आनन्दगिरिटीका (बृहदारण्यक)
चतुर्थोऽध्यायः: चतुर्थं ब्राह्मणम् (२)
सप्रपञ्चं शब्दस्पर्शरूपरसादिमद्ब्रह्म तदुपासनमनुसृत्य तत्प्राप्तिमार्गे विवादो मुमुक्षूणामित्याह —
यथादर्शनमिति।
तथाऽपि कथं ब्रह्मप्राप्तिमार्गे शुक्लादिरूपसिद्धिः ।
न हि ज्ञानस्य रूपादिमत्त्वमित्याशङ्क्याऽऽह —
नाड्यस्त्विति ।
तासामपि कथं यथोक्तरूपवत्त्वमित्याशङ्क्याऽऽह —
श्लेष्मादीति ।
तथाऽपि कथं शुक्लादिरूपवत्त्वमित्याशङ्क्य नाडीखण्डोक्तं स्मारयति —
शुक्लस्येति ।
नाडीपरिग्रहे नियामकाभावमाशङ्क्य पक्षान्तरमाह —
आदित्यं वेति ।
एवंविधं शुक्लादिनानावर्णमित्यर्थः ।
तस्य तथात्वे प्रमाणमाह —
एष इति ।
प्रकृते ज्ञानमार्गे किमिति मार्गान्तरं कल्प्यते तत्राऽऽह —
दर्शनेति ।
तर्हि नाडीपक्षो वाऽऽदित्यपक्षो वा कतरो विवक्षितस्तत्राऽऽह —
सर्वथाऽपीति ।
शुक्लमार्गस्य ज्ञानमार्गादन्यत्वमाक्षिपति —
नन्विति ।
शुक्लशब्दस्य नाद्वैतमार्गविषयत्वं नीलादिशब्दसमभिव्याहारविरोधादिति परिहरति —
न नीलेति ।
सैद्धान्तिकमन्त्रभागं व्याख्यातुं पूर्वपक्षं दूषयति —
याञ्छुक्लादीनिति ।
न केवलं देहदेशनिःसरणसंबन्धादेव नाडीभेदानां संसारविषयत्वं किन्तु ब्रह्मलोकादिसंबन्धादपीत्याह —
ब्रह्मादीति ।
आदित्योऽपि देवयानमध्यपाती ब्रह्मलोकप्रापकः संसारहेतुरेवेति मन्वानो मोक्षमार्गमुपसंहरति —
तस्मादिति ।
आप्तकामतया ज्ञानमार्ग इति संबन्धः । एवं भूमिकां कृत्वैष इत्यस्यार्थमाह —
सर्वकामेति ।
तथा तैलादिविलये प्रदीपस्य ज्वलनानुपपत्तौ तेजोमात्रे निर्वाणमिष्यते तथा स्थूलस्य सूक्ष्मस्य च सर्वस्यैव कामस्य ज्ञानात्क्षये सति गत्यनुपपत्तावत्रैव प्रत्यगात्मनि कार्यकरणानामेकीभावेनावसानमित्ययमेषशब्दार्थ इत्यर्थः ।
पन्था इत्येतद्व्याचष्टे —
ज्ञानमार्ग इति ।
इत्थम्भावे तृतीयामाश्रित्याऽऽह —
परमात्मेति ।
अनुवेदनकर्तृर्ब्राह्मणस्य संन्यासित्वं दर्शयति —
त्यक्तेति ।
विप्रतिपत्तिं निराकृत्य मोक्षमार्गं निर्धार्य तेन धीरा अपियन्तीत्यत्रोक्तं निगमयति —
तेनेति ।
अन्योऽपि मन्त्रदृशः सकाशादिति शेषः । इहेति जीवदवस्थोक्तिः ।
समुच्चयकारिणोऽत्र ब्रह्मप्राप्तिर्विवक्ष्यतेति केचित्तान्प्रत्याह —
न पुनरिति ।
विरोधाज्ज्ञानकर्मणोरिति शेषः ।
किञ्च क्रमसमुच्चयः समसमुच्चयो वेति विकल्प्याऽऽद्यमङ्गीकृत्य द्वीतीयं दृषयति —
अपुण्येति ।
ज्ञानस्य कर्मासमुच्चयेऽपि विवेकज्ञानेन समुच्चयोऽस्तीत्याशङ्क्याऽऽह —
त्यजेति ।
ब्रह्मविदोऽपि स्तुत्यादिदृष्टेस्तेन समुच्चयो ज्ञानस्येत्याशङ्क्याऽऽह —
निराशिषमिति ।
काम्याननुष्ठानमनारम्भः । अक्षीणत्वं निषिद्धानाचरणम् । क्षीणकर्मत्वं नित्यादिकर्मराहित्यम् ।
असमुच्चये वाक्यान्तरमाह —
नेत्यादिना ।
एकता निरपेक्षता सर्वोदासीनतेति यावत् । समता मित्रोदासीनशत्रुबुद्धिव्यतिरेकेण सर्वत्र स्वस्मिन्निव दृष्टिः । दण्डनिधानमहिंसापरत्वम् ।
“अर्थस्य मूलं निकृतिः क्षमा च कामस्य चित्तं च वपुर्वयश्च ।
धर्मस्य यागादि दया दमश्च मोक्षस्य सर्वोपरमः क्रियाभ्यः”॥
इत्यादिचतुर्विधे पुरुषार्थे साधनभेदोपदेशि वाक्यमादिशब्दार्थः । इत्यादिस्मृतिभ्यश्च न पुण्यादिसमुच्चयकारिणो ग्रहणमिति संबन्धः ।
तथाऽपि प्रकृते मन्त्रे समुच्चयो भातीत्याशङ्क्याऽऽह —
उपदेक्ष्यतीति ।
वाक्यशेषादिपर्यालोचनासिद्धमर्थमुपसंहरति —
तस्मादिति ।
पूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तपुत्राद्येषणो ब्रह्मवित्तेनैतीति क्रमो न युज्यतेऽश्रुतत्वादित्याशङ्क्याऽऽह —
अथवेति ।
स्तुतिमेवोपपादयति —
पुण्यकृतीति ।
तेजांसि करणान्युपसंहृत्य स्थितस्तैजसो दहराद्युपासीनो योगी तस्मिन्नणिमाद्यैश्वर्यान्महानुभावत्वप्रसिद्धिः । ताभ्यां पुण्यकृत्तैजसाभ्यामित्यर्थः ।
अतःशब्दपरामृष्टं स्पष्टयति —
प्रख्यातेति ।
पुण्यकृत्तैजसयोरिति शेषः ॥ ९ ॥
प्रस्तुतज्ञानमार्गस्तुत्यर्थं मार्गान्तरं निन्दति —
अन्धमित्यादिना ।
विद्यायामिति प्रतीकमादाय व्याकरोति —
अविद्येति ।
कथं पुनस्त्रय्यामभिरतानामधःपतनमित्याशङ्क्याऽऽह —
विधीति ॥ १० ॥
मन्त्रान्तरमाकाङ्क्षाद्वारोत्थाप्य व्याचष्टे —
यदीत्यादिना ।
अबुध इत्यस्य निष्पत्तिं सूचयन्विवक्षितमर्थमाह —
बुधेरिति ॥ ११ ॥
उक्तात्मज्ञानस्तुत्यर्थमेव तन्निष्ठस्य कायक्लेशराहित्यं दर्शयति —
आत्मानमित्यादिना ।
विज्ञानात्मनो वैलक्षण्यार्थं विशिनष्टि —
सर्वेति ।
ताटस्थ्यं व्यावर्तयति —
हृत्स्थमिति ।
बुद्धिसंबन्धप्राप्तं संसारित्वं वारयति —
अशनायादीति ।
प्रश्नपूर्वकं ज्ञानप्रकारं प्रकटयति —
कथमित्यादिना ।
सर्वभूतसंबन्धप्रयुक्तं दोषं वारयितुं विशिनष्टि —
नित्येति ।
इति विजानीयादिति संबन्धः । प्रयोजनाय शरीरमनुसंज्वरेदिति संबन्धः ।
किमिच्छन्नित्याक्षेपं समर्थयते —
न हीति ।
कस्य वा कामायेत्याक्षेपमुपपादयति —
न चेति ।
आक्षेपद्वयं निगमयति —
अत इति ।
तदेव स्पष्टयति —
शरीरेति ।
विदुषस्तापाभावं व्यतिरेकमुखेन विशदयति —
अनात्मेति ।
वस्त्वन्तरेप्सोस्तापसंभव इति शेषः । स चेत्यध्याहृत्य ममेदमित्यादि योज्यम् । इत्येतदाह किमिच्छन्नित्याद्या श्रुतिरिति शेषः ॥ १२ ॥
न केवलमात्मविद्यारसिकस्य कायक्लेशराहित्यं किन्तु कृतकृत्यता चास्तीत्याह —
किञ्चेति ।
सन्देहे पृथिव्यादिभिर्भूतैरुपचिते शरीरे ।
सन्देहत्वं साधयति —
अनेकेति ।
विषमत्वं विशदयति —
अनेकशतेति ।
न नाममात्रमित्यत्र पुरस्तान्नञस्तस्मादिति पठितव्यं यस्मादित्युपक्रमाद्विश्वकृत्त्वमिति शेषः । परशब्दो विद्याविषयः । विश्वकृत्कृतकृत्य इत्येतत् ।
लोकलोकिविभागेन भेदं शङ्कित्वा दूषयति —
किमित्यादिना ।
यस्येत्यादिमन्त्रस्य तात्पर्यार्थं संगृह्णाति —
य एष इति ।
अस्त्वेवं किं तावतेत्याशङ्क्याऽऽह —
एक एवेति ।
यो हि परः सर्वप्रकारभेदराहित्यात्पूर्णतया वर्तते स एवास्मीत्यात्माऽनुसन्धातव्य इति योजना ॥ १३ ॥
ब्रह्मविदो विद्यया कृतकृत्यत्वे श्रुतिसंप्रतिपत्तिरेव केवलं न भवति किन्तु स्वानुभवसप्रतिपत्तिरस्तीत्याह —
किञ्चेति ।
अथेत्यस्य कथञ्चिदिवेति व्याख्यानम् ।
तदित्यस्य ब्रह्मतत्वमित्युक्तार्थं स्फुटयति —
तदेतदिति ।
ब्रह्मज्ञाने कृतार्थत्वं श्रुत्यनुभवाभ्यामुक्त्वा तदभावे दोषमाह —
यदेतदिति ।
तर्हि महती विनष्टिरिति संबन्धः ।
बहुत्वं न विवक्षितं ज्ञानान्मोक्षोऽत्र विवक्षित इत्यभिप्रेत्य वेदिरित्यस्यार्थमाह —
वेदनमित्यादिना ।
न चेद्ब्रह्म विदितवन्तो वयं ततोऽहमवेदिः स्यामिति योजना ।
विद्याभावे दोषमुक्त्वा विद्वदनुभवसिद्धमर्थं निगमयति —
अहो वयमिति ।
इहैवेत्यादिना पूर्वार्धेनोक्तमेवार्थमुत्तरार्धेन प्रपञ्चयति —
यथा चेत्यादिना ।
दुःखादविदुषां विनिर्मोकाभावे हेतुमाह —
दुःखमेवेति ॥ १४ ॥
किञ्च विदुषो विहिताकरणादिप्रयुक्तं भयं नास्तीति विद्यां स्तोतुमेव मन्त्रान्तरमादाय व्याचष्टे —
यदा पुनरित्यादिना ।
उक्तमर्थं व्यतिरेकमुखेन विशदयति —
सर्वो हीति ।
जुगुप्साया निन्दात्वेन प्रसिद्धत्वात्कथमवयवार्थमादाय व्याख्यायते रूढिर्योगमपहरतीति न्यायादित्याशङ्क्याऽऽह —
यदेति ।
तदेवोपपादयति —
सर्वमिति ॥ १५ ॥
अथेश्वरस्यापि कालान्यत्वे सति वस्तुत्वाद्घटवत्कालावच्छिन्नत्वान्न कालत्रयं प्रति युक्तमीश्वरत्वमत आह —
किञ्चेति ।
यस्मादीशानादर्वाक्संवत्सरो वर्तते तमुपासते देवा इति संबन्धः ।
ननु कथं संवत्सरोऽर्वागित्युच्यते कालस्य कालान्तराभावेन पूर्वकालसंबन्धाभावादत आह —
यस्मादिति ।
अन्वयस्तु पूर्ववत् ।
आत्मज्ज्योतिषो गुणमायौष्ट्वलक्षणं स्पष्टयन्नुपासकस्य फलमाह —
सर्वस्येति ।
यथोक्तोपासने देवानामेवाधिकारो विशेषवचनादित्याशङ्क्याऽऽह —
तस्मादिति ॥ १६ ॥
ज्योतिषां ज्योतिरमृतमित्युक्तं तस्यामृतत्वं सर्वाधिष्ठानत्वेन साधयति —
किञ्चेति ।
एवकारार्थमाह —
न चेति ।
यद्यात्मानं ब्रह्म जानासि तर्हि किं ते तद्विद्याफलमिति प्रश्नपूर्वकमाह —
किं तर्हीति ।
कथं तर्हि ते मर्त्यत्वप्रतीतिस्तत्राऽऽह —
अज्ञानमात्रेणेति ॥ १७ ॥
प्रकृताः पञ्चजनाः पञ्च ज्योतिषा सह प्राणादयो वा स्युरित्यभिप्रेत्याऽऽह —
किञ्चेति ।
कथं चक्षुरादिषु चक्षुरादित्वं ब्रह्मणः सिध्यति तत्राऽऽह —
ब्रह्मशक्तीति ।
विमतानि केनचिदधिष्ठितानि प्रवर्तन्ते करणत्वाद्वास्यादिवदिति चक्षुरादिव्यापारेणानुमितास्तित्वं प्रत्यगात्मनं ये विदुरिति योजना ।
विदिक्रियाविषयत्वं व्यावर्तयति —
नेति ।
प्रत्यगात्मविदां कथं ब्रह्मवित्त्वमित्याशङ्क्याऽऽह —
तदिति ॥ १८ ॥
मनसो ब्रह्मदर्शनसाधनत्वे कथं ब्रह्मणो वाङ्मनसातीतत्वश्रुतिरित्याशङ्क्याऽऽह —
परमार्थेति ।
केवलं मनो ब्रह्माविषयीकुर्वदपि श्रवणादिसंस्कृतं तदाकारं जायते तेन द्रष्टव्यं तदुच्यतेऽत एव वृत्तिव्याप्यं ब्रह्मेत्युपगच्छतीति भावः ।
अनुशब्दार्थमाह —
आचार्येति ।
द्रष्टृद्रष्टव्यादिभावेन भेदमाशङ्क्याऽऽह —
तत्र चेति ।
एवकारार्थमाह —
नेहेति ।
कथमात्मनि वस्तुतो भेदरहितेऽपि भेदो भातीत्याशङ्क्याऽऽह —
असतीति ।
नेहेत्यादेः संपिण्डितमर्थं कथयति —
अविद्येति ॥ १९ ॥
द्वैताभावे कथमनुद्रष्टव्यमित्याशङ्क्याऽऽह —
यस्मादिति ।
तमेवैकं प्रकारं प्रकटयति —
विज्ञानेति ।
परिच्छिन्नत्वं व्यवच्छिनत्ति —
आकाशवदिति ।
एकरसत्वं हेतूकृत्याप्रमेयत्वं प्रतिजानीते —
यस्मादिति ।
एतद्ब्रह्म यस्मादेकरसं तस्मादप्रमेयमिति योजना ।
हेत्वर्थं स्फुटयति —
सर्वैकत्वादिति ।
तथाऽपि कथमप्रमेयत्वं तदाह —
अन्येनेति ।
मिथो विरोधमाशङ्कते —
नन्विति ।
विरोधमेव स्फोरयति —
ज्ञायत इतीति ।
चोदितं विरोधं निराकरोति —
नैष दोष इति ।
संगृहीते समाधानं विशदयति —
यथेत्यादिना ।
तस्य मानान्तरविषयीकर्तुमशक्यत्वे हेतुमाह —
सर्वस्येति ।
इति सर्वद्वैतोपशान्तिश्रुतेरिति शेषः ।
आगमोऽपि तर्हि कथमात्मानमावेदयेदित्याशङ्क्याऽऽह —
प्रमात्रिति ।
आत्मनः स्वर्गादिवद्विषयत्वेनाऽऽगमप्रतिपाद्यत्वाभावे हेतुमाह —
प्रतिपादयित्रिति ।
तथाऽपि किमिति विषयत्वेनाप्रतिपाद्यत्वं तत्राऽऽह —
प्रतिपादयितुरिति ।
तदिति प्रतिपाद्यत्वमुक्तम् ।
कथं तर्हि तस्मिन्नागमिकं ज्ञानं तत्राऽऽह —
ज्ञानं चेति ।
परस्मिन्देहादावात्मभावस्याऽऽरोपितस्य निवृत्तिरेव वाक्येन क्रियते । तथा चाऽऽत्मनि परिशिष्टे स्वाभाविकमेव स्फुरणं प्रतिबन्धविगमात्प्रकटीभवतीति भावः ।
ननु ब्रह्मण्यात्मभावः श्रुत्या कर्तव्यो विवक्ष्यते न तु देहादावात्मत्त्वव्यावृत्तिरत आह —
न तस्मिन्निति ।
ब्रह्मणश्चेदात्मभावः सदा मन्यते कथमन्यथा प्रथेत्याशङ्क्याऽऽह —
नित्यो हीति ।
सर्वस्य पूर्णस्य ब्रह्मण इत्येतत् । अतद्विषयो ब्रह्मव्यतिरिक्तविषय इत्यर्थः ।
ब्रह्मण्यात्मभावस्य सदा विद्यमानत्वे फलितमाह —
तस्मादिति ।
अतद्विषयाभासो देहादावात्मप्रतिभासः । तस्मिन्ब्रह्मणीत्यर्थः ।
अन्यस्मिन्नात्मभावनिवृत्तिरेवाऽऽगमेन क्रियते चेत्तर्हि कथमात्मा तेन गम्यत इत्युच्यते तत्राऽऽह —
अन्येति ।
यद्यागमिकवृत्तिव्याप्यत्वेनाऽऽत्मजो मेयत्वमिष्यते कथं तर्हि तस्यामेयत्ववाचो युक्तिरित्याशङ्क्याऽऽह —
स्वतश्चेति ।
वृत्तिव्याप्यत्वेन मेयत्वं स्फुरणाव्याप्यत्वेन चामेयत्वमित्युपसंहरति —
इत्युभयमिति ।
यदुक्तं ध्रुवत्वं तदुपस्कारपूर्वकमुपपादयति —
विरज इत्यादिना ।
कथं जन्मनिषेधादितरे विकारा निषिध्यन्ते तत्राऽऽह —
सर्वेषामिति ॥ २० ॥
यथोक्तं वस्तुनिदर्शनं निगमयति —
तमीदृशमिति ।
नित्यशुद्धत्वादिलक्षणमिति यावत् ।
उक्तरीत्या प्रज्ञाकरणे कानि साधनानि चेत्तानि दर्शयति —
एवमिति ।
कर्मनिषिद्धत्यागः संन्यास उपरमो नित्यनैमित्तिकत्याग इति भेदः ।
बहूनिति विशेषणवशादायातमर्थं दर्शयति —
तत्रेति ।
चिन्तनीयेषु शब्देष्विति यावत् ।
तत्र श्रुत्यन्तरं संवादयति —
ओमित्येवमिति ।
नानुध्यायादित्यत्र हेतुमाह —
वाच इति ।
तस्माद्बहूञ्छब्दान्नानुचिन्तयेदिति पूर्वेण संबन्धः । इतिशब्दः श्लोकव्याख्यानसमाप्त्यर्थः ॥ २१ ॥
काण्डिकान्तरमवतारयितुं वृत्तं कीर्तयति —
सहेतुकाविति ।
उत्तरकण्डिकातात्पर्यमाह —
एवमिति ।
विरजः पर इत्यादिनोक्तक्रमेणावस्थिते ब्रह्मणीति यावत् । तदित्युपयुक्तोक्तिः । तदर्था ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगप्रदर्शनार्थेति यावत् ।
ननु विविदिषावाक्येन ब्रह्मात्मनि सर्वस्य वेदस्य विनियोगो वक्ष्यते तथा च तस्मात्प्राक्तनवाक्यं किमर्थमित्याशङ्क्याऽऽह —
तच्चेति ।
यथाऽस्मिन्नध्याये सफलमात्मज्ञानमुक्तं तथैव तदनूद्येति योजना ।
कथं यथोक्ते ज्ञाने सर्वो वेदो विनियोक्तुं शक्यते स्वर्गकामादिवाक्यस्य स्वर्गादावेव पर्यवसानादित्याशङ्क्य संयोगपृथक्त्वन्यायमनादृत्य विशिनष्टि —
काम्यराशीति ।
उक्तस्य सफलस्याऽऽत्मज्ञानस्यानुवाद इति यावत् ।
उक्तानां भूयस्त्वे विशेषं ज्ञातुं पृच्छति —
कोऽसाविति ।
विशेषणानर्थक्यमाशङ्क्य परिहरति —
अतीतेति ।
तद्धि विरजः पर इत्यादि तेनोक्तो यो महत्त्वादिविशेषणः परमात्मा तत्र सशब्दात्प्रतीतिर्मा भूदिति कृत्वा तेन ज्योतिर्ब्राह्मणस्थं जीवं परामृश्य तमेव वैशब्देन स्मारयित्वा तस्य संन्निहितेन परेणाऽऽत्मनैक्यमेषशब्देन निर्दिशतीत्यर्थः ।
विशेषणवाक्यस्थमेषशब्दं प्रश्नपूर्वकं व्याचष्टे —
कतम इति ।
कथं जीवो विज्ञानमयः कथं वा प्राणेष्विति सप्तमी प्रयुज्यते तत्राऽऽह —
उक्तेति ।
तदनुवादस्य सशब्दार्थसन्देहापोहं फलमाह —
संशयेति ।
उक्तवाक्योल्लिङ्गनमित्युक्तं विवृणोति —
उक्तं हीति ।
योऽयं विज्ञानमयः प्राणेषु प्रागुक्तः स एष महानज आत्मेति जीवानुवादेन परमात्मभवो विहित इति वाक्यार्थमाह —
एतदिति।
परमात्मभावापादनप्रकारमनुवदति —
साक्षादिति ।
विशेषणवाक्यस्य व्याख्येयत्वप्राप्तावुक्तवाक्योल्लिङ्गनमित्यत्रोक्तं स्मारयति —
योऽयमिति ।
वाक्यान्तरमवतार्य व्याचष्टे —
य एष इति ।
कथं पुनराकाशशब्दस्य परमात्मविषयत्वमुपेत्य द्वितीयं व्याख्यानं तास्यार्थान्तरे रूढत्वादित्याशङ्क्याऽऽह —
चतुर्थ इति ।
इत्थमुक्तं ज्ञानमनूद्य तत्फलमनुवदति —
स चेत्यादिना ।
कथं पुनर्निरुपाधिकस्येश्वरस्य वशित्वं कथं च तदभावे तदात्मनो विदुषस्तदुपपद्यते तत्राऽह —
उक्तं वेति ।
विशेषणत्रयस्य हेतुहेतुमद्रूपत्वमेव विशदयति —
यस्मादित्यादिना ।
तत्र प्रसिद्धिं प्रमाणयति —
यो हीति ।
न केवलमुक्तमेव विद्याफलं किन्त्वन्यच्चास्तीत्याह —
किञ्चेति ।
एवम्भूतत्वं ज्ञातपरमात्माभिन्नत्वम् ।
परिशुद्धत्वमर्थमनुवदति —
हृदीति ।
ब्रह्मीभूतस्य विदुषः स्वातन्त्र्यादिवद्धर्माधर्मास्पर्शित्वमपि फलमित्यर्थः ।
अधिष्ठानादिकर्तृत्वाद्विदुषोऽपि लौकिकवद्धर्मादिसंबन्धित्वं स्यादिति शङ्कते —
सर्वो हीति ।
परतन्त्रत्वमुपाधिरिति परिहरति —
उच्यत इति ।
सर्वाधिपत्यराहित्यं चोपाधिरित्याह —
किञ्चेति ।
सर्वपालकत्वराहित्यं चोपाधिरित्याह —
एष इति ।
सर्वानाधारत्वं चोपाधिरित्याह —
एष इति ।
कथं विधारयितृत्वमित्याशङ्क्याऽऽह —
तदाहेऽति ।
तदेव साधयति —
परमेश्वरेणेति ।
सर्वस्य वशीत्यादिनोक्तमुपसंहरति —
एवंविदिति ।
सफलं ज्ञानमनूद्य विविदिषावाक्यमवतारयति —
किञ्ज्योतिरिति ।
एवम्फलायां सर्वस्य वशीत्यादिनोक्तफलोपेतायामिति यावत् । तादर्थ्येन परम्परया ज्ञानोत्पत्तिशेषत्वेनेत्यर्थः ।
विनियोजकं वाक्यमाकाङ्क्षापूर्वकमादाय व्याचष्टे —
तत्कथमित्यादिना ।
एवम्भूतं श्लोकोक्तविशेषणमित्यर्थः ।
ब्राह्मणशब्दस्य क्षत्रियाद्युपलक्षणत्वे हेतुमाह —
अवशिष्ठो हीति ।
संभावितं पक्षान्तरमाह —
अथवेति ।
तेन विविदिषाप्रकारं प्रश्नपूर्वकं विवृणोति —
कथमित्यादिना ।
भूतप्रपञ्चप्रस्थानमुत्थाप्य प्रत्याचष्टे —
ये पुनरित्यादिना ।
तत्र हेतुमाह —
न हीति ।
भवतूपनिषन्मात्रग्रहणमित्याशङ्क्य वेदो वाऽनूच्यते गुरूच्चारणानन्तरं पठ्यत इति व्युत्पत्तेर्वेदानुवचनशब्देन सर्ववेदग्रहे संभवति तदेकदेशत्यागो न युक्त इत्याह —
वेदेति ।
दोषसाम्यमाशङ्कते —
नन्विति ।
सिद्धान्तेऽप्युपनिषदं वर्जयित्वा वेदानुवचनशब्देन कर्मकाण्डं गृहीतमिति कृत्वा तस्य वेदैकदेशविषयत्वं स्यात्ततश्च --
“यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे” ॥
इति न्यायविरोध इत्यर्थः ।
नित्यस्वाध्यायो वेदानुवचनमिति पक्षमादाय परिहरति —
नेत्यादिना ।
वेदैकदेशपरिग्रहपरित्यागात्मकविरोधाभावं साधयति —
यदेति ।
तर्हि व्याख्यानान्तरमुपेक्षितमित्याशङ्क्य तदपि वाक्यशेषवशादपेक्षितमेवेत्याह —
यज्ञादीति।
संग्रहवाक्यं विवृणोति —
यज्ञादीनि कर्माणीति ।
तर्हि प्रथमव्याख्याने कथं वाक्यशेषोपपत्तिरित्याशङ्क्याऽऽह —
कर्म हीति ।
वेदानुवचनादीनामात्मविविदिषासाधनत्वमाक्षिपति —
कथमिति ।
उपनिषद्भिरिवाऽऽत्मा तैरपि ज्ञायतामित्याशङ्क्याऽऽह —
नैवेति।
कर्मणामप्रमाणत्वेऽपि परम्परया ज्ञानहेतुत्वाद्विविदिषाश्रुतिविरुद्धेति समाधत्ते —
नैष दोष इति।
तदेव स्फुटयति —
कर्मभिरिति।
तत्र श्रुत्यन्तरं प्रमाणयति —
तथा हीति।
ततो नित्याद्यनुष्ठानाद्विशुद्धधीरात्मानं सदा चिन्तयन्नुपनिषद्भिस्तं पश्यतीत्यर्थः । आदिशब्देन “कषायपक्तिरि” त्यादिस्मृतिसंग्रहः ।
नित्यकर्मणां संस्कारार्थत्वे प्रमाणं पृच्छति —
कथमिति।
यद्यपि श्रुतिस्मृतिभ्यां कर्मभिः संस्कृतस्योपनिषद्भिरात्मा ज्ञातुं शक्यते तथाऽपि तेषां संस्कारार्थत्वे किं प्रमाणमिति प्रश्ने श्रुतिस्मृती प्रमाणयति —
स ह वा इत्यादिना ।
किं पुनः स्मृतिशास्त्रं तदाह —
अष्टाचत्वारिंशदिति ।
अष्टावनायासादयो गुणाश्चत्वारिंशद्गर्भाधानादयः संस्कारा इति विभागाः ।
बहुवचनोपात्तं स्मृत्यन्तरमाह —
गीतासु चेति।
पदान्तरमादाय व्याचष्टे —
यज्ञेनेतीति।
तेषां संस्कारार्थत्वेऽपि कथं ज्ञानसाधनत्वमित्याशङ्क्याऽऽह —
संस्कृतस्येति।
दानेन विविदिषन्तीति पूर्वेण संबन्धः ।
कथं पुनः स्वतन्त्रं दानं विविदिषाकारणमत आह —
दानमपीति।
विविदिषाहेतुरिति शेषः । तपसेत्यत्रापि पूर्ववदन्वयः । कामानशनं रागद्वेषरहितैरिन्द्रियैर्विषयसेवनं यदृच्छालाभसन्तुष्टत्वमिति यावत् ।
यथाश्रुतार्थत्वे का हानिरित्याशङ्क्याऽऽह —
न त्विति।
भवतूपात्तानां वेदानुवचनादीनामिष्यमाणे ज्ञाने विनियोगस्तथाऽपि कथं सर्वं नित्यं कर्म तत्र विनियुक्तमित्याशङ्क्याऽऽह —
वेदानुवचनेति।
उपलक्षणफलमाह —
एवमिति।
प्रणाड्या कर्मणो मुक्तिहेतुत्वे काण्डद्वयस्यैकवाक्यत्वमपि सिध्यतीत्याह —
एवं कर्मेति।
वाक्यान्तरमवतार्य व्याकरोति —
एवमिति।
तस्यैवार्थमाह —
यथोक्तेनेति।
यज्ञाद्यनुष्ठानाद्विशुद्धिद्वारा विविदिषोत्पत्तौ गुरुपादोपसर्पणं श्रवणादि चेत्यनेन क्रमेणेत्यर्थः । यथाप्रकाशितं मोक्षप्रकरणे मन्त्रब्राह्मणाभ्यामुक्तलक्षणमित्यर्थः । योगिशब्दो जीवन्मुक्तविषयः ।
एवकारं व्याकरोति —
एवमिति।
अवधारणमाक्षिप्य समाधत्ते —
नन्वित्यादिना।
एवकारस्तर्हि त्यजतामित्याशङ्क्याऽऽह —
किन्त्विति।
आत्मवेदनेऽपि कर्मित्वं स्यादिति चेन्नेत्याह —
एवं त्विति।
कथमात्मविदोऽपि मुनित्वमसाधारणं तदाह —
एतस्मिन्निति।
इतश्चात्मविदो न कर्मित्वमित्याह —
किञ्चेति।
आत्मलोकमिच्छतां मुमुक्षूणामपि कर्मत्यागश्रवणादात्मविदां न कर्मितेति किं वक्तव्यमित्यर्थः । ताच्छील्यं वैराग्यातिशयशालित्वम् ।
अवधारणसामर्थ्यसिद्धमर्थमाह —
एतमेवेति।
पारिव्राज्ये लोकत्रयार्थिनामनधिकारे दृष्टान्तमाह —
न हीति।
लोकत्रयार्थिनश्चेत् पारिव्राज्ये नाधिक्रियन्ते कुत्र तर्हि तेषामधिकारस्तत्राऽऽह —
तस्मादिति।
स्वर्गकामस्य स्वर्गसाधने यागेऽधिकारवल्लोकत्रयार्थिनामपि तत्साधने पुत्रादावधिकार इत्यर्थः ।
पुत्रादीनां बाह्यलोकसाधनत्वे प्रमाणमाह —
पुत्रेणेति।
पुत्रादीनां लोकत्रयसाधनत्वे सिद्धे फलितमाह —
अत इति।
अतत्साधनत्वं लोकत्रयं प्रत्यनुपायत्वम् ।
अवधारणार्थमुपसंहरति —
तस्मादिति।
लोकत्रयार्थिनां पारिव्राज्येऽनधिकारादिति यावत् ।
आत्मलोकस्य स्वरूपत्वेन सदाऽऽप्तत्वात्कथं तत्रेच्छेत्याशङ्क्याऽऽह —
आत्मेति।
तस्याऽऽत्मत्वेन नित्यप्राप्तत्वेऽप्यविद्यया व्यवहितत्वात्प्रेप्या संभवतीति भावः ।
भवत्वात्मलोकप्रेप्सा तथाऽपि किं तत्प्राप्तिसाधनं तदाह —
तस्मादिति।
अविद्यावशात्तदीप्सासंभवादित्यर्थः । तदिच्छाया दौर्लभ्यं द्योतयितुं चेच्छब्दः । मुख्यत्वं श्रुत्यक्षरप्रतिपन्नत्वम् ।
प्रनाडिकासाधनेभ्यो वेदानुवचनादिभ्यो विशेषमाह —
अन्तरङ्गमिति।
पारिव्राज्यमेवात्मलोकस्यान्तरङ्गसाधनमिति दृष्टान्तमाह —
यथेति।
तथा पारिव्राज्यमेवात्मलोकस्य साधनमिति शेषः ।
पारिव्राज्यमेवेति नियमे हेतुमाह —
पुत्रादीति।
तस्यान्यत्र विनियुक्तत्वादिति शेषः ।
यद्यपि केवलं पुत्रादिकं नाऽऽत्मलोकप्रापकं तथाऽपि पारिव्राज्यसमुच्चितं तथा स्यादित्याशङ्क्याऽऽह —
असंभवेनेति।
न हि परिव्राजकस्य पुत्रादि तद्वतो वा पारिव्राज्यं संभवति । उक्तं च समुच्चयं निराकुर्वद्भिः सपरिकरस्य ज्ञानस्य कर्मादिना विरुद्धत्वं तेन कुतः समुच्चितं पुत्राद्यात्मलोकप्रापकमित्यर्थः ।
साधनान्तरासंभवे फलितमुपसंहरति —
तस्मादात्मानमिति।
प्रव्रजन्तीति वर्तमानापदेशान्नात्र विधिरस्तीत्याशङ्क्याग्निहोत्रं जुहोतीतिवद्विधिमाश्रित्याऽऽह —
यथा चेति।
पारिव्राज्यविधिमुक्त्वा तदपेक्षितमर्थवादमाकाङ्क्षापूर्वकमुत्थापयति —
कुतः पुनरिति।
उत्थापितस्यार्थवादस्य तात्पर्यमाह —
तत्रेति।
आत्मलोकार्थिनां पारिव्राज्यनियमः सप्तम्यर्थः ।
अर्थवास्थान्यक्षराणि व्याचष्टे —
तदेतदिति।
क्रियापदेन स्मेति संबध्यते ।
निपातद्वयस्यार्थमाह —
किलेति।
प्रजां न कामयन्त इत्युत्तरत्र संबन्धः ।
प्रजामात्रे श्रुते कथं कर्मादि गृह्यते तत्राऽऽह —
प्रजेति।
आकाङ्क्षापूर्वकमन्वयमन्वाचष्टे —
प्रजां किमिति।
अकामयमानत्वस्य पर्यवसानं दर्शयति —
पुत्रादीति।
पूर्वे विद्वांसः साधनत्रयं नानुतिष्ठन्तीत्युक्तमाक्षिपति —
नन्विति।
एषणाभ्यो व्युत्तिष्ठतां किं तदनुष्ठानेनेत्याशङ्क्याऽऽह —
तद्बलाद्धीति।
आत्मविदामपरविद्यानुष्ठानं दूषयति —
नापवादादिति।
अथात्र सर्वस्याऽऽनात्मनो दर्शनमेवापोद्यते न त्वपरस्य ब्रह्मणो दर्शनमत आह —
अपरब्रह्मणोऽपीति।
तदपवादे श्रुत्यन्तरमाह —
यत्रेति।
यस्मिन्भूम्नि स्थितश्चक्षुरादिभिरन्यत्र पश्यति न शृणोतीत्यादिना च दर्शनादिव्यवहारस्य वारितत्वादात्मविदो न युक्तमपरब्रह्मदर्शनमित्यर्थः ।
तत्रैव हेत्वन्तरमाह —
पूर्वेति।
प्रतिषेधप्रकारमभिनयति —
अपूर्वमिति।
इतश्चात्मविदां नापरब्रह्मदर्शनमित्याह —
तत्केनेति।
अपरब्रह्मदर्शनासंभवे किं तेषामेषणाभ्यो व्युत्थाने कारणमित्याशङ्क्याऽऽह —
तस्मादिति।
साधनत्रयमननुतिष्ठतामभिप्रायं प्रश्नपूर्वकमाह —
कः पुनरित्यादिना।
कैवल्यमेव तत्साध्यं फलमित्याशङ्क्याऽऽह —
प्रजा हीति।
निर्ज्ञाता सोऽयमित्यादिश्रुताविति शेषः ।
स एव तर्हि प्रजया साध्यतामिति चेन्नेत्याह —
स चेति।
आत्मव्यतिरिक्तो नास्तीत्युक्तमुपपादयति —
सर्वं हीति ।
आत्मव्यतिरिक्तस्यैव लोकस्य प्रजादिसाध्यत्वमिष्यतामिति चेन्नेत्याह —
आत्मा चेति ।
आत्मयाजिनः संस्कारार्थं कर्मेत्यङ्गीकारादात्मनोऽस्ति संस्कार्यत्वमित्याशङ्क्याऽऽह —
यदपीति ।
अथाङ्गाङ्गित्वं च संस्कार्यत्वं च मुख्यात्मदर्शनविषयमेव किं नेष्यते तत्राऽऽह —
न हीति ।
आत्मविदां प्रजादिसाध्याभावमुपसंहरति —
तस्मान्नेति।
केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति ।
केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —
न हीति।
आत्मविदां प्रजादिसाध्याभावमुपसंहरति —
तस्मान्नेति।
केषां तर्हि प्रजादिभिः साध्यं फलं तदाह —
अविदुषां हीति।
केषाञ्चित्पुत्रादिषु प्रवृत्तिश्चेत्तेनैव न्यायेन विदुषामपि तेषु प्रवृत्तिः स्यादित्याशङ्क्याऽऽह —
न हीति।
तत्र प्रवृत्तिरिति संबन्धः । अविद्वद्दर्शनविषय इति च्छेदः ।
उक्तेऽर्थे वाक्यमवतार्य व्याचष्टे —
तदेतदिति।
आत्मा चेत्तदभिप्रेतं फलं तर्हि तत्र साधनेन भवितव्यमित्याशङ्क्याऽऽह —
न चेति।
क्व तर्हि साधनमेष्टव्यमित्याशङ्क्याऽऽह —
साध्यस्येति।
विपक्षे दोषमाह —
असाध्यस्येति।
येषामित्यादिवाक्यार्थमुपसंहरति —
तस्मादिति ।
ब्राह्मणानां ब्रह्मविदां प्रजादिभिः साध्याभावादिति यावत् ।
वाक्यान्तरं प्रश्नद्वारेणावतार्य पाञ्चमिकं व्याख्यानं तस्य स्मारयति —
त एवमित्यादिना ।
यदर्थोऽयमर्थवादस्तं विधिं निगमयति —
तस्मादिति ।
महानुभावोऽयमात्मलोको यत्तदर्थिनो दुष्करमपि पारिव्राज्यं कुर्वन्तीति स्तुतिरत्र विवक्षिता न विधिरित्याशङ्क्याऽऽह —
न हीति ।
तदेव प्रपञ्चयति —
प्रव्रजन्तीत्यस्येति ।
तथाऽपि प्रव्रजन्तीतिवाक्यस्यार्थवादत्वं किं न स्यादित्याशङ्क्याऽऽह —
अर्थवादश्चेदिति ।
अपेक्षाप्रकारमेव प्रकटयन्नस्य स्तुत्यभिमुखत्वाभावाद्विधित्वमेवेत्याह —
यस्मादिति ।
किञ्च विदित्वा व्युत्थाय भिक्षाचर्य चरन्तीत्यत्र विज्ञानेन समानकर्तृकत्वं व्युत्थानादेरुपदिश्यते विज्ञानं च सर्वासूपनिषत्सु विधीयतेऽतो व्युत्थानमपि विधिमर्हतीत्युक्तं तथा चात्रापि व्युत्थानापरपर्यायं परिव्राज्यं विधेयमित्याह —
विज्ञानेति ।
इतश्च पारिव्राज्यवाक्यमर्थवादो न भवतीत्याह —
वेदेति ।
तदेव साधयति —
यथेत्यादिना ।
पारिव्राज्यस्य विधेयत्वे हेत्वन्तरमाह —
फलेति ।
पुत्रादिफलापेक्षया पारिव्राज्यफलं विभागेनोपदिश्यते । तथा च फलवत्त्वात्पुत्रादिवत्पारिव्राज्यस्य विधेयत्वसिद्धिरित्यर्थः ।
तदेव विवृणोति —
एतमेवेति।
प्रकृतमात्मानं स्वं लोकमापाततो विदित्वा तमेव साक्षात्कर्तुमिच्छन्तः प्रव्रजन्तीति वचनात्पुत्रादिसाध्यान्मनुष्यादिलोकादात्माख्यं लोकं पारिव्राज्यस्य फलान्तरत्वेन यतः श्रुतिर्विभज्याभिदधाति । अतस्तस्य विधेयत्वमप्रत्यूहमित्यर्थः ।
फलविभागोपदेशे दृष्टान्तमाह —
यथेति ।
तथा पारिव्राज्येऽपि फलविभागोक्तेर्विधेयतेति दार्ष्टान्तिकमितिशब्दार्थः ।
पारिव्राज्यस्य स्तुतिपरत्वाभावे हेत्वन्तरमाह —
न चेति ।
यथा वायुर्वै क्षेपिष्ठेत्यादिरर्थवादः प्राप्तार्थो देवतादिस्तुत्यर्थः स्थितो न तथेदं स्तुतिपरं तदवद्योतिशब्दाभावादित्यर्थः ।
किञ्च प्रधानस्य दर्शपूर्णमासादेरर्थवादापेक्षावत्पारिव्राज्यमपि तदपेक्षमुपलभ्यते तेन तस्य दर्शादिवद्विधेयत्वं दुर्वारमित्याह —
प्रधानवच्चेति ।
किञ्च पारिव्राज्यं सकृदेव श्रुतं चेदविवक्षितमन्यस्तुतिपरं स्यान्न चेदं सकृदेव श्रूयते “परिव्रजन्ती”त्युपक्रम्य “प्रजां न कामयन्ते” “व्युत्थायाथ भिक्षाचर्यं चरन्ती”(बृ. उ. ४ । ४। २२)त्यभ्यासादतोऽपि न स्तुतिमात्रमेतदित्याह —
सकृदिति ।
न चेत्तर्रापि संबध्यते कथं तर्हि पारिव्राज्यस्य स्तुतिपरत्वप्रतीतिस्तत्राऽऽह —
तस्मादिति ।
अस्तु तर्हि विधेयमपि पारिव्राज्यं स्तावकमपीति चेन्नेत्याह —
न चेति ।
विपक्षे दोषमाह —
यदीति ।
अथ पारिव्राज्यं यज्ञादिवदन्यत्र विधीयतामिह तु स्तुतिरेवेत्याशङ्क्याऽऽह —
न चान्यत्रेति ।
आत्मज्ञानाधिकारादन्यत्र पारिव्राज्यविध्यनुपलम्भादित्यर्थः ।
अन्यत्र विध्यनुपलम्भं समर्थयते —
यदीत्यादिना ।
अन्यत्र प्रक्रियायामिति यावत् । कर्माधिकारे तत्त्यागविधेर्विरुद्धत्वादिति भावः ।
भवत्विह पारिव्राज्ये विधिस्तथाऽपि सर्वकर्मानधिकृतविषयः स्यादित्याशङ्क्याऽऽह —
यदपीति ।
तत्र कर्मानधिकृते पुंसीत्येतत् ।
तत्र हेतुमाह —
कर्तव्यत्वेनेति ।
कर्मानधिकृतेन कर्तव्यतया ज्ञातत्वं वृक्षारोहणादाविव पारिव्राज्येऽपि नास्ति तथा चानधिकृतविषये पारिव्राज्यं कल्प्यते चेत्तस्मिन्विषये वृक्षारोहणाद्यपि कल्प्येताविशेषादित्यर्थः ।
पारिव्राज्यस्याधिकृतविषयत्वे विधेयत्वे च सिद्धे फलतीत्याह —
तस्मादिति ।
सार्थवादं पारिव्राज्यं व्याख्याय स एष इत्यादि व्याकर्तुं शङ्कयति —
यदीति ।
परिहरति —
अत्रेति ।
तदर्थिनो नाऽऽरभन्ते कर्माणीति शेषः ।
कर्मभिरसंबन्धमात्मलोकस्य साधयति —
यमात्मानमिति ।
तस्य कर्मासंबन्धे निष्प्रपञ्चत्वं फलितमाह —
तस्मादिति ।
आत्मनो निष्प्रपञ्चत्वेऽपि कथं तदर्थिनां पारिव्राज्यसिद्धिरित्याशङ्क्याऽऽह —
यस्मादिति ।
निर्विशेषस्तत्र तत्र वाक्ये दर्शितस्वरूपोऽयमात्मेत्येतदागमोपपत्तिभ्यां यथा पूर्वत्र स्थापितं तथैवात्रापि ब्राह्मणद्वये विशेषतो यस्मान्निर्धारितं तस्मादस्मिन्नात्मन्यापाततो ज्ञाते कर्मानुष्ठानप्रयत्नासिद्धिरिति योजना ।
उक्तात्मविषयविवेकविज्ञानवतो न कर्मानुष्ठानमित्यत्र दृष्टान्तमाह —
न हीति ।
ब्रह्मज्ञानफले सर्वकर्मफलान्तर्भावाच्च तदर्थिनो मुमुक्षोर्न कर्तव्यं कर्मेत्याह —
कृत्स्नस्येति ।
तथाऽपि विचित्रफलानि कर्माणीति विवेकी कुतूहलवशादनुष्ठास्यतीत्याशङ्क्याऽऽह —
न चेति ।
तत्र लौकिकं न्यायं दर्शयति —
अङ्के चेदिति ।
पुरोदेशे मधु लभेत चेदिति यावत् ।
ज्ञानफले कर्मफलान्तर्भावे मानमाह —
सर्वमिति ।
अखिलं समग्राङ्गोपेतमित्यर्थः ।
तत्रैव श्रुतिं संवादयति —
इहापीति ।
निषेधवाक्यतात्पर्यमुपसंहरति —
अत इति ।
एतमित्यादि वाक्यं योजयति —
यस्मादिति ।
उ हेति निपाताभ्यां सूचितोऽर्थो यस्मादित्यनुभाषितः ।
इतिशब्दस्यापेक्षितं पूरयति —
युक्तमिति ।
आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —
के ते इत्यादिना ।
यथोक्तात्मविदस्तापहर्षासंस्पर्शे हेतुमाह —
उभे हीति ।
पुण्यपापे तरतीत्युक्ते पृथगवस्थानं तयोः शङ्क्येत तन्निरस्यति —
एवमिति ।
निषेधवाक्योक्तक्रमेणेति यावत् ।
इतश्चाऽऽत्मविदो धर्मादिसंबन्धो नास्तीत्याह —
किञ्चेति ।
तदेवानन्तरवाक्यव्याख्यानेन स्फोरयति —
नैनमिति ।
तयोस्तर्हि कुत्र तापकत्वं तदाह —
अनात्मज्ञं हीति ।
पुरुषत्वाद्ब्रह्मविदुष्यपि कृताकृतयोस्तापकत्वं स्यादित्याशङ्क्याऽऽह —
अयं त्विति ।
अत्र भगवद्वाक्यं प्रमाणयति —
यथेति ।
यद्यपि पूर्वोत्तायोर्धर्माधर्मयोरनारब्धयोरात्मविद्यावशाद्विनाशाश्लेषौ तथाऽपि प्रारब्धयोरस्ति तयोस्तापकत्वमित्याशङ्क्याऽऽह —
शरीरेति ।
प्रकृतं विद्याफलमुपसंहरति —
अत इति ।
कर्मकार्यासंबन्धादिति यावत् ॥ २२ ॥
उक्ते विद्याफले मन्त्रं संवादयति —
तदेतदिति ।
एष नित्यो महिमेत्यत्र नित्यत्वमुपपादयति —
अन्ये त्विति ।
तद्विलक्षणत्वमकर्मकृतत्वम् ।
अकर्मकृतो महिमास्वाभाविकत्वान्नित्य इत्यत्राकर्मकर्तृत्वेन स्वाभाविकत्वमसिद्धमित्याशङ्क्याऽऽह —
कुतोऽस्येति ।
वृद्धिरपक्षयश्चेति विक्रियाद्वयाभावेऽपि विक्रियान्तराणि भविष्यन्तीत्याशङ्क्याऽऽह —
उपचयेति ।
एताभ्यां निषेधाभ्यामिति यावत् ।
आत्मनः सर्वविक्रियाराहित्ये फलितमाह —
अत इति ।
तस्य नित्यत्वेऽपि किं तदाह —
तस्मादिति ।
अधर्मलक्षणेनेति वक्तव्ये किमिदं धर्माधर्मलक्षणेनेत्युक्तमत आह —
उभयमपीति ।
संसारहेतुत्वाविशेषादित्यर्थः ।
तस्मादित्यादिवाक्यं व्याचष्टे —
यस्मादिति ।
एवंविदात्मा कर्मतत्फलसंबन्धशून्य इत्यापाततो जानन्नित्यर्थः । विशेषणाभ्यामुत्सर्गतो विहितस्योभयविधकरणव्यापारोपरमस्य यावज्जीवादिश्रुतिविहितं कर्मापवादस्तस्माद्विरक्तस्यापि न नित्यादित्यागः ।
उत्सर्गस्यापवादेन बाधः कस्य न संमत इत्यादिन्यायादित्याशङ्क्याऽऽह —
उपरत इति ।
जीवनविच्छेदव्यतिरिक्तशीतादिसहिष्णुत्वं तितिक्षुत्वम् । यत्र कर्तुः स्वातन्त्र्यं तेषां कर्मणां निवृत्तिः शमादिपदैरुक्ता । यत्र तु सम्यग्धीविरोधिनी निद्रालस्यादौ पुंसो न स्वातन्त्र्यं तन्निवृत्तिः समाधानम् । समाहितो भूत्वा पश्यतीति संबन्धः ।
पश्यतीति वर्तमानापदेशात्कथं विशेषणेषु संक्रामितो विधिरित्याशङ्क्याऽऽह —
तदेतदिति ।
यथोक्तैः साधनैरुदितायां विद्यायां किं स्यादित्याशङ्क्याऽऽह —
एवमिति ।
तस्य पुण्यपापासंस्पर्शे हेतुमाह —
अयं त्विति ।
इतश्च विदुषो न कर्मसंबन्धोऽस्तीत्याह —
नैनमिति ।
किमिति पाप्मा ब्रह्मविदं न तपतीत्याशङ्क्याऽऽह —
सर्वमिति ।
कथं ब्राह्मणो भवतीत्यपूर्ववदुच्यते प्रागपि ब्राह्मण्यस्य सत्त्वादित्याशङ्क्याऽऽह —
अयं त्विति ।
मुख्यत्वमबाधितत्वं सफलां विद्यां मन्त्रब्राह्मणाभ्यामुपदिश्योपसंहरति —
एष इति ।
तत्र कर्मधारयसमासं सूचयति —
ब्रह्मैवेति ।
तथाविधसमासपरिग्रहे प्रकरणमनुग्राहकमभिप्रेत्याऽऽह —
मुख्य इति ।
तथाऽपि किं मम सिद्धमिति तदाह —
एनमिति ।
आत्मीयं विद्यालाभं द्योतयितुं राज्ञो वचनमित्याह —
एवमिति ।
सति वक्तव्यशेषे कथमित्थं राज्ञो वचनमित्याशङ्क्याऽऽह —
परिसमापितेति ।
तथाऽपि परमपुरुषार्थस्य वक्तव्यत्वमित्याशङ्क्याऽऽह —
परिसमाप्त इति।
कर्तव्यान्तरं वक्तव्यमस्तीत्याशङ्क्याऽऽह —
एतावदिति ।
तथाऽपि यत्र निष्ठा कर्तव्या तद्वाच्यमित्याशङ्क्याऽऽह —
एषेति ।
तथाऽपि परमा निष्ठाऽन्याऽस्तीति चेन्नेत्याह —
एषेति ।
निश्चितं श्रेयोऽन्यदस्तीत्याशङ्क्याऽऽह —
एतदिति ।
तथाऽपि कृतकृत्यतया मुख्यब्राह्मण्यसिद्ध्यर्थं वक्तव्यान्तरमस्तीत्याशङ्क्याऽऽह —
एतत्प्राप्येति ।
किमस्यां प्रतिज्ञापरम्परायां नियामकमित्याशङ्क्याऽऽह —
एतदिति ।
निरुपाधिकब्रह्मज्ञानात्कैवल्यमिति गमयितुमितिशब्दः ॥ २३ ॥
संप्रति सोपाधिकब्रह्मध्यानादभ्युदयं दर्शयति —
योऽयमित्यादिना ।
ईश्वरश्चेत्प्राणिभ्यः कर्मफलं ददाति तर्हि तस्य वैषम्यनैर्घृण्ये स्यातामित्याशङ्क्याऽऽह —
प्राणिनामिति ।
उपास्यस्वरूपं दर्शयित्वा तदुपासनं सफलं दर्शयति —
तमेतमिति ।
सर्वात्मत्वफलमुपासनमुक्त्वा पक्षान्तरमाह —
अथवेति ।
दृष्टं फलमन्नात्तृत्वं धनलाभश्च ।
उक्तगुणकमीश्वरं ध्यायतः फलमाह —
तेनेति ।
तदेव फलं स्पष्टयति —
दृष्टेनेति ।
अन्नात्तृत्वं दीप्ताग्नित्वम् ॥ २४ ॥
निरुपाधिकब्रह्मज्ञानान्मुक्तिरुक्ता सोपाधिकब्रह्मध्यानाच्चाभ्युदय उक्तस्तथा च किमुत्तरकण्डिकयेत्याशङ्क्याऽऽह —
इदानीमिति ।
अजत्वाच्चाविनाशीति वक्तुं चशब्दः ।
कथं जन्मजराभावयोरमरत्वाविनाशित्वसाधकत्वं तदाह —
यो हीति ।
अयं त्वजत्वादविनाश्यजरत्वाच्चामरोऽमरत्वाच्चाविनाशीति योजना ।
मरणायोग्यत्वमुपजीव्य मरणकार्याभावं दर्शयति —
अत एवेति ।
जन्मापक्षयविनाशानामेव भावविकाराणामिह मुखतो निषेधाद्विवृद्ध्यादीनि विकारान्तराण्यात्मनि भविष्यन्निति विशेषनिषेधस्य शेषाभ्यनुज्ञापरत्वादित्याशङ्क्याऽऽह —
यस्मादिति ।
इतरे सत्त्वविवृद्धिविपरिणामाः ।
अत एवाभय इत्युक्तं विवृणोति —
यस्माच्चेति ।
किं तद्भयं तदाह —
भयं चेति ।
अविद्यानिषेधिविषेशणाभावादात्मानं सा सदा स्पृशतीत्याशङ्क्याऽऽह —
तत्कार्येति ।
विशेषणान्तरं प्रश्नपूर्वकमुत्थाप्य व्याकरोति —
अभय इति ।
कथं पुनरभयगुणविशिष्टस्याऽत्मनो ब्रह्मत्वं तदाह —
अभयमिति ।
वैशब्दार्थमाह —
प्रसिद्धमिति ।
लोकशब्दः शास्त्रस्याप्युपलक्षणम् ।
वेद्यस्वरूपमुक्त्वा विद्याफलं कथयति —
य एवमिति ।
कण्डिकार्थमुपसंहरति —
एष इति ।
सृष्ट्यादेरपि तदर्थत्वात्किमित्यसाविह नोपसंह्रियते —
एतस्येति ।
सृष्ट्यादेरारोपितत्वे गमकमाह —
तदपोहेनेति ।
तच्छब्दः सृष्ट्यादिप्रपञ्चविषयः ।
तदपोहेनेति यदुक्तं तदेव स्फुटयति —
नेतीति ।
अध्यारोपापवादन्यायेन तत्त्वस्याऽऽवेदितत्त्वादारोपितं भवत्येव सृष्ट्यादिद्वैतमित्यर्थः ।
अध्यारोपापवादन्यायस्य पङ्कप्रक्षालनन्यायविरुद्धत्वात्तत्त्वं विवक्षितं चेत्तदेवोच्यतां कृतं सृष्ट्यादिद्वैतारोपेणेत्याशङ्क्याऽऽह —
यथेति ।
उदाहरणान्तरमाह —
यथा चेति ।
दृष्टान्तद्वयमनूद्य दार्ष्टान्तिकमाचष्टे —
तथा चेति ।
इहेति मोक्षशास्त्रोक्तिः । तथाऽपि कल्पितप्रपञ्चसंबन्धप्रयुक्तं सविशेषत्वं ब्रह्मणः स्यादित्याशङ्क्याऽऽह —
पुनरिति ।
तस्मिन्नात्मनि कल्पितः सृष्ट्यादिरुपायस्तेन जनितो विशेषस्तस्मिन्कारणत्वादिस्तस्य निरासार्थमिति यावत् ।
तर्हि द्वैताभावविशिष्टं तत्त्वमिति चेन्नेत्याह —
तदुपसंहृतमिति ।
परिशुद्धं भाववदभावेनापि न संस्पृष्टमित्यर्थः । केवलमित्यद्वितीयोक्तिः ।
सृष्ट्यादिवचनस्य गतिमुक्त्वा प्रकृतमुपसंहरति —
सफलमिति ।
इतिशब्दः संग्रहसमाप्त्यर्थो ब्राह्मणसमाप्त्यर्थो वा ॥ २५ ॥