आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: नवमं ब्राह्मणम्
ब्राह्मणान्तरमुत्थापयति —
अथेति ।
गार्गिप्रश्ने निर्णीते तया ब्रह्मवदनं प्रत्येतत्तुल्यो नास्तीति सर्वान्प्रति कथनानन्तर्यमथशब्दार्थः ।
संगतिं वक्तुं वृत्तं कीर्तयति —
पृथिव्यादीनामिति ।
यत्साक्षादित्यादि प्रस्तुत्य सर्वान्तरत्वनिरूपणद्वारा साक्षित्वादिकमार्थिकं ब्राह्मणत्रये निर्धारितमित्यर्थः ।
अन्तर्यामिब्राह्मणे मुखतो निर्दिष्टमर्थमनुद्रवति —
तस्य चेति ।
नामरूपाभ्यां व्याकृतो विषयो द्वैतप्रपञ्चस्तत्र सूत्रस्य भेदा ये पृथिव्यादयस्तेषु नियम्येषु नियन्तृत्वं तस्योक्तमिति योजना ।
किमिति व्याकृतविषये नियन्तृत्वमुक्तमिति तत्राऽऽह —
व्याकृतेति ।
तत्र हि परतन्त्रस्य पृथिव्यादेर्ग्रहणं नियम्यत्वे स्पष्टतरं लिङ्गमिति तत्रैव नियन्तृत्वमुक्तमित्यर्थः ।
वृत्तमनूद्योत्तरस्य ब्राह्मणस्य तात्पर्यमाह —
तस्यैवेति ।
नियन्तव्यानां देवताभेदानां प्राणान्तः संकोचो विकासश्चाऽऽनन्त्यपर्यन्तस्तद्द्वारा प्रकृतस्यैव ब्रह्मणः साक्षात्परोक्षत्वे स एष नेति नेत्यात्मेत्यादिनाऽधिगन्तव्ये इति कृत्वा प्रथमं देवतासंकोचविकासोक्तिरनन्तरं वस्तुनिर्देश इत्येतदर्थमेतद्ब्राह्मणमित्यर्थः ।
ब्राह्मणारम्भमेवमुक्त्वा तदक्षराणि व्याकरोति —
अथेत्यादिना ।
निविदिश्रूयन्ते तावन्तो देवा इत्युत्तरत्र संबन्धः ।
केयं निविदिति पृच्छति —
निविन्नामेति ।
उत्तरमाह —
देवतेति ।
पदार्थमुक्त्वा वाक्यार्थं कथयति —
तस्यामिति ।
यद्यपि भाष्ये निविद्व्याख्याता तथापि प्रश्नद्वारा श्रुत्या तां व्याख्याति —
का पुनरित्यादिना ।
अनुज्ञावाक्यं व्याकरोति —
एवमिति ।
मध्यमा संख्या षडधिकत्रिशताधिकत्रिसहस्रलक्षणा ।
कत्येवेत्यादिप्रश्नानां पूर्वप्रश्नेन पौनरुक्त्यमाशङ्क्य परिहरति —
पुनरित्यादिना ।
कतमे ते त्रयश्चेत्यादिप्रश्नस्य विषयभेदं दर्शयति —
देवतेति ॥१॥
कति तर्हि देवा निविदि भवन्ति तत्राऽऽह —
परमार्थतस्त्विति ।
त्रयस्त्रिंशतो देवानां स्वरूपं प्रश्नद्वारा निर्धारयति —
कतमे त इति ॥२॥
उत्तरप्रश्नप्रपञ्चप्रतीकं गृहीत्वा तस्य तात्पर्यमाह —
कतम इति ।
तेषां वस्वादीनां प्रत्येकं वस्वादित्रये प्रतिगणमिन्द्रे प्रजापतौ चैकैकस्येत्यर्थः ।
तेषां वसुत्वमेतेषु हीत्यादिवाक्यावष्टम्भेन स्पष्टयति —
प्राणिनामिति ।
तेषां कर्मणस्तत्फलस्य चाऽऽश्रयत्वेन तेषामेव निवासत्वेन च शरीरेन्द्रियसमुदायाकारेण विपरिणमन्तोऽग्न्यादयो जगदेतद्वासयन्ति स्वयं च तत्र वसन्ति तस्माद्युक्तं तेषां वसुत्वमित्यर्थः ।
वसुत्वं निगमयति —
ते यस्मादिति ॥३॥
प्राणशब्दार्थमाह —
कर्मेति ।
ते यदाऽस्मादित्यादि वाक्यमनुसृत्य तेषां रुद्रत्वमुपपादयति —
त एते प्राणा इति ।
मरणकालः सप्तम्यर्थः ॥४॥
तेषामादित्यत्वमप्रसिद्धमिति शङ्कते —
कथमिति ।
एते हीत्यादिवाक्येनोत्तरमाह —
एते हीति ॥५॥
प्रसिद्धं वज्रं व्यावर्तयति —
वीर्यमिति ।
तदेव संघातनिष्ठत्वेन स्फुटयति —
बलमिति ।
किं तद्बलमिति चेत्तत्राऽऽह —
यत्प्राणिन इति ।
प्रमापणं हिंसनम् ।
कथं तस्येन्द्रत्वमुपचारादित्याह —
इन्द्रस्य हीति ।
पशूनां यज्ञत्वमप्रसिद्धमित्याशङ्क्याऽऽह —
यज्ञस्य हीति ।
कारणे कार्योपचारं साधयति —
यज्ञस्येति ।
अमूर्तत्वात्साधनव्यतिरिक्तरूपाभावाद्यज्ञस्य पश्वाश्रयत्वाच्च पशवो यज्ञ इत्युच्यत इत्यर्थः ॥६॥
एते हीति प्रतीकमादाय व्याचष्टे —
यस्मादिति ।
त्रयस्त्रिंशदाद्युक्तं तत्सर्वमेत एव यस्मात्तस्मादेते षड्भवन्तीति योजना ।
अक्षरार्थमुक्त्वा वाक्यार्थमाह —
सर्वो हीति ॥७॥
प्रतिज्ञासमाप्तावितिशब्दः ।
तत्र हेतुः —
एषु हीति ।
देवलक्षणकृतां केषाञ्चिदेष पक्षो दर्शितोऽन्येषां तु त्रयो लोका इत्यस्य यथाश्रुतोऽर्थ इत्याह —
इत्येष इति ॥८॥
एकस्याध्यर्धत्वमाक्षिपति —
तत्तत्रेति ।
इवशब्दस्तु कथमित्यत्र संबध्यते ।
परिहरति —
यदस्मिन्निति ।
प्राणस्य ब्रह्मत्वं साधयति —
सर्वेति ।
तेन महत्त्वेनेति यावत् ।
तस्य परोक्षत्वप्रतिपत्तौ प्रयत्नगौरवार्थं कथयति —
त्यदितीति ।
उक्तमर्थं प्रतिपत्तिसौकर्यार्थं संगृह्णाति —
देवानामिति ।
एकत्वं प्राणे पर्यवसानम् । नानात्वमानन्त्यम् ।
षडधिकत्रिशताधिकत्रिसहस्रसंख्याकानामेव देवानामत्रोक्तत्वात्कथं तदानन्त्यमित्याशङ्क्यशतसहस्रशब्दाभ्यामनन्तताऽप्युक्तैवेत्याशयेनाऽऽह —
अनन्तानामिति ।
एकस्मिन्प्राणे पर्यवसानं यावद्भवति तावत्पर्यन्तमुत्तरोत्तरेषु त्रयस्त्रिंशदादिषुतेषामप्यन्तर्भाव इत्याह —
तेषामपीति ।
प्राणस्य कस्मिन्नन्तर्भावस्तत्राऽऽह —
प्राणस्यैवेति ।
संगृहीतमर्थमुपसंहरति —
एवमिति ।
एकस्यानेकधाभावे किं निमित्तमित्याशङ्क्याऽऽह —
तत्रेति ।
उक्तरीत्या प्राणस्वरूपे स्थिते सतीति यावत् । देवस्यैकस्य प्रकृतस्य प्राणस्यैवेत्यर्थः । प्राणिनां ज्ञाने कर्मणि चाधिकारस्य स्वामित्वस्य भेदोऽधिकारभेदस्तन्निमित्तत्वेन देवस्यानेकसंस्थानपरिणामसिद्धिः । प्राणिनो हि ज्ञानं कर्म चानुष्ठाय सूत्रांशमग्न्यादिरूपमापद्यन्ते तद्युक्तो यथोक्तो भेद इत्यर्थः ॥९॥
संकोचविकासाभ्यां प्राणस्वरूपोक्त्यनन्तरमवसरप्राप्तिरिदानीमित्युच्यते । उपदिश्यते ध्यानार्थमिति शेषः । अवयवशो वाक्यं योजयति —
पृथिवीति ।
संपिण्डितं वाक्यत्रयार्थं कथयति —
पृथिवीत्यादिना ।
वैशब्दोऽवधारणार्थः । तं परायणं य एव विजानीयात्स एव वेदिता स्यादिति संबन्धः ।
अथ केन रूपेण पृथिवीदेवस्य कार्यकरणसंघातं प्रत्याश्रयत्वं तदाह —
मातृजेनेति ।
पृथिव्या मातृशब्दवाच्यत्वाद्य एव देवोऽहं पृथिव्यस्मीति मन्यसे स एव शरीरारम्भकमातृजकोशत्रयाभिमानितया वर्तते । तथा च तस्य तेन रूपेण पितृजत्रितयं कार्यं लिङ्गं च करणं प्रत्याश्रयत्वं संभवतीत्यर्थः ।
पृथिवीदेवस्य परायणत्वमुपपाद्यानन्तरवाक्यमुत्थाप्य व्याचष्टे —
स वै वेदितेति ।
तथाऽपि मम किमायातमित्याशङ्क्याऽऽह —
याज्ञवल्क्येति ।
स पुरुषो येन विशेषणेन विशिष्टस्तद्विशेषणमुच्यमानं शृण्वित्युक्त्वा तदेवाऽऽह —
य एवेति ।
शरीरं हि पञ्चभूतात्मकं तत्र पार्थिवांशे जनकत्वेन स्थितः शारीर इति यावत् ।
तस्य जीवत्वं वारयति —
मातृजेति ।
पृथिवीदेवस्य निर्णीतत्वशङ्कां वारयति —
किन्त्विति ।
याज्ञवल्क्यो वक्ता सन्प्रष्टारं शाकल्यं प्रति कथं वदैवेति कथयति तत्राऽऽह —
पृच्छेति ।
क्षोभितस्यामर्षवशगत्वे दृष्टान्तः —
तोत्रेति ।
प्राकरणिकं देवताशब्दार्थमाह —
यस्मादिति ।
पुरुषो निष्पत्तिकर्ता षष्ठ्योच्यते ।
लोहितनिष्पत्तिहेतुत्वमन्नरसस्यानुभवेन साधयति —
तस्माद्धीति ।
तस्य कार्यमाह —
ततश्चेति ।
लोहितादद्वितीयपदार्थनिष्ठात्तत्कार्यं त्वङ्मांसरुधिररूपं बीजस्यास्थिमज्जाशुक्रात्मकस्याऽऽश्रयभूतं भवतीत्यर्थः ।
पर्यायसप्तकमाद्यपर्यायेण तुल्यार्थत्वान्न पृथग्व्याख्यानापेक्षमित्याह —
समानमिति ॥१०॥
उत्तरपर्यायेषु येषां पदानामर्थभेदस्तेषां तत्कथनार्थं प्रतीकं गृह्णाति —
काम इति ।
वाक्यार्थमाह —
कामशरीर इत्यर्थ इति ।
स च हृदयदर्शनो मनसा संकल्पयितेति पूर्ववत् ।
तस्य विशेषणं दर्शयति —
य एवेति ।
आध्यात्मिकस्य काममयस्य पुरुषस्य कारणं पृच्छति —
तस्येति ।
तस्यास्तत्कारणत्वमनुभवेन व्यनक्ति —
स्त्रीतो हीति ॥११॥
रूपशरीरस्य चक्षुर्दर्शनस्य मनसा संकल्पयितुर्देवस्य कथमादित्ये पुरुषो विशेषणमित्याशङ्क्याऽऽह —
सर्वेषां हीति ।
रूपमात्राभिमानिनो देवस्याऽऽदित्ये पुरुषो विशेषावच्छेदः । स च सर्वरूपप्रकाशकत्वात्सर्वै रूपैः स्वप्रकाशनायाऽऽरब्धः । तस्माद्युक्तं यथोक्तं विशेषणमित्यर्थः ।
कथं चक्षुषः सकाशादादित्यस्योत्पत्तिरित्याशङ्क्य ‘चक्षोः सूर्यो अजायत’ इति श्रुतिमाश्रित्याऽऽह —
चक्षुषो हीति ॥१२॥
तत्रापीति श्रौत्रोक्तिः । प्रतिश्रवणं संवादः प्रतिविषयं श्रवणं वा सर्वाणि श्रवणानि वा तद्दशायामिति यावत् ।
दिशस्तत्राधिदैवतमिति श्रुतिमश्रित्याऽऽह —
दिग्भ्यो हीति ॥१३॥
अधिदैवतं मृत्युरीश्वरो मृत्युनैवेदमावृतमासीदिति श्रुतेः । स च तस्याज्ञानमयस्याऽऽध्यात्मिकस्य पुरुषस्योत्पत्तिकारणमविवेकिप्रवृत्तेरीश्वराधीनत्वादीश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वेति हि पठन्ति तदाह —
मृत्युरिति ॥१४॥
पुनरुक्तिं प्रत्याह —
पूर्वमिति ।
आधारशब्दो भावप्रधानस्तथा च प्रतिबिम्बस्याऽऽधारत्वं यत्र तदित्युक्तं भवति । आदिशब्देन स्वच्छस्वभावं खङ्गादि गृह्यते ।
प्राणेन हि निघृष्यमाणे दर्पणादौ प्रतिबिम्बाभिव्यक्तियोग्ये रूपविशेषो निष्पद्यते । ततो युक्तं प्राणस्य प्रतिबिम्बकारणत्वमित्यभिप्रेत्याऽऽह —
तस्येति ॥१५॥
आप एव यस्याऽऽयतनं य एवायमप्सु पुरुष इत्युभयत्र सामान्यविशेषभावो न प्रतिभातीति शङ्कमानं प्रत्याह —
साधरणा इति ।
कथं पुनर्वापीकूपादिविशेषायतनस्य वरुणो देवता न हि देवतात्मनो वरुणस्य तदधिष्ठातुस्तत्कारणत्वं तत्राऽऽह —
वरुणादिति ।
आपो वापीकूपाद्याः पीताः सत्योऽध्यात्मं शरीरे मूत्रादिसंघातं कुर्वन्ति । ताश्च वरुणाद्भवन्ति । वरुणशब्देनाऽऽप एव रशिमद्वारा भूमिं पतन्त्योऽभिधीयन्ते । तथा च ता एव वरुणात्मिका वाप्याद्यपां पीयमानानामुत्पत्तिकारणमिति युक्तं वरुणस्य वापीतडागाद्यायतनं पुरुषं प्रति कारणत्वमित्यर्थः ॥१६॥
वाक्यद्वयं गृहीत्वा तात्पर्यमाह —
विशेषेति ।
पुत्रमयशब्दार्थं व्याचष्टे —
पुत्रमय इति ॥१७॥
शाकल्येति होवाचेत्यादिग्रन्थस्य तात्पर्यं वक्तुं वृत्तं कीर्तयति —
अष्टधेति ।
लोकः सामान्याकारः पुरुषो विशेषावच्छेदो देवस्तत्कारणमनेन प्रकारेण त्रिधा त्रिधाऽऽत्मानं प्रविभज्य स्थितो य एकैको देव उक्तः स प्राण एव सूत्रात्मा तद्भेदत्वात्पूर्वोक्तस्य सर्वस्य स चोपासनार्थमष्टधोपदिष्टोऽधस्तादित्यर्थः ।
उत्तरस्य तात्पर्यं दर्शयति —
अधुनेति ।
प्रविभक्तस्य जगतः सर्वस्येति शेषः । आत्मशब्दो ह्रदयविषयः ।
याज्ञवल्क्यवाक्यस्य शाकल्ये प्रष्टर्यबुद्धिपूर्वकारित्वापादकत्वं दर्शयति —
ग्रहेणेति ॥१८॥
सर्वेषामेव ब्राह्मणानां प्रायेण हन्तव्यत्वेन संमतो भवानिति मुनेरभिसंहितं शाकल्यस्तु कालचोदितत्वात्तदनुरोधिनीमन्यथाप्रतिपत्तिमेवाऽऽदाय चोदयतीत्याह —
यदिदमिति ।
दिग्विषयं विज्ञानं जाने तन्ममास्तीत्यर्थः ।
तच्च विज्ञानं केवलं दिङ्मात्रस्य न भवति किन्तु देवैः प्रतिष्ठाभिश्च सहिता दिशो वेदेत्याह —
तच्चेति ।
अवतारितस्य वाक्यस्यार्थं संक्षिपति —
सफलमिति ॥१९॥
प्राच्यां दिशि का देवतेति वक्तव्ये कथमन्यथा पृच्छ्यते तत्राऽऽह —
असौ हीति
आत्मानमात्मीयमिति यावत् । यथोक्तं ह्रदयमात्मत्वेनोपगम्येति संबन्धः ।
तथाऽपि प्रथमं प्राचीं दिशमधिकृत्य प्रश्ने को हेतुरिति चेत्तत्राऽऽह —
पूर्वाभिमुख इति ।
यद्यपि दिगात्माऽहमस्मीति स्थितस्तथाऽपि कथं सर्वं जगदात्मत्वेनोपगम्य तिष्ठतीत्यवगम्यते तत्राऽऽह —
सप्रतिष्ठेति ।
सप्रतिष्ठा दिशो वेदेति वचनात्सर्वमपि हृदयद्वारा जगदात्मत्वेनोपगम्य स्थितो मुनिरिति प्रतिभातीत्यर्थः ।
प्रतिज्ञानुसारित्वाच्चायं प्रश्नो युक्तिमानित्याह —
यथेति ।
अहमस्मि दिगात्मेति प्रतिज्ञानुसारिण्यपि प्रश्ने देहपातोत्तरभावी देवताभावः पृच्छ्यते सति देहे ध्यातुस्तद्भावायोगादित्याशङ्क्याऽऽह —
सर्वत्र हीति ।
इति न भाविदेवताभावः प्रश्नगोचर इति शेषः ।
उक्तेऽर्थे वाक्यशेषमनुकूलयति —
तथा चेति ।
प्रश्नार्थमुपसंहरति —
अस्यामिति ।
आदित्यस्य चक्षुषि प्रतिष्ठितत्वं प्रकटयितुं कार्यकारणभावं तयोरादर्शयति —
अध्यात्मतश्चक्षुष इति ।
‘चक्षोः सूर्यो अजायत’ इत्यादयो मन्त्रवादास्तदनुसारिणश्च ब्राह्मणवादाः ।
भवतु कार्यकारणभावस्तथाऽपि कथं चक्षुष्यादित्यस्य प्रतिष्ठितत्वं तत्राऽऽह —
कार्यं हीति ।
कथं चक्षुषो रूपेषु प्रतिष्ठितत्वं तत्राऽऽह —
रूपग्रहणायेति ।
तथाऽपि कथं यथोक्तमाधाराधेयत्वमत आह —
यैर्हीति ।
चक्षुषो रूपाधारत्वे फलितमाह —
तस्मादिति ।
उपसंहृतमर्थं संगृह्णाति —
चक्षुषेति ।
हृदयारब्धत्वं रूपाणां स्फुटयति —
रूपाकारेणेति ।
हृदये रूपाणां प्रतिष्ठितत्वे हेत्वन्तरमाह —
यस्मादिति ।
हृदयशब्दस्य मांसखण्डविषयत्वं व्यावर्तयति —
हृदयमिति ।
कथं पुनर्बहिर्मुखानि रूपाण्यन्तर्हृदये स्थातुं पारयन्ति तत्राऽऽह —
हृदयेन हीति ।
तथाऽपि कथं तेषां हृदयप्रतिष्ठितत्वं तत्राऽऽह —
वासनात्मनामिति ॥२०॥
पूर्ववदित्युक्तमेव व्यनक्ति —
दक्षिणायामिति ।
यमस्य यज्ञकार्यत्वमप्रसिद्धमिति शङ्कित्वा व्युत्थापयति —
कथमित्यादिना ।
तस्य यज्ञकार्यत्वे फलितमाह —
तेनेति ।
यज्ञस्य दक्षिणायां प्रतिष्ठितत्वं साधयति —
दक्षिणयेति ।
कार्यं च कारणे प्रतिष्ठितमिति शेषः ।
दक्षिणायाः श्रद्धायां प्रतिष्ठितत्वं प्रकटयति —
यस्मादिति ।
हृदये सा प्रतिष्ठितेत्यत्र हेतुमाह —
हृदयस्येति ।
हृदयव्याप्यत्वाच्च श्रद्धायास्तत्प्रतिष्ठितत्वमित्याह —
हृदयेन हीति ।
हृदयस्य श्रद्धा वृत्तिरस्तु तथाऽपि प्रकृते किमायातं तदाह —
वृत्तिश्चेति ॥२१॥
रेतसो हृदयकार्यत्वं साधयति —
काम इति ।
तथाऽपि कथं रेतो हृदयस्य कार्यं तदाह —
कामिनो हीति ।
तत्रैव लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।
अपिशब्दः संभावनार्थोऽवधारणार्थो वा ॥२२॥
दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —
दीक्षितो हीत्यादिना ।
दीक्षायां सोमस्य प्रतिष्ठितत्वं साधयति —
दीक्षितो हीत्यादिना ।
दीक्षायाः सत्ये प्रतिष्ठितत्वमप्रसिद्धमिति शङ्कित्वा समादत्ते —
कथमित्यादिना ।
अपिशब्दोऽवधारणार्थः ।
सत्यं वदेति वदतामभिप्रायमाह —
कारणेति ।
भ्रेषो भ्रंशो नाशः । इति तेषामभिप्राय इति शेषः ।
प्रकृतोपसंहारः —
सत्ये हीति ॥२३॥
कथं पुनरूर्ध्वा दिगवस्थिता ध्रुवेत्युच्यते तत्राऽऽह —
मेरोरिति ।
तत्राग्नेर्देवतात्वं प्रकटयति —
ऊर्ध्वायां हीति ।
‘दिशो वेद’(बृ.उ.३-९-१९) इत्यादिश्रुत्या जगतो विभागेन पञ्चधात्वं ध्यानार्थमुक्तमिदानीं विभागवादिन्याः श्रुतेरभिप्रायमाह —
तत्रेति ।
यथोक्ते विभागे सतीति यावत् ।
उक्तमर्थं संक्षिपति —
सदेवा इति ।
तत्रावान्तरविभागमाह —
यद्रूपमिति ।
आद्ये पर्याये हृदये रूपप्रपञ्चोपसंहारो दर्शितः । ‘हृदये ह्येव रूपाणि’(बृ. उ. ३ । ९ । २०) इति श्रुतेरित्यर्थः ।
दक्षिणायामित्यादिपर्यायत्रयेण तत्रैव कर्मोपसंहार उक्त इत्याह —
यत्केवलमिति ।
यद्धि केवलं कर्म तत्फलादिभिः सह दक्षिणादिगात्मकं हृद्युपसंह्रियते यज्ञस्य दक्षिणादिद्वारा हृदये प्रतिष्ठितत्वोक्तेर्दक्षिणस्या दिशस्तत्फलत्वात्पुत्रजन्माख्यं च कर्म प्रतीच्यात्मकं तत्रैवोपसंहृतम् । ‘हृदये ह्येव रेतः प्रतिष्ठितम्’(बृ. उ. ३ । ९ । २२) इति श्रुतेः । पुत्रजन्मनश्च तत्कार्यत्वाज्ज्ञानसहितमपि कर्म फलप्रतिष्ठादेवताभिः सहोदीच्यात्मकं तत्रैवोपसंहृतं सोमदेवताया दीक्षादिद्वारा तत्प्रतिष्ठितत्वश्रुतेरेवं दिक्त्रये सर्वं कर्म हृदि संहृतमित्यर्थः ।
पञ्चमपर्यायस्य तात्पर्यमाह —
ध्रुवयेति ।
नामरूपकर्मसूपसंहृतेष्वपि किञ्चिदुपसंहर्तव्यान्तरमवशिष्टमस्तीत्याशङ्क्य निराकरोति —
एतावद्धीति ।
प्रश्नान्तरमुत्थापयति —
तत्सर्वात्मकमिति ॥२४॥
हृदयपदेन नामाद्याधारवदहल्लिकशब्देनापि हृदयाधिकरणं विवक्ष्यते वाक्यच्छायासाम्यादित्याशङ्क्याह —
नामान्तरेणेति ।
अहनि लीयत इति विगृह्य प्रेतवाचिनेति शेषः ।
देहे हृदयं प्रतिष्ठितमिति व्युत्पादयति —
यत्रेत्यादिना ।
तस्मिन् काले शरीरं मृतं स्यादिति शेषः ।
शरीरस्य हृदयाश्रयत्वं विशदयति —
यद्धीत्यादिना ।
देहादन्यत्र हृदयस्यावस्थाने यथोक्तं दोषमितिशब्देन परामृश्य फलितमाह —
इतीत्यादिना ।
देहस्तर्हि कुत्र प्रतिष्ठित इत्यत्र आह —
शरीरस्येति ॥२५॥
वृत्तमनूद्य प्रश्नान्तरमुपादत्ते —
हृदयेति ।
प्राणशब्दस्य सूत्रविषयत्वं व्यवच्छेत्तुं वृत्तिविशेषणम् ।
प्राणस्यापाने प्रतिष्ठितत्वं व्यतिरेकद्वारा स्फोरयति —
साऽपीति ।
प्राणापानयोरुभयोरपि व्यानाधीनत्वं साधयति —
साऽप्यपानेति ।
तिसृणां वृत्तीनामुक्तानामुदाने निबद्धत्वं दर्शयति —
सर्वा इति ।
विष्वङ्ङिति नानागतित्वोक्तिः ।
कस्मिन्नु हृदयमित्यादेः समानान्तस्य तात्पर्यमाह —
एतदिति ।
तेषां प्रवर्तकं दर्शयति —
विज्ञानमयेति ।
स एष इत्यादेस्तात्पर्यमाह —
सर्वमिति ।
यस्य कूटस्थदृष्टिमात्रस्यान्तर्यामित्वकल्पनाधिष्ठानस्याज्ञानवशात्प्रशासने द्यावापृथिव्यादि स्थितं स परमात्मैष प्रत्यगात्मैवेति पदयोरर्थं विवक्षित्वाऽऽह —
स एष इति ।
निषेधद्वयं मूर्तामूर्तब्राह्मणे व्याख्यातमित्याह —
स यो नेति ।
यो मधुकाण्डे चतुर्थे नेति नेतीति निषेधमुखेन निर्दिष्टः स एष कूर्चब्राह्मणे तन्मुखेनैव वक्ष्यत इति योजना ।
निषेधद्वारा निर्दिष्टमेव स्पष्टयति —
सोऽयमिति ।
कार्यधर्माः शब्दादयोऽशनायादयश्च ।
श्रुत्युक्तं हेतुमवतार्य व्याचष्टे —
कुत इत्यादिना ।
तद्विपरीतत्वं करणागोचरत्वं न चक्षुषेत्यादिश्रुतेः । तद्विपरीतत्वादमूर्तत्वादिति यावत् । पूर्वत्राप्युभयत्र तद्वैपरीत्यमेतदेव ।
अतः शब्दार्थं स्फुटयन्नुक्तमुपपादयति —
ग्रहणेति ।
कार्यधर्माः शब्दादयोऽशनायादयश्च प्रागुक्ताः ।
ननु शाकल्ययाज्ञवल्क्ययोः संवादात्मिकेयमाख्यायिका तत्र कथं शाकल्येनापृष्टमात्मानं याज्ञवल्क्यो व्याचष्टे तत्राऽऽह —
क्रममिति ।
विज्ञानादिवाक्ये वक्ष्यमाणत्वात्किमित्यत्र निर्देश इत्याशङ्क्याऽऽह —
त्वरयेति ।
एतान्यष्टावित्यादिवाक्यस्य पूर्वेणासंगतिमाशङ्क्याऽऽह —
ततः पुनरिति ।
निश्चयेन गमयित्वेत्येतदेव स्पष्टयति —
अष्टेति ।
प्रत्युह्योपसंहृत्येति यावत् ।
औपनिषदत्वं पुरुषस्य व्युत्पादयति —
उपनिषत्स्वेवेति ।
तं हेत्यादि याज्ञवल्क्यस्य वा मध्यस्थस्य वा वाक्यमिति शङ्कां वारयति —
समाप्तेति ।
ब्रह्मविद्विद्वेषे परलोकविरोधोऽपि स्यादित्याह —
किञ्चेति ।
मूर्धा ते विपतिष्यतीति मूर्ध्नि पतिते शापेन किमित्यग्निहोत्राग्निसंस्कारमपि शाकल्यो न प्राप्तवानित्याशङ्क्याऽऽह —
पूर्ववृत्तेति ।
तामेवाऽऽख्यायिकामनुक्रामति —
अष्टाध्याय्यामिति ।
अष्टाध्यायी बृहदारण्यकात्प्राचीना कर्मविषया । पुरे पुण्यक्षेत्रातिरिक्ते देशे । अतिथ्ये पुण्यतिथिशून्ये काले । अस्थीनि चनेत्यत्र चनशब्दोऽप्यर्थः । उपवादी परिभवकर्ता ।
तच्छब्दार्थमाह —
उत इति ।
किमितीयमाख्यायिकाऽत्र विद्याप्रकरणे सूचितेत्यशङ्क्याऽऽह —
सैषेति ।
ब्रह्मविदि विनीतेन भवितव्यमित्याचारः । महती हीयं ब्रह्मविद्या यत्तन्निष्ठावज्ञायामैहिकामुष्मिकविरोधः स्यादिति विद्यास्तुतिः ॥२६॥
अथ हेत्याद्युत्तरग्रन्थमवतारयति —
यस्येत्यादिना ।
जगतो मूलं च वक्तव्यमित्याख्यायिकामेवाऽऽश्रित्याऽऽहेति संबन्धः ।
आख्यायिका किमर्थेत्यत आह —
आख्यायिकेति ।
इतिशब्दः संबन्धसमाप्त्यर्थः ।
ननु ब्राह्मणेषु तूष्णीम्भूतेषु प्रतिषेद्धुरभावाद्गोधनं हर्तव्यं किमिति तान्प्रति याज्ञवल्क्यो वदतीत्यत आह —
न्यायं मत्त्वेति ।
ब्रह्मस्वं हि ब्राह्मणानुमतिमनापाद्य नीयमानमनर्थाय स्यादिति न्यायः । संबोध्योवाचेति संबन्धः ।
यो व इति प्रतीकमादाय व्याचष्टे —
युष्माकमिति ।
व्याख्यातं भागमनूद्य व्याख्येयमादाय व्याकरोति —
यो व इत्यादिना ।
यथोक्तप्रश्नानन्तरं ब्राह्मणानामप्रतिभां दर्शयति —
ते हेति ॥२७॥
स्वकीयज्ञानप्रकर्षप्रकटनार्थमेव प्रश्नान्तरमवतारयति —
तेष्विति ।
वृक्षो वनस्पतिरिति पर्यायत्वात्पुनरुक्तिरित्याशङ्क्याऽऽह —
वृक्षस्येति ।
तच्च तस्य महत्त्वमाहेत्यपुनरुक्तिः । पुरुषस्य वृक्षसाधर्म्यमेतदित्युच्यते ।
साधर्म्यमेव स्पष्टयति —
तस्येत्यादिना ।
नीरसा त्वगुत्पाटिकेत्युच्यते ॥१॥ उत्पटो वृक्षनिर्यासः ॥२॥
विशेषाभावमेवाभिनयति —
यथेति ॥३॥
साधर्म्ये सति वैधर्म्यं वक्तुमशक्यमित्याशयेनाऽऽह —
यद्यदीति ।
इदमपि साधर्म्यमेव किं न स्यादित्याशङ्क्याऽऽह —
यदेतस्मादिति ।
एतस्माद्विशेषणात्प्राग्यद्विशेषणमुक्तं तत्सर्वमुभयोः सामान्यमवगतमिति संबन्धः । वृक्णस्याङ्गस्येति शेषः । माभूत्तस्य प्ररोहणमिति चेन्नेत्याह —
भवितव्यं चेति ।
‘ध्रुवं जन्म मृतस्य च’(भ. गी. २। २७) इति स्मृतेरित्यर्थः ॥४॥
जीवतो हि रेतो जायते स एव कुतो भवतीति विचार्यते न चासिद्धेनासिद्धस्य साधनं न च पुरुषान्तरादिति वाच्यमेकासिद्धावन्यतरप्रयोगानुपपत्तेरिति मन्वानो हेतुमाह —
यस्मादिति ।
वैधर्म्यान्तरमाह —
अपि चेति ।
काण्डरुहोऽपीत्यपेरर्थः ।
वैशब्दः प्रसिद्धिद्योतक इत्यभिप्रेत्याऽऽह —
वै वृक्ष इति ।
अञ्जसेत्यादेरर्थमुक्त्वा वाक्यार्थमाह —
धानातोऽपीति ॥५॥
तथाऽपि कथं वैधर्म्यमित्याशङ्क्याऽऽह —
यद्यदीति ।
पुरुषस्यापि पुनरुत्पत्तिर्माभूदित्याशङ्क्य पूर्वोक्तं निगमयति —
तस्मादिति ॥६॥
स्वभाववादमुत्थापयति —
जात इति ।
इतिशब्दश्चोद्यसमाप्यर्थः ।
तदेव स्फुटयति —
जनिष्यमाणस्य हीति ।
न जायत इति भागेनोत्तरमाह —
नेत्यादिना ।
स्वभाववादे दोषमाह —
अन्यथेति ।
स्वभावासंभवे फलितमाह —
अत इति ।
उक्तमेव स्फुटयति —
जगत इति ।
ब्रह्मविदां श्रेष्ठत्वे याज्ञवल्क्यस्य सिद्धे फलितमाह —
अत इति ।
समाप्ताऽऽख्यायिकेति ।
ब्राह्मणाश्च सर्वे यथायथं जग्मुरित्यर्थः ।
विज्ञानादिवाक्यमुत्थापयति —
यज्जगत इतादिना ।
विज्ञानशब्दस्य करणादिविषयत्वं वारयति —
विज्ञप्तिरिति ।
आनन्दविशेषणस्य कृत्यं दर्शयति —
नेत्यादिना ।
प्रसन्नं दुःखहेतुना कामक्रोधादिना संबन्धरहितम् । शिवं कामादिकारणेनाज्ञानेनापि संबन्धशून्यम् ।
सातिशयत्वप्रयुक्तदुःखराहित्यमाह —
अतुलमिति ।
साधनसाध्यत्वादीनदुःखवैधुर्यमाह —
अनायासमिति ।
दुःखनिवृत्तिमात्रं सुखमिति पक्षं प्रतिक्षिपति —
नित्यतृप्तमिति ।
आनन्दोज्ञानमिति ब्रह्मण्याकारभेदमाशङ्क्याऽऽह —
एकरसमिति ।
फलमत उपपत्तेरिति न्यायेन ब्रह्मणो जगन्मूलत्वमाह —
रातिरित्यादिना ।
‘ब्रह्मसंस्थोऽमृतत्वमेति’इति श्रुत्यन्तरमाश्रित्य तस्यैव मुक्तोपसृप्यत्वमुपदिशति —
किञ्चेति ।
अक्षरव्याख्यानसमाप्तावितिशब्दः ।
सच्चिदान्दात्मकं ब्रह्म विद्याविद्याभ्यां बन्धमोक्षास्पदमित्युक्तमिदानीं ब्रह्मानन्दे विचारमवतारयन्नविगीतमर्थमाह —
अत्रेति ।
तथाऽपि प्रकृते वाक्ये किमायातमिति तदाह —
अत्र चेति ।
न च केवलमत्रैवाऽऽनन्दशब्दो ब्रह्मविशेषणार्थकत्वेन श्रुतः किन्तु तैत्तिरीयकादावपीत्याह —
श्रुत्यन्तरे चेति ।
ब्रह्मणो विशेषणत्वेनाऽऽनन्दशब्दः श्रूयत इति संबन्धः ।
अन्याः श्रूतीरेवोदाहरति —
आनन्द इत्यादिना ।
एवमाद्याः श्रुतय इति शेषः ।
तथाऽपि कथं विचारसिद्धिस्तत्राऽऽह —
संवेद्य इति ।
लोकप्रसिद्धेरद्वैतश्रुतेश्च ब्रह्मण्यानन्दः संवेद्योऽसंवेद्यो वेति विचारः कर्तव्य इत्यर्थः ।
उभयत्र फलं दर्शयति —
ब्रह्माऽऽनन्दश्चेति ।
अन्यथा लोकवेदयोः शब्दार्थभेदादविशिष्टस्तु वाक्यार्थ इति न्यायविरोधोऽसंवेद्यत्वे पुनरद्वैतश्रुतिरविरुद्धेति भावः ।
विचारमाक्षिपति —
नन्विति ।
विरुद्धश्रुत्यर्थनिर्णयार्थं विचारकर्तव्यतां दर्शयति —
नेति ।
संग्रहवाक्यं विवृणोति —
सत्यमित्यादिना ।
एकत्वे सति विज्ञानप्रतिषेधश्रुतिमेवोदाहरति —
यत्रेत्यादिना ।
इत्यादिश्रवणमिति शेषः ।
फलितमाह —
विरुद्धश्रुतीति ।
श्रुतिविप्रतिपत्तेर्विचारकर्तव्यतामुपसंहरति —
तस्मादिति ।
तत्रैव हेत्वन्तरमाह —
मोक्षेति ।
तामेव विप्रतिपत्तिं विवृणोति —
साङ्ख्या इति ।
विमर्शपूर्वकं पूर्वपक्षं गृह्णाति —
किं तावदित्यादिना ।
आनन्दादिश्रवणाद्विज्ञानमानन्दं ब्रह्मेति श्रुतेर्मोक्षे सुखं संवेद्यमिति युक्तमिति संबन्धः ।
तत्रैव वाक्यान्तराण्युदाहरति —
जक्षदित्यादिना ।
पूर्वपक्षमाक्षिपति —
नन्विति ।
मोक्षे चेदिष्यते सुखज्ञानं तर्हि तदनेककारकसाध्यं वाच्यं क्रियात्वात्पाकादिवत्सर्वैकत्वे च मोक्षे कारकविभागाभावान्न सुखसंवेदनं संभवतीत्यर्थः ।
जन्यस्य कारकापेक्षायामपि सुखज्ञानस्याजन्यत्वान्न तदपेक्षेत्याऽऽशङ्क्याह —
क्रियायाश्चेति ।
या क्रिया साऽनेककारकसाध्येति व्याप्तेर्गमनादाववगतत्वाज्ज्ञानस्यापि धात्वर्थत्वेन क्रियात्वादनेककारकसाध्यता सिद्धैवेत्यर्थः ।
श्रुतिप्रामाण्यमाश्रित्य पूर्ववादी परिहरति —
नैष दोष इति ।
तदेव स्फुटयति —
विज्ञानमिति ।
अद्वये ब्रह्मणि श्रुतिप्रामाण्यादानन्दज्ञानमुक्तमाक्षिपति —
नन्विति ।
अद्वैतश्रुतिविरोधाद्ब्रह्मणि विज्ञानक्रियाकारकविभागापेक्षा नोपपद्यते । न हि ‘विज्ञानमानन्दमि’(बृ. उ. ३ । ९ । २८) त्यादिवचनानि मानान्तरविरोधेन विज्ञानक्रियां ब्रह्मण्युत्पादयन्ति तेषां ज्ञापकत्वाज्ज्ञापकस्य च अविरोधापेक्षत्वादन्यथाऽतिप्रसंगादित्यर्थः ।
लौकिकज्ञानस्य क्रियात्वेऽपि मोक्षसुखज्ञानं क्रियैव न भवति । तन्न । विज्ञानादिवाक्यस्याद्वैतश्रुतिविरोधोऽस्तीत्याशङ्क्याऽऽह —
न चेति ।
पयः पावकयोस्सर्वत्रैकरूप्यवद्विज्ञानस्यापि लोकवेदयोरेकरूपत्वमेवेति भावः ।
मानान्तरविरोधादात्मन्यानन्दज्ञानस्य सत्त्वमेव वा निषिध्यते तस्य क्रियात्वं वा निराक्रियते ? तत्राऽऽद्यं दूषयति ।
नेत्यादिना ।
तदेव स्पष्टयति —
न विज्ञानमिति ।
सुखज्ञानस्य गुणत्वाङ्गीकारात्क्रियात्वनिराकरणमिष्टमेवेति मत्वाऽऽह —
अनुभूयतेत्विति ।
अनुभवमेवाभिनयति —
सुख्यहमिति ।
तथाऽपि श्रुतिविरोधः स्यादित्याशङ्क्य प्रत्यक्षानुसरेण साऽपि नेतव्येत्याशयेनाऽऽह —
तस्मादिति ।
आत्मन्यानन्दज्ञानस्य क्रियात्वानङ्गीकारात्कारकभेदापेक्षाभावादित्यर्थः । गुणत्वपक्षे च प्रत्यक्षस्यानुगुणत्वादागमस्य विरोधिनस्तदनुसारेण नेत्यत्वादविरुद्धागमस्य भूयस्त्वादित्यतिशयः । अविरुद्धार्थता विज्ञानादिश्रुतेरिति शेषः ।
गुणगुणिभावेऽपि नाद्वैतश्रुतिः शक्या नेतुमित्याशङ्क्य स्ववेद्यत्वपक्षमाश्रित्याऽऽह —
तस्मादानन्दमिति ।
यथाकथञ्चिद्ब्रह्मण्यानन्दस्य वेद्यत्वे श्रुतीनामानुगुण्यमस्तीत्याह —
तथेति ।
आनन्दो वेद्यो ब्रह्मणीति चोदिते सिद्धान्तमाह —
नेति ।
आगन्तुकमनागन्तुकं वा ज्ञानं मुक्तावानन्दं गोचरयति ? नाऽऽद्य इत्याह —
कार्येति ।
अनुपपत्तिमेव स्फोरयति —
शरीरेति ।
कार्यकरणयोरभावेऽपि मोक्षे ब्रह्मानन्दज्ञानं जनिष्यते संसारे हि हेत्वपेक्षेत्याशङ्क्याऽऽह —
देहादीति ।
द्वितीयं दूषयति —
एकत्वेति ।
न हि ब्रह्मस्वरूपज्ञानेनैव वेद्यानन्दरूपं भवितुमुत्सहते विषयविषयिणोरेकत्वविरोधात्ततश्चानागन्तुकमपि ज्ञानं मुक्तौ नाऽऽनन्दमधिकरोतीत्यर्थः ।
किञ्च ब्रह्म वा मुक्तो वा संसारी वा ब्रह्मानन्दं गोचरयेत्तत्राऽऽद्यमनुवदति —
परं चेदिति ।
तस्मिन्पक्षे न ब्रह्म स्वरूपानन्दं वेत्ति तेनैक्यादेकत्र विषयविषयित्वानुपपत्तेरुक्तत्वादिति दूषयति —
तन्नेति ।
नापि संसारी ब्रह्मानन्दं गोचरयति स खल्वनिवृत्ते संसारे संसारिणमात्मानमभिमन्यमानो न ब्रह्मानन्दमाकलयितुमलं संसारे निवृत्ते तु ततो विनिर्मुक्तो ब्रह्मस्वाभाव्यं प्रतिपद्यमानस्तदानन्दं तद्वदेव विषयीकर्तुं नार्हतीति तृतीयं प्रत्याह —
संसार्यपीति ।
मुक्तोऽपि ब्रह्मणोऽभिन्नो भिन्नो वेति विकल्प्याभेदपक्षमनुभाषते —
जलेति ।
ब्रह्माभिन्नस्य मुक्तस्य तदानन्दविषयीकरणमुक्तन्यायेन निरस्यति —
तदेति ।
भेदपक्षमनुवदति —
अथेति ।
ब्रह्मानन्दं प्रत्यगात्मानमिति संबन्धः ।
वेदनप्रकारमभिनयति —
अहमिति ।
तत्त्वमस्यादिश्रुतिविरोधेन निराकरोति —
तदेति ।
मुक्तो ब्रह्मणः सकाशाद्भिन्नोऽभिन्नो वा मा भूद्भिन्नाभिन्नस्तु स्यादित्याशङ्क्याऽऽह —
तृतीयेति ।
सर्वत्र भेदाभेदवादस्य दूषितत्वादित्यर्थः ।
ब्रह्मणः स्वानन्दस्यावेद्यत्वे हेत्वन्तरमाह —
किञ्चान्यदिति ।
तदेवोपपादयति —
निरन्तरं चेदिति ।
आख्यातप्रयोगस्य तर्हि कुत्रार्थवत्त्वं तत्राऽऽह —
अतद्विज्ञानेति ।
देवदत्तो हि बुद्धिपूर्वकारित्वावस्थायां स्वात्मानमन्यं विविच्य जानाति नान्यदेत्युभयथात्वदर्शनात्तत्राऽऽख्यातप्रयोगो युज्यते । नैवं ब्रह्मण्यज्ञानप्रसंगोऽस्ति । नित्यज्ञानस्वभावत्वात्तथा च तत्राऽऽख्यातप्रयोगे नार्थवानित्यर्थः ।
ब्रह्मण्याख्यातप्रयोगानर्थक्यं दृष्टान्तेन स्पष्टयति —
न हीति ।
प्रत्यगात्मनि नित्यज्ञानत्वासिद्धिं शङ्कयति —
अथेति ।
विच्छिन्नमिति क्रियाविशेषणम् ।
परिहरति —
विज्ञानस्येति ।
आत्मनो विज्ञानस्य च्छिद्रमन्तरालमसत्त्वावस्था तदाऽपि विज्ञानमस्ति चेत्तस्यान्यविषयत्वप्रसंगस्तथा च ‘यत्रान्यत्पश्यति’(छा. उ. ७ । २४ । १) इत्यादिश्रुतेरात्मनो मर्त्यत्वापत्तिर्न चेत्तदा विज्ञानं तदा पाषाणवदचेतनत्वं विज्ञप्तिरूपत्वानङ्गीकारादित्यर्थः ।
आत्मनोऽनित्यज्ञानवत्त्वे दोषान्तरमाह —
आत्मनश्चेति ।
आनन्दज्ञाने ब्रह्मणि विषयविषयित्वायोगश्चेत्कथं विज्ञानादिवाक्यमित्याशङ्क्योपसंहरति —
तस्मादिति ।
ब्रह्मण्यानन्दस्यावेद्यत्वे श्रुतिविरोधमुक्तं स्मारयति —
जक्षदिति ।
सर्वत्राऽऽत्मनो मुक्तस्यैक्ये सति योग्यादिषु यथा जक्षणादि प्राप्तं तथैव तदनुवादित्वादस्याः श्रुतेर्न विरोधोऽस्तीति परिहरति —
नेत्यादिना ।
तदेव प्रपञ्चयति —
मुक्तस्येति ।
किमनुवादे फलमिति चेत्तदाह —
तत्तस्येति ।
मुक्तस्य योग्यादिषु सर्वत्राऽऽत्मभावादेव तत्र प्राप्तं जक्षणाद्यत्र मुक्तिस्तुतयेऽनूद्यते तन्नानुवादवैयर्थ्यमित्यर्थः ।
विदुषस्सार्वात्म्येन योग्यादिषु प्राप्तजक्षणाद्यनुवादे स्यादतिप्रसक्तिरिति शङ्कते —
यथाप्राप्तेति ।
अतिप्रसंगमेव प्रकटयति —
योग्यादिष्विति ।
अविद्यात्मकनामरूपविरचितोपाधिद्वयसंबन्धनिबन्धनमिथ्याज्ञानाधीनत्वादात्मनि दुःखित्वादिप्रतीतेर्न तत्र वस्तुतो दुःखित्वं न च जक्षणाद्यपि वास्तवमाविद्यस्यैव मुक्तिस्तुतयेऽनुवादाद्दुःखित्वस्य हि नानुवादोऽतिहीनत्वप्राप्तेरिति परिहरति —
नेत्यादिना ।
यत्तु विरुद्धश्रुतिदृष्टेर्नाऽऽगमार्थो निर्णीतो भवतीति तत्राऽऽह —
विरुद्धेति ।
वेद्यत्वावेद्यत्वादिश्रुतीनां सोपाधिकनिरुपाधिकविषयत्वेन मधुकाण्डे व्यवस्थोक्तेत्यर्थः ।
ब्राह्मणार्थमुपसंहरति —
तस्मादिति ।
ब्रह्मण्यानन्दस्य वेद्यताया दुर्निरूपत्वं तच्छब्दार्थः । यथैषोऽस्येत्यत्र भेदो न विवक्षितः सर्वात्मभावस्य प्रकृतत्वात्तथा विज्ञानादिवाक्येष्वानन्दस्य वेद्यता न विवक्षिता । उक्तरीत्या तद्वेद्यताया दुष्प्रतिपादत्वात्तस्मादनतिशयानन्दं चिदेकतानं वस्तु सिद्धमित्यर्थः ॥७॥२८॥