अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

षष्ठोऽध्यायः: द्वितीयं ब्राह्मणम्

ब्राह्म­णा­न्त­र­मा­दाय तस्य पूर्वेण संबन्धं प्रतिजानीते —
श्वेतकेतुरिति ।

कोऽसौ संबन्धस्तमाह —
खिलेति ।
तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिला­धि­का­र­त्वा­त्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्म­ण­मि­त्यर्थः ।

वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —
सप्तमेति ।

समुच्चयकारिणो मुमू­र्षो­र­ग्नि­प्रा­र्थ­नेऽपि किं स्यादि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
अध्यायावसानं सप्तम्यर्थः ।

सामर्थ्यमेव दर्शयति —
सुपथेतीति ।

विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —
पन्थानश्चेति ।

तत्र वाक्य­शे­ष­म­नु­कू­ल­यति —
वक्ष्यति चेति ।

संप्र­त्या­का­ङ्क्षा­द्वारा सम­न­न्त­र­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
तत्रेति ।

उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —
एतावती हीति ।
दक्षि­णो­द­ग­धो­ग­त्या­त्मि­केति यावत् ।

कर्म­वि­पा­क­स्तर्हि कुत्रो­प­सं­ह्रि­यते तत्राऽऽह —
एतावानिति ।
इतिशब्दो यथो­क्त­सं­सा­र­ग­त्य­ति­रि­क्त­क­र्म­वि­पा­का­भा­वा­त्त­दु­प­सं­हा­रार्थ एवायमारम्भ इत्यु­प­सं­हा­रार्थः ।

अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवे­त्यु­क्त­त्वा­त्प­रि­शि­ष्ट­सं­सा­र­ग­त्य­भा­वा­त्कथं खिलकाण्डे तन्नि­र्दे­श­सि­द्धि­रत आह —
यद्यपीति ।

कस्तर्हि विपा­क­स्त­त्रो­क्त­स्त­त्राऽऽह —
शास्त्रीयस्येति ।

तत्र सुकृ­त­वि­पा­क­स्यै­वो­प­न्यासे हेतुमाह —
ब्रह्मविद्येति ।
अनि­ष्ट­वि­पा­कात्तु वैराग्यं सुकृ­ता­भि­मु­ख्या­देव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्वि­पा­कोऽ­प्यु­प­सं­ह्रि­यत इति भावः ।

प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —
तत्रापीति ।
शास्त्री­य­वि­पा­क­वि­ष­येऽ­पी­त्यर्थः ।

उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —
तत्रेति ।
लोकद्वयं सप्तम्यर्थः ।

प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो निय­म­सि­द्धि­स्त­त्राऽऽह —
तच्चेति ।

वक्तव्यशेषस्य सत्त्वे फलितमाह —
इत्यत इति ।

यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —
अन्ते चेति ।
शास्त्रस्यान्ते चेति संबन्धः ।

इतश्चेदं ब्राह्म­ण­म­ग­ता­र्थ­त्वा­दा­र­भ्य­मि­त्याह —
अपि चेति ।
एता­व­दि­त्या­त्म­ज्ञा­नोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चका­रा­दु­क्त­मि­त्य­नु­षङ्गः । ज्ञान­मे­वा­मृ­तत्वे हेतु­रि­त्यु­क्तोऽ­र्थ­स्त­त्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।

कथं पुनर्वक्ष्यमाणा कर्म­ग­ति­र्ज्ञा­न­मे­वा­मृ­त­त्व­सा­ध­न­मि­त्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —
यस्मादिति ।
व्यापारोऽस्ति कर्मण इति शेषः । साम­र्थ्या­ज्ज्ञा­ना­ति­रि­क्त­स्यो­पा­यस्य संसा­र­हे­तु­त्व­नि­य­मा­दि­त्यर्थः ।

प्रकारान्तरेण ब्राह्म­ण­ता­त्पर्यं वक्तु­म­ग्नि­हो­त्र­वि­षये जन­क­या­ज्ञ­व­ल्क्य­सं­वा­द­सि­द्ध­म­र्थ­म­नु­व­दति —
अपि चेत्यादिना ।
एत­यो­र­ग्नि­हो­त्रा­हुत्योः सायं प्रात­श्चा­नु­ष्ठि­त­यो­रिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्या­वृ­त्त­यो­स्त­यो­र­नु­ष्ठा­नो­प­चि­तयोः परलोकं प्रति स्वाश्र­यो­त्था­न­हेतुं परि­णा­म­मि­त्ये­त­दिति प्रश्न­ष­ट्क­म­ग्नि­हो­त्र­वि­षये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रे­त्या­क्षे­प­ग­त­प्र­श्न­ष­ट्कोक्तिः ।

ननु फल­व­तोऽ­श्र­व­णा­त्क­स्ये­द­मा­हु­ति­फलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —
तच्चेति ।

कर्तृ­वा­चि­प­दा­भा­वा­दा­हु­त्य­पू­र्व­स्यै­वो­त्क्रा­न्त्या­दि­क­र्या­र­म्भ­क­त्वान्न तत्र कर्तृ­गा­मि­क­फ­ल­मु­क्त­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।

किञ्च कार­का­श्र­य­व­त्त्वा­त्क­र्मणो युक्तं तत्फलस्य कर्तृ­गा­मि­त्व­मि­त्याह —
साधनेति ।

स्वात­न्त्र्या­सं­भ­वा­दा­हुत्योः स्वक­र्तृ­क­यो­रे­व­मि­त्यादि विवक्षितं चेत्तर्हि कथं तत्र केव­ला­हु­त्यो­र्ग­त्यादि गम्यते तत्राऽऽह —
तत्रेति ।
अग्नि­हो­त्र­प्र­क­रणं सप्तम्यर्थः । अग्नि­हो­त्र­स्तु­त्य­र्थ­त्वा­त्प्र­श्न­प्र­ति­व­च­न­रू­पस्य सन्दर्भस्येति शेषः ।

भव­त्वे­व­म­ग्नि­हो­त्र­प्र­क­र­ण­स्थितिः प्रकृते तु किमायातं तत्राऽऽह —
इह त्विति ।

किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —
तद्द्वारेणेति ।

ब्राह्म­णा­र­म्भ­मु­प­पा­दि­त­मु­प­सं­ह­रति —
एवमिति ।

संसा­र­ग­त्यु­प­सं­हा­रेण कर्मविपाकस्य सर्व­स्यै­वो­प­सं­हारः सिद्धो भवति तद­ति­रि­क्त­त­द्वि­पा­का­भा­वा­दि­त्याह —
कर्मकाण्डस्येति ।

यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमि­त्या­ख्या­यिका प्रणीयते तत्राऽऽह —
इत्ये­त­द्द्व­य­मिति ।
सर्वमेव पूर्वोक्तं वस्तु दर्श­यि­तु­मि­च्छ­न्वेदः सुखा­व­बो­धा­र्थ­मा­ख्या­यिकां करोतीत्यर्थः ।

यदा कदा­चि­द­ति­क्रान्ते काले वृत्ता­र्थ­द्यो­तित्वं निपातस्य दर्शयति —
हशब्द इति ।
यशःप्रथनं विद्वत्सु स्वकी­य­वि­द्या­सा­म­र्थ्य­ख्या­पनं प्रसि­द्ध­वि­द्व­ज्ज­न­वि­शि­ष्ट­त्वे­नेति शेषः । क्वचिज्जयस्य प्राप्तत्वं गर्वे हेतुः ।

किमिति राजा श्वेत­के­तु­मा­ग­त­मात्रं तदी­या­भि­प्रा­य­म­प्र­ति­पद्य तिरस्कुर्वन्निव संबो­धि­त­वा­नि­त्या­श­ङ्क्याऽऽह —
स राजेति ।
संबोध्य भर्त्सनं कृतवानिति शेषः ।

तदवद्योति पदमिह नास्ती­त्या­श­ङ्क्याऽऽह —
भर्त्सनार्थेति ।

भो ३ इति प्रति­व­च­न­मा­चार्यं प्रत्युचितं न क्षत्त्रियं प्रति तस्य हीनत्वादित्याह —
भो ३ इतीति ।

अप्रतिरूपवचने क्रोधं हेतूकरोति —
क्रुद्धः सन्निति ।

पितुः सकाशात्तव लब्धानुशासनत्वे लिङ्गं नास्ती­त्या­श­ङ्क्याऽऽह —
पृच्छेति ॥१॥

पदार्थमुक्त्वा वाक्यार्थमाह —
समानेनेति ।
नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्ग­वि­प्र­ति­प­त्ति­स्तत्किं जानासीति प्रश्नार्थः ।

विप्रतिपत्तिमेव विशदयति —
तत्रेति ।
अधि­कृ­त­प्र­जा­नि­र्धा­र­णार्था सप्तमी ।

प्रथमप्रश्नं निगमयति —
यथेति ।

प्रश्ना­न्त­र­मा­दत्ते —
तर्हीति ।

तदेव स्पष्टयति —
यथेति ।
परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना ।

प्रश्ना­न्त­र­प्र­ती­क­मु­पा­दत्ते —
वेत्थेति ।

तद्व्याकरोति —
एवमिति ।

प्रसिद्धो न्यायो जरा­ज्व­रा­दि­म­र­ण­हेतुः प्रश्ना­न्त­र­मु­त्थाप्य व्याचष्टे —
वेत्थेत्यादिना ।
पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः ।

कथमपां पुरु­ष­श­ब्द­वा­च्यत्वं तदाह —
यदेति ।

प्रश्ना­न्त­र­म­व­ता­र­यति —
यद्येवं वेत्थेति ।
पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना ।

वाक्यार्थमाह —
देवयानमिति ।

उक्तमर्थं संक्षिप्याऽऽह —
देवलोकेति ।

मार्गद्वयेन नास्ति त्वया तूत्प्रे­क्षा­मा­त्रेण पृच्छ्यते तत्राऽऽह —
अपीति ।
अत्रेति कर्म­वि­पा­क­प्र­क्रि­योक्तिः । अस्यार्थस्य मार्ग­द्व­य­स्ये­त्ये­तत् ।

तेषामेव मार्ग­द्व­येऽ­धि­कृ­त­त्व­मिति वक्तुं हीत्युक्तं तदेव स्फुटयति —
ताभ्यामिति ।
विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृ­त­म­न्त्र­व्या­ख्या­न­ग्रन्थो ब्राह्म­ण­श­ब्दार्थः ।

यदन्तरेत्यादौ विवक्षितमर्थमाह —
अण्डकपालयोरिति ॥२॥
श्वेत­के­तो­र­भि­मा­न­नि­वृ­त्ति­द्यो­त­नार्थं बहुवचनम् ।

राज­न्य­द­त्त­व­स­त्य­ना­दरे हेतुमाह —
कुमार इति ।
एवं किलेति राजपराभवलिङ्गकं पितृवचसो मृषात्वं द्योत्यते ।

अज्ञानाधीनं दुःखं तवासंभावितमिति सूचयति —
सुमेध इति ॥३॥

सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षि­त­मि­त्या­श­ङ्क्याऽऽह —
कोऽन्य इति ।

राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चि­तोऽ­स्मी­त्या­श­ङ्क्याऽऽह —
अहमपीति ।

तर्हि तज्ज्ञानं कथं साध्य­ता­मि­त्या­श­ङ्क्याऽऽह —
तस्मादिति ॥४॥

विव­क्षि­त­वि­द्या­गौ­रवं विवक्षित्वाऽऽह —
अस्यामिति ।
तदिति सामान्योक्त्या वरो निर्दिश्यते ॥५–६॥

ममास्ति स इति यदुक्तं तदुपपादयति —
यस्मादित्यादिना ।
न च यन्ममेत्यत्र तस्मादिति पठितव्यम् ।

किं तर्हि मया कर्त­व्य­मि­त्या­श­ङ्क्याऽऽह —
प्रति­ज्ञा­त­श्चेति ।

यत्तवाभिप्रेतं तदहं न करो­मी­त्या­श­ङ्क्याऽऽह —
ममेति ।

मा भूदित्यन्वयं दर्श­य­न्प्र­ती­क­मा­दाय व्याचष्टे —
नोऽस्मानिति ।
वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः ।

परिशिष्टं भागं व्याकु­र्व­न्वा­क्या­र्थ­माह —
बहोरित्यादिना ।

मां प्रत्येवेति नियमस्य कृत्यं दर्शयति —
न चेति ।

कोऽसौ न्यायस्तत्राऽऽह —
शास्त्रेति ।
उपसदनवाक्यं शास्त्र­मि­त्यु­च्यते ।

गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रा­र्थ­वि­रो­ध­मा­च­र­ती­त्या­श­ङ्क्याऽऽह —
वाचा हेति ।
आपदि समादधिकाद्वा विद्या­प्रा­प्त्य­सं­भ­वा­व­स्था­या­मि­त्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥

विद्या­रा­हि­त्या­पे­क्षया निही­न­शि­ष्य­भा­वो­प­ग­ति­रा­प­द­न्त­रम् । तथाशब्दार्थमेव विशदयति —
तव चेति ।

सन्तु पितामहा यथा तथा किम­स्मा­क­मि­त्या­श­ङ्क्याऽऽह —
पितामहानामिति ।

किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह —
न कस्मिन्निति ।

तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमि­ष्या­मी­त्या­श­ङ्क्याऽऽह —
इतः परमिति ।

तवाहं शिष्योऽ­स्मी­त्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्या­ख्या­तु­म­र्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्या­मि­त्यु­क्त­मु­प­पा­द­यति —
को हीत्यादिना ॥८॥

असावित्यादिना यति­थ्या­मि­त्या­दि­च­तु­र्थ­प्र­श्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्य­मि­त्या­श­ङ्क्याऽऽह —
क्रम­भ­ङ्ग­स्त्विति ।
मनु­ष्य­ज­न्म­स्थि­ति­ल­यानां चतु­र्थ­प्र­श्न­नि­र्ण­या­धी­न­तया तस्य प्राधा­न्या­त्प्रा­धान्ये सत्य­र्थ­क्र­म­मा­श्रि­त्या­वि­व­क्षि­तस्य पाठक्रमस्य भङ्ग इत्यर्थः ।

इन्द्रादीनां कर्मा­न­धि­का­रि­त्वा­द्द्यु­लो­कस्य चाऽऽह­व­नी­य­त्वा­प्र­सिद्ध्या होमा­धा­र­त्वा­यो­गा­त्प्र­त्य­यस्य च श्रद्धाया होम्य­त्वा­नु­प­प­त्ते­स्त­स्मि­न्नि­त्यादि वाक्यमयुक्तमिति शङ्कते —
तत्रेति ।
होमकर्म सप्तम्यर्थः ।

अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्य­स्या­स्मा­भि­रु­क्त­मि­त्याह —
अत इति ।

तदेव दर्श­यि­तु­म­ग्नि­हो­त्र­प्र­क­रणे वृत्तं स्मारयति —
न त्विति ।

किं तदुक्तमिति चेत्तदाह —
ते वा इति ।

आहुत्योः स्वत­न्त्र­यो­रु­त्क्रा­न्त्यादि कथ­मि­त्या­श­ङ्क्याऽऽह —
तत्रेति ।
यजमानस्य मृतिकालः सप्तम्यर्थः ।

ससाधनयोरेव तयो­रु­त्क्रा­न्तिर्न स्वत­न्त्र­यो­रे­वे­त्ये­त­दु­प­पा­द­यति —
यथेत्यादिना ।
इहेति जीवदवस्थोच्यते ।

नष्टा­ना­म­ग्न्या­दी­ना­म­व्या­कृ­त­भा­वा­प­न्न­त्वे­ना­वि­शे­ष­प्र­सं­गान्न तैः सहाऽ­हु­त्यो­रु­त्क्रा­न्त्या­दि­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
तत्राग्निरिति ।
नाशादूर्ध्वमपि प्राति­स्वि­क­श­क्ति­रू­पे­णा­ग्न्या­दि­र­व­ति­ष्ठते तथा चावि­शे­ष­प्र­सं­गा­भा­वा­दा­हुत्योः ससा­ध­न­यो­रे­वो­त्क्रा­न्त्या­दि­सि­द्धि­रि­त्यर्थः ।

यथो­क्त­यो­रा­हु­त्यो­रु­त्क्रा­न्त्या­दि­स­म­र्थ­ने­ना­ग्नि­हो­त्रा­द्य­पू­र्वस्य जग­दा­र­म्भ­क­त्व­मुक्तं भवतीत्याह —
तद्विद्यमानमिति ।

विद्यमानमेव विशदयति —
अपूर्णेति ।

अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रल­य­द­शा­या­म­व्या­कृ­ता­त्मना स्थितं पुनर्जगदारभतां तथाऽ­पी­दा­नी­न्त­न­म­ग्नि­हो­त्रा­दिकं कर्म कथं जगदारम्भकं भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
तथैवेति ।
विमतमारम्भकं तच्छ­क्ति­म­त्त्वा­त्सं­प्र­ति­प­न्न­व­दिति भावः ।

अग्नि­हो­त्र­प्र­क­र­ण­स्यार्थं संगृ­ही­त­मु­प­सं­ह­रति —
एवमिति ।

उक्तमुपजीव्यं प्रकृ­त­ब्रा­ह्म­ण­प्र­वृ­त्ति­प्र­कारं दर्शयति —
इह त्विति ।
उत्त­र­मा­र्ग­प्र­ति­प­त्ति­सा­धनं विधित्सितमिति संबन्धः ।

किमि­त्यु­त्त­र­मा­र्ग­प्र­ति­प­त्ति­स्त­त्राऽऽह —
विशिष्टेति ।

ब्राह्म­ण­प्र­वृ­त्ति­म­भि­धा­यासौ वै लोको­ग्नि­रि­त्या­दि­वा­क्य­प्र­वृ­त्ति­प्र­का­र­माह —
इति द्युलोकेति ।
इत्थं ब्राह्मणे स्थिते सतीत्येतत् ।

भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह —
तत्रेति ।
उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यव­हा­र­भू­मि­ग्रहः ।

कथं तेषां तत्र होतृत्वं तदाह —
ते चेति ।

तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह —
त एवेति ।
तत्फ­ल­भो­क्तृ­त्वा­दि­त्यत्र तच्छ­ब्दोऽ­ग्नि­हो­त्रा­दि­क­र्म­वि­ष­य­स्त­द्भो­क्तृत्वं च प्राणानां जीवो­पा­धि­त्वा­द­व­धे­यम् । तथा तथा द्युप­र्ज­न्या­दि­सं­ब­न्ध­यो­ग्या­का­रे­णेति यावत् ।

के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह —
अत्र चेति ।
जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः ।

आवेशप्रकारमाह —
धूमादीति ।

कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णी­त­स्त­त्राऽऽह —
ताः सूक्ष्मा इति ।

तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्ण­य­स्त­त्राऽऽह —
सोमलोक इति ।

तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह —
तास्तत्रेति ।

निर्णीतेऽर्थे श्रुतिमवतारयति —
तदेतदिति ।

कथं पुनरापः श्रद्धा­श­ब्द­वाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह —
श्रद्धेति ।

उप­क्र­म­व­शा­द­प्या­पोऽत्र श्रद्धा­श­ब्द­वाच्या इत्याह —
वेत्थेति ।

अपामेव पुरु­ष­श­ब्द­वा­च्यानां शरी­रा­र­म्भ­क­त्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्च­भू­ता­र­ब्ध­त्वा­भ्यु­प­ग­म­भङ्गः स्यादिति चेन्नेत्याह —
भूयस्त्वादिति ।

अपां पुरु­ष­श­ब्द­वा­च्यत्वे हेत्वन्तरमाह —
कर्मेति ।

अथा­क­र्म­प्र­यु­क्त­मपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरु­ष­श­ब्द­वा­च्यत्वं तत्राऽऽह —
कर्मकृतो हीति ।
अन्यथा तत्र तत्र सुख­दुः­ख­प्र­भे­दो­प­भो­गा­सं­भ­वा­दिति भावः ।

यदि कर्मा­पू­र्व­श­ब्द­वाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्व­म­ग्नि­हो­त्रा­हु­त्यो­रेव व्यक्त­ज­ग­दा­र­म्भ­क­त्व­मुक्तं तत्राऽऽह —
तत्रेति ।
लक्ष्य­न्तेऽ­ग्नि­हो­त्रा­हु­त्येति शेषः ।

लक्षणायां पूर्वो­त्त­र­वा­क्य­यो­र्ग­म­क­माह —
दाराग्नीति ॥९॥

आद्य­मा­हु­त्या­धा­र­मेवं निरू­प्याऽऽ­हु­त्या­धा­रा­न्त­राणि क्रमेण निरूपयति —
पर्जन्यो वा अग्निरित्यादिना ।

कुतोऽस्य द्वितीयत्वमिति शङ्कित्वोक्तम् —
आहुत्योरिति ।
अस्ति खल्वभ्राणां धूमप्रभवत्वे गाथा ‘धूम­ज्यो­तिः­स­लि­ल­म­रुतां सन्निपातः क्व मेघः’(मेघसन्देशः १-५) इति ॥१०॥

एत­ल्लो­क­पृ­थि­व्यो­र्दे­ह­दे­हि­भा­वेन भेद इत्याह —
पृथिवीच्छायां हीति ।
‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्यो­र्बि­भ्य­त­म­त्य­पा­र­यन्’ इति श्रुते­रा­त्रे­स्त­म­त्वा­व­ग­मा­त्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् –
“उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोम­च­न्द्र­म­सो­रा­श्र­या­श्र­यि­भा­वेन भेदः ॥११॥

योग्या­नु­प­ल­ब्धि­वि­रो­ध­मा­श­ङ्कते —
नन्विति ।
इहेति पुरु­षा­ग्नि­नि­र्देशः ।

शङ्कितं विरोधं निराकरोति —
नैष दोष इति ।

उपपत्तिमेव दर्शयति —
अधिदैवमिति ॥१२॥

तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति —
एवमिति ।

पञ्चा­ग्नि­द­र्श­नस्य चतु­र्थ­प्र­श्न­नि­र्णा­य­क­त्वेन प्रकृतोपयोगं दर्शयति —
यः प्रश्न इति ।

निर्ण­य­प्र­का­र­म­नु­व­दति —
पञ्चम्यामिति ।

यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह —
स पुरुष इति ।

पञ्चाग्निक्रमेण जातोऽ­ग्नि­ल­य­श्चाहं तेना­ग्न्या­त्मेति ध्यानसिद्धये षष्ठ­म­ग्नि­म­न्त्या­हु­त्य­धि­क­रणं प्रस्तौति —
अथेति ।
जीव­न­नि­मि­त्त­क­र्म­वि­ष­य­स्त­च्छब्दः ॥१३॥

वक्ष्य­मा­ण­की­टा­दि­दे­ह­व्या­वृ­त्तये भास्व­र­व­र्ण­वि­शे­ष­णम् । दीप्त्य­ति­श­य­वत्त्वे हेतुमाह —
निषेकादिभिरिति ॥१४॥

पञ्चाग्निविदो गतिं विव­क्षु­रु­त्त­र­ग्र­न्थ­म­व­ता­यति —
इदानीमिति ।
ये विदु­स्तेऽ­र्चि­ष­म­भि­सं­भ­व­न्तीति संबन्धः ।

एवंशब्दस्य प्रकृ­त­प­ञ्चा­ग्नि­प­रा­म­र्शित्वं स्फुटीकर्तुं चोदयति —
नन्विति ।

एवमेतद्विदुरिति श्रुत­मे­त­द्द­र्श­न­मि­त्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति —
तत्र हीति ।
आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूम­त्व­म­ह्नोऽ­र्चि­ष्ट्व­मि­त्यादि ग्रहीतुं द्वितीयमादिपदम् ।

प्रत्य­भि­ज्ञा­फ­ल­माह —
तस्मादिति ।

प्रश्न­प्र­ति­व­च­न­वि­ष­य­स्यैव प्रकृ­त­स्यै­वं­श­ब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति —
नेत्यादिना ।

संगृहीतं परिहारं विवृणोति —
यति­थ्या­मि­त्य­स्येति ।
व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः ।

षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्र­श्नी­नि­र्णी­त­द­र्श­न­शे­ष­भू­त­द­र्श­नस्य प्रश्नादृते प्रति­व­च­न­सं­भ­वा­दि­त्याह —
अन्यथेति ।

किञ्च पूर्व­स्मि­न्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चि­त­त्वा­त्त­द­व­च्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन परा­म्र­ष्टु­मु­चिता इत्याह —
निर्ज्ञा­त­त्वा­च्चेति ।

अग्नि­हो­त्र­प्र­क­रणे निर्ज्ञा­त­मे­वा­ग्न्यादि पूर्व­ग्र­न्थेऽ­प्य­नू­द्यते । तथा चाग्नि­हो­त्र­द­र्श­न­म­व्य­व­हि­त­मे­वं­श­ब्देन किं न परामृष्टमिति शङ्कते —
अथेति ।

अग्नि­हो­त्र­द­र्शनं पूर्व­ग्र­न्थेऽ­नू­द्यते चेत्तत्प्रकरणे प्राप्तं रूप­म­न­ति­क्र­म्यै­वा­न्त­रि­क्षा­दे­र­प्य­त्रा­नु­व­दनं स्यान्न तु तद्वै­प­री­त्ये­ना­नु­व­दनं युक्तम् । अनुवादस्य पुरो­वा­द­सा­पे­क्ष­त्वात् । न चात्रा­न्त­रि­क्षा­द्य­नू­द्यते । तस्मादेवंशब्दो नाग्नि­हो­त्र­प­रा­म­र्शीति परिहरति —
यथा प्राप्तस्येति ।

द्युलो­का­दि­वा­द­स्या­न्त­रि­क्षा­द्यु­प­ल­क्ष­णा­र्थ­त्वा­त्पू­र्व­स्या­नु­वा­द­त्व­सं­भ­वा­दे­वं­श­ब्द­स्या­ग्नि­हो­त्र­वि­ष­य­त्व­सि­द्धि­रिति चोदयति —
अथेति ।

प्राप­का­भा­वा­दु­प­ल­क्ष­ण­प­क्षा­यो­गेऽ­प्य­ङ्गी­कृत्य पञ्चा­ग्नि­नि­र्दे­श­वै­य­र्थ्येन दूषयति —
तथाऽपीति ।

इतश्च स्वतन्त्रमेव पञ्चा­ग्नि­द­र्श­न­मे­वं­श­ब्द­प­रा­मृ­ष्ट­मि­त्याह —
श्रुत्य­न्त­रा­च्चेति ।

समि­दा­दि­सा­म्य­द­र्श­ना­द­ग्नि­हो­त्र­द­र्श­न­शे­ष­भू­त­मे­वै­त­द्द­र्श­न­मि­त्यु­क्त­म­नूद्य दूषयति —
यत्त्वित्यादिना ।
अवो­चा­मा­ग्नि­हो­त्र­स्तु­त्य­र्थ­त्वा­द­ग्नि­हो­त्र­स्यैव कार्य­मि­त्यु­क्त­मि­त्य­त्रेति शेषः ।

एवं­श­ब्दे­ना­ग्नि­हो­त्र­प­रा­म­र्शा­सं­भवे फलितमाह —
तस्मादिति ।

तच्छब्दार्थमेव स्फुटयति —
एवमितीति ।
प्रकृतं पञ्चाग्निदर्शनं तच्च स्वत­न्त्र­मि­त्युक्तं तद्व­ता­म­र्चि­रा­दि­प्र­ति­प­त्तिर्न केव­ल­क­र्मि­णा­मि­त्यर्थः ।

प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति —
के पुनरित्यादिना ।

गृहस्थानां यज्ञादिना पितृ­या­ण­प्र­ति­प­त्ते­र्व­क्ष्य­मा­ण­त्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते —
नन्विति ।

पञ्चाग्निविदां गृहस्थानां देवयाने पथ्य­धि­का­र­स्त­द्र­हि­तानां तु तेषामेव यज्ञादिना पितृ­या­ण­प्रा­प्ति­रिति विभागोपपत्तेर्न वाक्य­शे­ष­वि­रो­धोऽ­स्तीति समाधत्ते —
नेत्यादिना ।

एवं विदुरिति सामा­न्य­व­च­ना­त्प­रि­व्रा­ज­का­दे­र­प्यत्र ग्रहणं स्यादिति चेन्नेत्याह —
भिक्षु­वा­न­प्र­स्थ­यो­श्चेति ।
विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चा­ग्नि­वि­ष­य­त्वेन ग्रहणं पुन­रु­क्ते­रि­त्यर्थः ।

गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह —
ग्रहस्थेति ।

ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह —
अत इति ।
पञ्चा­ग्नि­द­र्श­नस्य गृह­स्थ­क­र्म­सं­ब­न्धा­दे­वे­त्ये­तत् ।

कथं तर्हि नैष्ठि­क­ब्र­ह्म­चा­रिणां देवयाने पथि प्रवे­श­स्त­त्राऽऽह —
तेषां त्विति ।
अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः ।

आश्रमान्तराणां पञ्चा­ग्नि­वि­ष­य­त्वे­ना­ग्र­हणे फलितमाह —
तस्मादिति ।

अग्निजत्वे फलितमाह —
अग्न्यपत्यमिति ।

अग्निजत्वं साधयति —
एवमिति ।

अग्न्यपत्यत्वे किं स्यात्तदाह —
अग्नीति ।
इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीज­ना­सं­कीर्णो देशः । परि­व्रा­ज­का­श्चेति त्रिदण्डिनो गृह्य­न्तेऽ­न्ये­षा­मे­ष­णाभ्यो व्युत्थितानां सम्य­ग्ज्ञा­न­नि­ष्ठानां देवयाने पथ्य­प्र­वे­शा­दा­श्र­म­मा­त्र­निष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् ।

श्रद्धाऽपि स्वयमुपास्या कर्म­त्व­श्र­व­णा­दि­त्या­शङ्क्य प्रत्ययमात्रस्य सापे­क्ष­त्वा­दु­पा­स्य­त्वा­नु­प­प­त्ते­र्मै­व­मि­त्याह —
न पुनरिति ।
सर्वे पञ्चाग्निविदः सत्य­ब्र­ह्म­वि­द­श्चे­त्यर्थः ।

विनाऽपि विद्या­ब­ल­म­र्चि­र­भि­सं­पत्तिः स्यादिति चेन्नेत्याह —
यावदिति ।
कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः ।

केवलकर्मिणां देव­या­न­मा­र्ग­प्रा­प्ति­र्ना­स्ती­त्युक्तं निगमयति —
इत्येवमेवेति ।

विदुषामेव देव­या­न­प्रा­प्ति­मु­प­सं­ह­रति —
यदा त्विति ।

नन्वर्चिषो ज्वाला­त्म­नोऽ­स्थै­र्या­त्त­द­भि­सं­प­त्तिर्न फलाय कल्पते तत्राऽऽह —
अर्चिरितीति ।

अर्चिःशब्देन यथो­क्त­दे­व­ता­ग्रहे लिङ्गमाह —
न हीति ।
अतोऽ­र्चि­र्दे­व­तायाः सकाशादिति यावत् ।

अहःशब्दस्य काल­वि­ष­य­त्व­मु­क्त­दो­षा­भा­वा­दिति चेन्नेत्याह —
मरणेति ।

नियमाभावमेव व्यनक्ति —
आयुष इति ।

विद्वद्विषये निय­म­मा­श­ङ्क्याऽऽह —
न हीति ।

ननु रात्रौ मृतोऽपि विद्वा­न­ह­र­पेक्ष्य फली संपत्स्यते नेत्याह —
न चेति ।

एकस्मिन्नेव ब्रह्मलोके कथं बहु­व­च­न­मि­त्या­श­ङ्क्याऽऽह —
ब्रह्मेति ।
ब्रह्मलोकानिति बहु­व­च­न­प्र­यो­गा­दिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते ।

बहुवचनोपपत्तौ हेत्वन्तरमाह —
उपासनेति ।
कल्प­श­ब्दोऽ­त्रा­वा­न्त­र­क­ल्प­वि­षयः ।

तेषामिह न पुनरावृत्तिरिति क्वचि­त्पा­ठा­द­स्मि­न्नि­त्या­दि­व्या­ख्या­न­म­यु­क्त­मिति शङ्कते —
इहेति ।
यथा “श्वोभूते पौर्णमासीं यजे­ते”त्य­त्रा­कृतिः पौर्ण­मा­सी­श­ब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्ण­मा­सी­प­द­ल­क्ष्येष्टेः प्रतिपद्येव कर्त­व्य­ता­नि­य­मा­त्त­थे­हाऽऽ­कृ­ते­रि­ह­श­ब्दा­र्थ­त्वा­न्नि­र­ङ्कु­शै­वा­ना­वृ­त्ति­रत्र सिध्यतीत्यर्थः ।

परिहरति —
नेत्यादिना ।

परोक्तं दृष्टान्तं विघटयति —
श्वोभूत इति ।
कृत­सं­भा­र­दि­व­सा­पेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातु­र्मा­स्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भव­त्य­न्य­व्या­व­र्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्य­न्ति­का­ना­वृ­त्ति­सि­द्धि­रि­त्यर्थः ।

यत्तु पौर्ण­मा­सी­श­ब्द­व­दि­ह­श­ब्द­स्याऽऽ­कृ­ति­वा­चि­त्वा­द­व्या­व­र्त­क­त्व­मिति तत्राऽऽह —
न हीति ।
यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भव­त्या­कृ­ति­व­च­न­स्त­थाऽपि श्वःश­ब्दा­र्थोऽपि काचि­दा­कृ­ति­र­स्ती­त्य­ङ्गी­कृ­त्या­व्या­व­र्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्याव­र्त­क­त्व­मा­व­श्य­क­मि­त्यर्थः ।

सुषि­र­मा­का­श­मि­त्यादौ व्याव­र्त्या­भा­वेऽपि विशे­ष­ण­प्र­यो­ग­व­द­त्रापि विशेषणं स्वरू­पा­नु­वा­द­मा­त्र­मि­त्या­श­ङ्क्याऽऽह —
यत्र त्विति ।

विशे­ष­ण­फ­ल­मु­प­सं­ह­रति —
तस्मादिति ॥१५॥

देवयानं पन्थानमुक्त्वा पथ्यन्तरं वक्तुं वाक्यान्तरमादाय पदद्वयं व्याकरोति —
अथेत्यादिना ।

कथं ते फलभागिनो भव­न्ती­त्या­श­ङ्क्याऽऽह —
यज्ञेनेति ।

ननु दानतपसी यज्ञग्रहणेनैव गृहीते न पृथग्ग्रहीतव्ये तत्राऽऽह —
बहिर्वेदीति ।
दीक्षा­दी­त्या­दि­प­देन पयो­व्र­ता­दि­य­ज्ञा­ङ्ग­सं­ग्रहः । तत्रेति पितृलोकोक्तिः अपिशब्दो ब्रह्म­लो­क­दृ­ष्टा­न्तार्थः ।

धूम­सं­प­त्ते­र­पु­रु­षा­र्थ­त्व­मा­श­ङ्क्यो­क्तम् —
उत्तरमार्ग इवेति ।
इहापीति पितृ­या­ण­मा­र्गेऽ­पी­त्यर्थः । तद्व­दे­वे­त्यु­त्त­र­मा­र्ग­गा­मि­नीनां देव­ता­ना­मि­वे­त्यर्थः । तत्रेति प्रकृतलोकोक्तिः ।

कर्मिणां तर्हि देवै­र्भ­क्ष्य­मा­णानां चन्द्र­लो­क­प्रा­प्ति­र­न­र्था­यै­वे­त्या­श­ङ्क्याऽऽह —
उपभुञ्जत इति ।

अन्यथाप्रतिभासं व्यावर्तयति —
आप्यायस्वेति ।

एवं देवा अपीति संक्षिप्तं दार्ष्टान्तिकं विवृणोति —
सोमलोक इति ।

कथं पौनःपुन्येन विश्रान्तिः संपाद्यते तत्राऽऽह —
कर्मानुरूपमिति ।

दृष्टा­न्त­व­द्दा­र्ष्टा­न्तिके किमित्याप्यायनं नोक्तं तत्राऽऽह —
तद्धीति ।
पुनः पुन­र्वि­श्रा­मा­भ्य­नु­ज्ञा­न­मिति यावत् ।

लोकद्वयप्रापकौ पन्थानावित्थं व्याख्याय पुन­रे­त­ल्लो­क­प्रा­प्ति­प्र­का­र­माह —
तेषामित्यादिना ।

कथं चन्द्र­स्थ­ल­स्ख­लि­तानां कर्मि­णा­मा­का­श­ता­दा­त्म्य­मि­त्या­श­ङ्क्याऽऽह —
यास्ता इति ।

सोमा­का­र­प­रि­ण­त­त्व­मेव स्फोरयति —
याभिरिति ।

तस्य झटिति द्रवी­भ­व­न­यो­ग्यतां दर्शयति —
अम्मयमिति ।

साभा­व्या­प­त्ति­रु­प­प­त्ते­रिति न्यायेनाऽऽह —
आकाशभूता इति ।

आका­शा­द्वा­यु­प्रा­प्ति­प्र­का­र­माह —
ते पुनरिति ।

अन्याधिष्ठिते पूर्व­व­द­भि­ला­पा­दिति न्यायेनाऽऽह —
ते पृथिवीमिति ।

रेतः­सि­ग्यो­गोऽ­थेति न्याय­मा­श्रि­त्याऽऽह —
ते पुनरिति ।

योनेः शरीरमिति न्याय­म­नु­सृ­त्याऽऽह —
तत इति ।

उत्पन्नानां केषा­ञ्चि­दि­ष्टा­दि­का­रि­त्व­माह —
लोकमिति ।

कर्मा­नु­ष्ठा­ना­न­न्तरं तत्फलभागित्वमाह —
ततो धूमादिनेति ।

सोमलोके फलभोगानन्तरं पुन­रे­त­ल्लो­क­प्रा­प्ति­माह —
पुनरिति ।

पौनःपुन्येन विप­रि­व­र्त­न­स्या­वधिं सूचयति —
उत्तरमार्गायेति ।

प्राग्ज्ञा­ना­त्सं­स­रणं षष्ठेऽपि व्याख्या­त­मि­त्याह —
इति न्विति ।

स्थान­द्व­य­मा­वृ­त्ति­स­हि­त­मुक्त्वा स्थानान्तरं दर्शयति —
अथेत्यादिना ।

स्थान­द्व­या­त्तृ­तीये स्थाने विशेषं कथयति —
एवमिति ।

तृतीये स्थाने छान्दो­ग्य­श्रुतिं संवादयति —
तथा चेति ।

अमुष्या गतेरतिकष्टत्वे परिशिष्टं वाक्या­र्थ­मा­चष्टे —
तस्मादिति ।
सर्वोत्साहो वाक्यकायचेतसां प्रयत्नः ।

यदुक्तमस्यां निमग्नस्य पुनरुद्धारो दुर्लभो भवतीति तत्र श्रुत्य­न्त­र­म­नु­कू­ल­यति —
तथा चेति ।
अतो व्रीह्या­दि­भा­वा­दि­त्यर्थः । तस्मा­दि­त्य­ति­क­ष्टा­त्सं­सा­रा­दि­त्यर्थः ।

दक्षि­णो­त्त­र­मा­र्ग­प्रा­प्ति­सा­धने यत्न­सा­म्य­मा­श­ङ्क्याऽऽह —
अत्रापीति ।

पञ्च प्रश्ना­न्प्र­स्तुत्य किमिति प्रत्येकं तेषां निर्णयो न कृत इत्याशङ्क्याऽऽह —
एवमिति ।

निर्णीतं प्रकारमेव संगृह्णाति —
असावित्यादिना ।
प्राथम्येन निर्णीत इति संबन्धः । देव­या­न­स्ये­त्यादिः पञ्चमः प्रश्नः । स तु द्वितीयत्वेन दक्षि­णा­दि­मा­र्गा­प­त्ति­सा­ध­नोक्त्या निर्णीत इत्यर्थः । तेनैव मार्ग­द्व­य­प्रा­प्ति­सा­ध­नो­प­दे­शे­नै­वेति यावत् ।

मृतानां प्रजानां विप्रतिपत्तिः प्रथ­म­प्र­श्न­स्तस्य निर्णयप्रकारमाह —
अग्नेरिति ।

द्विती­य­प्र­श्न­स्व­रू­प­म­नूद्य तस्य निर्णी­त­त्व­प्र­कारं प्रकटयति —
पुन­रा­वृ­त्ति­श्चेति ।
आगच्छन्तीति निर्णीत इत्युत्तरत्र संबन्धः । तेनैव पुनरावृत्तेः सत्त्वे­ने­त्यर्थः । अमुष्य लोक­स्या­सं­पू­र्तिर्हि तृतीयः प्रश्नः। स च द्वाभ्यां हेतुभ्यां प्रागुक्ताभ्यां निर्धारितो भवतीति भावः ॥१६॥