आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: सप्तमं ब्राह्मणम्
पूर्वस्मिन्ब्राह्मणे सूत्रादर्वाक्तनं व्यापकमुक्तमिदानीं सूत्रं तदन्तर्गतमन्तर्यामिणं च निर्वक्तुमुत्तरब्राह्मणमिति संगतिमाह —
इदानीमिति ।
ब्राह्मणतात्पर्यमुक्त्वाऽऽख्यायिकातात्पर्यमाह —
तच्चाऽऽगमेनैवेति ।
आचार्योपदेशोऽत्राऽऽगमशब्दार्थः । गार्ग्या मूर्धपातभयादुपरतेरनन्तरमित्यथशब्दार्थः ।
सोऽब्रवीदिति प्रतीकोपादानं तस्य तात्पर्यमाह —
सूत्रेति ।
इतिशब्दार्थमाह —
एवमिति ।
येनायं चेत्यादिरुक्तः प्रकारः स सर्वलोकांश्च वेत्तीति संबन्धः ।
विशेषणोक्तिपूर्वकं तानेव लोकाननुवदति —
भूरादीनिति ।
स ब्रह्मविदित्यादिनोक्तं संक्षिपति —
सर्वं चति ।
तथाभूतं सूत्रेण विधृतमन्तर्यामिणा च नियम्यमानमिति यावत् ।
प्रस्तुतस्तुतिप्रयोजनमाह —
इत्येवमिति ।
भवत्वेवं तव सूत्रादिज्ञानं मम किमायातमित्याशङ्क्याऽऽह —
तच्चेदिति ।
किं तेनेत्यत्र तस्येत्यध्याहारः ।
कार्येण दर्शयेत्युक्तं विवृणोति —
यथेति ॥१॥
याज्ञवल्क्योक्तेस्तात्पर्यमाह —
ब्रह्मलोका इति ।
इत्यभीष्टमागमविदामित्यध्याहृत्याऽऽद्यस्येतिशब्दस्य योजना । प्रश्नान्तरं सूत्रविषयं गौतमवाक्यम् ।
वैशब्दार्थमाह —
नान्यदिति ।
सूक्ष्मत्वे दृष्टान्तमाह —
अकाशवदिति ।
वायुमेव विशिनाष्टि —
यदात्मकमिति ।
पञ्च भूतानि दश बाह्यानीन्दियाणि पञ्चवृत्तिः प्राणश्चतुर्विधमन्तःकरणमिति सप्तदशविधत्वम् ।
कर्मणां वासनानां चोत्तरसृष्टिहेतूनां प्राणिभिरर्जितानामाश्रयत्वादपेक्षितमेव लिङ्गमित्याह —
कर्मेति ।
तस्यैव सामान्यविशेषात्मना बहुरूपत्वमाह —
यत्तदिति ।
तस्यैव लोकपरीक्षकप्रसिद्धत्वमाह —
यस्येति ।
तस्य सूत्रत्वं साधयति —
वायुनेति ।
प्रसिद्धमेतत्सूत्रविदामिति शेषः ।
लौकिकीं प्रसिद्धिमेव प्रश्नपूर्वकमनन्तरश्रुत्यवष्टम्भेन स्पष्टयति —
कथमित्यादिना ।
उक्तमेव दृष्टान्तेन व्यनक्ति —
सूत्रेत्यादिना ।
वायोः सूत्रत्वे सिद्धे फलितमाह —
अत इति ॥२॥
नियन्तुरीश्वरस्य लौकिकनियन्तृवत्कार्यकरणवत्त्वमाशङ्क्याऽऽह —
यस्य चेति ।
पृथिव्याः शरीरत्वमेव न तु शरीरवत्त्वमित्याशङ्क्याऽऽह —
पृथिवीति ।
पृथिव्या यत्करणं तदेव तस्य करणं चेति योजना ।
कथं पृथिव्याः शरीरेन्द्रियवत्त्वं तदाह —
स्वकर्मेति ।
अन्तर्यामिणोऽपि तथा किं नस्यात्तत्राऽऽह —
तदस्येति ।
अस्यान्तर्यामिणस्तदेव कार्यं करणं च नान्यदित्यत्र हेतुमाह —
स्वकर्मेति ।
तदेव हेत्वन्तरेण स्फोरयति —
परार्थेति ।
यः पृथिवीमित्यादिवाक्यस्य तात्पर्यमाह —
देवतेति ।
तत्र वाक्यमवतार्य व्याचष्टे —
य ईदृगिति ।
नियम्यपृथिवीदेवताकार्यकरणाभ्यामेव कार्यकरणवत्त्वमीदृशत्वम् ॥३॥४॥५॥६॥७॥८॥९॥१०॥११॥१२॥१३॥
पृथिवीपर्याये दर्शितं न्यायं पर्यायान्तरेष्वतिदिशति —
समानमिति ॥१४॥
सर्वत्र प्राणादौ तिष्ठन्नन्तर्यामी तवाऽऽत्मेति संबन्धः । वाक्यान्तरं प्रश्नपूर्वकमुत्थाप्य व्याचष्टे —
कस्मादित्यादिना ।
यथा मनसि तथा बुद्धावपि संनिधानाज्ज्ञातृतेति यावत् । तत्रेति पूर्वसन्दर्भोक्तिः । अन्वयमुपलक्षयितुमतो नान्य इत्युक्तम् ।
पदार्थान्व्याकरोति —
अत इति ।
अन्यो द्रष्टा नास्तीति संबन्धः ।
एष त इत्यादिवाक्यस्यार्थमाह —
यस्मादित्यादिना ॥१५॥१६॥१७॥१८॥१९॥२०॥२१॥२२॥२३॥