अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: चतुर्थं ब्राह्मणम् (१)

ब्राह्म­णा­न्त­र­मु­त्था­प­यति —
स यत्रेति ।

तस्य संबन्धं वक्तुमुक्तं कीर्तयति —
संसारेति ।

वक्ष्य­मा­णो­प­यो­गि­त्वे­नो­क्त­म­र्था­न्त­र­म­नु­द्र­वति —
तत्रेति ।
संसारप्रकरणं सप्तम्यर्थः ।

संप्र­त्या­का­ङ्क्षा­पू­र्व­क­मु­त्त­र­ब्रा­ह्म­ण­मा­दत्ते —
तत्सं­प्र­मो­क्ष­ण­मिति ।

एवं ब्राह्मणमवतार्य तदक्षराणि व्याकरोति —
सोऽयमित्यादिना ।
गत्वा संमोहमिव नेतीत्युत्तरत्र संबन्धः ।

कथमात्मनो दौर्बल्यं तदाह —
यद्देहस्येति ।

किमित्युपचारो मुख्य­मे­वाऽऽ­त्मनो दौर्बल्यं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति ।

यथाऽयमबलभावं निगच्छति तथा संमोहं संमूढतामिव प्रतिपद्यते । विवेकाभावो हि संमोहः । तथा च संमूढतामिव निगच्छतीति युक्तमित्याह —
तथेति ।

इवशब्दार्थमाह —
न चेति ।

कथं पुनरात्मनः समारोपितो अपि संमोहः स्यान्नि­त्य­चै­त­न्य­ज्यो­ति­ष्ट्वा­दि­त्या­श­ङ्क्याऽऽह —
उत्क्रान्तीति ।
व्याकुलीभावो लिङ्गस्येति शेषः ।

तत्र लौकिकीं वार्तामनुकूलयति —
तथेति ।

यथा­श्रु­त­मि­व­शब्दं गृहीत्वा वाक्यं व्याख्याय पक्षान्तरमाह —
अथवेति ।

इव­श­ब्द­प्र­यो­ग­स्यो­भ­यत्र योजनामेवाभिनयति —
अबल्यमिति ।

उभयत्र तद्योजने हेतुमाह —
उभयस्येति ।

तुल्य­प्र­त्य­ये­ना­ब­ल्य­सं­मो­ह­यो­रे­क­क­र्तृ­क­त्व­नि­र्दे­शा­द­प्यु­भ­य­त्रे­व­कारो द्रष्टव्य इत्याह —
समानेति ।

अथेत्यादि वाक्यमवतार्य व्याकु­र्व­न्क­स्मि­न्काले तत्सं­प्र­मो­क्ष­ण­मि­त्य­स्यो­त्त­र­माह —
अथेत्यादिना ।

कथं वेत्युक्तं प्रश्नमनूद्य प्रश्नान्तरं प्रस्तौति —
कथमिति ।

अत्रो­त्त­र­त्वे­नो­त्तरं वाक्यमादाय व्याकरोति —
उच्यत इत्यादिना ।

रूपा­दि­प्र­का­श­न­श­क्ति­म­त्स­त्त्व­प्र­धा­न­भू­त­का­र्य­त्वा­त्ते­जो­मा­त्रा­श्च­क्षु­रा­दी­नी­त्युक्तं संप्रति समभ्याददान इत्यस्यार्थमाह —
ता एता इति ।
संहरमाणो हृद­य­म­न्व­व­क्रा­म­ती­त्य­न्वयः । तत्समिति विशेषणं स्वप्ना­पे­क्ष­येति संबन्धः ।

कथं स्वप्नापेक्षया विशेषणं तदाह —
न त्विति ।

आदानमात्रमपि स्वप्ने नास्तीति कुत­स्त­द्व्या­वृ­त्त्यर्थं विशे­ष­ण­मि­त्या­श­ङ्क्याऽऽह —
अस्तीति ।

स एता­स्ते­जो­मात्राः समभ्याददान इत्ये­त­द्व्या­ख्याय हृदयमेवेत्यादि व्याचष्टे —
हृदयमित्यादिना ।

सविज्ञानो भवतीति वाक्य­वि­शे­ष­मा­श्रि­त्या­श­ङ्क्याऽऽह —
हृदय इति ।

कथमात्मनो निष्क्रियस्य तेजो­मा­त्रा­दा­न­क­र्तृ­त्व­मि­त्या­श­ङ्क्याऽऽह —
बुद्ध्यादीति ।
तेषां तद्विक्षेपस्य चोपसंहारे सत्या­त्म­न­स्त­दा­दा­न­क­र्तृ­त्व­मौ­प­चा­रि­क­मि­त्यर्थः ।

तर्हि तद्वि­क्षे­पो­प­सं­ह­र्तृ­त्व­व­त्त­दा­दा­न­क­र्तृ­त्व­मपि मुख्यमेव भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
न हीति।
आदिशब्देन क्रियाविशेषः सर्वो गृह्यते ।

कथं तर्हि प्रतीचि कर्तृ­त्वा­दि­प्र­थे­त्या­श­ङ्क्याऽऽह —
बुद्ध्यादीति ।

स यत्रेत्यादि वाक्य­मा­का­ङ्क्षा­पू­र्व­क­म­व­तार्य व्याकरोति —
कदा पुनरित्यादिना ।

तस्य पुरु­ष­श­ब्दा­द्भो­क्तृत्वे प्राप्ते विशिनष्टि —
आदित्यांश इति ।

तस्य चाक्षुषत्वं साधयति —
भोक्तु­रि­त्या­दिना ।

याव­द्दे­ह­धा­र­ण­मिति कुतो विशेषणं तत्राऽऽह —
मरणकाले त्विति ।

आदित्यांशस्य चक्षु­र­नु­ग्र­ह­म­कु­र्वतः स्वातन्त्र्यं वारयति —
स्वमिति ।

मरणावस्थायां चक्षु­रा­द्य­नु­ग्रा­ह­क­दे­व­तां­शा­ना­म­धि­दे­व­ता­त्म­नो­प­सं­हारे श्रुत्यन्तरं संवादयति —
तदेतदिति ।

तर्हि देहान्तरे वागादिराहित्यं स्यादि­त्या­श­ङ्क्याऽऽह —
पुनरिति ।
संश्रयिष्यन्ति वागा­द­य­स्त­त्त­दे­व­ता­धि­ष्ठिता यथास्थानमिति शेषः ।

मुमूर्षोरिव स्वप्स्यतः सर्वाणि करणानि लिङ्गा­त्म­नो­प­सं­ह्रि­यन्ते प्रबुध्यमानस्य चोत्पित्सोरिव तानि यथास्थानं प्रादु­र्भ­व­न्ती­त्याह —
तथेति ।

उक्तेऽर्थे वाक्यं पातयति —
तदेतदाहेति ।
पराङ् पर्यावर्तत इति रूपवैमुख्यं चाक्षुषस्य विवक्षितमिति शेषः ॥ १ ॥

तर्हि भोक्त्रोपसंहृतं चक्षु­र­त्य­न्ता­भा­वी­भू­त­मि­त्या­श­ङ्क्याऽऽह —
एकीति ।

उक्तेऽर्थे लोकप्रसिद्धिं दर्शयति —
तदेति ।

चक्षुषि दर्शितं न्यायं घ्राणेऽतिदिशति —
तथेति ।
यथा चक्षुर्देवताया निवृत्तौ लिङ्गात्मना चक्षुरेकीभवति यथा घ्राणदेवतांशस्य घ्राणा­नु­ग्र­ह­नि­वृ­त्ति­द्वा­रे­णां­शि­दे­व­त­यैक्ये लिङ्गात्मना घ्राण­मे­की­भ­व­ती­त्यर्थः । तन्नि­वृ­त्य­पे­क्षया वरुणादि देवताया जिह्वा­या­म­नु­ग्र­ह­नि­वृत्तौ जिह्वाया लिङ्गा­त्म­नै­क्य­व्य­पे­क्ष­ये­त्यर्थः ।

तत्त­द­नु­ग्रा­ह­क­दे­व­तां­शस्य तत्र तत्रा­नु­ग्र­ह­नि­वृत्त्या तत्त­दं­शि­दे­व­ता­प्राप्तौ तत्तत्करणस्य लिङ्गात्मनैक्यं भव­ती­त्य­भि­प्रे­त्याऽऽह —
तथेति ।

मरणदशायां रूपा­दि­द­र्श­न­रा­हि­त्य­म­र्थ­द्व­य­सा­ध­क­मि­त्याह —
तदेति ।

तस्य हैतस्येत्यादि वाक्यमुपादत्ते —
तत्रेति ।
मुमूर्षावस्था सप्तम्यर्थः ।

केनायं प्रद्योतो भव­ती­त्य­पे­क्षा­या­माह —
स्वप्नेति ।
यथा स्वप्नकाले स्वेन भासा स्वेन ज्योतिषा प्रस्वपितीति व्याख्यातं तथाऽत्रापि तेजोमात्राणां यदादानं तत्कृतेन वासनरूपेण प्राप्य­फ­ल­वि­ष­य­बु­द्धि­वृ­त्ति­रू­पेण स्वेन भासा स्वेन चाऽऽत्मना चैतन्यज्योतिषा हृद­या­ग्र­प्र­द्यो­त­न­मि­त्यर्थः ।

तस्यार्थक्रियां दर्शयति —
तेनेति ।

किमिति लिङ्ग­द्वा­राऽऽ­त्मनो निर्गमनं प्रतिज्ञायते तत्राऽऽह —
तथेति ।

यदि मरणकाले तोजोमात्रादानं न तर्हि सदा लिङ्गो­पा­धि­रा­त्मे­त्या­श­ङ्क्याऽऽह —
तत्र चेति ।
सप्तम्या लिङ्गमुच्यते । सर्वदेति लिङ्ग­स­त्ता­द­शोक्तिः ।

आत्मोपाधिभूते लिङ्गे किं प्रमा­ण­मि­त्या­श­ङ्क्याऽऽ­त्मनि कूटस्थे संव्य­व­हा­र­द­र्श­न­मि­त्याह —
तदुपाधीति ।

चक्षु­रा­दि­प्र­सि­द्धि­रपि प्रमाणमित्याह —
तदात्मकं हीति ।

एकादशविधं कर­ण­मि­त्य­भ्यु­प­ग­मा­त्कुतो द्वाद­श­वि­ध­त्व­मि­त्या­शङ्क्य विशिनष्टि —
बुद्ध्यादीति ।

’वायुर्वै गौतम तत्सूत्रम्’ इत्यादि श्रुतिरपि यथोक्ते लिङ्गे प्रमाणमित्याह —
तत्सूत्रमिति ।

जगतो जीवनमपि तत्र मानमित्याह —
तज्जीवनमिति ।

’एष सर्व­भू­ता­न्त­रात्मा’ इति श्रुतिरपि यथोक्तं लिङ्गं साधयतीत्याह —
सोऽन्तरात्मेति ।

लिङ्गो­पा­धे­रा­त्मनो यथोक्तप्रकाशेन मरणकाले हृद­या­न्नि­ष्क्र­मणे मार्गं प्रश्न­पू­र्व­क­मु­त्त­र­वा­क्ये­नो­प­दि­शति —
तेनेत्यादिना ।

चक्षुष्टो वेति विकल्पे निमित्तं सूचयति —
आदित्येति ।

मूर्ध्नो वेति विकल्पे हेतुमाह —
ब्रह्मलोकेति ।
तत्प्रा­प्ति­नि­मित्तं चेज्ज्ञानं कर्मं वा स्यादिति पूर्वेण संबन्धः ।

देहा­व­य­वा­न्त­रेभ्यो निष्क्रमणे नियामकमाह —
यथेति ।

कथं परलोकाय प्रस्थि­त­मि­त्यु­च्यते प्राण­ग­म­ना­धी­न­त्वा­द्वि­ज्ञा­ना­त्म­ग­म­न­स्ये­त्या­श­ङ्क्याऽऽह —
परलोकायेति ।

ननु जीवस्य प्राणा­दि­ता­दात्म्ये सति कथमनुशब्देन क्रमो विवक्ष्यते तत्राऽऽह —
यथाप्रधानेति ।
प्रधा­न­म­न­ति­क्रम्य हीय­म­न्वा­ख्या­नेच्छा । तथा च जीवादेः प्राधा­न्या­भि­प्रा­ये­णा­नु­श­ब्द­प्र­योगो न क्रमाभिप्रायेण देश­का­ल­भे­दा­भा­वा­दि­त्यर्थः । सार्थे समूहे व्यक्तिषु क्रमेण गमनं दृश्यते न तथा प्राणादिष्विति व्यतिरेकः ।

यदुक्तं हृद­या­ग्र­प्र­द्यो­तनं तत्स­वि­ज्ञा­न­श्रुत्या प्रकटयति —
तदेति ।

कर्मवशादिति विशेषणं साधयति —
नेति ।

विपक्षे दोषमाह —
स्वात­न्त्र्ये­णेति ।

इष्टा­प­त्ति­मा­श­ङ्क्याऽऽह —
नैवेति ।

मुमू­र्षो­र­स्वा­तन्त्र्ये मानमाह —
अत एवेति ।

कर्मवशादुक्तं सवि­ज्ञा­न­त्व­मु­प­सं­ह­रति —
कर्मणेति ।
अन्तःकरणस्य वृत्तिविशेषो भावि­दे­ह­वि­ष­य­स्त­दा­श्रितं तद्रूपं यद्वासनात्मकं विशेषविज्ञानं तेनेति यावत् ।

म्रियमाणस्य सविज्ञानत्वे सत्य­र्थ­सि­द्ध­म­र्थ­माह —
सविज्ञानमेवेति ।

गन्तव्यस्य सविज्ञानत्वं विज्ञा­ना­श्र­य­त्व­मि­त्या­शङ्क्य विशिनष्टि —
विशेषेति ।

प्रगे­वो­त्क्रान्तेः सवि­ज्ञा­न­त्व­वा­दि­श्रु­ते­स्ता­त्प­र्य­माह —
तस्मादिति ।
पुरुषस्य कर्मानुसारित्वं तच्छब्दार्थः । योग­श्चि­त्त­वृ­त्ति­नि­रोधः । तस्य धर्मा यमनियमप्रभृतयः । तेषामनुसेवनं पुनः पुनरावर्तनम् । परि­सं­ख्या­ना­भ्यासो योगानुष्ठानम् । कर्तव्य इति प्रकृ­त­श्रु­ते­र्वि­धे­योऽर्थ इति शेषः ।

किञ्च पुण्यो­प­च­य­क­र्त­व्य­ता­रू­पेऽर्थे सर्वमेव विधिकाण्डं पर्यवसितमित्याह —
सर्व­शा­स्त्रा­णा­मिति ।

सर्व­स्मा­दा­गा­मि­दु­श्च­रि­ता­दु­प­र­मणं कर्त­व्य­मि­त्य­स्मि­न्नर्थे निषेधशास्त्रमपि पर्यवसितमित्याह —
दुश्चरिताच्चेति ।

ननु पूर्वं यथेष्टचेष्टां कृत्वा मरणकाले सर्व­मे­त­त्सं­पा­द­यि­ष्यते नेत्याह —
न हीति ।

कर्मणा नीयमानत्वे मानमाह —
पुण्य इति ।

तर्हि पुण्योपचयादेव यथो­क्ता­न­र्थ­नि­वृ­त्ते­र्व्यर्थं तत्त्व­ज्ञा­न­मि­त्या­श­ङ्क्याऽऽह —
एतस्येति ।
उप­श­मो­पा­य­स्त­त्व­ज्ञानं तस्य विधानं प्रकाशनं तदर्थमिति यावत् ।

देव­ता­ध्या­ना­द­नर्थो निवर्तिष्यते किं तत्त्व­ज्ञा­ने­ने­त्या­श­ङ्क्याऽऽह —
न हीति ।
तद्विहितेति तच्छब्देन प्रकृताः सर्वशाखोपनिषदो गृह्यन्ते ।

विधा­न्त­रे­णा­न­र्थ­ध्वं­सा­सिद्धौ फलितमाह —
तस्मादिति ।
ज्ञापितः सवि­ज्ञा­न­वा­क्ये­नेति शेषः ।

वृत्तमनूद्य प्रश्न­पू­र्व­क­मु­त्त­र­वा­क्य­म­व­तार्य व्याचष्टे —
शकटवदित्यादिना ।
विहिता विद्या ध्यानात्मिका । प्रतिषिद्धा नग्न­स्त्री­द­र्श­ना­दि­रूपा । अविहिता घटादिविषया । अप्रतिषिद्धा पथि पतिततृणादिविषया । विहितं कर्म यागादि । प्रतिषिद्धं ब्रह्महननादि । अविहितं गमनादि । अप्रतिषिद्धं नेत्र­प­क्ष्म­वि­क्षे­पादि ।

विद्या­क­र्म­णो­रु­प­भो­ग­सा­ध­न­त्व­प्र­सि­द्धे­र­न्वा­र­म्भेऽपि किमित्यन्वारभते वास­ने­त्या­श­ङ्क्याऽऽह —
सा चेति ।

अपू­र्व­क­र्मा­र­म्भा­दा­वङ्गं पूर्व­वा­स­ने­त्यत्र हेतुमाह —
न हीति ।

उक्तमेव हेतुमुपपादयति —
न हीत्यादिना ।
इन्द्रियाणां विषयेषु कौशलमनुष्ठाने प्रयोजकं तच्च फलोपभोगे हेतुः । न चान्त­रे­णा­भ्या­स­मि­न्द्रि­याणां विषयेषु कौशलं संभवति तस्मा­द­नु­ष्ठा­ना­द्य­भ्या­सा­धी­न­मि­त्यर्थः ।

तथाऽपि कथं पूर्ववासना कर्मा­नु­ष्ठा­ना­दा­व­ङ्ग­मि­त्या­श­ङ्क्याऽऽह —
पूर्वानुभवेति ।

तत्र लोकानुभवं प्रमाणयति —
दृश्यते चेति ।
चित्र­क­र्मा­दी­त्या­दि­श­ब्देन प्रासा­द­नि­र्मा­णादि गृह्यते ।

पूर्व­वा­स­नो­द्भ­व­कृतं कार्यमुक्त्वा तदभावकृतं कार्यमाह —
कासुचिदिति ।
रज्जु­नि­र्मा­णा­दि­ष्विति यावत् ।

तत्रै­वो­दा­ह­र­ण­सौ­ल­भ्य­माह —
तथेति ।

तत्र हेत्व­न्त­र­मा­शङ्क्य परिहरति —
तच्चेति ।

कर्मानुष्ठानादौ पूर्वप्रज्ञाया हेतु­त्व­मु­प­सं­ह­रति —
तेनेति ।

सम­न्वा­र­म्भ­व­च­नार्थं निगमयति —
तस्मादिति ।

तस्यैव तात्पर्यार्थमाह —
यस्मादिति ॥ २ ॥

तृण­ज­ला­यु­का­वा­क्य­म­व­ता­र­यितुं वृत्तमनूद्य वादि­वि­वा­दा­न्द­र्श­य­न्नादौ दिगम्बरमतमाह —
एवमित्यादिना ।

देवतावादिमतमाह —
अथवेति ।
देवता येन शरीरेण विशिष्टं जीवं परलोकं नयति तदातिवाहिकं शरीरान्तरं तेनेति यावत् ।

साङ्ख्यादिमतमाह —
किञ्चेति ।

सिद्धान्तं सूचयति —
आहोस्विदिति ।

वैशे­षि­का­दि­प­क्ष­माह —
किञ्चेति ।

न्यून­त्व­नि­वृ­त्त्य­र्थ­माह —
किंवा कल्पान्तरमिति ।

तत्र सिद्धान्तस्य प्रामा­णि­क­त्वे­नो­पा­दे­यत्वं वद­न्क­ल्प­ना­न्त­रा­णा­म­प्रा­मा­णि­क­त्वेन त्याज्य­त्व­म­भि­प्रे­त्याऽऽह —
उच्यत इति ।

तेषां सर्वात्मकत्वे हेत्वन्तरमाह —
सर्वात्मकेति ।

कथं तर्हि करणानां परि­च्छि­न्न­त्व­धी­रि­त्या­श­ङ्क्याऽऽह —
तेषामिति ।

आधिदैविकेन रूपे­णा­प­रि­च्छि­न्ना­ना­मपि कर­णा­ना­मा­ध्या­त्मि­का­दि­रू­पेण परिच्छिन्नतेति स्थिते फलितमाह —
अत इति ।
तद्व­शा­दु­दा­हृ­त­श्रु­ति­व­शा­दि­त्ये­तत् । स्वभावतो देव­ता­स्व­रू­पा­नु­सा­रे­णेति यावत् । कर्म­ज्ञा­न­वा­स­ना­नु­रू­पे­णे­त्यत्र भोक्तुरिति शेषः । उभयत्र संबन्धार्थं प्राणानामिति द्विरुक्तम् ।

तेषां वृत्तिसंकोचादौ प्रमाणमाह —
तथा चेति ।

परि­च्छि­न्ना­प­रि­च्छि­न्न­प्रा­णो­पा­सने गुण­दो­ष­सं­की­र्त­न­मपि प्राण­सं­को­च­वि­का­सयोः सूचकमित्याह —
तथा चेदमिति ।
आधिदैविकेन रूपेण सर्वगतानामपि कर­णा­ना­मा­ध्या­त्मि­का­धि­भौ­ति­क­रू­पेण परि­च्छि­न्न­त्वा­त्त­त्प­रि­वृ­तस्य गमनं सिद्ध्यतीति सिद्धान्तो दर्शितः ।

इदानीं तृण­ज­ला­यु­का­दृ­ष्टा­न्ता­द्दे­हा­न्तरं गृहीत्वा पूर्वदेहं मुञ्चत्यात्मेति स्थूल­दे­ह­वि­शि­ष्ट­सैव परलोकगमनमिति पौरा­णि­क­प्र­क्रियां प्रत्याख्यातुं दृष्टा­न्त­वा­क्यस्य तात्पर्यमाह —
तत्रेत्यादिना ।
देह­नि­र्ग­म­ना­त्प्रा­ग­वस्था सप्तम्यर्थः । तदैव यथोक्ता वासना हृदयस्था विद्या­क­र्म­नि­मित्तं भाविदेहं स्पृशति जीवोऽपि तत्राभिमानं करोति पुनश्च पूर्वदेहं त्यजति यथा स्वप्ने देवोऽ­ह­मि­त्य­भि­म­न्य­मानो देहान्तरस्थ एव भवति तथो­त्क्रा­न्ता­वपि । तस्मान्न पूर्व­दे­ह­वि­शि­ष्ट­स्यैव पर­लो­क­ग­म­न­मि­त्यर्थः । स्वात्मोपसंहारो देहे पूर्व­स्मि­न्ना­त्मा­भि­मा­न­त्यागः । प्रसारितया वासनया शरीरान्तरं गृहीत्वेति संबन्धः ।

उपसंहारस्य स्वरूपमाह —
तत्रेति ।

सप्तम्यर्थं विवृणोति —
आरभ्यमाण इति ।

आरब्धे देहान्तरे सूक्ष्म­दे­ह­स्या­भि­व्य­क्ति­माह —
तत्र चेति ।
कर्मग्रहणं विद्या­पू­र्व­प्र­ज्ञ­यो­रु­प­ल­क्ष­णम् ।

ननु लिङ्ग­दे­ह­ब­ला­दे­वा­र्थ­क्रि­या­सिद्धौ कृतं स्थूल­श­री­रे­णे­त्या­शङ्क्य तद्व्य­ति­रे­के­णे­त­र­स्या­र्थ­क्रि­या­का­रित्वं नास्तीति मत्वाऽऽह —
बाह्यं चेति ।

आरब्धे देहद्वये करणेषु देव­ता­ना­म­नु­ग्रा­ह­क­त्वे­ना­व­स्थानं दर्शयति —
तत्रेति ।
स्थूलो देहः सप्तम्यर्थः । कर­ण­व्यू­ह­स्ते­षा­म­भि­व्यक्तिः ॥ ३ ॥

पेश­स्का­रि­वा­क्य­व्या­व­र्त्या­मा­श­ङ्का­माह —
तत्रेति ।
संसारिणो हि प्रकृते देहान्तरारम्भे किमुपादानमस्ति किं वा नास्ति ? नास्ति चेन्न भावरूपं कार्यं सिध्येत । अस्ति चेत्तत्किं भूत­प­ञ्च­क­मु­ता­न्यत् । आद्येऽपि तन्नि­त्यो­पा­त्त­मेव पूर्व­पू­र्व­दे­हो­प­म­र्दे­ना­न्य­मन्यं देहमारभते किंवाऽ­न्य­द्दू­त­प­ञ्च­क­म­न्य­मन्यं देहं जनयति । नाऽद्यः । भूतपञ्चकस्य तत्त­दे­हो­पा­दा­नत्वे मायायाः सर्व­क­र­ण­त्व­स्वी­का­र­वि­रो­धात् । न द्वितीयः । भूत­पा­ञ्च­को­त्प­त्ता­वपि कारणान्तरस्य मृग्य­त्वा­त्त­स्यैव देहा­न्त­र­का­र­ण­त्व­सं­भ­वा­न्ने­तरो देहस्य पाञ्च­भौ­ति­क­त्व­प्र­सि­द्धि­वि­रो­धा­दिति भावः ।

उत्तरं वाक्य­मु­त्त­र­त्वे­नाऽऽ­दत्ते —
अत्रेति ।

तच्छ­ब्दा­र्थ­म­पे­क्षितं पूरयन्नाह —
दृष्टान्त इति ।

अवशिष्टं भागमादाय व्याचष्टे —
यथेत्यादिना ।

किं पुन­रु­पा­दा­न­मे­ता­वता देहा­न्त­रा­र­म्भेऽ­भ्यु­प­गतं भवति तत्राऽऽह —
नित्यो­पा­त्ता­नीति ।
शरी­र­द्व­या­र­म्भ­का­णीति शेषः ।

तेषा­मु­भ­या­र­म्भ­क­त्वेन मूर्ता­मू­र्त­ब्रा­ह्मणे प्रस्तुतत्वं दर्शयति —
यानीति ।

देहविकल्पे नियामकमाह —
यथाकर्मेति ॥ ४ ॥

शरीरारम्भे माया­त्म­क­भू­त­प­ञ्च­क­मु­पा­दा­न­मिति वदता भूतावयवानामपि सहैव गमनमित्युक्तम् । इदानीं स वा अय­मा­त्मे­त्या­दे­स्ता­त्प­र्य­माह —
येऽस्येति ।

ताने­वो­पा­धि­भू­ता­न्प­दा­र्था­न्वि­शि­नष्टि —
यैरिति ।

ननु पूर्वमप्येते पदार्था दर्शिताः किं पुन­स्त­त्प्र­द­र्श­ने­ने­त्या­श­ङ्क्याऽऽह —
पञ्चीकृत्येति ।

स वा अयमात्मा ब्रह्मेति भागं व्याकु­र्व­न्ना­त्मनो ब्रह्मैक्यं वास्तवं वृत्तं दर्शयति —
स वा इति ।

यस्यैवावास्तवं रूपमुपन्यस्यति —
विज्ञानमय इत्यादिना ।

ज्योति­र्ब्रा­ह्म­णेऽपि व्याख्यातं विज्ञा­न­म­य­त्व­मि­त्याह —
कतम इति ।

कस्मिन्नर्थे मयट् प्रयुज्यते तत्राऽऽह —
विज्ञानेति ।

उक्ते मयडर्थे हेतुमाह —
यस्मादिति ।

बुद्ध्यै­क्या­ध्या­सा­त्त­द्ध­र्मस्य कर्तृ­त्वा­दे­रा­त्मनि प्रतीतिरित्यत्र मानमाह —
ध्यायतीवेति ।
मनः­सं­नि­क­र्षा­त्तेन द्रष्टव्यतया संबन्धादिति यावत् ।

चक्षु­र्म­य­त्वा­दे­रु­प­ल­क्ष­ण­त्व­म­ङ्गी­कृ­त्याऽऽह —
एवमिति ।

उक्तमनूद्य सामान्येन भूतमयत्वमाह —
एवं बुद्धीति ।

भूतमयत्वे सत्य­वा­न्त­र­वि­शे­ष­माह —
तत्रेत्यादिना ।

न चाऽऽका­श­प­र­मा­ण्व­भा­वा­दा­का­शस्य शरी­रा­ना­र­म्भ­कत्वं श्रुति­वि­रु­द्धा­र­म्भ­प्र­क्रि­या­न­भ्यु­प­ग­मा­दि­त्य­भि­प्रे­त्याऽऽह —
तथाऽऽकाशेति ।

कथं पुन­र्ध­र्मा­दि­म­यत्वे कामा­दि­म­य­त्व­मु­प­यु­ज्यते तत्राऽऽह —
न हीति ।

कथं धर्मादिमयत्वं सर्वमयत्वे कार­ण­मि­त्या­श­ङ्क्याऽऽह —
समस्तमिति ।

तद्य­दे­त­दि­त्या­दे­र­र्थ­माह —
किं बहुनेति ।

विषयः शब्दा­दि­स्त­तोऽ­न्य­दपि प्रत्यक्षतो अव­ग­ति­प्र­का­र­म­भि­न­यति —
इदमस्येति ।

इदं­म­य­त्व­म­दो­म­यत्वं चोपसंहरति —
तेनेत्यादिना ।

परोक्षत्वं व्याकरोति —
अन्तःस्थ इति ।
व्यव­हि­त­वि­ष­य­व्य­व­हा­र­वा­निति यावत् । इदा­नी­मि­त्य­स्मा­दु­प­रि­ष्टा­दपि तेनेति संबध्यते । परो­क्ष­त्वा­व­स्थे­दा­नी­मि­त्युक्ता । तृतीयया च प्रकृतो व्यवहारे निर्दिश्यते । इतिशब्दः सर्व­म­य­त्वो­प­सं­हा­रार्थः ।

विज्ञा­न­म­या­दि­वा­क्यार्थं संक्षिपति —
संक्षे­प­त­स्त्विति ।

करणचरणयोरैक्येन पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह —
करणं नामेति ।
आदिशब्दः शिष्टा­चा­र­सं­ग्र­हार्थः ।

वाक्यान्तरं शङ्को­त्त­र­त्वे­नो­त्थाप्य व्याचष्टे —
ताच्छी­ल्ये­त्या­दिना ।

कुत्र तर्हि ताच्छी­ल्य­मु­प­यु­ज्यते तत्राऽऽह —
ताच्छील्ये त्विति ।

पूर्व­प­क्ष­मु­प­सं­ह­रति —
तत्रेत्यादिना ।

कर्मणः संसा­र­का­र­ण­त्व­मु­प­सं­ह­रति —
एतत्प्रयुक्तो हीति ।

संसारप्रयोजके कर्मणि प्रमाणमाह —
एतद्विषयौ हीति ।

कथं यथो­क्त­क­र्म­वि­ष­यत्वं विधि­नि­षे­ध­यो­रि­त्या­श­ङ्क्याऽऽह —
अत्रेति ।
इतिशब्दः पूर्व­प­क्ष­स­मा­प्त्यर्थः ।

सिद्धा­न्त­म­व­ता­र­यति —
अथो इति ।

संसा­र­का­र­ण­स्या­ज्ञा­नस्य प्राधान्येन कामः सहकारीति स्वसिद्धान्तं समर्थयते —
सत्यमित्यादिना ।

कामाभावेऽपि कर्मणः सत्त्वं दृष्ट­मि­त्या­श­ङ्क्याऽह —
कामप्रहाणे त्विति ।

ननु कामाभावेऽपि नित्या­द्य­नु­ष्ठा­ना­त्पु­ण्या­पुण्ये संचीयेते तत्राऽऽह —
उपचिते इति ।
यो हि पशु­पु­त्र­स्व­र्गा­दी­न­न­ति­श­य­पु­रु­षा­र्था­न्म­न्य­मा­न­स्ता­नेव कामयते स तत्तद्भोगभूमौ तत्त­त्का­म­सं­युक्तो भव­ती­त्या­थ­र्व­ण­श्रु­ते­रर्थः ।

श्रुति­यु­क्ति­सि­द्ध­मर्थं निगमयति —
तस्मादिति ।

धर्मा­दि­म­य­त्व­स्यापि सत्त्वा­द­व­धा­र­णा­नु­प­प­त्ति­मा­श­ङ्क्याऽऽह —
यदिति ।

स यथाकामो भवतीत्यादि व्याचष्टे —
यस्मादित्यादिना ।
यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः । इतिशब्दो ब्राह्म­ण­स­मा­प्त्यर्थः ॥ ५ ॥

तत्रेति गन्त­व्य­फ­ल­प­रा­मर्शः । तदेव गन्तव्यं फलं विशेषतो ज्ञातुं पृच्छति —
किं तदिति ।

प्रतीकमादाय व्याचष्टे —
लिङ्गमिति ।

योऽवगच्छति स प्रमा­त्रा­दि­साक्षी येन साक्ष्येण मनसाऽवगम्यते तन्मनो लिङ्गमिति पक्षान्तरमाह —
अथवेति ।
यस्मिन्निश्चयेन संसारिणो मनः सक्तं तत्फ­ल­प्रा­प्ति­स्त­स्येति संबन्धः ।

तदेवोपपादयति —
तदभिलाषो हीति ।

पूर्वा­र्धा­र्थ­मु­प­सं­ह­रति —
तेनेति ।

कामस्य संसारमूलत्वे सत्य­र्थ­सि­द्ध­म­र्थ­माह —
अत इति ।
वन्ध्यप्रसवत्वं निष्फलत्वम् । पर्याप्तकामस्य प्राप्त­प­र­म­पु­रु­षा­र्थ­स्येति यावत् । कृतात्मनः शुद्ध­बु­द्धे­र्वि­दि­त­स­त­त्त्व­स्ये­त्यर्थः । इहेति जीवदवस्थोक्तिः ।

कामप्रधानः संसरति चेत्क­र्म­फ­ल­भो­गा­न­न्तरं कामा­भा­वा­न्मुक्तिः स्यादि­त्या­श­ङ्क्याऽऽह —
किञ्चेति ।
इतश्च संसारस्य काम­प्र­धा­न­त्व­मा­स्थे­य­मि­त्यर्थः । यावदवसानं तावदुक्त्वेति संबन्धः ।

उक्तमेव संक्षिपति —
कर्मण इति ।
इत्येवं पारम्पर्येण संसरणादृशे ज्ञानान्न मुक्तिरिति शेषः ।

संसा­र­प्र­क­र­ण­मु­प­सं­ह­रति —
इति न्विति ।

अवस्थाद्वयस्य दार्ष्टान्तिकं बन्धं प्रबन्धेन दर्शयित्वा सुषुप्तस्य दार्ष्टान्तिकं मोक्षं वक्तुमेवेत्यादि वाक्यं तत्रा­थ­श­ब्दा­र्थ­माह —
यस्मादिति ।

कामरहितस्य संसाराभावं साधयति —
फलासक्तस्येति ।
विदुषो निष्कामस्य क्रियाराहित्ये नैष्क­र्म्य­म­य­त्न­सि­द्ध­मिति भावः ।

अकामयमानत्वे प्रश्नपूर्वकं हेतुमाह —
कथमित्यादिना ।
बाह्येषु शब्दादिषु विष­ये­ष्वा­सं­ग­रा­हि­त्या­द­का­म­य­मा­न­ते­त्यर्थः ।

अकामत्वे हेतु­मा­का­ङ्क्षा­पू­र्व­क­माह —
कथमिति ।
वास­ना­रू­प­का­मा­भा­वा­द­का­म­ते­त्यर्थः ।

निष्कामत्वे प्रश्नपूर्वकं हेतुमुत्थाप्य व्याचष्टे —
कथमिति ।
प्राप्त­प­र­मा­न­न्द­त्वा­न्नि­ष्का­म­ते­त्यर्थः ।

आप्तकामत्वे हेतु­मा­का­ङ्क्षा­पू­र्व­क­माह —
कथमित्यादिना ।

हेतुमेव साधयति —
यस्येति ।
तस्य युक्त­मा­प्त­का­म­त्व­मिति शेषः ।

उक्तमर्थं प्रमा­ण­प्र­द­र्श­नार्थं प्रपञ्चयति —
आत्मैवेति ।

कामयितव्याभावं ब्रह्मविदः श्रुत्य­व­ष्ट­म्भेन स्पष्टयति —
यस्येति ।
इति विद्यावस्था यस्य विदुषोऽस्ति सोऽन्यमविजानन्न कञ्चिदपि कामयतेति योजना ।

पदा­र्थोऽ­न्य­त्वे­ना­वि­ज्ञा­तोऽपि कामयितव्यः स्यादिति चेन्नेत्याह —
ज्ञायमानो हीति ।
अनुभूते स्मर­ण­वि­प­रि­व­र्तिनि काम­नि­य­मा­दि­त्यर्थः ।

अन्यत्वेन ज्ञायमानस्तर्हि पदार्थो विदुषोऽपि कामयितव्यः स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।

आप्तकामस्य ब्रह्मविदो दर्शितरीत्या कामयितव्याभावे मुक्तिः सिद्धे­त्यु­प­सं­ह­रति —
य एवेति ।

कथं काम­यि­त­व्या­भा­वोऽ­ना­त्म­न­स्त­था­त्वा­दि­त्या­श­ङ्क्याऽऽह —
न हीति ।

सर्वा­त्म­त्व­म­ना­त्म­का­म­यि­तृत्वं च स्यादि­त्या­श­ङ्क्याऽऽह —
अनात्म चेति ।

अथेत्यादिवाक्ये श्रौत­म­र्थ­मु­क्त्वाऽ­र्थ­सि­द्ध­मर्थं कथयति —
सर्वात्मदर्शिन इति ।

कर्मजडानां मतमुत्थाप्य श्रुतिविरोधेन प्रत्याचष्टे —
ये त्विति ।

ब्रह्मविदि प्रत्य­वा­य­प्रा­प्ति­म­ङ्गी­कृ­त्यो­क्त­मि­दानीं तत्प्राप्तिरेव तस्मि­न्ना­स्ती­त्याह —
येन चेति ।

यथोक्तस्यापि ब्रह्मविदो विहितत्वादेव नित्यादनुष्ठानं स्यादिति चेन्नेत्याह —
नित्यमेवेति ।
यो हि सदै­वा­सं­सा­रि­ण­मा­त्मा­न­म­नु­भ­वति न च हेयमादेयं वाऽऽत्म­नोऽ­न्य­त्प­श्यति । यस्मादेवं तस्मात्तस्य कर्म संस्प्र­ष्टु­म­यो­ग्यम् । यथो­क्त­ब्र­ह्म­वि­द्यया कर्मा­धि­का­र­हे­तू­ना­मु­प­मृ­दि­त­त्वा­दि­त्यर्थः ।

कर्म­सं­ब­न्ध­स्तर्हि कस्ये­त्या­श­ङ्क्याऽऽह —
यस्त्विति ।
न विरोधो विधिकाण्डस्येति शेषः ।

श्रुत्य­र्थाभ्यां सिद्ध­म­र्थ­मु­प­सं­ह­रति —
अत इति ।
विद्या­व­शा­दि­त्ये­तत् । कामा­भा­वा­त्क­र्मा­भा­वा­च्चेति द्रष्टव्यम् । अका­म­य­मा­नोऽ­कु­र्वा­ण­श्चेति शेषः ।

देशा­न्त­र­प्रा­प्त्या­यत्ता मुक्ति­रि­त्ये­त­न्नि­रा­कर्तुं न तस्येत्यादि व्याचष्टे —
तस्येत्यादिना ।

ब्रह्मैव सन्नि­त्ये­त­द­व­ता­र­यति —
स चेति ।

कथं वर्तमाने देहे तिष्ठन्नेव ब्रह्मभूतो भवति तत्राऽऽह —
सर्वात्मनो हीति ।
दृष्टा­न्ता­लो­च­नया दार्ष्टा­न्ति­केऽपि सदा ब्रह्मत्वं भातीति भावः ।

सदा ब्रह्मीभूतस्य मुक्तिर्नाम नास्तीति शङ्कित्वा परिहरति —
स कथमिति ।

परिहारमेव स्फोरयितुं न तस्ये­त्या­दि­वा­क्या­र्थ­म­नु­द्र­वति —
तस्यैवेति ।

ब्रह्मैव सन्नि­त्य­स्या­र्थ­म­नु­व­दति —
किन्त्विति ।

विद्वानिहैव ब्रह्म चेत्कथं तस्य ब्रह्म­प्रा­प्ति­रि­त्या­श­ङ्क्याऽऽह —
ब्रह्मैवेति ।

यदुक्तं ब्रह्मैव सन्नित्यादि तदुपपादयति —
यस्मादिति ।

प्रागपि ब्रह्मभूतस्यैव पुनर्देहपाते ब्रह्म­प्रा­प्ति­रि­त्य­युक्तं विदुषां मृतस्य भावा­न्त­रा­प­त्ति­स्वी­का­रा­दि­त्या­श­ङ्क्याऽऽह —
न हीति ।

कथं तर्हि ब्रह्मा­प्ये­ती­त्यु­च्यते तत्राऽऽह —
देहान्तरेति ।

विदुषो भावा­न्त­रा­प­त्ति­र्मु­क्ति­रिति पक्षेऽपि किं दूषणमिति चेत्तदाह —
भावान्तरापत्तौ हीति ।
तथा चोप­नि­ष­दा­म­प्रा­माण्यं विना हेतुना स्यादिति भावः ।

भावा­न्त­रा­प­त्ति­र्मु­क्ति­रि­त्यत्र दोषान्तरमाह —
कर्मेति ।
इति­प­दा­दु­प­रि­ष्टा­त्क्रि­या­प­दस्य संबन्धः ।

अस्तु कर्मनिमित्तो मोक्षो ज्ञान­नि­मि­त्तस्तु मा भूत्तत्राऽऽह —
स चेति ।
प्रसंगः सर्वनाम्ना परामृश्यते । प्रति­षे­ध­शा­स्त्र­वि­रो­धा­दिति भावः ।

मोक्षस्य कर्मसाध्यत्वे दोषान्तरमाह —
अनित्यत्वं चेति ।

तत्रोपयुक्तां व्याप्तिमाह —
न हीति ।

अस्तु तर्हि प्रासा­दा­दि­व­त्क्रि­या­सा­ध्यस्य मोक्ष­स्या­प्य­नि­त्यत्वं नेत्याह —
नित्यश्चेति ।

कृतकोऽपि ब्रह्मभावो ध्वंसवन्नित्यः स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।
कृत्रि­म­स्व­भा­व­व्या­वृ­त्त्यर्थं स्वाभाविकपदम् । ‘अतोऽन्यदार्तम् ’(बृ. उ. ३ । ४ । २) इति हि श्रुतिः । ध्वंसस्य तु विक­ल्प­मा­त्र­त्वा­न्नि­त्य­त्व­म­सं­म­त­मिति भावः ।

मोक्षोऽ­कृ­त्रि­म­स्व­भा­वोऽपि कर्मोत्थः स्यादि­त्या­श­ङ्क्याऽऽह —
स्वाभा­वि­क­श्चे­दिति ।
अग्ने­रौ­ष्ण्य­व­दा­त्मनो मोक्षश्च स्वाभा­वि­क­स्व­भा­व­श्चेन्न स क्रियासाध्यो व्याघा­ता­दि­त्यर्थः ।

दृष्टान्तं समर्थयते —
न हीति ।

अर­णि­ग­त­स्या­ग्ने­रौ­ष्ण्य­प्र­काशौ नोपलभ्यते सति च ज्वलने दृश्यते तेन स्वाभाविकावपि तावागन्तुकौ कादा­चि­त्को­प­ल­ब्धि­म­त्त्वा­दिति शङ्कते —
ज्वलनेति ।

न हि सतोऽ­ग्ने­रौ­ष्ण्यादि कादाचित्कं युक्तं तद्दृ­ष्टे­र्व्य­व­धा­नस्य दार्वा­दे­र्ध्वंसे मथनज्वलनादिना वह्न्य­भि­व्य­क्ति­म­पेक्ष्य तत्स्व­भा­व­स्यौ­ष्ण्या­दे­र्व्य­क्त्य­भ्यु­प­ग­मा­दिति परिहरति —
नान्येति ।

तदेव प्रपञ्चयति —
ज्वलनादीति ।
मथ­ना­दि­व्या­पा­र­व­शा­त्प्र­का­शा­दिना व्यज्य­तेऽ­ग्नि­रिति यदुच्यते तदग्नौ सत्येव तद्ग­त­व्या­पा­रा­पे­क्षया तदौ­ष्ण्या­द्य­भि­व्य­क्ति­व­शान्न भवति किन्तु देव­द­त्त­दृ­ष्टे­र­ग्नि­धर्मौ व्यवहितौ न तु तौ कस्य­चि­द्दृष्ट्या संबध्यते ज्वल­ना­दि­व्या­पा­रात्तु दृष्टे­र्व्य­व­धा­न­भङ्गे तयो­र­भि­व्य­क्ति­रि­त्यर्थः ।

कथं तर्हि ज्वल­ना­दि­व्या­पा­रा­द­ग्ने­रौ­ष्ण्य­प्र­काशौ जाताविति बुद्धि­स्त­त्राऽऽह —
तदपेक्षयेति ।
ज्वल­ना­दि­व्या­पा­रा­द्दृ­ष्टि­व्य­व­धा­न­भङ्गे वह्ने­रौ­ष्ण्य­प्र­का­शा­भि­व्य­क्त्य­पे­क्ष­येति यावत् ।

यथा वह्नेरौष्ण्यादि स्वाभाविकं न क्रियासाध्यं तथाऽऽत्मनो मुक्तिः स्वाभाविकी न क्रिया­सा­ध्ये­त्यु­क्त­मि­दा­नी­म­ग्ने­रौ­ष्ण्यादि न स्वाभा­वि­क­मि­त्या­श­ङ्क्याऽऽह —
यदीति ।
उदाहरिष्यामो मोक्ष­स्याऽऽ­त्म­स्व­भा­व­स्या­क­र्म­सा­ध्य­त्वा­येति शेषः ।

अथाग्नेः स्वाभाविको न कश्चि­द्ध­र्मोऽस्ति यो मोक्षस्य दृष्टान्तः स्यादत आह —
न चेति ।
लब्धात्मकं हि वस्तु वस्त्वन्तरेण संबध्यते । अस्ति च निम्बादौ तिक्त­त्वा­दि­धी­रि­त्यर्थः ।

भावा­न्त­रा­प­त्ति­पक्षं प्रतिक्षिप्य पक्षान्तरं प्रत्याह —
न चेति ।
न हि बन्धनस्य यथाभूतस्य निवृ­त्ति­र्वि­रो­धा­न्ना­प्य­न्य­था­भू­त­स्या­न­व­स्था­नात् । न च प्रसिद्धिविरोधो दुर्नि­रू­प­ध्व­स्ति­वि­ष­य­त्वा­दिति भावः ।

किञ्च परस्मादन्यस्य बन्ध­नि­वृ­त्ति­स्त­स्यैव वा नाऽऽद्य इत्याह —
न चेति ।
तत्र हेतुत्वेन पर­मा­त्मै­क­त्वा­भ्यु­प­ग­मा­दि­त्या­दि­भाष्यं व्याख्येयम् । न द्वितीयस्तस्य नित्यमुक्तस्य त्वयाऽपि बद्ध­त्वा­न­भ्यु­प­ग­मा­दिति द्रष्टव्यम् ।

कथं परस्मादन्यो बद्धो नास्ती­त्या­शङ्क्य प्रवे­श­वि­चा­रा­दा­वुक्तं स्मारयति —
परमात्मेति ।

न चेदन्यो बद्धोऽस्ति कथं मोक्षव्यवहारः स्यादि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ।
अन्यस्य बद्ध­स्या­भा­वा­त्प­रस्य च नित्य­मु­क्त­त्वा­दिति यावत् । यथा रज्ज्वा­दा­व­धि­ष्ठाने सर्पादिहेतो रज्ज्वज्ञानस्य निवृत्तौ सत्यां सर्पादेरपि निवृ­त्ति­स्त­थाऽ­वि­द्याया बन्ध­हे­तो­र्नि­वृ­त्ति­मा­त्रेण तत्कार्यस्य बन्धनस्यापि निवृ­त्ति­व्य­व­हारो भवतीति चावादिष्मेति योजना ।

मता­न्त­र­मु­द्भा­व­यति —
येऽप्याचक्षत इति ।
वैष­यि­क­ज्ञा­ना­न­न्दा­पे­क्ष­याऽ­न्त­र­शब्दः ।

केय­म­भि­व्य­क्ति­रु­त्प­त्तिर्वा प्रकाशो वा । नाऽऽद्यो मोक्षे सुखाद्युत्पत्तौ तद­नि­त्य­त्वा­प­त्ते­रि­त्य­भि­प्रे­त्याऽऽह —
तैरिति ।

द्वितीयमालम्बते —
यदीति ।

तत्र दोषं वक्तुं विकल्पयति —
तत इति ।

द्वितीये खर­वि­षा­ण­व­द­प­रो­क्षा­भि­व्य­क्तिर्न स्यादि­त्य­भि­प्रे­त्याऽऽ­द्य­म­नु­भाष्य दूषयति —
विद्यमानं चेदिति ।
उप­ल­ब्धि­स्व­भा­व­स्ता­व­दात्मा तस्य विद्यमानं सुखादि व्यज्यते चेज्ज्ञा­ना­न­न्द­यो­र्दे­शा­दि­व्य­व­धा­ना­भा­वा­दा­नन्दः सदैव व्यज्यत इति मुक्ति­वि­शे­ष­ण­म­न­र्थ­क­मि­त्यर्थः ।

चक्षु­र्घ­ट­यो­र्वि­ष­य­वि­ष­यि­त्व­प्र­ति­ब­न्ध­क­कु­ड्या­दि­व­द­ध­र्मा­दि­प्र­ति­ब­न्धा­दा­नन्दो ज्ञानं च संसारदशायां न व्यज्यते मोक्षे तु व्यज्यते तदभावादिति शङ्कते —
अथेति ।

उप­ल­ब्धि­दे­शा­द्भि­न्न­दे­श­स्यैव घटा­दे­रु­प­ल­ब्धि­प्र­ति­ब­न्ध­द­र्श­ना­द­ना­त्म­भूतं सुखं न स्वभा­व­भू­त­यो­प­लब्ध्या प्रकाशेत किन्तु विष­ये­न्द्रि­य­सं­प­र्का­दि­त्यु­त्त­र­माह —
उपलब्धीति ।

अन्य­तोऽ­भि­व्यक्तौ किं स्यादिति चेत्तदाह —
तथा चेति ।
तत्साधनानि चेन्मुक्तौ स्युः संसारादविशेषः स्यादिति भावः ।

उप­ल­ब्धि­व्य­व­धा­न­मा­न­न्द­स्या­ङ्गि­कृ­त्यो­क्त­मि­दानीं तदेव नास्तीत्याह —
उपलब्धीति ।

कदा­चि­द­भि­व्य­क्ति­र­न­भि­व्य­क्तिश्च कदाचिदित्येवं कालभेदेनोभयं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न त्विति ।

अन­न्द­ज्ञा­न­यो­र्वि­ष­य­वि­ष­यि­त्व­म­भ्यु­पेत्य कादाचित्कीं ताव­द­भि­व्य­क्ति­र्नि­रस्ता संप्रति तदपि न संभवतीत्याह —
न चेति ।
आत्मभूतत्वं स्वाभाविकत्वम् । विमतं न समानाश्रयविषयं धर्म­त्वा­त्प्र­दी­प­प्र­का­श­व­दिति भावः ।

मुक्ता­वा­न­न्द­ज्ञा­ना­भि­व्य­क्ति­पक्षे दोषान्तरं वक्तुं भूमिकां करोति —
विज्ञा­न­सु­ख­यो­श्चेति ।

तद्भे­दा­पा­द­न­नि­ष्ठ­मे­वे­त्या­शङ्क्य विवक्षितं दोषमाह —
परमात्मेति ।

परमते निराकृते सिद्धान्तेऽपि दोषद्वयमाशङ्कते —
मोक्षस्येति ।
मोक्षार्थोऽधिको यत्नः शमदमादिः । शास्त्रं मोक्षविषयम् ।

मोक्षस्य निर्वि­शे­ष­त्वेऽपि प्रत्य­ग­वि­द्या­त­दु­त्था­न­र्थ­ध्वं­सि­त्वे­नो­भ­य­म­र्थ­व­दिति परिहरति —
नाविद्येति ।

तत्र नञर्थं विवृणोति —
नहीति ।

कथं तर्हि शास्त्रा­द्य­र्थ­व­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
किन्त्विति ।

तत्र शास्त्र­स्या­र्थ­वत्वं समर्थयते —
तद्विषयेति ।
प्रस्तु­ता­त्म­वि­ष­य­स्त­च्छब्दः ।

संप्रति प्रय­त्न­स्या­र्थ­वत्वं प्रकटयति
प्रागिति।
प्रथमस्तच्छब्दः शास्त्रविषयः । द्वितीयो मोक्षविषयः ।

आत्मनः सदैकरूपत्वं प्रागु­क्त­मा­क्षि­पति —
अविद्येति ।

आविद्यः सोऽपीति समाधत्ते —
नेति ।
यथा रज्ज्वा­द्य­वि­द्यो­त्थ­स­र्पा­दे­स्त­द्वि­द्यया ध्वंसाद्वंसयो रज्ज्वादेर्न वास्तवो विशे­ष­स्त­थाऽऽ­त्म­नोऽपि स्वावि­द्या­मा­त्रो­त्थ­वि­शे­ष­व­त्त्वेऽपि तद्ध्वं­सा­ध्वं­स­योर्न वास्तवो विशे­षोऽ­स्ती­त्यर्थः । अदोषः सवि­शे­ष­त्व­दो­ष­रा­हि­त्यम् ।

प्रकारान्तरेण सविशेषत्वं शङ्कते —
तिमिरेति ।

किमि­द­म­वि­द्या­क­र्तृत्वं किं तज्जनकत्वं किं वा तदाश्रयत्वमिति विकल्प्याऽऽद्यं दूषयति —
न ध्यायतीवेति ।

आत्मनः स्वतोऽ­वि­द्या­क­र्तृ­त्वा­भावे हेत्वन्तरमाह —
अनेकेति ।
विष­य­वि­ष­य्या­का­रोऽ­न्तः­क­र­णस्य तत्र चिदा­भा­सो­द­य­श्चाऽऽ­त्मनो व्यापारस्तथा चाने­क­व्या­पा­र­सं­नि­पाते सत्यहं संसा­री­त्य­वि­द्या­त्मको भ्रमो जायते तस्मान्न तस्याऽऽ­त्म­का­र्य­ते­त्यर्थः ।

कल्पान्तरं प्रत्याह —
विषयत्वेति ।
अवि­द्या­दे­रा­त्म­दृ­श्य­त्वान्न तदाश्रयत्वं न हि तद्गतस्य तद्ग्रा­ह्य­त्व­मं­शतः स्वग्र­हा­प­त्ते­रि­त्यर्थः ।

तदेव स्फोरयति —
यस्य चेति ।

अनुभवमनुसृत्य शङ्कते —
अहं नेत्यादिना ।

साक्षि­सा­क्ष्य­भा­वेन भेदा­भ्यु­प­ग­मा­न्नाऽऽ­त्म­नोऽ­वि­द्या­श्र­य­त्व­मि­त्यु­त्त­र­माह —
न तस्यापीति ।

तदेव स्पष्टयति —
न हीति ।

अवि­द्या­दे­र्वि­वे­केन ग्रहीतर्यपि तद्विषये भ्रान्तत्वे का हानि­रि­त्या­श­ङ्क्याऽऽह —
तस्य चेति ।

अज्ञानं मुग्धत्वं चाऽऽत्मनो न विशेषणमिति विधान्तरेण दर्शयितुं चोद्य­वा­क्य­म­नु­व­दति —
न जान इति ।

तद्व्याचष्टे —
तद्दर्शिनश्चेति ।
अज्ञा­ना­दि­स्त­च्छ­ब्दार्थः ।

दृश्यमानत्वमेव विशदयति —
कर्मतामिति ।
इति ब्रवीषीति संबन्धः ।

एवं परकीयं वाक्यं व्याख्याय फलितमाह —
तत्कथमिति ।
तत्र चोद्यवाक्यार्थे दर्शितरीत्या स्थिते सति कर्तृविशेषणं नाज्ञानमुग्धते स्यातां तयोः प्रत्येकं कर्म­भू­त­त्वा­दि­त्यर्थः ।

विपक्षे दोषमाह —
अथेति ।

कथं कर्म स्याता­मि­त्ये­त­देव व्याचष्टे —
दृशिनेति ।

तत्रापि कथंशब्दः संबध्यते । एतदेव स्फुटयति —
कर्म हीति ।
एवं सति व्याप्य­व्या­प­क­भा­वस्य भेदनिष्ठत्वे सतीत्येतत् ।

किञ्चा­ज्ञा­न­मु­प­ल­ब्धृ­धर्मो न भव­त्यु­प­ल­भ्य­मा­न­त्वा­द्दे­ह­ग­त­का­र्श्या­दि­व­दि­त्याह —
न चेति ।

अज्ञा­न­त­त्त­त्का­र्य­मपि नाऽऽत्मधर्मः स्यादि­त्य­ति­दि­शति —
तथेति ।

अज्ञा­नो­त्थ­स्ये­च्छा­दे­रा­त्म­ध­र्म­त्व­नि­रा­क­रणे प्रतीतिविरोधः स्यादिति शङ्कते —
सुखेति ।

तेषां ग्राह्य­त्व­म­ङ्गी­कृत्य परिहरति —
तथाऽपीति ।
आत्मनिष्ठत्वे सुखादीनां चैत­न्य­व­दा­त्म­ग्रा­ह्य­त्वा­यो­गा­त्त­द्ग्रा­ह्याणां तेषां न तद्धर्मतेति भावः ।

प्रकारान्तरेण निराकर्तुं निराकृतमेव चोद्यमनुद्रवति —
न जान इति ।

किं प्रमा­तु­र­ज्ञा­ना­द्या­श्र­य­त्व­म­नु­भ­वा­द­भि­द­धासि तत्साक्षिणो वा । तत्राऽऽद्यं प्रत्याह —
भवत्विति ।

कल्पान्तरं निराकरोति —
यस्त्विति ।
न हि यो यत्र साक्षी स तत्राज्ञो मूढो वेति । तथा च सर्वसाक्षी नाज्ञा­ना­दि­मा­न्भ­व­ती­त्यर्थः ।

आत्मनो मोहादिराहित्ये भगवद्वाक्यं प्रमाणयति —
तथेति ।

तस्य सर्व­वि­शे­ष­शू­न्यत्वे वाक्या­न्त­र­मु­दा­ह­रति —
सममिति ।
आदिपदेन समं पश्यन्हि सर्वत्र । ज्योतिषामपि तज्ज्यो­ति­रि­त्यादि गृह्यते ।

आत्मनो निर्विशेषत्वे प्रामाणिके स्वमतमुपसंहरति —
तस्मान्नेति ।

पक्षा­न्त­र­म­नु­भा­षते —
ये त्विति ।
अतो निर्वि­शे­ष­स्वा­भा­व्या­दिति यावत् । अज्ञानाद्बन्धो ज्ञाना­न्मु­क्ति­रिति शास्रमर्थवादः । आदिशब्देन रुद्र­रो­द­ना­द्य­र्थ­वादं दृष्टान्तं सूचयति ।

सोपहासं दूषयति —
त उत्सहन्त इति ।
न हि सविशेषत्वं शक्यमात्मनः प्रतिपत्तुं निर्वि­शे­ष­त्व­प्र­त्या­य­का­ग­म­वि­रो­धा­दिति भावः ।

कथं तर्हि भव­द्भि­रा­त्म­त­त्त्व­म­भ्यु­प­ग­म्यते तत्राऽऽह —
वयं त्विति ।
प्रमा­ण­वि­रु­द्धा­र्थ­द­र्शनं तच्छब्देन परामृश्यते ।

सत्त्वादीनामिव साम्यं दूषयति —
सर्वदेति ।

भेदाभेदमपवदति —
एकरसमिति ।

तत्र हेतुमाह —
अद्वैतमिति ।
द्वैता­भा­वो­प­ल­क्षि­त­त्वा­दि­त्यर्थः ।

ऐकरस्ये कौटस्थ्यं हेत्वन्तरमाह —
अविक्रियामिति ।

तदुपपादयति —
अजमित्यादिना ।
अमरं मरणायोग्यम् ।

तत्र सर्व­त्रा­वि­द्या­सं­ब­न्ध­रा­हित्यं हेतुमाह —
अभयमिति ।

ननु ब्रह्मैवंविधं न त्वात्म­त­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
ब्रह्मैवेति ।

यथोक्तं प्रत्यग्भूतं ब्रह्मेत्यत्र प्रमाणमाह —
इत्येष इति ।

तत्रैव विद्वदनुभवं प्रमाणयति —
इत्येवमिति ।

परपक्षनिरासेन प्रकृतं वाक्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

उपचारनिमित्तमाह —
विपरीतेति ।
आत्मा तत्त्वतः संसा­री­ति­वि­प­री­त­ग्र­ह­वती या देह­स­न्त­ति­स्तस्या विच्छेदमात्रं ज्ञान­फ­ल­म­पे­क्ष्यो­प­चा­र­मा­त्र­मि­त्यर्थः ॥ ६ ॥

ब्राह्म­णो­क्तेऽर्थे मन्त्र­म­व­ता­र­यितुं ब्राह्म­णा­र्त­म­नु­व­दति —
स्वप्नेत्यादिना ।
अयमर्थः संसा­र­स्त­द्धे­तुश्च । मन्त्रस्तदेव सक्तः सह कर्मणेत्यादिः ।

आत्मज्ञानस्य तर्हि मोक्ष­का­र­ण­त्व­म­पे­क्षि­त­मि­त्या­श­ङ्क्याऽऽह —
तच्चेति ।
अतो ब्रह्मज्ञानं मोक्ष­का­र­ण­मि­त्यु­क्त­त्वा­दिति यावत् । मूलं बन्धस्येति शेषः ।

अत्रेति मोक्ष­प्र­क­र­णोक्तिः । बन्धप्रकरणं दृष्टा­न्त­यि­तु­म­पि­शब्दः । उक्तेऽर्थे तदेष इत्याद्यक्षराणि व्याचष्टे —
तत्त­स्मि­न्ने­वेति ।
यस्मिन्काले विद्या­प­रि­पा­का­व­स्था­या­मि­त्यर्थः ।

सुषु­प्ति­व्या­वृ­त्त्यर्थं सर्वविशेषणमिति मत्वाऽऽह —
समस्ता इति ।

काम­श­ब्द­स्या­र्था­न्त­र­वि­ष­यत्वं व्यावर्तयति —
तृष्णेति ।

क्रियापदं सोपसर्गं व्याकरोति —
आत्मकामस्येति ।

तानेव विशिनष्टि —
ये प्रसिद्धा इति ।

कामा­ना­मा­त्मा­श्र­यत्वं निराकरोति —
हृदीति ।
समूलतः कामवियोगादिति संबन्धः ।

कामवियोगादमृतो भव­ती­ति­नि­र्दे­श­सा­म­र्थ्य­सि­द्ध­म­र्थ­माह —
अर्थादिति ।

तेषां मृत्युत्वे किं स्यात्तदाह —
अत इति ।

अत्रेत्यादिना विवक्षितमर्थमाह —
अतो मोक्ष इति ।
आदि­प­द­मु­त्क्रा­न्त्या­दि­सं­ग्र­हा­र्थम् ।

मुक्ते­स्त­द­पे­क्षा­भावे फलितमाह —
तस्मादिति ।

तर्हि मर­णा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
यथेति ।
उत्क्रा­न्ति­ग­त्या­ग­ति­रा­हित्यं यथावस्थितत्वम् ।

एतच्च पञ्चमे प्रति­पा­दि­त­मि­त्याह —
नाममात्रमिति ।

तद्य­थे­त्या­दि­वा­क्य­नि­रस्यां शङ्कामाह —
कथं पुनरिति ।
विदुषो विद्य­याऽऽ­त्म­मा­त्र­त्वेन प्राणादिषु बाधितेष्वपि देहे चेदसौ वर्तते ततोऽस्य पूर्व­व­द्दे­हि­त्वा­द्वि­द्या­वै­य­र्थ्य­मि­त्यर्थः ।

दृष्टान्तेन परिहरति —
अत्रेत्यादिना ।
देहे वर्तमानस्यापि विदु­ष­स्त­त्रा­भि­मा­न­रा­हित्यं तत्रेत्युच्यते । यस्यां त्वचि सर्पो नितरां लीयते सा निर्लयनी सर्पत्वगुच्यते ।

सर्प­नि­र्मो­क­दृ­ष्टा­न्तस्य दार्ष्टा­न्ति­क­माह —
एवमेवेति ।

सर्प­दृ­ष्टा­न्तस्य दार्ष्टान्तिकं दर्शयति —
अथेति ।
अज्ञानेन सह देहस्य नष्ट­त्व­म­श­री­र­त्वादौ हेतुरथशब्दार्थः ।

अथ­श­ब्दा­व­द्यो­ति­त­हे­त्व­व­ष्ट­म्भे­ना­श­री­रत्वं विशदयति —
कामेति ।
पूर्व­मि­त्य­वि­द्या­व­स्थोक्तिः । इदानीमिति विद्या­व­स्थो­च्यते ।

व्युत्प­त्त्य­नु­सा­रिणं रूढं च मुख्यं प्राणं व्यावर्तयति —
प्राणस्येति ।
श्लोके पर एवाऽऽत्मा यथा प्राण­श­ब्द­स्त­थाऽ­त्रा­पी­त्यर्थः ।

यथा च श्रुत्यन्तरे प्राणशब्दः पर एवाऽऽत्मा तथाऽऽ­त्रा­पी­त्याह —
प्राणेति ।

किञ्च परविषयमिदं प्रक­र­ण­म­था­का­म­य­मान इति प्राज्ञस्य प्रका­न्त­त्वा­द­था­य­मि­त्यादि वाक्यं च तद्विषयमन्यथा ब्रह्मा­दि­श­ब्दा­नु­प­पत्तेः । तस्मा­दु­भ­य­सा­म­र्थ्या­दत्र पर एवाऽऽत्मा प्राणशब्दित इत्याह —
प्रकरणेति ।

विशेष्यं दर्शयित्वा विशेषणं दर्शयति —
ब्रह्मैवेति।

ब्रह्मशब्दस्य कम­ला­स­ना­दि­वि­ष­यत्वं वारयति —
किं पुनरिति ।

तेजःशब्दस्य कार्य­ज्यो­ति­र्वि­ष­य­त्व­मा­श­ङ्क्याऽऽह —
विज्ञानेति ।

तत्र प्रमाणमाह —
येनेति ।
प्रज्ञा प्रकृष्टा ज्ञप्तिः स्वरूपचैतन्यं नेत्रमिव नेत्रं प्रकाशकमस्येति तथोक्तम् ।

सोऽह­मि­त्या­दे­स्ता­त्पर्यं वक्तुं वृत्तं कीर्तयति —
यः कामप्रश्न इति ।

निर्णयप्रकारं संक्षिपति —
संसारेति ।

सोऽह­मि­त्या­दि­वा­क्या­न्त­र­मु­त्था­प­यति —
इदानीमिति ।

आका­ङ्क्षा­पू­र्वकं वाक्यमादाय विभजते —
कथमिति ।

सह­स्र­दा­न­मा­क्षि­पति —
अत्रेति ।

सर्व­स्व­दा­न­प्रा­प्ता­वपि सहस्रदाने हेतुमेकदेशीयं दर्शयति —
अत्रेत्यादिना ।

कदा तर्हि गुरवे सर्वस्वं राजा निवेदयिष्यति तत्राऽऽह —
श्रुत्वेति ।

ननु पुनः शुश्रूषुरपि राजा किमिति संप्रत्येव गुरवे न प्रयच्छति प्रभूता हि दक्षिणा गुरुं प्रीणयन्ती स्वीयां शुश्रूषा फलयति तत्राऽऽह —
यदि चेति ।

अनाप्तोक्तौ हृद­येऽ­न्य­न्नि­धाय वाचाऽ­न्य­नि­ष्पा­द­ना­त्मकं व्याजोत्तरं युक्तं श्रुतौ त्वपौ­रु­षे­य्या­म­पा­स्ता­शे­ष­दो­ष­श­ङ्कायां न व्याजो­क्ति­र्युक्ता तदी­य­स्वा­र­सि­क­प्रा­मा­ण्य­भ­ङ्ग­प्र­सं­गा­दिति दूषयति —
सर्वमपीति ।

एक­दे­शी­य­प­रि­हा­र­सं­भवे हेत्वन्तरमाह —
अर्थेति ।

तदु­प­प­त्ति­मे­वो­प­पा­द­यति —
विमोक्षेति ।

तस्यापि पूर्व­म­स­कृ­दु­क्ते­स्त­दी­य­शु­श्रू­षा­धीनं सह­स्र­दा­न­म­नु­चि­त­मि­त्या­शङ्क्य शमा­दे­र्ज्ञा­न­सा­ध­न­त्वेन प्राग­नु­क्ते­स्तेन सह भूयोऽपि संन्यासस्य वक्त­व्य­त्व­यो­गा­त्त­द­पे­क्षया युक्तं सहस्रदानमित्याह —
अगतिका हीति ।

ननु संन्यासादि विद्या­स्तु­त्य­र्थ­मु­च्यते महाभागा हीयं यत्तदर्थी दुष्करमपि करोत्यतो नार्थ­शे­ष­सि­द्धि­स्त­त्राऽऽह —
न चेति ।
न तावत्संन्यासो विद्या­स्तु­ति­र्वि­दित्वा व्युत्थायेति समा­न­क­र्तृ­त्व­नि­र्दे­शा­दिति पञ्चमे स्थितं नापि शमा­दि­र्वि­द्या­स्तु­ति­स्त­त्रापि विधे­र्व­क्ष्य­मा­ण­त्वा­दि­त्यर्थः ।

अर्थ­शे­ष­शु­श्रू­षया सह­स्र­दा­न­मि­त्यत्र जनकस्याकौशलं चोदयति —
नन्विति ।

राज्ञः शङ्कितमकौशलं दूषयति —
नैष इति ।

तत्र हेतुमाह —
आत्मज्ञानवदिति ।
यथाऽऽत्मज्ञानं मोक्षे प्रयोजकं न तथा संन्यासो न चास्मिन्पक्षे तस्या­क­र्त­व्यत्वं प्रति­प­त्ति­क­र्म­व­द­नु­ष्ठा­न­सं­भ­वा­दिति राजा यतो मन्यते ततः संन्यासस्य न ज्ञान­तु­ल्य­त्व­मतो नात ऊर्ध्वं विमोक्षायैव ब्रूहीति पृच्छतीत्यर्थः ।

संन्यासस्य प्रति­प­त्ति­क­र्म­व­त्क­र्त­व्यत्वे प्रमाणमाह —
संन्यासेनेति ।

ननु विवि­दि­षा­सं­न्या­स­म­ङ्गी­कु­र्वता न तस्य प्रति­प­त्ति­क­र्म­व­द­नु­ष्ठे­य­त्व­मि­ष्यते तत्राऽऽह —
साधनत्वेति।
’त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्’ इत्यु­क्त­त्वा­दि­त्यर्थः ॥ ७ ॥

राज्ञोऽकौशलं परिहृत्य मन्त्रानवतारयति —
आत्मकामस्येति ।

यदे­त्या­द्य­ती­त­श्लो­के­नाऽऽ­गा­मि­श्लो­का­ना­म­र्था­पौ­न­रुक्त्यं सूचयति —
विस्तरेति ।

ज्ञानमार्गस्य सूक्ष्मत्वे हेतुमाह —
दुर्वि­ज्ञे­य­त्वा­दिति ।
विस्तीर्णत्वं पूर्ण­व­स्तु­वि­ष­य­त्वा­द­व­धे­यम् ।

माध्य­न्दि­न­श्रु­ति­मा­श्रि­त्याऽऽह —
विस्पष्टेति ।
प्रय­त्न­सा­ध्यत्वं तस्य पञ्चम्या विवक्ष्यते ।

कथं पुनरधुनातनो वैदिको ज्ञान­मा­र्ग­श्चि­र­न्तनो निरुच्यते तत्राऽऽह —
नित्येति ।

विशे­ष­ण­प्र­का­शि­त­म­र्थ­मुक्त्वा तस्य व्यवच्छेद्यमाह —
न तार्किकेति ।

मन्त्रदृशा लब्धत्वेऽपि कुतो ज्ञानमार्गस्य तत्सं­स्प­र्शि­त्व­मि­त्या­श­ङ्क्याऽऽह —
यो हीति ।

अनु­वे­द­न­ला­भ­यो­र्वि­शे­षा­भा­वा­त्पौ­न­रु­क्त्य­मा­श­ङ्क्याऽऽह —
अनुवेदनमिति ।

पूर्वशब्देन पाठक्रमानुसारेण लाभो गृह्यते । एवकारमाश्रित्य शङ्कते —
किमसाविति ।
तथा च तद्यो यो देवा­ना­मि­त्या­द्य­वि­शे­ष­श्रु­ति­र्वि­रु­ध्ये­तेति शेषः ।

अव­धा­र­ण­श्रु­ते­र­न्य­प­र­त्वे­ना­न्य­यो­ग­व्य­व­च्छे­द­का­भा­व­म­भि­प्रेत्य परिहरति —
नैष दोष इति ।

स्तुतिपरत्वमेव प्रकटयति —
एवं हीति ।
कृता­र्थोऽ­स्मी­त्या­त्म­न्य­भि­मा­न­करं स्वानु­भ­व­सि­द्ध­मा­त्म­ज्ञानं नास्मा­द­न्य­दु­त्कृष्टं किञ्चिदित्येवं विद्या­म­व­धा­र­ण­श्रुतिः स्तौतीत्यर्थः ।

यथा­श्रु­ता­र्थत्वे को दोषः स्यादिति चेत्तत्राऽऽह —
नन्विति ।
इत्य­व­धा­र­ण­श्रुत्या विवक्षितमिति शेषः ।

तत्र हेतुः —
तद्यो य इति ।
सर्वा­र्थ­श्रु­ते­र्ब्र­ह्म­विद्या सर्वार्था सर्वसाधारणीति श्रवणादिति यावत् ।

ब्रह्मविद्यायाः सर्वार्थत्वे वाक्यशेषं प्रमा­ण­त्वे­ना­व­तार्य व्याचष्टे —
तदेवेति ।

ननु मोक्षे स्वर्गशब्दो न युज्यते तस्यार्थान्तरे रूढत्वादत आह —
स्वर्गेति ।
यथा ज्योति­ष्टो­म­प्र­क­रणे श्रुतो ज्योतिःशब्दो ज्योति­ष्टो­म­वि­ष­य­स्तथा मोक्षप्रकरणे श्रुतः स्वर्गशब्दो मोक्षमधिकरोति । रूढ्यङ्गीकारे ब्रह्मविद्याया निक­र्ष­प्र­सं­गा­दिति भावः । जीवन्त एव मुक्ताः सन्तः शरी­र­पा­ता­दूर्ध्वं मोक्षमपियन्तीति संबन्धः ॥ ८ ॥

तस्मि­न्नि­त्या­दि­पू­र्व­प­क्ष­मु­त्था­प­यति —
तस्मिन्निति ।

विप्रतिपत्तिमेव प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
पिङ्गलं वह्नि­ज्वा­ला­तु­ल्यम् । लोहितं जपाकुसुमसंनिभम् ।