आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: पञ्चमं ब्राह्मणम्
ब्राह्मणत्रयार्थं संगतिं वक्तुमनुवदति —
बन्धनमिति ।
चतुर्थब्राह्मणार्थं संक्षिपति —
यश्चेति ।
उत्तरब्राह्मणतात्पर्यमाह —
तस्येति ।
उषस्तप्रश्नानन्तर्यमथशब्दार्थः । पूर्ववदित्यभिमुखीकरणार्थं संबोधितवानित्यर्थः ।
बन्धध्वंसिज्ञानप्रश्नो नात्र प्रतिभाति किन्त्वनुवादमात्रमित्याशङ्क्याऽऽह —
यं विदित्वेति ।
तं व्याचक्ष्वेति पूर्वेण संबन्धः ।
प्रश्नयोरवान्तरविशेषप्रदर्शनार्थं परामृशति —
किमुषस्तेति ।
तत्र पूर्वपक्षं गृह्णाति —
भिन्नावितीति ।
उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
यदि हीत्यादिना ।
अथैकं वाक्यं वस्तुपरं तस्यार्थवादो द्वितीयं वाक्यं नेत्याह —
न चेति ।
द्वयोर्वाक्ययोस्तुल्यलक्षणत्वे फलितमाह —
तस्मादिति ।
तत्राऽऽद्यं वाक्यं क्षेत्रज्ञमधिकरोति द्वितीयं परमात्मनमित्यभिप्रेत्याऽऽह —
क्षेत्रज्ञेति ।
ब्राह्मणद्वयेनार्थद्वयं विवक्षिमिति भर्तृप्रपञ्चप्रस्थानं प्रत्याह —
तन्नेति ।
प्रश्नप्रतिवचनयोरेकरूपत्वान्नार्थभेदोऽस्तीत्युक्तमुपपादयति —
एष त इति ।
तथाऽप्यर्थभेदे काऽनुपपत्तिस्तत्राऽऽह —
न चेति ।
तदेवोपपादयति —
एको हीति ।
कार्यकरणसंघातभेदादात्मभेदमाशङ्क्याऽऽह —
न चेति ।
जातितः स्वभावतोऽहमहमित्येकाकारस्फुरणादित्यर्थः ।
इतश्च न तत्त्वभेद इत्याह —
द्वयोरिति ।
तदेव स्फुटयति —
यदीति ।
द्वयोर्मध्ये यद्येकं ब्रह्मागौणं तदेतरेण गौणेनावश्यं भवितव्यं तथाऽऽत्मत्वादि यद्येकस्येष्टं तदेतरस्यानात्मत्वादीति कुतः स्यादिति चेत्तत्राऽऽह —
विरुद्धत्वादिति ।
उक्तोपपादनपूर्वकं द्विःश्रवणस्याभिप्रायमाह —
यदीत्यादिना ।
अनेकमुख्यत्वासंभवाद्वस्तुतः परिच्छिन्नस्य घटवदब्रह्मत्वादनात्मत्वाच्चैकमेव मुख्यं प्रत्यग्भूतं ब्रह्मेत्यर्थः ।
यदि जीवश्वरभेदाभावात्प्रश्नयोर्नार्थभेदस्तर्हि पुनरुक्तिरनर्थिकेत्याशङ्क्याऽऽह —
तस्मादिति ।
तर्हि स एव विशेषो दर्शयितव्यो येन पुनरुक्तिरर्थवतीत्याशङ्क्याऽऽह —
यत्त्विति ।
अनुक्तविशेषकथनार्थमुक्तपरिमाणं निर्णेतुमुक्तानुवादश्चेदनुक्तो विशेषस्तर्हि प्रदर्श्यतामिति पृच्छति —
कः पुनरिति ।
बुभुत्सितं विशेषं दर्शयति —
उच्यत इति ।
इति शब्दः क्रियापदेन संबध्यते ।
किमित्येष विशेषो निर्दिश्यते तत्राऽऽह —
यद्विशेषेति ।
अर्थभेदासंभवे फलितमाह —
तस्मादिति ।
योऽशनायेत्यादिना तु विवक्षितविशेषोक्तिरिति शेषः ।
एकमेवाऽऽत्मतत्त्वमधिकृत्य प्रश्नावित्यत्र चोदयति —
नन्विति ।
विरुद्धधर्मवत्त्वान्मिथो भिन्नौ प्रश्नार्थावित्येतद्दूषयति —
नेति ।
परिहृतत्वमेव प्रकटयति —
नामरूपेति ।
तयोर्विकारः कार्यकरणलक्षणः संघातः स एवोपाधिभेदस्तेन संपर्कस्तस्मिन्नहंममाध्यासस्तेन जनिता भ्रान्तिरहं कर्तेत्याद्या तावन्मात्रं संसारित्वमित्यनेकशो व्युत्पादितं तस्मान्नास्ति वस्तुतो विरुद्धधर्मवत्त्वमित्यर्थः ।
किं च सविशेषत्वनिर्विशेषत्वश्रुत्योर्विषयविभागोक्तिप्रसंगेन संसारित्वस्य मिथ्यात्वं मधुब्राह्मणान्तेऽवोचामेत्याह —
विरुद्धेति ।
कथं तर्हि विरुद्धधर्मवत्वप्रतीतिरित्याशङ्क्याऽऽह —
यथेति ।
परेणपुरुषेणाज्ञानेन वाऽध्यारोपितैः सर्पत्वादिभिर्धर्मैर्विशिष्टा इति यावत् । स्वतश्चाध्यारोपेण विनेत्यर्थः ।
प्रतिभासतो विरुद्धधर्मवत्त्वेऽपि क्षेत्रज्ञेश्वरयोर्भिन्नत्वाद्भिन्नार्थावेव प्रश्नाविति चेन्नेत्याह —
न चैवमिति ।
निरुपाधिकरूपेणासंसारित्वं सोपाधिकरूपेण संसारित्वमित्यविरोध उक्तः । इदानीमुपाध्यभ्युपगमे सद्वयत्वं सतश्चैव घटादेरुपाधित्वदृष्टेरिति शङ्कते —
नामेति ।
सलिलातिरोकेण न सन्ति फेनादयो विकारा नापि मृदाद्यतिरेकेण तद्विकारः शरावादयः सन्तीति दृष्टान्ताख्ययुक्तिबलादाविद्यनामरूपरचितकार्यकरणसंघातस्याविद्यामात्रत्वत्तस्याश्च विद्यया निरासान्नैवमिति परिहरति —
नेत्यादिना ।
कार्यसत्त्वमभ्युपगम्योक्तमिदानीं तदपि निरूप्यमाणे नास्तीत्याह —
यदा त्विति ।
नेह नानाऽस्ति किञ्चनेत्यादिश्रुत्यनुसारिभिर्वस्तुदृष्ट्या निरूप्यमाणे नामरूपे परमात्मतत्त्वादन्यत्वेनानन्यत्वेन वा निरूप्यमाणे तत्त्वतो वस्त्वन्तरे यदा तु न स्त इति संबन्धः ।
मृदादिविकारवदित्युक्तं प्रकटयति —
सलिलेति ।
तदा तत्परमात्मतत्त्वमपेक्ष्येति योजनीयम् ।
कदा तर्हि लौकिको व्यवहारस्तत्राऽऽह —
यदा त्विति ।
अविद्यया स्वाभाविक्या ब्रह्म यदोपाधिभ्यो विवेकेन नावधार्यते सदा लौकिको व्यवहारश्चेत्तार्हि विवेकिनां नासौ स्यादित्याशङ्क्याऽऽह —
अस्ति चेति ।
भेदभानप्रयुक्तो व्यवहारो विवेकिनामविवेकिनां च तुल्य एवायं वस्त्वन्तरास्तित्वाभिनिवेशस्तु विवेकिनां नास्तीति विशेषः ।
ननु यथाप्रतिभासं वस्त्वन्तरं पारमार्थिकमेव किं न स्यात्तत्राऽऽह —
परमार्थेति ।
किं द्वितीयं वस्तु तत्त्वतोऽस्ति किं वा नास्तीति वस्तुनि निरूप्यमाणे सति श्रुत्यनुसारेण तत्त्वदर्शिभिरेकमेवाद्वितीयं ब्रह्माव्यवहार्यमिति निर्धार्यते तेन व्यवहारदृष्ट्याश्रयणेन भेदकृतो मिथ्याव्यवहारस्तत्त्वदृष्ट्याश्रयणेन च तदभावविषयः शास्त्रीयो व्यवहार इत्युभयविधव्यवहारसिद्धिरित्यर्थः ।
तत्र शास्त्रीयव्यवहारोपपत्तिं प्रपञ्चयति —
न हीति ।
तथा च विद्यावस्थायां शास्त्रीयोऽभेदव्यवहारस्तदितरव्यवहारस्त्वाभासमात्रमिति शेषः ।
अविद्यावस्थायां लौकिकव्यवहारोपपत्तिंविवृणोति —
न च नामेति ।
उभयविधव्यवहारोपपत्तिमुपसंहरति —
तस्मादिति ।
उक्तरीत्या व्यवहारद्वयोपपत्तौ फलितमाह —
अत इति ।
प्रत्यक्षादिषु वेदान्तेषु चेति शेषः ।
ज्ञानाज्ञाने पुरस्कृत्य व्यवहारः शास्त्रीयो लौकिकश्चेति नास्माभिरेवोच्यते किन्तु सर्वेषामपि परीक्षकाणामेतत्संमतं संसारदशायां क्रियाकारकव्यवहारस्य मोक्षावस्थायां च तदभावस्येष्टत्वादित्याह —
सर्ववादिनामिति ।
निरुपाधिके परस्मिन्नात्मनि चिद्धातावनाद्यविद्याकल्पितोपाधिकृतमशनायादिमत्त्वं वस्तुतस्तु तद्राहित्यमित्युपपाद्यानन्तरप्रश्नमुत्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
कल्पिताकल्पितयोरात्मरूपयोर्निर्धारणार्था सप्तमी । योऽत्येति स सर्वान्तरत्वादिविशेषणस्तवाऽऽत्मेति शेषः ।
ननु परो नाशनायादिमानप्रसिद्धेर्नापि जीवस्तथा तस्य परस्मादव्यतिरेकादत आह —
अविवेकिभिरिति ।
परमार्थत इत्युभयतः संबध्यते । ब्रह्मैवाखण्डं सच्चिदानन्दमनाद्यविद्यातत्कार्यबुद्ध्यादिसंबद्धमाभासद्वारा स्वानुभवादशनायादिमद्गम्यते तत्त्वं वस्तुतोऽविद्यासंबन्धादशनायाद्यतीतं नित्यमुक्तं तिष्ठतीत्यर्थः । अशनायापिपासादिमद्ब्रह्म । गम्यमानमिति वदन्नाचार्यो नानाजीववादस्यानिष्टत्वं सूचयति ।
परमार्थतो ब्रह्मण्यशनायाद्यसंबन्धे मानमाह —
न लिप्यत इति ।
बाह्यत्वमसंगत्वम् ।
लोकदुःखेनेत्ययुक्तं लोकस्यानात्मनो दुःखसंबन्धानभ्युपगमादित्याशङ्क्याऽऽह —
अविद्वदिति
अशनायापिपासयोः समस्योपादाने हेतुमाह —
प्राणेति ।
अरतिवाची शोकशब्दो न कामविषय इत्याशङ्क्याऽऽह —
इष्टमिति ।
कामबीजत्वमरतेरनुभवेनाभिव्यनक्ति —
तेन हति ।
कामस्य शोको बीजमिति स कामतया व्याख्यातः ।
अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर्विपरीतप्रत्ययस्तस्मान्मनसि प्रभवति कर्तव्याकर्तव्याविवेकः स लौकिकः सम्यग्ज्ञानविरोधाद्भ्रमोऽविद्येत्युच्यते । तस्याः सर्वानर्थोत्पत्तौ निमित्तत्वं मूलाविद्यायास्तूपादानत्वं तदेतदाह —
मोहस्त्विति ।
कामस्य शोको मोहो दुःखस्य हेतुरिति भिन्नकार्यत्वं तद्विच्छेद इत्यत्र कार्यकरणसंघातस्तच्छब्दार्थः ।
संसाराद्विरक्तस्य पारिव्राज्यं वक्तुमुत्तरं वाक्यमित्यभिप्रेत्य संक्षेपतः संसारस्वरूपमाह —
ये त इत्यादिना ।
तेषामात्मधर्मत्वं व्यावर्तयितुं विशिनाष्टि —
प्राणेति ।
तेषां स्वरसतो विच्छेदशङ्कां वारयति —
प्राणिष्विति ।
प्रवाहरूपेण नैरन्तर्ये दृष्टान्तमाह —
अहोरात्रादिवदिति ।
तेषामतिचपलत्वे दृष्टान्तः —
समुद्रोर्मिवदिति ।
तेषां हेयत्वं द्योतयति —
प्राणिष्विति ।
ये यथोक्ताः प्राणिष्वशनायादयस्ते तेषु संसार इत्युच्यत इति योजना ।
एतं वै तमित्यत्रैतच्छब्दार्थमुषस्तप्रश्नोक्तं त्वम्पदार्थं कथयति —
योऽसाविति ।
तच्छब्दार्थं कहोलप्रश्नोक्तं तत्पदार्थं दर्शयति —
अशनायेति ।
तयोरैक्यं सामानाधिकरण्येन सूचितमित्याह —
तमेतमिति ।
ज्ञानमेव विशदयति —
अयमित्यादिना ।
ज्ञात्वा ब्राह्मणा व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।
संन्यासविधायके वाक्ये किमित्यधिकारिणि ब्राह्मणपदं तत्राऽऽह —
ब्राह्मणानामिति ।
पुत्रार्थामेषणामेव विवृणोति —
पुत्रेणेति ।
ततो व्युत्थानं संगृह्णाति —
दारसंग्रहमिति ।
वित्तैषणायाश्च व्युत्थानं कर्तव्यमित्याह —
वित्तेति ।
वित्तं द्विविधं मानुषं दैवं च । मानुषं गवादि तस्य कर्मसाधनस्योपादानमुपार्जनं तेन कर्म कृत्वा केवलेन कर्मणा पितृलोकं जेष्यामि । दैवं वित्तं विद्या तत्संयुक्तेन कर्मणा देवलोकं केवलया च विद्यया तमेव जेष्यामीतीच्छा वित्तैषणा ततश्च व्युत्थानं कर्तव्यमिति व्याचष्टे —
कर्मसाधनस्येति ।
एतेन लोकैषणायाश्च व्युत्थानमुक्तं वेदितव्यम् ।
दैवाद्वित्ताद्व्युत्थानमाक्षिपति —
दैवादिति ।
तस्यापि कामत्वात्ततो व्युत्थातव्यमिति परिहरति —
तदसदिति ।
तर्हि ब्रह्मविद्यायाः सकाशादपि व्युत्थानात्तन्मूलध्वंसे तद्व्याघातः स्यादित्याशङ्क्याऽऽह —
हिरण्यगर्भादीति ।
देवतोपासनाया वित्तशब्दितविद्यात्वे हेतुमाह —
देवलोकेति ।
तत्प्राप्तिहेतुत्वं ब्रह्मविद्यायामपि तुल्यमिति चेन्नेत्याह —
न हीति ।
तत्र फलान्तरश्रवणं हेतूकरोति —
तस्मादिति ।
इतश्च ब्रह्मविद्या दैवाद्वित्ताद्बहिरेवेत्याह —
तद्बलेनेति ।
प्रागेव वेदनं सिद्धं चेत्किं पुनर्व्युत्थानेनेत्याशङ्क्य प्रयोजकज्ञानं तत्प्रयोजकमुद्देश्यं तु तत्त्वसाक्षात्करणमिति विवक्षित्वाऽऽह —
तस्मादिति ।
प्रयोजकज्ञानं पञ्चम्यर्थः । व्युत्थाय भिक्षाचर्यं चरन्तीति संबन्धः ।
व्युत्थानस्वरूपप्रदर्शनार्थमेषणास्वरूपमाह —
एषणेति ।
किमेतावतेत्याशङ्क्य व्युत्थानस्वरूपमाह —
एतस्मिन्निति ।
संबन्धस्तु पूर्ववत् ।
या ह्येवेत्यादिश्रुतेस्तात्पर्यमाह —
सर्वा हीति ।
फलं नेच्छाति साधनं च चिकीर्षतीति व्याघातात्फलेच्छान्तर्भूतैव साधनेच्छा तद्युक्तमेषणैक्यमित्यर्थः ।
श्रुतेस्तदैक्यव्युत्पादकत्वं प्रश्नपूर्वकं व्युत्पादयति —
कथमित्यादिना ।
फलैषणान्तर्भावं साधनैषणायाः समर्थयते —
सर्व इति ।
उभे हीत्यादिश्रुतिमवतार्य व्याचष्टे —
या लोकैषणेति ।
प्रयोजकज्ञानवतः साध्यसाधनरूपात्संसाराद्विरक्तस्य कर्मतत्साधनयोरसंभवे साक्षात्कारमुद्दिश्य फलितं संन्यासं दर्शयति —
अत इति ।
अतिक्रान्ता ब्राह्मणाः किं प्रजयेत्यादिप्रकाशितास्तेषां कर्म कर्मसाधनं च यज्ञोपवीतादि नास्तीति पूर्वेण संबन्धः ।
देवपितृमानुषनिमित्तमिति विशेषणं विशदयति —
तेन हीति ।
प्राचीनावीतं पितॄणामुपवीतं देवानामित्यादिशब्दार्थः ।
यस्मात्पूर्वे विचारप्रयोजकज्ञानवन्तो ब्राह्मणा विरक्ताः संन्यस्य तत्प्रयुक्तं धर्ममन्वतिष्ठंस्तस्मादधुनातनोऽपि प्रयोजकज्ञानी विरक्तो ब्राह्मणस्तथा कुर्यादित्याह —
तस्मादिति ।
‘त्रिदण्डेन यतिश्चैव’ इत्यादिस्मृतेर्न परमहंसपारिव्राज्यमत्र विवक्षितमित्याशङ्क्याऽऽह —
त्यक्त्वेति ।
तस्य दृष्टार्थत्वान्मुमुक्षुभिस्त्याज्यत्वं सूचयति —
केवलमिति ।
अमुख्यत्वाच्च तस्य त्याज्यतेत्याह —
परिव्राज्येति ।
तथाऽपि त्वदिष्टः संन्यासो न स्मृतिकारैर्निबद्ध इति चेन्नेत्याह —
विद्वानिति ।
प्रत्यक्षश्रुतिविरोधाच्च स्मार्तसंन्यासो मुख्यो न भवतीत्याह —
अथेति ।
एतं वै तमित्यादिवाक्यस्य विधायकत्वमुपेत्य सर्वकर्मतत्साधनपरित्यागपरत्वमुक्तमाक्षिपति —
नन्विति ।
इतश्च यज्ञोपवीतमपरित्याज्यमित्याह —
यज्ञोपवीत्येवेति ।
याजनादिसमभिव्याहारादसंन्यासिविषयमेतदित्याशङ्क्याऽऽह —
पारिव्राज्ये तावदिति ।
वेदत्यागे दोषश्रुतेस्तदत्यागेऽपि कथं पारिव्राज्ये यज्ञोपवीतित्वमित्याशङ्क्याऽऽह —
उपासन इति ।
इत्यनेन वाक्येन गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्परिव्राजकधर्मेषु गुरूपासनादीनां कर्तव्यतया श्रुतिस्मृतिषु चोदितत्वाद्यज्ञोपवीतपरित्यागोऽवगन्तुं नैव शक्यत इत्यन्वयः ।
संप्रति प्रौढिमारूढो व्युत्थाने विधिमङ्गीकृत्यापि दूषयति —
यद्यपीत्यादिना
एषणाभ्यो व्युत्थाने सत्येषणात्वाविशेषात्कर्मणस्तत्साधनाच्च व्युत्थानं सेत्स्यतीत्याशङ्क्य यज्ञोपवीतादेरेषणात्वमसिद्धमित्याशयेनाऽऽह —
सर्वेति ।
अश्रुतकरणे श्रुतत्यागे च ‘अकुर्वन्विहितं कर्म’(या.स्मृ.३-२१९) इत्यादिस्मृतिमाश्रित्य दूषणमाह —
तथा चेति ।
ननु दृश्यते यज्ञोपवीतादिलिङ्गत्यागः स कस्मान्निराक्रियते तत्राऽऽह —
तस्मादिति ।
नेयमन्धपरम्परेति परिहरति —
नेत्यादिना ।
ब्रह्मचर्यादेव प्रव्रजेदित्यादिविध्युपलम्भेऽति प्रौढवादेनाऽऽत्मज्ञानविधिबलादेव संन्यासं साधयितुमात्मज्ञानपरत्वं तावदुपनिषदामुपन्यस्यति —
अपि चेति ।
इतश्चास्ति संन्यासे विधिरिति यावत् । तद्द्विधिबलादेव संन्याससिद्धिरिति शेषः ।
कथं सर्वोपनिषदात्मज्ञानपरेष्यते कर्तृस्तुतिद्वारा कर्मविधिशेषत्वेनार्थवादत्वादित्याशङ्क्याऽऽह —
आत्मेत्यादिना ।
अस्तु यथोक्तं वस्तु विज्ञेयं तथाऽपि प्रस्तुते किं जातं तदाह —
सर्वा हीति ।
ननु तस्य कर्तव्यत्वेऽपि कथं कर्मतत्साधनत्यागसिद्धिरत आह —
आत्मा चेति ।
विपक्षे दोषमाह —
अत इति ।
साधनफलान्तर्भूतत्वेनाऽऽत्मनो ज्ञानमविद्येत्यत्र प्रमाणमाह —
अन्योऽसावित्यादिना ।
क्रियाकारकफलविलक्षणस्याऽऽत्मनो ज्ञानं कर्तव्यं तत्सामर्थ्यात्साध्यसाधनत्यागः सिध्यतीत्युक्तं संप्रत्यविद्याविषयत्वाच्च साध्यसाधनयोर्विद्यावतां त्याज्यतेत्याह —
क्रियेति ।
तस्याविद्याविषयत्वे श्रुतीरुदाहरति —
यत्रेति ।
अविद्याविषयत्वेऽपि साधनादि विद्यावत एव भविष्यति विद्याविद्ययोरस्मदादिषु साहित्योपलम्भादित्याशङ्क्याऽऽह —
न चेति ।
विद्याविद्ययोः साहित्यासंभवे फलितमाह —
तस्मादिति ।
इतश्च प्रयोजकज्ञानवता साध्यसाधनभेदो न द्रष्टव्यो विवक्षिततत्त्वसाक्षात्कारविरोधित्वादित्याह —
सर्वेति ।
भवत्वविद्याविषयाणां विद्यावतस्त्यागस्तथाऽपि कुतो यज्ञोपवीतादीनां त्यागस्तत्राऽऽह —
यज्ञोपवीतादीति ।
तद्विषयत्वादित्यत्र तच्छब्दोऽविद्याविषयः ।
एषणात्वाच्च यज्ञोपवीतादीनां त्याज्यतेत्याह —
तस्मादिति ।
ज्ञेयत्वेन प्रस्तुतादिति यावत् ।
साध्यसाधनविषया तदात्मिकैषणा त्याज्येत्यत्र हेतुमाह —
विलक्षणेति ।
पुरुषार्थरूपाद्विपरीता सा हेयेत्यर्थः ।
साध्यसाधनयोरेषणात्वं साधयति ।
उभे हीति ।
तथाऽपि यज्ञोपवीतादीनां कर्माणां च कथमेषणात्वमित्याशङ्क्य साधनान्तर्भावादित्याह —
यज्ञोपवीतादेरिति ।
तयोरेषणात्वं कथं प्रतिज्ञामात्रेण सेत्स्यतीत्याशङ्क्याऽऽह —
उभे हीति ।
तयोरेषणात्वे सिद्धे फलितमाह —
यज्ञोपवीतादीति ।
आत्मज्ञानविधिरेव संन्यासविधिरित्युक्तत्वाद्व्युत्थायेत्यस्य नास्ति विधित्वमिति शङ्कते —
नन्विति ।
व्युत्थाय विदित्वेति पाठक्रममतिक्रम्य व्याख्याने भवत्येवायं विविदिषोर्विधिरिति परिहरति —
न विधित्सितेति ।
पाठक्रमेऽपि प्रयोजकज्ञानवतो विरक्तस्य भवत्येवायं विधिरित्यभिप्रेत्याऽऽह —
न हीति ।
उक्तमेवान्वयमुखेनोदाहरणद्वारा विवृणोति —
कर्तव्यानामिति ।
अभिषुत्य सोमस्य कण्डनं कृत्वा रसमादायेत्यर्थः ।
पाठक्रममेवाऽऽश्रित्य शङ्कते —
अविद्येति ।
प्रयोजकज्ञानवतो विरक्तस्याऽऽत्मज्ञानविधिसामर्थ्यलब्धस्य यज्ञोपवीतादित्यागस्य कर्तव्यात्मज्ञानेन समानकर्तृकत्वश्रवणादतिशयेनाऽऽवश्यकत्वसिद्धिरित्युत्तरमाह —
न सुतरामिति ।
व्युत्थाने दर्शितं न्यायं भिक्षाचर्येऽप्यतिदिशति —
तथेति ।
भिक्षाचर्यस्य चाऽऽत्मज्ञानविधिनैकवाक्यस्य तथैव दार्ढ्योपपत्तिरिति संबन्धः ।
व्युत्थानादिवाक्यस्यार्थवादत्वमुक्तमनूद्य दूषयति —
यत्पुनरित्यादिना ।
औदुम्बरो यूपो भवतीत्यादौ लेट्परिग्रहेण विधिस्वीकारवदत्रापि पञ्चमलकारेण विधिसिद्धेर्नार्थवादत्वशङ्केत्यर्थः ।
संप्रति प्रकृते वाक्ये पारिव्राज्यविधिमङ्गीकृत्य स्वयूथ्यः शङ्कते —
व्युत्थायेति ।
का तर्हि विप्रतिपत्तिस्तत्राऽऽह —
पारिव्राज्येति ।
लिङ्गं त्रिदण्डत्वादि । ‘पुराणे यज्ञोपवीते विसृज्य नवमुपादायाऽऽश्रमं प्रविशेत्’ ‘त्रिदण्डी कमण्डलुमान्’ इत्याद्याः श्रुतयः स्मृतयश्च ।
एषणात्वाद्यज्ञोपवीतादीनामपि त्याज्यत्वमुक्तमित्याशङ्क्य श्रुतिस्मृतिवशाद्व्युत्थाने संकोचमभिप्रेत्याऽऽह —
अत इति ।
उदाहृतश्रुतिस्मृतीनां विषयान्तरं दर्शयन्नुत्तरमाह —
नेत्यादिना ।
तदेव विवृणोति —
यद्धीत्यादिना ।
तस्याऽऽत्मज्ञानाङ्गत्वे हेतुमाह —
आत्मज्ञानेति ।
एषणायास्तद्विरोधित्वमेव कुतस्सिद्धं तत्राऽऽह —
अविद्येति ।
तर्हि यथोक्तानां श्रुतिस्मृतीनां किमालम्बनं तदाह —
तद्व्यतिरेकेणेति ।
आश्रमत्वेन रूप्यते वस्तुतस्तु नाऽऽश्रमस्तदाभास इति यावत् ।
तस्याऽऽत्मज्ञानाङ्गत्वं वारयति —
ब्रह्मेति ।
अथ व्युत्थानवाक्योक्तमुख्यपारिव्राज्यविषयत्वमेव लिङ्गादिविधानस्य किं न स्यात्तत्राऽऽह —
न चेति ।
एषणारूपाणि साधनानि यज्ञोपवीतादीनि तेषामुपादानमनुष्ठानं तस्याऽऽश्रमधर्ममात्रेणोक्तस्य यथोक्ते संन्यासाभासे विषये सति प्रधानबाधेन मुख्यपारिव्राज्यविषयत्वमयुक्तमित्यर्थः ।
कथं पुनर्मुख्यपारिव्राज्यविषयत्वे यज्ञोपवीतादेरिष्टे प्रधानबाधनं तदाह —
यज्ञोपवीतादीति ।
साध्यसाधनयोरासंगे तद्विलक्षणस्याऽऽत्मनो ज्ञानं बाध्यते चेत्का नो हानिरित्याशङ्क्याऽऽह —
न चेति ।
भिक्षाचर्यं तावद्विहितं विहितानुष्ठानं च यज्ञोपवीतादि विना न संभवतीति श्रुत्यैवाऽऽत्मज्ञानं यज्ञोपवीतादिविरोधि बाधितमिति शङ्कते —
भिक्षाचर्यमिति ।
शङ्कामेव विशदयति —
अथापीत्यादिना ।
यथा हुतशेषस्य भक्षणं विहितमपि न द्रव्याक्षेपकं परिशिष्टद्रव्योपादानेन प्रवृत्तेस्तथा सर्वस्वत्यागे विहिते परिशिष्टभिक्षोपादानेन विहितमपि भिक्षाचरणमुपवीताद्यनाक्षेपकमित्युत्तरमाह —
नेत्यादिना ।
दृष्टान्तमेव स्पष्टयति —
शेषेति ।
तद्भक्षणमिति संबन्धः । अप्रयोजकं द्रव्यविशेषस्यानाक्षेपकमिति यावत्।
यद्वा दार्ष्टान्तिकमेव स्फुटयति —
शेषेति ।
सर्वस्वत्यागे विहिते शेषस्य कालस्य शरीरपातान्तस्य प्रतिपत्तिकर्ममात्रं भिक्षाचर्यमतो न तदुपवीतादिप्रापकमित्यर्थः ।
किञ्च भिक्षाचर्यस्य शरीरस्थित्यैवाऽऽक्षिप्तत्वान्न तत्राऽपि विधिर्दूरे तद्वशादुपवीतादिसिद्धिरित्याह —
असंस्कारकत्वाच्चेति ।
तदेव स्फुट्यते —
भक्षणमिति ।
‘एककालं चरेद्भैक्षम्’(म.स्मृ. ६। ५५) इत्यादिनियमवशाददृष्टं सिध्यदुपवीतादिकमप्याक्षिपतीति चेन्नेत्याह —
नियमेति ।
विविदिषोस्तदिष्टमपि नोपवीताद्याक्षेपकं ज्ञानोत्पादकश्रवणाद्युपयोगिदेहस्थित्यर्थत्वेनैव चरितार्थत्वादिति भावः ।
तर्हि यथाकथञ्चिदुपनतेनान्नेन शरीरस्थितिसंभवाद्भिक्षाचर्यं चरन्तीति वाक्यं व्यर्थमिति शङ्कते —
नियमादृष्टस्येति ।
भिक्षाचर्यानुवादेन प्रतिग्रहादिनिवृत्त्यर्थत्वाद्वाकस्य नाऽऽनर्थक्यमित्युत्तरमाह —
नान्येति ।
निवृत्त्युपदेशेन वाक्यस्यार्थवत्त्वेऽपि तदुपदेशस्य नार्थवत्त्वं कूटस्थात्मज्ञानेनैव सर्वनिवृत्तेः सिद्धेरिति शङ्कते —
तथाऽपीति ।
यदि निष्क्रियात्मज्ञानादशेषनिवृत्तिः स्यात्तर्हि तदस्माभिरपि स्वीक्रियते सत्यमित्यङ्गीकरोति —
यदीति ।
यदि तु क्षुदादिदोषप्राबल्यादात्मानं निष्क्रियमपि विस्मृत्य प्रार्थनादिपरो भवति तदा निवृत्त्युपदेशोऽपि भवत्यर्थवानिति भावः ।
प्रागुक्तवाक्यविरोधान्निवृत्त्युपदेशोऽशक्य इति चेत्तत्राऽऽह —
यानीति ।
मुख्यपरिव्राड्विषयत्वे दोषं स्मारयति —
इतरथेति ।
निवृत्त्युपदेशानुग्राहकत्वेन स्मृतीरुदाहरति —
निराशिषमित्यादिना ।
अमुख्यसंन्यासिविषयत्वासंभवान्मुख्यपरिव्राड्विषयं व्युत्थानवाक्यमित्युपसंहरति —
तस्मादिति ।
इति शब्दो व्युत्थानवाक्यव्याख्यानसमाप्त्यर्थः ।
तस्मादित्यादिवाक्यमवतार्य व्याचष्टे —
यस्मादित्यादिना ।
उक्तमेव व्युत्थानं स्पष्टयति —
दृष्टेति ।
विवेकवैराग्याभ्यामेषणाभ्यो व्युत्थाय श्रुत्याचार्याभ्यां कर्तव्यं ज्ञानं निःशेषं कृत्वा बाल्येन तिष्ठासेदिति व्यवहितेन संबन्धः ।
पाण्डित्यं निर्विद्येत्यनेनैव व्युत्थानं विहितमित्याह —
एषणेति ।
तद्धि पाण्डित्यमेषणाभ्यो व्युत्थानस्यावसाने संभवति तदत्र व्युत्थानविधिरित्यर्थः ।
तदेव स्फुटयति —
एषणेत्यादिना ।
तासां तिरस्कारेण पाण्डित्यमुद्भवति तस्यैषणाभ्यो विरुद्धत्वात्तथा च पाण्डित्यं निर्विद्येत्यत्र ताभ्यो व्युत्थानविधानमुचितमित्यर्थः ।
विनाऽपि व्युत्थानं पाण्डित्यमुद्भविष्यतीति चेन्नेत्याह —
न हीति ।
पाण्डित्यं निर्विद्येत्यत्र व्युत्थानविधिमुक्तमुपसंहरति —
इत्यात्मज्ञानेनेति ।
तर्हि किमिति विदित्वा व्युत्थायेत्यत्र व्युत्थाने विधिरभ्युपगतस्तत्राऽऽह —
आत्मज्ञानेति ।
तेन व्युत्थानस्य समानकर्तृकत्वे क्त्वाप्रत्ययस्योपादानमेव लिङ्गभूता श्रुतिस्तया दृढीकृतं नियमेन प्रापितं व्युत्थानमित्यर्थः ।
बाल्येनेत्यादि वाक्यमुत्थाप्य व्याकरोति —
तस्मादिति ।
विवेकादिवशादेषणाभ्यो व्युत्थाय पाण्डित्यं संपाद्य तस्मात्पाण्डित्याज्ज्ञानबलभावेन स्थातुमिच्छेदिति योजना ।
केयं ज्ञानबलभावेन स्थितिरित्याशङ्क्य तां व्युत्पादयति —
साधनेत्यादिना ।
विद्वानिति विवेकित्वोक्तिः ।
यथोक्तबलभावावष्टम्भे करणानां विषयपारवश्यनिवृत्त्या पुरुषस्यापि तत्पारवश्यनिवृत्तिः फलतीत्याह —
तदाश्रयणे हीति ।
उक्तमेवार्थं व्यतिरेकमुखेन विशदयति —
ज्ञानबलेति ।
नन्वद्यापि ज्ञानस्य बलं कीदृगिति न ज्ञायते तत्राऽऽह —
बलं नामेति ।
बाल्यवाक्यार्थमुपसंहरति —
अत इति ।
यथा ज्ञानबलेन विषयाभिमुखी तद्व्यापके दृष्टिस्तिरस्क्रियते तथेति यावत् । आत्मना तद्विज्ञानातिशयेनेत्यर्थः । वीर्यं विषयदृष्टितिरस्करणसामर्थ्यमित्येतत् । बलहीनेन विषयदृष्टितिरस्करणसामर्थ्यरहितेनायमात्मा न लभ्यो न शक्यः साक्षात्कर्तुमित्यर्थः ।
बाल्यं चेत्यादि वाक्यमादाय व्याचष्टे —
बाल्यं चेति ।
पूर्वोक्तयोरुत्तरत्र हेतुत्वद्योतनार्थोऽथशब्दः ।
तदेवोपपादयति —
एतावद्धीति ।
वाक्यान्तरमुत्थाप्य व्याकरोति —
अमौनं चेत्यादिना ।
मौनामौनयोर्ब्राह्मण्यं प्रति सामग्रीत्वद्योतकोऽथशब्दः ।
ब्राह्मण्यमुपपादयति —
ब्रह्मैवेति ।
आचार्यपरिचर्यापूर्वकं वेदान्तानां तात्पर्यावधारणं पाण्डित्यम् । युक्तितोऽनात्मदृष्टितिरस्कारो बाल्यम् । ‘अहमात्मा परं ब्रह्म न मत्तोऽन्यदस्ति किञ्चन’ इति मनसैवानुसन्धानं मौनम् । महावाक्यार्थावगतिर्ब्राह्मण्यमिति विभागः ।
प्रागपि प्रसिद्धं ब्राह्मण्यमिति चेत्तत्राऽऽह —
निरुपचरितमिति ।
ब्रह्मविदः समाचारं पृच्छति —
स इति ।
अनियतं तस्य चरणमित्युत्तरमाह —
येनेति ।
उक्तलक्षणत्वं कृतकृत्यत्वम् ।
अव्यवस्थितं चरणमिच्छतो ब्रह्मविदो यथेष्टचेष्टाऽभीष्टा स्यात्तथा च ‘यद्यदाचरति श्रेष्ठः’(भ. गी. ३-२१) इति स्मृतेरितरेषामप्याचारेऽनादरः स्यादित्याशङ्क्याऽऽह —
येन केनचिदिति ।
विहितमाचरतो निषिद्धं च त्यजतः शुद्धबुद्धेः श्रुताद्वाक्यात्सम्यग्धीरुत्पद्यते तस्य च वासनावसाद्व्यवस्थितैव चेष्टा नाव्यवस्थितेति न यथेष्टाचरणप्रयुक्तो दोष इत्यर्थः ।
अतोऽन्यदित्यादि व्याकरोति —
अत इति ।
स्वप्नेत्यादि बहुदृष्टान्तोपादानं दार्ष्टान्तिकस्य बहुरूपत्वद्योतनार्थम् ।
अतोऽन्यदिति कुतो विशेषणमित्याशङ्क्याऽऽह —
आत्मैवेति ॥१॥