर्वेषां भूतानां मधु भवति तत्राऽऽह —
तत्रेति ।
भोगभूमिः सप्तम्यर्थः ।

यश्चा­य­म­स्मि­न्नि­त्या­दि­वा­क्य­द्व­यस्य विषयभेदं दर्शयति —
तत्रेति ।
व्यवहारभूमाविति यावत् । धर्मा­दि­व­दि­त्य­पे­रर्थः । निर्देष्टुः स्वशरीरनिष्ठा जाति­रा­ध्या­त्मिकी शरी­रा­न्त­रा­श्रिता तु बाह्येति भेदः । वस्तुतस्तु तत्र नोभ­य­था­त्व­मि­त्य­भि­प्रेत्य निर्दे­श­भा­गि­त्यु­क्तम् ॥१३॥

अन्ति­म­प­र्या­य­म­व­ता­र­यति —
यस्त्विति ।

आत्मनः शारीरेण गत­त्वा­त्पु­न­रु­क्ति­र­नु­प­यु­क्तेति शङ्कते —
नन्विति ।

अव­य­वा­व­य­वि­वि­ष­य­त्वेन पर्या­य­द्व­य­म­पु­न­रु­क्त­मिति परिहरति —
नेत्यादिना ।

परमात्मानं व्यावर्तयति —
सर्वभूतेति ।

चेतनं व्यवच्छिनत्ति —
कार्येति ।

यश्चा­य­म­स्मि­न्नि­त्या­दि­वा­क्यस्य विषयमाह —
तस्मिन्निति ।

यश्चा­य­म­ध्या­त्म­मिति किमिति नोक्त­मि­त्या­श­ङ्क्याऽऽह —
एकदेशेनेति ।
अत्रे­त्य­न्त­प­र्या­योक्तिः ।

यश्चा­य­मा­त्मे­त्य­स्या­र्थ­माह —
यस्त्विति ॥१४॥

स वा अय­मा­त्मे­त्य­स्या­र्थ­माह —
यस्मिन्निति ।
परिशिष्टः पूर्व­प­र्या­ये­ष्व­नु­प­दि­ष्टोऽन्त्ये च पर्याये यश्चा­य­मा­त्मे­त्युक्तो निज्ञानमयो यस्मिन्नात्मनि खिल्य­दृ­ष्टा­न्त­व­चसा प्रवेशितस्तेन परेणाऽऽत्मना तादात्म्यं गतो विद्वा­न­त्राऽऽ­त्म­श­ब्दार्थः ।

उक्त­मा­त्म­श­ब्दा­र्थ­म­नूद्य सर्वेषामित्यादि व्याचष्टे —
तस्मिन्निति ।
अविद्यया कृतः कार्यकरणसंघातः एवोपाधिस्तेन विशिष्टे जीवे तस्मि­न्प­र­मा­र्था­त्मनि ब्रह्मणि ब्रह्मविद्यया प्रवेशिते स एवायमात्मा यथोक्तविशेषणः सर्वैरुपास्यः सर्वेषां भूता­ना­म­धि­प­ति­रिति संबन्धः ।

व्याख्येयं पदमादाय तस्य वाच्यमर्थमाह —
सर्वेषामिति ।
तस्यैव विवक्षितोऽर्थः सर्वैरुपास्य इत्युक्तः ।

स्वातन्त्र्यं व्यतिरेकद्वारा स्फोरयति —
नेत्यादिना ।

सर्वेषां भूतानां राजेत्येतावतैव यथो­क्ता­र्थ­सिद्धौ किमि­त्य­धि­प­ति­रिति विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
राजत्वेति ।
राज­त्व­जा­त्य­ना­क्रा­न्तोऽपि कश्चि­त्त­दु­चि­त­प­रि­पा­ल­ना­दि­व्य­व­हा­र­वा­नि­त्यु­प­लब्धिं न पुनस्तस्य स्वातन्त्र्यं राज­प­र­त­न्त्र­त्वा­त्त­स्मा­त्ततो व्यव­च्छे­दा­र्थ­म­धि­प­ति­रिति विशेषणमित्यर्थः ।

राजाऽ­धि­प­ति­रि­त्यु­भ­यो­रपि मिथो विशे­ष­ण­वि­शे­ष्य­त्व­म­भि­प्रेत्य वाक्यार्थं निगमयति —
एवमिति ।

उक्तस्य विद्याफलस्य तृती­ये­नै­क­वा­क्य­त्व­माह —
यदुक्तमिति ।

तदेव व्याख्यातं स्फोरयति —
एवमिति ।
मैत्रे­यी­ब्रा­ह्म­णो­क्त­क्र­मे­णेति यावत् ।

एवमित्यस्यार्थं कथयति —
यथेति ।
मधुब्राह्मणे पूर्वब्राह्मणे चोक्त­क्र­मे­णाऽऽ­त्मनि श्रवणादित्रयं संपाद्य विद्वा­न्ब्र­ह्मा­भ­व­दिति संबन्धः ।

ननु मोक्षा­व­स्था­या­मेव विदुषो ब्रह्म­त्वा­प­रि­च्छि­न्नत्वं न प्राच्या­म­वि­द्या­द­शा­या­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
समानाधिकरणं पञ्चमीत्रयम् । एवंलक्षणादहं ब्रह्मास्मीति श्रव­णा­दि­कृ­ता­त्त­त्त्व­सा­क्षा­त्का­रा­दिति यावत् ।

अब्र­ह्म­त्वा­दि­धी­ध्व­स्ति­स्तर्हि कथ­मि­त्या­श­ङ्क्याऽऽह —
तां त्विति ।

वृत्त­म­नू­द्यो­त्त­र­ग्र­न्थ­म­व­ता­र­यति —
परिसमाप्त इति ।
यस्य शास्त्रस्यार्थो विष­य­प्र­यो­ज­नाख्यो ब्रह्म­क­ण्डि­कायां चतुर्थादौ च प्रस्तु­त­स्त­स्यार्थो यथोक्तन्यायेन निर्धारित इत्यनुवादार्थः । सर्वात्मभूतत्वं सर्पा­दि­व­त्क­ल्पि­तानां सर्वे­षा­मा­त्म­भा­वेन स्थितत्वम् । सर्वं ब्रह्म तद्रूपत्वं सर्वात्मकम् ।

सर्व एत आत्मान कुतो भेदो­क्ति­रा­त्मै­क्यस्य शास्त्री­य­त्वा­दि­त्या­श­ङ्क्याऽऽह —
जलचन्द्रवदिति ।

दार्ष्टा­न्ति­क­भा­गस्य संपि­ण्डि­त­म­र्थ­माह —
सर्वमिति ।

उक्तस्य सर्वात्मभावस्य तृती­ये­नै­क­वा­क्यत्वं निर्दिशति —
यदुक्तमिति ।

सर्वात्मभावे विदुषः सप्रपञ्चत्वं स्यादि­त्या­श­ङ्क्याऽऽह —
स एष इति ।
सर्वेण कल्पितेन द्वैतेन सहि­त­म­धि­ष्ठा­न­भूतं ब्रह्म प्रत्यग्भावेन पश्य­न्वि­द्वा­न्स­र्वो­पा­धि­स्त­त्त­द्रू­पेण स्थितः सर्वो भवति ।

तदेवं कल्पितं सप्र­प­ञ्च­त्व­म­वि­द्व­द्दृष्ट्या विदु­षोऽ­भी­ष्ट­मि­त्यर्थः विद्वद्दृष्ट्या तस्य निष्प्रपञ्चत्वं दर्शयति —
निरुपाधिरिति ।
निरुपाख्यत्वं शब्द­प्र­त्य­य­गो­च­रत्वं ब्रह्मणः सप्र­प­ञ्च­त्व­म­वि­द्या­कृतं निष्प्रपञ्चत्वं तात्त्वि­क­मि­त्या­ग­मा­र्था­वि­रोध उक्तः ।

कथं तर्हि तार्किका मीमांसकाश्च शास्त्रार्थं विरुद्धं पश्यन्तो ब्रह्मास्ति नास्तीत्यादि विकल्पयन्तो मोमुह्यन्ते तत्राऽऽह —
तमेतमिति ।

वादि­व्या­मो­ह­स्या­ज्ञानं मूलमुक्त्वा प्रकृते ब्रह्मणो द्वैरूप्ये प्रमाणमाह —
तमित्यादिना ।
तैत्ति­री­य­श्रु­ता­वा­दि­श­ब्दे­ना­ह­म­न्न­म­न्न­म­द­न्त­म­द्मी­त्यादि गृह्यते । छान्दो­ग्य­श्रु­ता­वा­दि­श­ब्देन सत्यकामः सत्यकङ्कल्पो विजरो विमृ­त्यु­रि­त्यादि गृहीतम् ।

श्रुतिसिद्धे द्वैरूप्ये स्मृतिमपि संवादयति —
तथेति ।

पूर्वो­क्त­प्र­का­रे­णाऽऽ­ग­मा­र्थ­वि­रो­ध­स­मा­धाने विद्यमानेऽपि तद­ज्ञा­ना­द्वा­दि­वि­भ्रा­न्ति­रि­त्यु­प­सं­ह­रति —
इत्येवमादीति ।

विकल्पमेव स्फुटयति —
अस्तीति ।
सर्वत्र श्रुति­स्मृ­ति­ष्वा­त्म­नीति यावत् ।

के तर्हि पारमविद्यायाः समधिगच्छन्ति तत्राऽऽह —
तस्मादिति ।

ब्रह्म­ज्ञा­न­फ­ल­माह —
स एवेति ॥१५॥

तद्य­थे­त्या­दि­वा­क्यार्थं विस्तरेणोक्त्वा वृत्तं कीर्तयति —
परिसमाप्तेति ।

ब्रह्मविद्या परिसमाप्ता चेत्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह —
एतस्या इति ।

इयमिति प्रव­र्ग्य­प्र­क­र­ण­स्था­मा­ख्या­यिकां परामृशति —
आनीतेदं वै तन्म­ध्वि­त्या­दिना ब्राह्मणेनेति शेषः ।

तदे­त­दृ­षि­रि­त्या­दे­स्ता­त्प­र्य­माह —
तस्या इति ।
तद्वां नरेत्यादिरेको मन्त्रः । आथ­र्व­णा­ये­त्या­दि­परः ।

मन्त्र­ब्रा­ह्म­णाभ्यां वक्ष्यमाणरीत्या ब्रह्मविद्यायाः स्तुतत्वे किं सिध्य­ती­त्या­श­ङ्क्याऽऽह —
एवं हीति ।

तस्या मुक्तिसाधनत्वं दृष्टान्तेन स्फुटयति —
यथेति ।

केन प्रकारेण ब्रह्मविद्यायाः स्तुतत्वं तदाह —
अपि चेति ।
अपिशब्दः स्ताव­क­ब्रा­ह्म­ण­सं­भा­व­नार्थः । मन्त्र­द्व­य­स­मु­च्च­या­र्थ­श्च­शब्दः ।

एवं शब्दसूचितं स्तुतिप्रकारमेव प्रकटयति —
येन्द्रति ।

तस्या दुष्प्राप्यत्वे हेतुमाह —
यस्मादिति ।

महान्तमायासं स्फुटयति —
ब्राह्मणस्येति ।

कृता­र्थे­ना­पी­न्द्रि­येण रक्षितत्वे विद्याया दौर्लभ्ये च फलितमाह —
तस्मादिति ।

न केवलमुक्तेन प्रकारेण विद्या स्तूयते किन्तु प्रका­रा­न्त­रे­णा­पी­त्याह —
अपि चेति ।

तदेव प्रकारान्तरं प्रकटयति —
सर्वेति ।

केवलयेत्यस्य व्याख्यानं कर्म­नि­र­पे­क्ष­येति । तत्र हेतुमाह —
यस्मादिति ।

किमिति कर्मप्रकरणे प्राप्ताऽपि प्रकरणान्तरे कथ्यते तत्राऽऽह —
कर्मणेति ।

प्रसिद्धं पुमर्थोपायं कर्म त्यक्त्वा विद्या­या­मे­वाऽऽ­दरे तदधिकता समधिगतेति फलितमाह —
तस्मादिति ।

प्रकरान्तरेण ब्रह्मविद्यायाः स्तुतिं दर्शयति —
अपि चेति ।
अनात्मरतिं त्यक्त्वाऽऽ­त्म­न्येव रति­हे­तु­त्वा­न्म­ह­तीयं विद्येत्यर्थः ।

विधान्तरेण तस्याः स्तुतिमाह —
अपि चैवमिति ।

कथं ब्रह्मविद्या भार्यायै प्रीत्य­र्थ­मे­वो­क्तेति गम्यते तत्राऽऽह —
प्रियमिति ।

आख्यायिकायाः स्तुत्यर्थत्वं प्रतिपाद्य वृत्त­म­नू­द्याऽऽ­का­ङ्क्षा­पू­र्वकं तामवतार्य व्याकरोति —
तत्रेत्यादिना ।
ब्रह्मविद्या सप्तम्यर्थः ।

पदार्थमुक्त्वा वाक्यार्थमाह —
यदिति ।

दध्यङ्ङित्यादि व्याकु­र्व­न्ना­का­ङ्क्षा­पू­र्वकं प्रव­र्ग्य­प्र­क­र­ण­स्था­मा­ख्या­यि­का­म­नु­की­र्त­यति —
कथमित्यादिना ।
आभ्या­म­श्वि­भ्या­मिति यावत् ।

केन कार­णे­नो­वा­चे­त्य­पे­क्षा­या­माह —
तदेनयोरिति ।
एन­यो­र­श्वि­नो­स्त­न्मधु प्रीत्या­स्प­द­मा­सी­त्त­द्व­शा­त्ताभ्यां प्रार्थितो ब्राह्म­ण­स्त­दु­वा­चे­त्यर्थः ।

यदश्विभ्यां मधु प्रार्थितं तदेतेन वक्ष्यमाणेन प्रकारेण प्रय­च्छ­न्ने­वै­न­यो­र­श्वि­नो­रा­चा­र्य­त्वेन ब्राह्मणः समीपगमनं कृतवानित्याह —
तदेवेति ।

आचा­र्य­त्वा­न­न्तरं ब्राह्मणस्य वचनं दर्शयति —
स होवाचेति ।
एतच्छब्दो मध्वनुभवविषयः । यद्यर्थो यच्छब्दः । तच्छ­ब्द­स्त­र्ही­त्यर्थः । वां युवामुपनेष्ये शिष्यत्वेन स्वीकरिष्यामीति यावत् । तौ देवभिषजावश्विनौ शिर­श्छे­द­नि­मित्तं मरणं पञ्चम्यर्थः । नावावामुपनेष्ये शिष्यत्वेन स्वीकरिष्यसि यदेति यावत् । अथ­श­ब्द­स्त­दे­त्यर्थः । ब्राह्म­ण­स्या­नु­ज्ञा­न­न्त­र्य­म­थे­त्यु­क्तम् । मधु­प्र­व­च­ना­न्तर्यं तृती­य­स्या­थ­श­ब्द­स्यार्थः । यदश्वस्य शिरो ब्राह्मणे निबद्धं तस्य च्छेदनानन्तर्यं चतु­र्थ­स्या­थ­श­ब्द­स्यार्थः ।

तर्हि समस्तमपि मधु प्रव­र्ग्य­प्र­क­रणे प्रदर्शितमेवेति कृतमनेन ब्राह्म­णे­ने­त्या­श­ङ्क्याऽऽह —
यावत्त्विति ।

प्रव­र्ग्य­प्र­क­रणे स्थिताऽऽ­ख्या­यिका किम­र्थ­म­त्राऽऽ­नी­ते­त्या­शङ्क्य तस्या ब्रह्मविद्यायाः स्तुत्य­र्थे­य­मा­ख्या­यि­के­त्य­त्रो­क्त­मु­प­सं­ह­रति —
तत्रेति ।

ब्राह्म­ण­भा­ग­व्याख्यां निगमयति —
इदमिति ।

तद्वा­मि­त्या­दि­म­न्त्र­मु­त्थाप्य व्याचष्टे —
तदेतदिति ।

कथं लाभायापि क्रूर­क­र्मा­नु­ष्ठा­न­मत आह —
लाभेति ।

ननु प्रतिषेधे मुख्यो नकारः कथमिवार्थे व्याख्यायते तत्राऽऽह —
नकारस्त्विति ।
वेदे पदा­दु­प­रि­ष्टाद्यो नकारः श्रुतः स खलूपचारः सन्नुपमार्थोऽपि संभवति न निषेधार्थ एवेत्यर्थः ।

तत्रोदाहरणमाह —
यथेति ।
“अश्वं न गूढ­म­श्वि­ने”त्यत्र नकारो यथो­प­मा­र्थी­य­स्तथा प्रकृ­तेऽ­पी­त्यर्थः ।

तदेव स्पष्टयति —
अश्वमिवेति ।

यद्वदिति ।

उपमार्थीये नकारे सति वाक्य­स्व­रू­प­म­नूद्य तदर्थं कथयति —
तन्य­तु­रि­त्या­दिना ।

विद्या­स्तु­ति­द्वारा तद्व­न्ता­व­श्वि­ना­वत्र न स्तूयते किन्तु क्रूर­क­र्म­का­रि­त्वेन निन्द्येते तदा चाऽऽख्यायिका विद्या­स्तु­त्य­र्थे­त्य­यु­क्त­मिति शङ्कते —
नन्विति ।

आख्यायिकाया विद्या­स्तु­त्य­र्थ­त्व­म­वि­रु­द्ध­मिति परिहरति —
नैष इति ।
लोममात्रमपि न मीयत इति यस्मा­त्त­स्मा­द्वि­द्या­स्तुत्या तद्वतोः स्तुतिरेवात्र विवक्षितमिति योजना ।

यद्यपि क्रूर­क­र्म­का­रि­णो­र­श्वि­नोर्न दृष्ट­हा­नि­स्त­थाऽ­प्य­दृ­ष्ट­हानिः स्यादे­वे­त्या­शङ्क्य कैमु­ति­क­न्या­ये­नाऽऽह —
न चेति ।

कथं पुनर्निन्दायां दृश्यमानायां स्तुतिरिष्यते तत्राऽऽह —
निन्दामिति ।
न हि निन्दा निन्द्यं निन्दितुमपि तु विधेयं स्तोतुमिति न्यायादित्यर्थः ।

यथा निन्दा न निन्द्यं निन्दितुमेव तथा स्तुतिरपि स्तुत्यं स्तोतुमेव न भवति किन्तु निन्दितुमपि । तथा च नान­यो­र्व्य­व­स्थि­त­त्व­मि­त्याह —
तथेति ।

तद्वा­मि­त्या­दि­म­न्त्रस्य पूर्वार्धं व्याख्या­याऽऽ­ख्या­यि­कायाः स्तुत्य­र्थ­त्व­वि­रोधं चोद्धृ­त्यो­त्त­रार्धं व्यचष्टे —
दध्यङ्नामेति ।
यत्कक्ष्यं ज्ञानाख्यं मधु तदाथर्वणो युवाभ्यामश्वस्य शिरसा प्रोवाच । यच्चासौ मधु युवा­भ्या­मु­क्त­वां­स्त­द­ह­मा­वि­ष्कृ­णो­मीति संबन्धः ॥१६॥

समानार्थत्वे किमिति पुनरुच्यते तत्राऽऽह —
मन्त्रान्तरेति ।

तुल्यार्थस्य ब्राह्मणस्य तात्पर्यमाह —
तथेति ।

विशेषणकृत्यं दर्श­य­न्व्या­क­रोति —
दध्यङ्नामेति ।
प्रथ­म­म­श्व्य­मि­त्यादि पदा­र्थ­व­च­न­म­व­श्व­स्ये­त्यादौ छित्त्वेत्यस्य कर्मो­क्ति­र­वश्व्यं शिर इत्यत्र त्वन्या­र्थ­मु­क्त­मिति विभागः ।

प्रेक्षा­पू­र्व­का­रि­णा­मी­दृशी प्रवृ­त्ति­र­यु­क्तेति शङ्कित्वा समाधत्ते —
स किमर्थमिति ।

ऋता­य­न्नि­त्य­त्रा­र्थ­सि­द्ध­मर्थं कथयति —
जीवितादपीति ।

“यज्ञस्य शिरोऽच्छिद्यत ते देवा अश्वि­ना­व­ब्रु­व­न्भि­षजौ वै स्थ इदं यज्ञस्य शिरः प्रतिधत्तम् ।” इत्या­दि­श्रु­त्य­न्त­र­मा­श्रि­त्याऽऽह —
यज्ञ­स्ये­त्या­दिना ।

प्रव­र्ग्य­क­र्म­ण्येवं प्रवृत्तेऽपि प्रकृते विज्ञाने किमायातं तदाह —
तत्रेति ।

उक्तमेव संगृह्णाति —
यज्ञस्येति ।
यद्यथोक्तं दर्शनं तत्वाष्ट्रं मधु यच्च तन्मधु तत्प्रवोचदिति संबन्धः अध्या­य­द्व­य­प्र­का­शितं तृती­य­च­तु­र्था­भ्या­म­ध्या­याभ्यां प्रकटमिति यावत् ॥१७॥

उक्त­म­न्त्राभ्यां वक्ष्य­मा­ण­म­न्त्र­यो­र­पु­न­रु­क्त­त्वा­द­र्थ­वत्त्वं वक्तुं वृत्तं कीर्तयति —
उक्ताविति ।

आख्या­यि­का­वि­शे­ष­ण­प्राप्तं संकोचं परिहरति —
द्वयोरिति ।

उत्त­र­म­न्त्र­द्व­य­प्र­वृत्तिं प्रतिजानीते —
ब्रह्मेति ।

संप्र­त्य­वा­न्त­र­सं­ग­ति­माह —
यत्कक्ष्यं चेति ।

हिर­ण्य­ग­र्भ­क­र्तृकं शरीरनिर्माणमत्र नोच्यते किन्तु प्रक­र­ण­ब­ला­दी­श्व­र­क­र्तृ­क­मि­त्याह —
यत इति ।
शरी­र­सृ­ष्ट्य­पे­क्षया लोक­सृ­ष्टि­प्रा­थम्यं पुर­स्ता­द्दे­ह­सृ­ष्ट्य­न­न्तरं प्रवे­शा­त्पू­र्व­मिति यावत् ।

स हि सर्वेषु शरीरेषु वर्तमानः पुरि शेते इति व्युत्पत्त्या पुरिशयः सन्पुरुषो भवतीत्युक्त्वा प्रकारान्तरेण पुरुषत्वं व्युत्पादयति —
नेत्यादिना ।

वाक्य­द्व­य­स्यै­का­र्थ­त्व­मा­शङ्क्य सर्वं जग­दो­त­प्रो­त­त्वे­नाऽऽ­त्म­व्या­प्त­मि­त्य­र्थ­वि­शे­ष­मा­श्रि­त्याऽऽह —
बाह्यभूतेनेति ।

पूर्णत्वे सत्यात्मनः ‘दिव्यो ह्यमूर्तः’(मु. उ. २ । १ । २) इत्या­दि­श्रु­ति­मा­श्रित्य फलितमाह —
एवमिति ।

मन्त्र­ब्रा­ह्म­ण­यो­र­र्थ­वै­म­त्य­मा­श­ङ्क्याऽऽह —
पुर इति ॥१८॥

प्राचीनमेव ब्राह्मणमनूद्य मन्त्रा­न्त­र­म­व­ता­र­यति —
इदमिति ।
प्रति­श­ब्द­स्त­न्त्रे­णो­च्चा­रितः । रूपं रूपमुपाधिभेदं प्रति प्रतिरूपो रूपान्तरं प्रतिबिम्बं बभू­वे­त्ये­त­त्प्र­ति­रूपो बभूवेत्यत्र विवक्षितमिति योजना ।

अनुरूपो वेत्युक्तं विवृणोति —
यादृगित्यादिना ।

उक्त­म­र्थ­म­नु­भ­वा­रूढं करोति —
नहीति ।

रूपान्तरभवने कर्त्रन्तरं वारयति —
स एव हीति ।
प्रतिख्यापनाय शास्त्रा­चा­र्या­दि­भे­देन तत्त्व­प्र­का­श­ना­ये­त्यर्थः ।

तदेव व्यति­रे­के­णा­न्व­येन च स्फुटयति —
यदि हीत्यादिना ।

मायाभिः प्रज्ञाभिरिति परपक्षमुक्त्वा स्वपक्षमाह —
मायाभिरिति ।
मिथ्या­धी­हे­तु­भू­ता­ना­द्य­नि­र्वा­च्य­द­ण्डा­य­मान ज्ञानवशादेष बहुरूपो भाति ।

प्रकारभेदात्तु बहूक्तिरिति वाक्यार्थमाह —
एकरूप एवेति ।
अवि­द्या­प्र­ज्ञा­भि­र्ब­हु­रूपो गम्यत इति पूर्वेण संबन्धः ।

परस्य बहुरूपत्वे निमित्तं प्रश्नपूर्वकं निवेदयति —
कस्मादित्यादिना ।
यथा रथे युक्ता वाजिनो रथिनं स्वगोचरं देशं प्रापयितुं प्रवर्तन्ते तथाऽस्य प्रतीचो रथस्थानीयो शरीरे युक्ता हरयः स्ववि­ष­य­प्र­का­श­नाय यस्मा­त्प्र­व­र्तन्ते तस्मा­दि­न्द्रि­याणां तद्विषयाणां च बहु­ल­त्वा­त्त­त्त­द्द्रू­पै­रेष बहुरूपो भातीति योजना ।

हरि­श­ब्द­स्ये­न्द्रि­येषु प्रवृत्तौ निमित्तमाह —
हरणादिति ।
प्रतीचो विषयान्प्रतीति शेषः ।

इन्द्रि­य­बा­हुल्ये हेतुमाह —
प्राणेति ।
इन्द्रि­य­वि­ष­य­बा­हु­ल्यात् प्रत्यगात्मा बहुरूप इति शेषः ।

नन्वात्मानं प्रका­श­यि­तु­मि­न्द्रि­याणि प्रवृत्तानि न तु रूपादिकमेव तत्कथं तद्वि­ष­व­शा­दा­त्म­नोऽ­न्यथा प्रथे­त्या­श­ङ्क्याऽऽह —
तत्प्रकाशनायेति ।

तस्मा­दि­न्द्रि­य­वि­ष­य­बा­हु­ल्या­दि­त्य­त्रो­क्त­मु­प­सं­ह­रति —
तस्मादिति ।

यद्वा यथो­क्त­श्रु­ति­व­शेन लब्धमर्थमाह —
तस्मादिति ।
यस्मा­दि­न्द्रि­याणि पराग्विषये प्रवृत्तानि तस्मा­त्तै­रि­न्द्रि­यै­र्वि­ष­य­स्व­रू­पै­रे­वायं प्रत्यगात्मा गम्यते न तु स्वासाधारणेन रूपेणेत्यर्थः ।

युक्ता हीति संबन्धमाश्रित्य शङ्कते —
एवं तर्हीति ।

अय­मि­त्या­दि­वा­क्येन परिहरति —
अयमिति ।
तत्त­दि­न्द्रि­या­दि­रू­पे­णाऽऽ­त्मन एवाविद्यया भानात्संबन्धस्य च कल्पि­त­त्वा­न्ना­द्वै­त­हा­नि­रि­त्यर्थः ।

इन्द्रि­या­नन्त्ये हेतुमाह —
प्राणिभेदस्येति ।

वाक्या­र्थ­व्या­ख्या­ना­र्थ­मित्थं गतेन सन्दर्भेण भूमिकामारचय्य तत्परं वाक्यमवतार्य व्याकरोति —
किं बहुनेत्यादिना ।

न केव­ल­म­ध्या­य­द्व­य­स्यै­वा­र्थोऽत्र संक्षि­प्यो­प­सं­हृतः किन्तु सर्व­वे­दा­न्ता­ना­मि­त्याह —
एष इति ।

तस्यो­भ­य­वि­ध­पु­रु­षा­र्थ­रू­प­त्व­माह —
एतदिति ।

वक्त­व्या­न्त­र­प­रि­शे­ष­शङ्कां परिहरति —
परिसमाप्तश्चेति ॥१९॥