अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: चतुर्थं ब्राह्मणम् (२)

सप्रपञ्चं शब्द­स्प­र्श­रू­प­र­सा­दि­म­द्ब्रह्म तदुपासनमनुसृत्य तत्प्रा­प्ति­मार्गे विवादो मुमु­क्षू­णा­मि­त्याह —
यथादर्शनमिति।
तथाऽपि कथं ब्रह्म­प्रा­प्ति­मार्गे शुक्ला­दि­रू­प­सिद्धिः ।

न हि ज्ञानस्य रूपा­दि­म­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
नाड्यस्त्विति ।

तासामपि कथं यथो­क्त­रू­प­व­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
श्लेष्मादीति ।

तथाऽपि कथं शुक्ला­दि­रू­प­व­त्त्व­मि­त्या­शङ्क्य नाडीखण्डोक्तं स्मारयति —
शुक्लस्येति ।

नाडीपरिग्रहे निया­म­का­भा­व­मा­शङ्क्य पक्षान्तरमाह —
आदित्यं वेति ।
एवंविधं शुक्ला­दि­ना­ना­व­र्ण­मि­त्यर्थः ।

तस्य तथात्वे प्रमाणमाह —
एष इति ।

प्रकृते ज्ञानमार्गे किमिति मार्गान्तरं कल्प्यते तत्राऽऽह —
दर्शनेति ।

तर्हि नाडीपक्षो वाऽऽदित्यपक्षो वा कतरो विव­क्षि­त­स्त­त्राऽऽह —
सर्वथाऽपीति ।

शुक्लमार्गस्य ज्ञान­मा­र्गा­द­न्य­त्व­मा­क्षि­पति —
नन्विति ।

शुक्लशब्दस्य नाद्वै­त­मा­र्ग­वि­ष­यत्वं नीला­दि­श­ब्द­स­म­भि­व्या­हा­र­वि­रो­धा­दिति परिहरति —
न नीलेति ।

सैद्धा­न्ति­क­म­न्त्र­भागं व्याख्यातुं पूर्वपक्षं दूषयति —
याञ्छु­क्ला­दी­निति ।

न केवलं देह­दे­श­निः­स­र­ण­सं­ब­न्धा­देव नाडीभेदानां संसारविषयत्वं किन्तु ब्रह्म­लो­का­दि­सं­ब­न्धा­द­पी­त्याह —
ब्रह्मादीति ।

आदित्योऽपि देवयानमध्यपाती ब्रह्म­लो­क­प्रा­पकः संसारहेतुरेवेति मन्वानो मोक्ष­मा­र्ग­मु­प­सं­ह­रति —
तस्मादिति ।

आप्तकामतया ज्ञानमार्ग इति संबन्धः । एवं भूमिकां कृत्वैष इत्यस्यार्थमाह —
सर्वकामेति ।
तथा तैलादिविलये प्रदीपस्य ज्वलनानुपपत्तौ तेजोमात्रे निर्वाणमिष्यते तथा स्थूलस्य सूक्ष्मस्य च सर्वस्यैव कामस्य ज्ञानात्क्षये सति गत्य­नु­प­प­त्ता­व­त्रैव प्रत्यगात्मनि कार्य­क­र­णा­ना­मे­की­भा­वे­ना­व­सा­न­मि­त्य­य­मे­ष­श­ब्दार्थ इत्यर्थः ।

पन्था इत्ये­त­द्व्या­चष्टे —
ज्ञानमार्ग इति ।

इत्थम्भावे तृती­या­मा­श्रि­त्याऽऽह —
परमात्मेति ।

अनु­वे­द­न­क­र्तृ­र्ब्रा­ह्म­णस्य संन्यासित्वं दर्शयति —
त्यक्तेति ।

विप्रतिपत्तिं निराकृत्य मोक्षमार्गं निर्धार्य तेन धीरा अपि­य­न्ती­त्य­त्रोक्तं निगमयति —
तेनेति ।
अन्योऽपि मन्त्रदृशः सकाशादिति शेषः । इहेति जीवदवस्थोक्तिः ।

समु­च्च­य­का­रि­णोऽत्र ब्रह्म­प्रा­प्ति­र्वि­व­क्ष्य­तेति केचि­त्ता­न्प्र­त्याह —
न पुनरिति ।
विरो­धा­ज्ज्ञा­न­क­र्म­णो­रिति शेषः ।

किञ्च क्रमसमुच्चयः समसमुच्चयो वेति विक­ल्प्याऽऽ­द्य­म­ङ्गी­कृत्य द्वीतीयं दृषयति —
अपुण्येति ।

ज्ञानस्य कर्मा­स­मु­च्च­येऽपि विवेकज्ञानेन समु­च्च­योऽ­स्ती­त्या­श­ङ्क्याऽऽह —
त्यजेति ।

ब्रह्मविदोऽपि स्तुत्या­दि­दृ­ष्टे­स्तेन समुच्चयो ज्ञान­स्ये­त्या­श­ङ्क्याऽऽह —
निराशिषमिति ।
काम्या­न­नु­ष्ठा­न­म­ना­रम्भः । अक्षीणत्वं निषिद्धानाचरणम् । क्षीणकर्मत्वं नित्या­दि­क­र्म­रा­हि­त्यम् ।

असमुच्चये वाक्यान्तरमाह —
नेत्यादिना ।
एकता निरपेक्षता सर्वोदासीनतेति यावत् । समता मित्रो­दा­सी­न­श­त्रु­बु­द्धि­व्य­ति­रे­केण सर्वत्र स्वस्मिन्निव दृष्टिः । दण्ड­नि­धा­न­म­हिं­सा­प­र­त्वम् ।
“अर्थस्य मूलं निकृतिः क्षमा च कामस्य चित्तं च वपुर्वयश्च ।
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”॥
इत्या­दि­च­तु­र्विधे पुरुषार्थे साधनभेदोपदेशि वाक्य­मा­दि­श­ब्दार्थः । इत्या­दि­स्मृ­ति­भ्यश्च न पुण्या­दि­स­मु­च्च­य­का­रिणो ग्रहणमिति संबन्धः ।

तथाऽपि प्रकृते मन्त्रे समुच्चयो भाती­त्या­श­ङ्क्याऽऽह —
उपदेक्ष्यतीति ।

वाक्य­शे­षा­दि­प­र्या­लो­च­ना­सि­द्ध­म­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।

पूर्वं पुण्यकृद्भूत्वा पुन­स्त्य­क्त­पु­त्रा­द्ये­षणो ब्रह्म­वि­त्ते­नै­तीति क्रमो न युज्य­तेऽ­श्रु­त­त्वा­दि­त्या­श­ङ्क्याऽऽह —
अथवेति ।

स्तुति­मे­वो­प­पा­द­यति —
पुण्यकृतीति ।
तेजांसि कर­णा­न्यु­प­सं­हृत्य स्थितस्तैजसो दहराद्युपासीनो योगी तस्मि­न्न­णि­मा­द्यै­श्व­र्या­न्म­हा­नु­भा­व­त्व­प्र­सिद्धिः । ताभ्यां पुण्य­कृ­त्तै­ज­सा­भ्या­मि­त्यर्थः ।

अतः­श­ब्द­प­रा­मृष्टं स्पष्टयति —
प्रख्यातेति ।
पुण्य­कृ­त्तै­ज­स­यो­रिति शेषः ॥ ९ ॥

प्रस्तु­त­ज्ञा­न­मा­र्ग­स्तु­त्यर्थं मार्गान्तरं निन्दति —
अन्धमित्यादिना ।

विद्यायामिति प्रतीकमादाय व्याकरोति —
अविद्येति ।

कथं पुन­स्त्र­य्या­म­भि­र­ता­ना­म­धः­प­त­न­मि­त्या­श­ङ्क्याऽऽह —
विधीति ॥ १० ॥

मन्त्रा­न्त­र­मा­का­ङ्क्षा­द्वा­रो­त्थाप्य व्याचष्टे —
यदीत्यादिना ।

अबुध इत्यस्य निष्पत्तिं सूच­य­न्वि­व­क्षि­त­म­र्थ­माह —
बुधेरिति ॥ ११ ॥

उक्ता­त्म­ज्ञा­न­स्तु­त्य­र्थ­मेव तन्निष्ठस्य काय­क्ले­श­रा­हित्यं दर्शयति —
आत्मा­न­मि­त्या­दिना ।

विज्ञानात्मनो वैलक्षण्यार्थं विशिनष्टि —
सर्वेति ।

ताटस्थ्यं व्यावर्तयति —
हृत्स्थमिति ।

बुद्धि­सं­ब­न्ध­प्राप्तं संसारित्वं वारयति —
अशनायादीति ।

प्रश्नपूर्वकं ज्ञानप्रकारं प्रकटयति —
कथमित्यादिना ।

सर्व­भू­त­सं­ब­न्ध­प्र­युक्तं दोषं वारयितुं विशिनष्टि —
नित्येति ।
इति विजानीयादिति संबन्धः । प्रयोजनाय शरी­र­म­नु­सं­ज्व­रे­दिति संबन्धः ।

किमि­च्छ­न्नि­त्या­क्षेपं समर्थयते —
न हीति ।

कस्य वा कामा­ये­त्या­क्षे­प­मु­प­पा­द­यति —
न चेति ।

आक्षेपद्वयं निगमयति —
अत इति ।

तदेव स्पष्टयति —
शरीरेति ।

विदुषस्तापाभावं व्यतिरेकमुखेन विशदयति —
अनात्मेति ।
वस्त्व­न्त­रे­प्सो­स्ता­प­सं­भव इति शेषः । स चेत्यध्याहृत्य ममेदमित्यादि योज्यम् । इत्येतदाह किमि­च्छ­न्नि­त्याद्या श्रुतिरिति शेषः ॥ १२ ॥

न केव­ल­मा­त्म­वि­द्या­र­सि­कस्य काय­क्ले­श­रा­हित्यं किन्तु कृतकृत्यता चास्तीत्याह —
किञ्चेति ।
सन्देहे पृथि­व्या­दि­भि­र्भू­तै­रु­प­चिते शरीरे ।

सन्देहत्वं साधयति —
अनेकेति ।

विषमत्वं विशदयति —
अनेकशतेति ।
न नाम­मा­त्र­मि­त्यत्र पुर­स्ता­न्न­ञ­स्त­स्मा­दिति पठितव्यं यस्मा­दि­त्यु­प­क्र­मा­द्वि­श्व­कृ­त्त्व­मिति शेषः । परशब्दो विद्याविषयः । विश्व­कृ­त्कृ­त­कृत्य इत्येतत् ।

लोकलोकिविभागेन भेदं शङ्कित्वा दूषयति —
किमित्यादिना ।

यस्ये­त्या­दि­म­न्त्रस्य तात्पर्यार्थं संगृह्णाति —
य एष इति ।

अस्त्वेवं किं ताव­ते­त्या­श­ङ्क्याऽऽह —
एक एवेति ।
यो हि परः सर्व­प्र­का­र­भे­द­रा­हि­त्या­त्पू­र्ण­तया वर्तते स एवा­स्मी­त्या­त्माऽ­नु­स­न्धा­तव्य इति योजना ॥ १३ ॥

ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुति­सं­प्र­ति­प­त्ति­रेव केवलं न भवति किन्तु स्वानु­भ­व­स­प्र­ति­प­त्ति­र­स्ती­त्याह —
किञ्चेति ।
अथेत्यस्य कथञ्चिदिवेति व्याख्यानम् ।

तदित्यस्य ब्रह्म­त­त्व­मि­त्यु­क्तार्थं स्फुटयति —
तदेतदिति ।

ब्रह्मज्ञाने कृतार्थत्वं श्रुत्य­नु­भ­वा­भ्या­मुक्त्वा तदभावे दोषमाह —
यदेतदिति ।
तर्हि महती विनष्टिरिति संबन्धः ।

बहुत्वं न विवक्षितं ज्ञाना­न्मो­क्षोऽत्र विवक्षित इत्यभिप्रेत्य वेदि­रि­त्य­स्या­र्थ­माह —
वेदनमित्यादिना ।
न चेद्ब्रह्म विदितवन्तो वयं ततोऽहमवेदिः स्यामिति योजना ।

विद्याभावे दोषमुक्त्वा विद्व­द­नु­भ­व­सि­द्ध­मर्थं निगमयति —
अहो वयमिति ।

इहैवेत्यादिना पूर्वा­र्धे­नो­क्त­मे­वा­र्थ­मु­त्त­रा­र्धेन प्रपञ्चयति —
यथा चेत्यादिना ।

दुःखादविदुषां विनिर्मोकाभावे हेतुमाह —
दुःखमेवेति ॥ १४ ॥

किञ्च विदुषो विहि­ता­क­र­णा­दि­प्र­युक्तं भयं नास्तीति विद्यां स्तोतुमेव मन्त्रा­न्त­र­मा­दाय व्याचष्टे —
यदा पुनरित्यादिना ।

उक्तमर्थं व्यतिरेकमुखेन विशदयति —
सर्वो हीति ।

जुगुप्साया निन्दात्वेन प्रसि­द्ध­त्वा­त्क­थ­म­व­य­वा­र्थ­मा­दाय व्याख्यायते रूढि­र्यो­ग­म­प­ह­र­तीति न्याया­दि­त्या­श­ङ्क्याऽऽह —
यदेति ।

तदेवोपपादयति —
सर्वमिति ॥ १५ ॥

अथेश्वरस्यापि कालान्यत्वे सति वस्तु­त्वा­द्घ­ट­व­त्का­ला­व­च्छि­न्न­त्वान्न कालत्रयं प्रति युक्त­मी­श्व­र­त्व­मत आह —
किञ्चेति ।
यस्मा­दी­शा­ना­द­र्वा­क्सं­व­त्सरो वर्तते तमुपासते देवा इति संबन्धः ।

ननु कथं संव­त्स­रोऽ­र्वा­गि­त्यु­च्यते कालस्य कालान्तराभावेन पूर्व­का­ल­सं­ब­न्धा­भा­वा­दत आह —
यस्मादिति ।
अन्वयस्तु पूर्ववत् ।

आत्मज्ज्योतिषो गुण­मा­यौ­ष्ट्व­ल­क्षणं स्पष्ट­य­न्नु­पा­स­कस्य फलमाह —
सर्वस्येति ।

यथोक्तोपासने देवा­ना­मे­वा­धि­कारो विशे­ष­व­च­ना­दि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ॥ १६ ॥

ज्योतिषां ज्योति­र­मृ­त­मि­त्युक्तं तस्यामृतत्वं सर्वा­धि­ष्ठा­न­त्वेन साधयति —
किञ्चेति ।

एवकारार्थमाह —
न चेति ।

यद्यात्मानं ब्रह्म जानासि तर्हि किं ते तद्विद्याफलमिति प्रश्नपूर्वकमाह —
किं तर्हीति ।

कथं तर्हि ते मर्त्य­त्व­प्र­ती­ति­स्त­त्राऽऽह —
अज्ञा­न­मा­त्रे­णेति ॥ १७ ॥

प्रकृताः पञ्चजनाः पञ्च ज्योतिषा सह प्राणादयो वा स्युरि­त्य­भि­प्रे­त्याऽऽह —
किञ्चेति ।

कथं चक्षुरादिषु चक्षुरादित्वं ब्रह्मणः सिध्यति तत्राऽऽह —
ब्रह्मशक्तीति ।
विमतानि केन­चि­द­धि­ष्ठि­तानि प्रवर्तन्ते कर­ण­त्वा­द्वा­स्या­दि­व­दिति चक्षु­रा­दि­व्या­पा­रे­णा­नु­मि­ता­स्तित्वं प्रत्यगात्मनं ये विदुरिति योजना ।

विदि­क्रि­या­वि­ष­यत्वं व्यावर्तयति —
नेति ।

प्रत्य­गा­त्म­विदां कथं ब्रह्म­वि­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
तदिति ॥ १८ ॥

मनसो ब्रह्म­द­र्श­न­सा­ध­नत्वे कथं ब्रह्मणो वाङ्म­न­सा­ती­त­त्व­श्रु­ति­रि­त्या­श­ङ्क्याऽऽह —
परमार्थेति ।
केवलं मनो ब्रह्मा­वि­ष­यी­कु­र्व­दपि श्रव­णा­दि­सं­स्कृतं तदाकारं जायते तेन द्रष्टव्यं तदुच्यतेऽत एव वृत्तिव्याप्यं ब्रह्मे­त्यु­प­ग­च्छ­तीति भावः ।

अनुशब्दार्थमाह —
आचार्येति ।

द्रष्टृ­द्र­ष्ट­व्या­दि­भा­वेन भेदमाशङ्क्याऽऽह —
तत्र चेति ।

एवकारार्थमाह —
नेहेति ।

कथमात्मनि वस्तुतो भेदरहितेऽपि भेदो भाती­त्या­श­ङ्क्याऽऽह —
असतीति ।

नेहेत्यादेः संपिण्डितमर्थं कथयति —
अविद्येति ॥ १९ ॥

द्वैताभावे कथ­म­नु­द्र­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।

तमेवैकं प्रकारं प्रकटयति —
विज्ञानेति ।

परिच्छिन्नत्वं व्यवच्छिनत्ति —
आकाशवदिति ।

एकरसत्वं हेतू­कृ­त्या­प्र­मे­यत्वं प्रतिजानीते —
यस्मादिति ।
एतद्ब्रह्म यस्मादेकरसं तस्मा­द­प्र­मे­य­मिति योजना ।

हेत्वर्थं स्फुटयति —
सर्वैकत्वादिति ।

तथाऽपि कथमप्रमेयत्वं तदाह —
अन्येनेति ।

मिथो विरोधमाशङ्कते —
नन्विति ।

विरोधमेव स्फोरयति —
ज्ञायत इतीति ।

चोदितं विरोधं निराकरोति —
नैष दोष इति ।

संगृहीते समाधानं विशदयति —
यथेत्यादिना ।

तस्य माना­न्त­र­वि­ष­यी­क­र्तु­म­श­क्यत्वे हेतुमाह —
सर्वस्येति ।
इति सर्व­द्वै­तो­प­शा­न्ति­श्रु­ते­रिति शेषः ।

आगमोऽपि तर्हि कथ­मा­त्मा­न­मा­वे­द­ये­दि­त्या­श­ङ्क्याऽऽह —
प्रमात्रिति ।

आत्मनः स्वर्गा­दि­व­द्वि­ष­य­त्वे­नाऽऽ­ग­म­प्र­ति­पा­द्य­त्वा­भावे हेतुमाह —
प्रति­पा­द­यि­त्रिति ।

तथाऽपि किमिति विष­य­त्वे­ना­प्र­ति­पा­द्यत्वं तत्राऽऽह —
प्रति­पा­द­यि­तु­रिति ।
तदिति प्रति­पा­द्य­त्व­मु­क्तम् ।

कथं तर्हि तस्मिन्नागमिकं ज्ञानं तत्राऽऽह —
ज्ञानं चेति ।
पर­स्मि­न्दे­हा­दा­वा­त्म­भा­व­स्याऽऽ­रो­पि­तस्य निवृत्तिरेव वाक्येन क्रियते । तथा चाऽऽत्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रति­ब­न्ध­वि­ग­मा­त्प्र­क­टी­भ­व­तीति भावः ।

ननु ब्रह्म­ण्या­त्म­भावः श्रुत्या कर्तव्यो विवक्ष्यते न तु देहा­दा­वा­त्म­त्त्व­व्या­वृ­त्ति­रत आह —
न तस्मिन्निति ।

ब्रह्म­ण­श्चे­दा­त्म­भावः सदा मन्यते कथमन्यथा प्रथे­त्या­श­ङ्क्याऽऽह —
नित्यो हीति ।
सर्वस्य पूर्णस्य ब्रह्मण इत्येतत् । अतद्विषयो ब्रह्म­व्य­ति­रि­क्त­वि­षय इत्यर्थः ।

ब्रह्म­ण्या­त्म­भा­वस्य सदा विद्यमानत्वे फलितमाह —
तस्मादिति ।
अतद्विषयाभासो देहा­दा­वा­त्म­प्र­ति­भासः । तस्मि­न्ब्र­ह्म­णी­त्यर्थः ।

अन्य­स्मि­न्ना­त्म­भा­व­नि­वृ­त्ति­रे­वाऽऽ­ग­मेन क्रियते चेत्तर्हि कथमात्मा तेन गम्यत इत्युच्यते तत्राऽऽह —
अन्येति ।

यद्या­ग­मि­क­वृ­त्ति­व्या­प्य­त्वे­नाऽऽ­त्मजो मेयत्वमिष्यते कथं तर्हि तस्यामेयत्ववाचो युक्ति­रि­त्या­श­ङ्क्याऽऽह —
स्वतश्चेति ।

वृत्ति­व्या­प्य­त्वेन मेयत्वं स्फुर­णा­व्या­प्य­त्वेन चामे­य­त्व­मि­त्यु­प­सं­ह­रति —
इत्युभयमिति ।

यदुक्तं ध्रुवत्वं तदु­प­स्का­र­पू­र्व­क­मु­प­पा­द­यति —
विरज इत्यादिना ।

कथं जन्मनिषेधादितरे विकारा निषिध्यन्ते तत्राऽऽह —
सर्वेषामिति ॥ २० ॥

यथोक्तं वस्तुनिदर्शनं निगमयति —
तमीदृशमिति ।
नित्य­शु­द्ध­त्वा­दि­ल­क्ष­ण­मिति यावत् ।

उक्तरीत्या प्रज्ञाकरणे कानि साधनानि चेत्तानि दर्शयति —
एवमिति ।
कर्म­नि­षि­द्ध­त्यागः संन्यास उपरमो नित्य­नै­मि­त्ति­क­त्याग इति भेदः ।

बहूनिति विशे­ष­ण­व­शा­दा­या­त­मर्थं दर्शयति —
तत्रेति ।
चिन्तनीयेषु शब्देष्विति यावत् ।

तत्र श्रुत्यन्तरं संवादयति —
ओमित्येवमिति ।

नानु­ध्या­या­दि­त्यत्र हेतुमाह —
वाच इति ।
तस्मा­द्ब­हू­ञ्छ­ब्दा­न्ना­नु­चि­न्त­ये­दिति पूर्वेण संबन्धः । इतिशब्दः श्लोक­व्या­ख्या­न­स­मा­प्त्यर्थः ॥ २१ ॥

काण्डि­का­न्त­र­म­व­ता­र­यितुं वृत्तं कीर्तयति —
सहेतुकाविति ।

उत्त­र­क­ण्डि­का­ता­त्प­र्य­माह —
एवमिति ।
विरजः पर इत्या­दि­नो­क्त­क्र­मे­णा­व­स्थिते ब्रह्मणीति यावत् । तदि­त्यु­प­यु­क्तोक्तिः । तदर्था ब्रह्मात्मनि सर्वस्य वेदस्य विनि­यो­ग­प्र­द­र्श­ना­र्थेति यावत् ।

ननु विविदिषावाक्येन ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगो वक्ष्यते तथा च तस्मा­त्प्रा­क्त­न­वाक्यं किम­र्थ­मि­त्या­श­ङ्क्याऽऽह —
तच्चेति ।
यथाऽ­स्मि­न्न­ध्याये सफ­ल­मा­त्म­ज्ञा­न­मुक्तं तथैव तदनूद्येति योजना ।

कथं यथोक्ते ज्ञाने सर्वो वेदो विनियोक्तुं शक्यते स्वर्ग­का­मा­दि­वा­क्यस्य स्वर्गादावेव पर्य­व­सा­ना­दि­त्या­शङ्क्य संयो­ग­पृ­थ­क्त्व­न्या­य­म­ना­दृत्य विशिनष्टि —
काम्यराशीति ।
उक्तस्य सफ­ल­स्याऽऽ­त्म­ज्ञा­न­स्या­नु­वाद इति यावत् ।

उक्तानां भूयस्त्वे विशेषं ज्ञातुं पृच्छति —
कोऽसाविति ।

विशे­ष­णा­न­र्थ­क्य­मा­शङ्क्य परिहरति —
अतीतेति ।
तद्धि विरजः पर इत्यादि तेनोक्तो यो मह­त्त्वा­दि­वि­शे­षणः परमात्मा तत्र सश­ब्दा­त्प्र­ती­तिर्मा भूदिति कृत्वा तेन ज्योति­र्ब्रा­ह्म­णस्थं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य संन्निहितेन परे­णाऽऽ­त्म­नै­क्य­मे­ष­श­ब्देन निर्दि­श­ती­त्यर्थः ।

विशे­ष­ण­वा­क्य­स्थ­मे­ष­शब्दं प्रश्नपूर्वकं व्याचष्टे —
कतम इति ।

कथं जीवो विज्ञानमयः कथं वा प्राणेष्विति सप्तमी प्रयुज्यते तत्राऽऽह —
उक्तेति ।

तदनुवादस्य सश­ब्दा­र्थ­स­न्दे­हा­पोहं फलमाह —
संशयेति ।

उक्त­वा­क्यो­ल्लि­ङ्ग­न­मि­त्युक्तं विवृणोति —
उक्तं हीति ।

योऽयं विज्ञानमयः प्राणेषु प्रागुक्तः स एष महानज आत्मेति जीवानुवादेन परमात्मभवो विहित इति वाक्यार्थमाह —
एतदिति।

पर­मा­त्म­भा­वा­पा­द­न­प्र­का­र­म­नु­व­दति —
साक्षादिति ।

विशेषणवाक्यस्य व्याख्ये­य­त्व­प्रा­प्ता­वु­क्त­वा­क्यो­ल्लि­ङ्ग­न­मि­त्य­त्रोक्तं स्मारयति —
योऽयमिति ।

वाक्या­न्त­र­म­व­तार्य व्याचष्टे —
य एष इति ।

कथं पुनराकाशशब्दस्य पर­मा­त्म­वि­ष­य­त्व­मु­पेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढ­त्वा­दि­त्या­श­ङ्क्याऽऽह —
चतुर्थ इति ।

इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —
स चेत्यादिना ।

कथं पुन­र्नि­रु­पा­धि­क­स्ये­श्व­रस्य वशित्वं कथं च तदभावे तदात्मनो विदु­ष­स्त­दु­प­प­द्यते तत्राऽह —
उक्तं वेति ।

विशेषणत्रयस्य हेतु­हे­तु­म­द्रू­प­त्व­मेव विशदयति —
यस्मादित्यादिना ।

तत्र प्रसिद्धिं प्रमाणयति —
यो हीति ।

न केवलमुक्तमेव विद्याफलं किन्त्व­न्य­च्चा­स्ती­त्याह —
किञ्चेति ।
एवम्भूतत्वं ज्ञात­प­र­मा­त्मा­भि­न्न­त्वम् ।

परि­शु­द्ध­त्व­म­र्थ­म­नु­व­दति —
हृदीति ।
ब्रह्मीभूतस्य विदुषः स्वात­न्त्र्या­दि­व­द्ध­र्मा­ध­र्मा­स्प­र्शि­त्व­मपि फलमित्यर्थः ।

अधि­ष्ठा­ना­दि­क­र्तृ­त्वा­द्वि­दु­षोऽपि लौकि­क­व­द्ध­र्मा­दि­सं­ब­न्धित्वं स्यादिति शङ्कते —
सर्वो हीति ।

पर­त­न्त्र­त्व­मु­पा­धि­रिति परिहरति —
उच्यत इति ।

सर्वा­धि­प­त्य­रा­हित्यं चोपाधिरित्याह —
किञ्चेति ।

सर्व­पा­ल­क­त्व­रा­हित्यं चोपाधिरित्याह —
एष इति ।

सर्वानाधारत्वं चोपाधिरित्याह —
एष इति ।

कथं विधा­र­यि­तृ­त्व­मि­त्या­श­ङ्क्याऽऽह —
तदाहेऽति ।

तदेव साधयति —
परमेश्वरेणेति ।

सर्वस्य वशी­त्या­दि­नो­क्त­मु­प­सं­ह­रति —
एवंविदिति ।

सफलं ज्ञानमनूद्य विवि­दि­षा­वा­क्य­म­व­ता­र­यति —
किञ्ज्योतिरिति ।
एवम्फलायां सर्वस्य वशी­त्या­दि­नो­क्त­फ­लो­पे­ता­या­मिति यावत् । तादर्थ्येन परम्परया ज्ञानो­त्प­त्ति­शे­ष­त्वे­ने­त्यर्थः ।

विनियोजकं वाक्य­मा­का­ङ्क्षा­पू­र्व­क­मा­दाय व्याचष्टे —
तत्कथमित्यादिना ।
एवम्भूतं श्लोको­क्त­वि­शे­ष­ण­मि­त्यर्थः ।

ब्राह्मणशब्दस्य क्षत्रि­या­द्यु­प­ल­क्ष­णत्वे हेतुमाह —
अवशिष्ठो हीति ।

संभावितं पक्षान्तरमाह —
अथवेति ।

तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —
कथमित्यादिना ।

भूत­प्र­प­ञ्च­प्र­स्था­न­मु­त्थाप्य प्रत्याचष्टे —
ये पुनरित्यादिना ।

तत्र हेतुमाह —
न हीति ।

भव­तू­प­नि­ष­न्मा­त्र­ग्र­ह­ण­मि­त्या­शङ्क्य वेदो वाऽनूच्यते गुरू­च्चा­र­णा­न­न्तरं पठ्यत इति व्युत्प­त्ते­र्वे­दा­नु­व­च­न­श­ब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह —
वेदेति ।

दोष­सा­म्य­मा­श­ङ्कते —
नन्विति ।
सिद्धा­न्तेऽ­प्यु­प­नि­षदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदै­क­दे­श­वि­ष­यत्वं स्यात्ततश्च --
“यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्य­नु­यो­क्त­व्य­स्ता­दृ­ग­र्थ­वि­चा­रणे” ॥
इति न्यायविरोध इत्यर्थः ।

नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति —
नेत्यादिना ।

वेदै­क­दे­श­प­रि­ग्र­ह­प­रि­त्या­गा­त्म­क­वि­रो­धा­भावं साधयति —
यदेति ।

तर्हि व्याख्या­ना­न्त­र­मु­पे­क्षि­त­मि­त्या­शङ्क्य तदपि वाक्य­शे­ष­व­शा­द­पे­क्षि­त­मे­वे­त्याह —
यज्ञादीति।

संग्रहवाक्यं विवृणोति —
यज्ञादीनि कर्माणीति ।

तर्हि प्रथमव्याख्याने कथं वाक्य­शे­षो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
कर्म हीति ।

वेदा­नु­व­च­ना­दी­ना­मा­त्म­वि­वि­दि­षा­सा­ध­न­त्व­मा­क्षि­पति —
कथमिति ।

उप­नि­ष­द्भि­रि­वाऽऽत्मा तैरपि ज्ञाय­ता­मि­त्या­श­ङ्क्याऽऽह —
नैवेति।

कर्म­णा­म­प्र­मा­ण­त्वेऽपि परम्परया ज्ञान­हे­तु­त्वा­द्वि­वि­दि­षा­श्रु­ति­वि­रु­द्धेति समाधत्ते —
नैष दोष इति।

तदेव स्फुटयति —
कर्मभिरिति।

तत्र श्रुत्यन्तरं प्रमाणयति —
तथा हीति।
ततो नित्या­द्य­नु­ष्ठा­ना­द्वि­शु­द्ध­धी­रा­त्मानं सदा चिन्त­य­न्नु­प­नि­ष­द्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादि­स्मृ­ति­सं­ग्रहः ।

नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —
कथमिति।

यद्यपि श्रुति­स्मृ­तिभ्यां कर्मभिः संस्कृ­त­स्यो­प­नि­ष­द्भि­रात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —
स ह वा इत्यादिना ।

किं पुनः स्मृतिशास्त्रं तदाह —
अष्टा­च­त्वा­रिं­श­दिति ।
अष्टावनायासादयो गुणा­श्च­त्वा­रिं­श­द्ग­र्भा­धा­ना­दयः संस्कारा इति विभागाः ।

बहुवचनोपात्तं स्मृत्यन्तरमाह —
गीतासु चेति।

पदान्तरमादाय व्याचष्टे —
यज्ञेनेतीति।

तेषां संस्का­रा­र्थ­त्वेऽपि कथं ज्ञान­सा­ध­न­त्व­मि­त्या­श­ङ्क्याऽऽह —
संस्कृतस्येति।
दानेन विविदिषन्तीति पूर्वेण संबन्धः ।

कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —
दानमपीति।
विवि­दि­षा­हे­तु­रिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं राग­द्वे­ष­र­हि­तै­रि­न्द्रि­यै­र्वि­ष­य­से­वनं यदृ­च्छा­ला­भ­स­न्तु­ष्ट­त्व­मिति यावत् ।

यथा­श्रु­ता­र्थत्वे का हानि­रि­त्या­श­ङ्क्याऽऽह —
न त्विति।

भवतूपात्तानां वेदा­नु­व­च­ना­दी­ना­मि­ष्य­माणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनि­यु­क्त­मि­त्या­श­ङ्क्याऽऽह —
वेदानुवचनेति।

उपलक्षणफलमाह —
एवमिति।

प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्ड­द्व­य­स्यै­क­वा­क्य­त्व­मपि सिध्यतीत्याह —
एवं कर्मेति।

वाक्या­न्त­र­म­व­तार्य व्याकरोति —
एवमिति।

तस्यैवार्थमाह —
यथोक्तेनेति।
यज्ञा­द्य­नु­ष्ठा­ना­द्वि­शु­द्धि­द्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्र­ब्रा­ह्म­णा­भ्या­मु­क्त­ल­क्ष­ण­मि­त्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।

एवकारं व्याकरोति —
एवमिति।

अवधारणमाक्षिप्य समाधत्ते —
नन्वित्यादिना।

एवकारस्तर्हि त्यज­ता­मि­त्या­श­ङ्क्याऽऽह —
किन्त्विति।

आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —
एवं त्विति।

कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —
एतस्मिन्निति।

इतश्चात्मविदो न कर्मित्वमित्याह —
किञ्चेति।
आत्मलोकमिच्छतां मुमुक्षूणामपि कर्म­त्या­ग­श्र­व­णा­दा­त्म­विदां न कर्मितेति किं वक्त­व्य­मि­त्यर्थः । ताच्छील्यं वैरा­ग्या­ति­श­य­शा­लि­त्वम् ।

अव­धा­र­ण­सा­म­र्थ्य­सि­द्ध­म­र्थ­माह —
एतमेवेति।

पारिव्राज्ये लोक­त्र­या­र्थि­ना­म­न­धि­कारे दृष्टान्तमाह —
न हीति।

लोक­त्र­या­र्थि­न­श्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषा­म­धि­का­र­स्त­त्राऽऽह —
तस्मादिति।
स्वर्गकामस्य स्वर्गसाधने यागेऽ­धि­का­र­व­ल्लो­क­त्र­या­र्थि­ना­मपि तत्साधने पुत्रादावधिकार इत्यर्थः ।

पुत्रादीनां बाह्य­लो­क­सा­ध­नत्वे प्रमाणमाह —
पुत्रेणेति।

पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —
अत इति।
अतत्साधनत्वं लोकत्रयं प्रत्य­नु­पा­य­त्वम् ।

अव­धा­र­णा­र्थ­मु­प­सं­ह­रति —
तस्मादिति।
लोकत्रयार्थिनां पारि­व्रा­ज्येऽ­न­धि­का­रा­दिति यावत् ।

आत्मलोकस्य स्वरूपत्वेन सदाऽऽ­प्त­त्वा­त्कथं तत्रे­च्छे­त्या­श­ङ्क्याऽऽह —
आत्मेति।
तस्याऽऽत्मत्वेन नित्य­प्रा­प्त­त्वेऽ­प्य­वि­द्यया व्यव­हि­त­त्वा­त्प्रेप्या संभवतीति भावः ।

भव­त्वा­त्म­लो­क­प्रेप्सा तथाऽपि किं तत्प्रा­प्ति­सा­धनं तदाह —
तस्मादिति।
अवि­द्या­व­शा­त्त­दी­प्सा­सं­भ­वा­दि­त्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्य­क्ष­र­प्र­ति­प­न्न­त्वम् ।

प्रना­डि­का­सा­ध­नेभ्यो वेदा­नु­व­च­ना­दिभ्यो विशेषमाह —
अन्तरङ्गमिति।

पारि­व्रा­ज्य­मे­वा­त्म­लो­क­स्या­न्त­र­ङ्ग­सा­ध­न­मिति दृष्टान्तमाह —
यथेति।
तथा पारि­व्रा­ज्य­मे­वा­त्म­लो­कस्य साधनमिति शेषः ।

पारि­व्रा­ज्य­मे­वेति नियमे हेतुमाह —
पुत्रादीति।
तस्यान्यत्र विनि­यु­क्त­त्वा­दिति शेषः ।

यद्यपि केवलं पुत्रादिकं नाऽऽत्म­लो­क­प्रा­पकं तथाऽपि पारि­व्रा­ज्य­स­मु­च्चितं तथा स्यादि­त्या­श­ङ्क्याऽऽह —
असंभवेनेति।
न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्रा­द्या­त्म­लो­क­प्रा­प­क­मि­त्यर्थः ।

साधनान्तरासंभवे फलितमुपसंहरति —
तस्मा­दा­त्मा­न­मिति।

प्रव्रजन्तीति वर्त­मा­ना­प­दे­शा­न्नात्र विधि­र­स्ती­त्या­श­ङ्क्या­ग्नि­होत्रं जुहो­ती­ति­व­द्वि­धि­मा­श्रि­त्याऽऽह —
यथा चेति।

पारि­व्रा­ज्य­वि­धि­मुक्त्वा तद­पे­क्षि­त­म­र्थ­वा­द­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति —
कुतः पुनरिति।

उत्था­पि­त­स्या­र्थ­वा­दस्य तात्पर्यमाह —
तत्रेति।
आत्मलोकार्थिनां पारि­व्रा­ज्य­नि­यमः सप्तम्यर्थः ।

अर्थ­वा­स्था­न्य­क्ष­राणि व्याचष्टे —
तदेतदिति।
क्रियापदेन स्मेति संबध्यते ।

निपा­त­द्व­य­स्या­र्थ­माह —
किलेति।
प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।

प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —
प्रजेति।

आका­ङ्क्षा­पू­र्व­क­म­न्व­य­म­न्वा­चष्टे —
प्रजां किमिति।

अकामयमानत्वस्य पर्यवसानं दर्शयति —
पुत्रादीति।

पूर्वे विद्वांसः साधनत्रयं नानु­ति­ष्ठ­न्ती­त्यु­क्त­मा­क्षि­पति —
नन्विति।

एषणाभ्यो व्युत्तिष्ठतां किं तद­नु­ष्ठा­ने­ने­त्या­श­ङ्क्याऽऽह —
तद्बलाद्धीति।

आत्म­वि­दा­म­प­र­वि­द्या­नु­ष्ठानं दूषयति —
नापवादादिति।

अथात्र सर्व­स्याऽऽ­ना­त्मनो दर्श­न­मे­वा­पो­द्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —
अप­र­ब्र­ह्म­णोऽ­पीति।

तदपवादे श्रुत्यन्तरमाह —
यत्रेति।
यस्मिन्भूम्नि स्थित­श्च­क्षु­रा­दि­भि­र­न्यत्र पश्यति न शृणोतीत्यादिना च दर्श­ना­दि­व्य­व­हा­रस्य वारि­त­त्वा­दा­त्म­विदो न युक्त­म­प­र­ब्र­ह्म­द­र्श­न­मि­त्यर्थः ।

तत्रैव हेत्वन्तरमाह —
पूर्वेति।

प्रति­षे­ध­प्र­का­र­म­भि­न­यति —
अपूर्वमिति।

इतश्चात्मविदां नाप­र­ब्र­ह्म­द­र्श­न­मि­त्याह —
तत्केनेति।

अप­र­ब्र­ह्म­द­र्श­ना­सं­भवे किं तेषामेषणाभ्यो व्युत्थाने कार­ण­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति।

साध­न­त्र­य­म­न­नु­ति­ष्ठ­ता­म­भि­प्रायं प्रश्नपूर्वकमाह —
कः पुनरित्यादिना।

कैवल्यमेव तत्साध्यं फल­मि­त्या­श­ङ्क्याऽऽह —
प्रजा हीति।
निर्ज्ञाता सोऽय­मि­त्या­दि­श्रु­ता­विति शेषः ।

स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —
स चेति।

आत्मव्यतिरिक्तो नास्ती­त्यु­क्त­मु­प­पा­द­यति —
सर्वं हीति ।

आत्म­व्य­ति­रि­क्त­स्यैव लोकस्य प्रजा­दि­सा­ध्य­त्व­मि­ष्य­ता­मिति चेन्नेत्याह —
आत्मा चेति ।

आत्मयाजिनः संस्कारार्थं कर्मे­त्य­ङ्गी­का­रा­दा­त्म­नोऽस्ति संस्का­र्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
यदपीति ।

अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्या­त्म­द­र्श­न­वि­ष­य­मेव किं नेष्यते तत्राऽऽह —
न हीति ।

आत्मविदां प्रजा­दि­सा­ध्या­भा­व­मु­प­सं­ह­रति —
तस्मान्नेति।

केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति ।

केषा­ञ्चि­त्पु­त्रा­दिषु प्रवृ­त्ति­श्चे­त्ते­नैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति।

आत्मविदां प्रजा­दि­सा­ध्या­भा­व­मु­प­सं­ह­रति —
तस्मान्नेति।

केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति।

केषा­ञ्चि­त्पु­त्रा­दिषु प्रवृ­त्ति­श्चे­त्ते­नैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादि­त्या­श­ङ्क्याऽऽह —
न हीति।
तत्र प्रवृत्तिरिति संबन्धः । अवि­द्व­द्द­र्श­न­वि­षय इति च्छेदः ।

उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —
तदेतदिति।

आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवि­त­व्य­मि­त्या­श­ङ्क्याऽऽह —
न चेति।

क्व तर्हि साध­न­मे­ष्ट­व्य­मि­त्या­श­ङ्क्याऽऽह —
साध्यस्येति।

विपक्षे दोषमाह —
असाध्यस्येति।

येषा­मि­त्या­दि­वा­क्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।
ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।

वाक्यान्तरं प्रश्न­द्वा­रे­णा­व­तार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —
त एवमित्यादिना ।

यद­र्थोऽ­य­म­र्थ­वा­दस्तं विधिं निगमयति —
तस्मादिति ।

महा­नु­भा­वोऽ­य­मा­त्म­लोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधि­रि­त्या­श­ङ्क्याऽऽह —
न हीति ।

तदेव प्रपञ्चयति —
प्रव्र­ज­न्ती­त्य­स्येति ।

तथाऽपि प्रव्र­ज­न्ती­ति­वा­क्य­स्या­र्थ­वा­दत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
अर्थवादश्चेदिति ।

अपे­क्षा­प्र­का­र­मेव प्रकटयन्नस्य स्तुत्य­भि­मु­ख­त्वा­भा­वा­द्वि­धि­त्व­मे­वे­त्याह —
यस्मादिति ।

किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्था­ना­दे­रु­प­दि­श्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधि­म­र्ह­ती­त्युक्तं तथा चात्रापि व्युत्था­ना­प­र­प­र्यायं परिव्राज्यं विधेयमित्याह —
विज्ञानेति ।

इतश्च पारि­व्रा­ज्य­वा­क्य­म­र्थ­वादो न भवतीत्याह —
वेदेति ।

तदेव साधयति —
यथेत्यादिना ।

पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह —
फलेति ।
पुत्रा­दि­फ­ला­पे­क्षया पारिव्राज्यफलं विभा­गे­नो­प­दि­श्यते । तथा च फल­व­त्त्वा­त्पु­त्रा­दि­व­त्पा­रि­व्रा­ज्यस्य विधे­य­त्व­सि­द्धि­रि­त्यर्थः ।

तदेव विवृणोति —
एतमेवेति।
प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षा­त्क­र्तु­मि­च्छन्तः प्रव्रजन्तीति वच­ना­त्पु­त्रा­दि­सा­ध्या­न्म­नु­ष्या­दि­लो­का­दा­त्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुति­र्वि­भ­ज्या­भि­द­धाति । अतस्तस्य विधे­य­त्व­म­प्र­त्यू­ह­मि­त्यर्थः ।

फलविभागोपदेशे दृष्टान्तमाह —
यथेति ।
तथा पारिव्राज्येऽपि फल­वि­भा­गो­क्ते­र्वि­धे­य­तेति दार्ष्टा­न्ति­क­मि­ति­श­ब्दार्थः ।

पारिव्राज्यस्य स्तुति­प­र­त्वा­भावे हेत्वन्तरमाह —
न चेति ।
यथा वायुर्वै क्षेपि­ष्ठे­त्या­दि­र­र्थ­वादः प्राप्तार्थो देव­ता­दि­स्तु­त्यर्थः स्थितो न तथेदं स्तुतिपरं तद­व­द्यो­ति­श­ब्दा­भा­वा­दि­त्यर्थः ।

किञ्च प्रधानस्य दर्श­पू­र्ण­मा­सा­दे­र­र्थ­वा­दा­पे­क्षा­व­त्पा­रि­व्रा­ज्य­मपि तद­पे­क्ष­मु­प­ल­भ्यते तेन तस्य दर्शा­दि­व­द्वि­धे­यत्वं दुर्वारमित्याह —
प्रधानवच्चेति ।

किञ्च पारिव्राज्यं सकृदेव श्रुतं चेद­वि­व­क्षि­त­म­न्य­स्तु­ति­परं स्यान्न चेदं सकृदेव श्रूयते “परि­व्र­ज­न्ती”त्यु­प­क्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२)त्यभ्यासादतोऽपि न स्तुति­मा­त्र­मे­त­दि­त्याह —
सकृदिति ।

न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुति­प­र­त्व­प्र­ती­ति­स्त­त्राऽऽह —
तस्मादिति ।

अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह —
न चेति ।

विपक्षे दोषमाह —
यदीति ।

अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुति­रे­वे­त्या­श­ङ्क्याऽऽह —
न चान्यत्रेति ।
आत्म­ज्ञा­ना­धि­का­रा­द­न्यत्र पारि­व्रा­ज्य­वि­ध्य­नु­प­ल­म्भा­दि­त्यर्थः ।

अन्यत्र विध्यनुपलम्भं समर्थयते —
यदीत्यादिना ।
अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्या­ग­वि­धे­र्वि­रु­द्ध­त्वा­दिति भावः ।

भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्व­क­र्मा­न­धि­कृ­त­वि­षयः स्यादि­त्या­श­ङ्क्याऽऽह —
यदपीति ।
तत्र कर्मानधिकृते पुंसीत्येतत् ।

तत्र हेतुमाह —
कर्तव्यत्वेनेति ।
कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षा­रो­ह­णा­दा­विव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्त­स्मि­न्वि­षये वृक्षा­रो­ह­णा­द्यपि कल्प्ये­ता­वि­शे­षा­दि­त्यर्थः ।

पारि­व्रा­ज्य­स्या­धि­कृ­त­वि­ष­यत्वे विधेयत्वे च सिद्धे फलतीत्याह —
तस्मादिति ।

सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति —
यदीति ।

परिहरति —
अत्रेति ।
तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः ।

कर्म­भि­र­सं­ब­न्ध­मा­त्म­लो­कस्य साधयति —
यमात्मानमिति ।

तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह —
तस्मादिति ।

आत्मनो निष्प्र­प­ञ्च­त्वेऽपि कथं तदर्थिनां पारि­व्रा­ज्य­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।
निर्विशेषस्तत्र तत्र वाक्ये दर्शि­त­स्व­रू­पोऽ­य­मा­त्मे­त्ये­त­दा­ग­मो­प­प­त्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मा­न्नि­र्धा­रितं तस्मा­द­स्मि­न्ना­त्म­न्या­पा­ततो ज्ञाते कर्मा­नु­ष्ठा­न­प्र­य­त्ना­सि­द्धि­रिति योजना ।

उक्ता­त्म­वि­ष­य­वि­वे­क­वि­ज्ञा­न­वतो न कर्मा­नु­ष्ठा­न­मि­त्यत्र दृष्टान्तमाह —
न हीति ।

ब्रह्मज्ञानफले सर्व­क­र्म­फ­ला­न्त­र्भा­वाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह —
कृत्स्नस्येति ।

तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतू­ह­ल­व­शा­द­नु­ष्ठा­स्य­ती­त्या­श­ङ्क्याऽऽह —
न चेति ।

तत्र लौकिकं न्यायं दर्शयति —
अङ्के चेदिति ।
पुरोदेशे मधु लभेत चेदिति यावत् ।

ज्ञानफले कर्म­फ­ला­न्त­र्भावे मानमाह —
सर्वमिति ।
अखिलं सम­ग्रा­ङ्गो­पे­त­मि­त्यर्थः ।

तत्रैव श्रुतिं संवादयति —
इहापीति ।

निषे­ध­वा­क्य­ता­त्प­र्य­मु­प­सं­ह­रति —
अत इति ।

एतमित्यादि वाक्यं योजयति —
यस्मादिति ।
उ हेति निपाताभ्यां सूचितोऽर्थो यस्मा­दि­त्य­नु­भा­षितः ।

इति­श­ब्द­स्या­पे­क्षितं पूरयति —
युक्तमिति ।

आका­ङ्क्षा­पू­र्व­क­मु­त्त­र­वा­क्य­म­व­तार्य व्याकरोति —
के ते इत्यादिना ।

यथो­क्ता­त्म­वि­द­स्ता­प­ह­र्षा­सं­स्पर्शे हेतुमाह —
उभे हीति ।

पुण्यपापे तरतीत्युक्ते पृथगवस्थानं तयोः शङ्क्येत तन्निरस्यति —
एवमिति ।
निषे­ध­वा­क्यो­क्त­क्र­मे­णेति यावत् ।

इतश्चाऽऽत्मविदो धर्मादिसंबन्धो नास्तीत्याह —
किञ्चेति ।

तदे­वा­न­न्त­र­वा­क्य­व्या­ख्या­नेन स्फोरयति —
नैनमिति ।

तयोस्तर्हि कुत्र तापकत्वं तदाह —
अनात्मज्ञं हीति ।

पुरु­ष­त्वा­द्ब्र­ह्म­वि­दु­ष्यपि कृता­कृ­त­यो­स्ता­प­कत्वं स्यादि­त्या­श­ङ्क्याऽऽह —
अयं त्विति ।

अत्र भगवद्वाक्यं प्रमाणयति —
यथेति ।

यद्यपि पूर्वो­त्ता­यो­र्ध­र्मा­ध­र्म­यो­र­ना­र­ब्ध­यो­रा­त्म­वि­द्या­व­शा­द्वि­ना­शा­श्लेषौ तथाऽपि प्रारब्धयोरस्ति तयो­स्ता­प­क­त्व­मि­त्या­श­ङ्क्याऽऽह —
शरीरेति ।

प्रकृतं विद्या­फ­ल­मु­प­सं­ह­रति —
अत इति ।
कर्म­का­र्या­सं­ब­न्धा­दिति यावत् ॥ २२ ॥

उक्ते विद्याफले मन्त्रं संवादयति —
तदेतदिति ।

एष नित्यो महिमेत्यत्र नित्य­त्व­मु­प­पा­द­यति —
अन्ये त्विति ।
तद्वि­ल­क्ष­ण­त्व­म­क­र्म­कृ­त­त्वम् ।

अकर्मकृतो महि­मा­स्वा­भा­वि­क­त्वा­न्नित्य इत्य­त्रा­क­र्म­क­र्तृ­त्वेन स्वाभा­वि­क­त्व­म­सि­द्ध­मि­त्या­श­ङ्क्याऽऽह —
कुतोऽस्येति ।

वृद्धि­र­प­क्ष­य­श्चेति विक्रि­या­द्व­या­भा­वेऽपि विक्रियान्तराणि भवि­ष्य­न्ती­त्या­श­ङ्क्याऽऽह —
उपचयेति ।
एताभ्यां निषेधाभ्यामिति यावत् ।

आत्मनः सर्व­वि­क्रि­या­रा­हित्ये फलितमाह —
अत इति ।

तस्य नित्यत्वेऽपि किं तदाह —
तस्मादिति ।

अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्मा­ध­र्म­ल­क्ष­णे­ने­त्यु­क्त­मत आह —
उभयमपीति ।
संसा­र­हे­तु­त्वा­वि­शे­षा­दि­त्यर्थः ।

तस्मा­दि­त्या­दि­वाक्यं व्याचष्टे —
यस्मादिति ।
एवंविदात्मा कर्म­त­त्फ­ल­सं­ब­न्ध­शून्य इत्यापाततो जानन्नित्यर्थः । विशे­ष­णा­भ्या­मु­त्स­र्गतो विहि­त­स्यो­भ­य­वि­ध­क­र­ण­व्या­पा­रो­प­र­मस्य याव­ज्जी­वा­दि­श्रु­ति­वि­हितं कर्मा­प­वा­द­स्त­स्मा­द्वि­र­क्त­स्यापि न नित्यादित्यागः ।

उत्स­र्ग­स्या­प­वा­देन बाधः कस्य न संमत इत्या­दि­न्या­या­दि­त्या­श­ङ्क्याऽऽह —
उपरत इति ।
जीव­न­वि­च्छे­द­व्य­ति­रि­क्त­शी­ता­दि­स­हि­ष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्य­ग्धी­वि­रो­धिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।

पश्यतीति वर्त­मा­ना­प­दे­शा­त्कथं विशेषणेषु संक्रामितो विधि­रि­त्या­श­ङ्क्याऽऽह —
तदेतदिति ।

यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादि­त्या­श­ङ्क्याऽऽह —
एवमिति ।

तस्य पुण्य­पा­पा­सं­स्पर्शे हेतुमाह —
अयं त्विति ।

इतश्च विदुषो न कर्म­सं­ब­न्धोऽ­स्ती­त्याह —
नैनमिति ।

किमिति पाप्मा ब्रह्मविदं न तप­ती­त्या­श­ङ्क्याऽऽह —
सर्वमिति ।

कथं ब्राह्मणो भव­ती­त्य­पू­र्व­व­दु­च्यते प्रागपि ब्राह्मण्यस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह —
अयं त्विति ।

मुख्य­त्व­म­बा­धि­तत्वं सफलां विद्यां मन्त्र­ब्रा­ह्म­णा­भ्या­मु­प­दि­श्यो­प­सं­ह­रति —
एष इति ।

तत्र कर्मधारयसमासं सूचयति —
ब्रह्मैवेति ।

तथा­वि­ध­स­मा­स­प­रि­ग्रहे प्रक­र­ण­म­नु­ग्रा­ह­क­म­भि­प्रे­त्याऽऽह —
मुख्य इति ।

तथाऽपि किं मम सिद्धमिति तदाह —
एनमिति ।

आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —
एवमिति ।

सति वक्तव्यशेषे कथमित्थं राज्ञो वच­न­मि­त्या­श­ङ्क्याऽऽह —
परिसमापितेति ।

तथाऽपि परमपुरुषार्थस्य वक्त­व्य­त्व­मि­त्या­श­ङ्क्याऽऽह —
परिसमाप्त इति।

कर्तव्यान्तरं वक्त­व्य­म­स्ती­त्या­श­ङ्क्याऽऽह —
एतावदिति ।

तथाऽपि यत्र निष्ठा कर्तव्या तद्वा­च्य­मि­त्या­श­ङ्क्याऽऽह —
एषेति ।

तथाऽपि परमा निष्ठाऽ­न्याऽ­स्तीति चेन्नेत्याह —
एषेति ।

निश्चितं श्रेयोऽ­न्य­द­स्ती­त्या­श­ङ्क्याऽऽह —
एतदिति ।

तथाऽपि कृतकृत्यतया मुख्य­ब्रा­ह्म­ण्य­सि­द्ध्यर्थं वक्त­व्या­न्त­र­म­स्ती­त्या­श­ङ्क्याऽऽह —
एतत्प्राप्येति ।

किमस्यां प्रति­ज्ञा­प­र­म्प­रायां निया­म­क­मि­त्या­श­ङ्क्याऽऽह —
एतदिति ।
निरु­पा­धि­क­ब्र­ह्म­ज्ञा­ना­त्कै­व­ल्य­मिति गमयितुमितिशब्दः ॥ २३ ॥

संप्रति सोपा­धि­क­ब्र­ह्म­ध्या­ना­द­भ्यु­दयं दर्शयति —
योऽयमित्यादिना ।

ईश्व­र­श्चे­त्प्रा­णिभ्यः कर्मफलं ददाति तर्हि तस्य वैष­म्य­नै­र्घृण्ये स्याता­मि­त्या­श­ङ्क्याऽऽह —
प्राणिनामिति ।

उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति —
तमेतमिति ।

सर्वा­त्म­त्व­फ­ल­मु­पा­स­न­मुक्त्वा पक्षान्तरमाह —
अथवेति ।
दृष्टं फलमन्नात्तृत्वं धनलाभश्च ।

उक्तगुणकमीश्वरं ध्यायतः फलमाह —
तेनेति ।

तदेव फलं स्पष्टयति —
दृष्टेनेति ।
अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥

निरु­पा­धि­क­ब्र­ह्म­ज्ञा­ना­न्मु­क्ति­रुक्ता सोपा­धि­क­ब्र­ह्म­ध्या­ना­च्चा­भ्यु­दय उक्तस्तथा च किमु­त्त­र­क­ण्डि­क­ये­त्या­श­ङ्क्याऽऽह —
इदानीमिति ।
अज­त्वा­च्चा­वि­ना­शीति वक्तुं चशब्दः ।

कथं जन्म­ज­रा­भा­व­यो­र­म­र­त्वा­वि­ना­शि­त्व­सा­ध­कत्वं तदाह —
यो हीति ।
अयं त्वज­त्वा­द­वि­ना­श्य­ज­र­त्वा­च्चा­म­रोऽ­म­र­त्वा­च्चा­वि­ना­शीति योजना ।

मर­णा­यो­ग्य­त्व­मु­प­जीव्य मरणकार्याभावं दर्शयति —
अत एवेति ।

जन्मा­प­क्ष­य­वि­ना­शा­ना­मेव भावविकाराणामिह मुखतो निषे­धा­द्वि­वृ­द्ध्या­दीनि विका­रा­न्त­रा­ण्या­त्मनि भविष्यन्निति विशेषनिषेधस्य शेषा­भ्य­नु­ज्ञा­प­र­त्वा­दि­त्या­श­ङ्क्याऽऽह —
यस्मादिति ।
इतरे सत्त्व­वि­वृ­द्धि­वि­प­रि­णामाः ।

अत एवाभय इत्युक्तं विवृणोति —
यस्माच्चेति ।

किं तद्भयं तदाह —
भयं चेति ।

अवि­द्या­नि­षे­धि­वि­षे­श­णा­भा­वा­दा­त्मानं सा सदा स्पृश­ती­त्या­श­ङ्क्याऽऽह —
तत्कार्येति ।

विशेषणान्तरं प्रश्न­पू­र्व­क­मु­त्थाप्य व्याकरोति —
अभय इति ।

कथं पुन­र­भ­य­गु­ण­वि­शि­ष्ट­स्याऽ­त्मनो ब्रह्मत्वं तदाह —
अभयमिति ।

वैशब्दार्थमाह —
प्रसिद्धमिति ।
लोकशब्दः शास्त्र­स्या­प्यु­प­ल­क्ष­णम् ।

वेद्य­स्व­रू­प­मुक्त्वा विद्याफलं कथयति —
य एवमिति ।

कण्डि­का­र्थ­मु­प­सं­ह­रति —
एष इति ।

सृष्ट्यादेरपि तद­र्थ­त्वा­त्कि­मि­त्य­सा­विह नोपसंह्रियते —
एतस्येति ।

सृष्ट्या­दे­रा­रो­पि­तत्वे गमकमाह —
तदपोहेनेति ।
तच्छब्दः सृष्ट्या­दि­प्र­प­ञ्च­वि­षयः ।

तदपोहेनेति यदुक्तं तदेव स्फुटयति —
नेतीति ।
अध्या­रो­पा­प­वा­द­न्या­येन तत्त्व­स्याऽऽ­वे­दि­त­त्त्वा­दा­रो­पितं भवत्येव सृष्ट्या­दि­द्वै­त­मि­त्यर्थः ।

अध्या­रो­पा­प­वा­द­न्या­यस्य पङ्क­प्र­क्षा­ल­न­न्या­य­वि­रु­द्ध­त्वा­त्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्या­दि­द्वै­ता­रो­पे­णे­त्या­श­ङ्क्याऽऽह —
यथेति ।

उदाहरणान्तरमाह —
यथा चेति ।

दृष्टा­न्त­द्व­य­म­नूद्य दार्ष्टा­न्ति­क­मा­चष्टे —
तथा चेति ।

इहेति मोक्ष­शा­स्त्रोक्तिः । तथाऽपि कल्पि­त­प्र­प­ञ्च­सं­ब­न्ध­प्र­युक्तं सविशेषत्वं ब्रह्मणः स्यादि­त्या­श­ङ्क्याऽऽह —
पुनरिति ।
तस्मिन्नात्मनि कल्पितः सृष्ट्या­दि­रु­पा­य­स्तेन जनितो विशे­ष­स्त­स्मि­न्का­र­ण­त्वा­दि­स्तस्य निरासार्थमिति यावत् ।

तर्हि द्वैता­भा­व­वि­शिष्टं तत्त्वमिति चेन्नेत्याह —
तदुपसंहृतमिति ।
परिशुद्धं भाववदभावेनापि न संस्पृ­ष्ट­मि­त्यर्थः । केव­ल­मि­त्य­द्वि­ती­योक्तिः ।

सृष्ट्या­दि­व­च­नस्य गतिमुक्त्वा प्रकृतमुपसंहरति —
सफलमिति ।
इतिशब्दः संग्र­ह­स­मा­प्त्यर्थो ब्राह्म­ण­स­मा­प्त्यर्थो वा ॥ २५ ॥