आनन्दगिरिटीका (बृहदारण्यक)
षष्ठोऽध्यायः: द्वितीयं ब्राह्मणम्
ब्राह्मणान्तरमादाय तस्य पूर्वेण संबन्धं प्रतिजानीते —
श्वेतकेतुरिति ।
कोऽसौ संबन्धस्तमाह —
खिलेति ।
तत्र कर्मकाण्डे ज्ञानकाण्डे वा यद्वस्तु प्राधान्येन नोक्तं तदस्मिन्काण्डे वक्तव्यमस्य खिलाधिकारत्वात्तथा च पूर्वमनुक्तं वक्तुमिदं ब्राह्मणमित्यर्थः ।
वक्तव्यशेषं दर्शयितुं वृत्तं कीर्तयति —
सप्तमेति ।
समुच्चयकारिणो मुमूर्षोरग्निप्रार्थनेऽपि किं स्यादित्याशङ्क्याऽऽह —
तत्रेति ।
अध्यायावसानं सप्तम्यर्थः ।
सामर्थ्यमेव दर्शयति —
सुपथेतीति ।
विशेषणवशाद्बहवो मार्गा भान्तु किं पुनस्तेषां स्वरूपं तदाह —
पन्थानश्चेति ।
तत्र वाक्यशेषमनुकूलयति —
वक्ष्यति चेति ।
संप्रत्याकाङ्क्षाद्वारा समनन्तरब्राह्मणतात्पर्यमाह —
तत्रेति ।
उपसंह्रियमाणां संसारगतिमेव परिच्छिनत्ति —
एतावती हीति ।
दक्षिणोदगधोगत्यात्मिकेति यावत् ।
कर्मविपाकस्तर्हि कुत्रोपसंह्रियते तत्राऽऽह —
एतावानिति ।
इतिशब्दो यथोक्तसंसारगत्यतिरिक्तकर्मविपाकाभावात्तदुपसंहारार्थ एवायमारम्भ इत्युपसंहारार्थः ।
अथोद्गीथाधिकारे सर्वोऽपि कर्मविपाकोऽनर्थ एवेत्युक्तत्वात्परिशिष्टसंसारगत्यभावात्कथं खिलकाण्डे तन्निर्देशसिद्धिरत आह —
यद्यपीति ।
कस्तर्हि विपाकस्तत्रोक्तस्तत्राऽऽह —
शास्त्रीयस्येति ।
तत्र सुकृतविपाकस्यैवोपन्यासे हेतुमाह —
ब्रह्मविद्येति ।
अनिष्टविपाकात्तु वैराग्यं सुकृताभिमुख्यादेव सिद्धमिति न तत्र तद्विवक्षा । इह पुनः शास्त्रसमाप्तौ खिलाधिकारे तद्विपाकोऽप्युपसंह्रियत इति भावः ।
प्रकारान्तरेण संगतिं वक्तुमुक्तं स्मारयति —
तत्रापीति ।
शास्त्रीयविपाकविषयेऽपीत्यर्थः ।
उत्तरग्रन्थस्य विषयपरिशेषार्थं पातनिकामाह —
तत्रेति ।
लोकद्वयं सप्तम्यर्थः ।
प्रागनुक्तमपि देवयानाद्यत्र वक्तव्यमिति कुतो नियमसिद्धिस्तत्राऽऽह —
तच्चेति ।
वक्तव्यशेषस्य सत्त्वे फलितमाह —
इत्यत इति ।
यत्तर्हि प्रागनुक्तं तद्देवयानादि वक्तव्यं प्रागेवोक्तं तु ब्रह्मलोकादि कस्मादुच्यते तत्राऽऽह —
अन्ते चेति ।
शास्त्रस्यान्ते चेति संबन्धः ।
इतश्चेदं ब्राह्मणमगतार्थत्वादारभ्यमित्याह —
अपि चेति ।
एतावदित्यात्मज्ञानोक्तिः । अमृतत्वं तत्साधनमिति यावत् । चकारादुक्तमित्यनुषङ्गः । ज्ञानमेवामृतत्वे हेतुरित्युक्तोऽर्थस्तत्रेति सप्तम्यर्थः तदर्थो हेत्वपदेशार्थः ।
कथं पुनर्वक्ष्यमाणा कर्मगतिर्ज्ञानमेवामृतत्वसाधनमित्यत्र हेतुत्वं प्रतिपद्यते तत्राऽऽह —
यस्मादिति ।
व्यापारोऽस्ति कर्मण इति शेषः । सामर्थ्याज्ज्ञानातिरिक्तस्योपायस्य संसारहेतुत्वनियमादित्यर्थः ।
प्रकारान्तरेण ब्राह्मणतात्पर्यं वक्तुमग्निहोत्रविषये जनकयाज्ञवल्क्यसंवादसिद्धमर्थमनुवदति —
अपि चेत्यादिना ।
एतयोरग्निहोत्राहुत्योः सायं प्रातश्चानुष्ठितयोरिति यावत् । लोकं प्रत्युत्थायिनं यजमानं परिवेष्ट्येमं लोकं प्रत्यावृत्तयोस्तयोरनुष्ठानोपचितयोः परलोकं प्रति स्वाश्रयोत्थानहेतुं परिणाममित्येतदिति प्रश्नषट्कमग्निहोत्रविषये जनकेन याज्ञवल्क्यं प्रत्युक्तमिति संबन्धः । तत्रेत्याक्षेपगतप्रश्नषट्कोक्तिः ।
ननु फलवतोऽश्रवणात्कस्येदमाहुतिफलं न हि तत्स्वतन्त्रं संभवति तत्राऽऽह —
तच्चेति ।
कर्तृवाचिपदाभावादाहुत्यपूर्वस्यैवोत्क्रान्त्यादिकर्यारम्भकत्वान्न तत्र कर्तृगामिकफलमुक्तमित्याशङ्क्याऽऽह —
न हीति ।
किञ्च कारकाश्रयवत्त्वात्कर्मणो युक्तं तत्फलस्य कर्तृगामित्वमित्याह —
साधनेति ।
स्वातन्त्र्यासंभवादाहुत्योः स्वकर्तृकयोरेवमित्यादि विवक्षितं चेत्तर्हि कथं तत्र केवलाहुत्योर्गत्यादि गम्यते तत्राऽऽह —
तत्रेति ।
अग्निहोत्रप्रकरणं सप्तम्यर्थः । अग्निहोत्रस्तुत्यर्थत्वात्प्रश्नप्रतिवचनरूपस्य सन्दर्भस्येति शेषः ।
भवत्वेवमग्निहोत्रप्रकरणस्थितिः प्रकृते तु किमायातं तत्राऽऽह —
इह त्विति ।
किमिति विद्याप्रकरणे कर्मफलविज्ञानं विवक्ष्यते तत्राऽऽह —
तद्द्वारेणेति ।
ब्राह्मणारम्भमुपपादितमुपसंहरति —
एवमिति ।
संसारगत्युपसंहारेण कर्मविपाकस्य सर्वस्यैवोपसंहारः सिद्धो भवति तदतिरिक्ततद्विपाकाभावादित्याह —
कर्मकाण्डस्येति ।
यथोक्तं वस्तु दर्शयितुं ब्राह्मणमारभते चेत्तत्र किमित्याख्यायिका प्रणीयते तत्राऽऽह —
इत्येतद्द्वयमिति ।
सर्वमेव पूर्वोक्तं वस्तु दर्शयितुमिच्छन्वेदः सुखावबोधार्थमाख्यायिकां करोतीत्यर्थः ।
यदा कदाचिदतिक्रान्ते काले वृत्तार्थद्योतित्वं निपातस्य दर्शयति —
हशब्द इति ।
यशःप्रथनं विद्वत्सु स्वकीयविद्यासामर्थ्यख्यापनं प्रसिद्धविद्वज्जनविशिष्टत्वेनेति शेषः । क्वचिज्जयस्य प्राप्तत्वं गर्वे हेतुः ।
किमिति राजा श्वेतकेतुमागतमात्रं तदीयाभिप्रायमप्रतिपद्य तिरस्कुर्वन्निव संबोधितवानित्याशङ्क्याऽऽह —
स राजेति ।
संबोध्य भर्त्सनं कृतवानिति शेषः ।
तदवद्योति पदमिह नास्तीत्याशङ्क्याऽऽह —
भर्त्सनार्थेति ।
भो ३ इति प्रतिवचनमाचार्यं प्रत्युचितं न क्षत्त्रियं प्रति तस्य हीनत्वादित्याह —
भो ३ इतीति ।
अप्रतिरूपवचने क्रोधं हेतूकरोति —
क्रुद्धः सन्निति ।
पितुः सकाशात्तव लब्धानुशासनत्वे लिङ्गं नास्तीत्याशङ्क्याऽऽह —
पृच्छेति ॥१॥
पदार्थमुक्त्वा वाक्यार्थमाह —
समानेनेति ।
नाडीरूपेण साधारणेन मार्गेणाभ्युदयं गच्छतां यत्र मार्गविप्रतिपत्तिस्तत्किं जानासीति प्रश्नार्थः ।
विप्रतिपत्तिमेव विशदयति —
तत्रेति ।
अधिकृतप्रजानिर्धारणार्था सप्तमी ।
प्रथमप्रश्नं निगमयति —
यथेति ।
प्रश्नान्तरमादत्ते —
तर्हीति ।
तदेव स्पष्टयति —
यथेति ।
परलोकगताः प्रजाः पुनरिमं लोकं यथाऽऽगच्छन्ति तथा किं वेत्थेति योजना ।
प्रश्नान्तरप्रतीकमुपादत्ते —
वेत्थेति ।
तद्व्याकरोति —
एवमिति ।
प्रसिद्धो न्यायो जराज्वरादिमरणहेतुः प्रश्नान्तरमुत्थाप्य व्याचष्टे —
वेत्थेत्यादिना ।
पुरुषशब्दवाच्या भूत्वा समुत्थाय वदन्तीति संबन्धः ।
कथमपां पुरुषशब्दवाच्यत्वं तदाह —
यदेति ।
प्रश्नान्तरमवतारयति —
यद्येवं वेत्थेति ।
पितृयाणस्य वा प्रतिपदं वेत्थेति संबन्धः । यत्कृत्वा प्रतिपद्यन्ते पन्थानं तत्कर्म प्रतिपदिति योजना ।
वाक्यार्थमाह —
देवयानमिति ।
उक्तमर्थं संक्षिप्याऽऽह —
देवलोकेति ।
मार्गद्वयेन नास्ति त्वया तूत्प्रेक्षामात्रेण पृच्छ्यते तत्राऽऽह —
अपीति ।
अत्रेति कर्मविपाकप्रक्रियोक्तिः । अस्यार्थस्य मार्गद्वयस्येत्येतत् ।
तेषामेव मार्गद्वयेऽधिकृतत्वमिति वक्तुं हीत्युक्तं तदेव स्फुटयति —
ताभ्यामिति ।
विश्वं साध्यसाधनात्मकं संगच्छते गन्तव्यत्वेन गन्तृत्वेन चेति शेषः । प्रकृतमन्त्रव्याख्यानग्रन्थो ब्राह्मणशब्दार्थः ।
यदन्तरेत्यादौ विवक्षितमर्थमाह —
अण्डकपालयोरिति ॥२॥
श्वेतकेतोरभिमाननिवृत्तिद्योतनार्थं बहुवचनम् ।
राजन्यदत्तवसत्यनादरे हेतुमाह —
कुमार इति ।
एवं किलेति राजपराभवलिङ्गकं पितृवचसो मृषात्वं द्योत्यते ।
अज्ञानाधीनं दुःखं तवासंभावितमिति सूचयति —
सुमेध इति ॥३॥
सत्यं किञ्चिदुक्तं किञ्चित्तु विज्ञानमन्यस्मै प्रियतमाय दातुं रक्षितमित्याशङ्क्याऽऽह —
कोऽन्य इति ।
राज्ञा यत्पृष्टं तन्मया न विज्ञातं तथा च तस्मिन्विषये त्वया वञ्चितोऽस्मीत्याशङ्क्याऽऽह —
अहमपीति ।
तर्हि तज्ज्ञानं कथं साध्यतामित्याशङ्क्याऽऽह —
तस्मादिति ॥४॥
विवक्षितविद्यागौरवं विवक्षित्वाऽऽह —
अस्यामिति ।
तदिति सामान्योक्त्या वरो निर्दिश्यते ॥५–६॥
ममास्ति स इति यदुक्तं तदुपपादयति —
यस्मादित्यादिना ।
न च यन्ममेत्यत्र तस्मादिति पठितव्यम् ।
किं तर्हि मया कर्तव्यमित्याशङ्क्याऽऽह —
प्रतिज्ञातश्चेति ।
यत्तवाभिप्रेतं तदहं न करोमीत्याशङ्क्याऽऽह —
ममेति ।
मा भूदित्यन्वयं दर्शयन्प्रतीकमादाय व्याचष्टे —
नोऽस्मानिति ।
वदन्त्यो दानशीलो विभवे सत्यदाता कदर्य इति भेदः ।
परिशिष्टं भागं व्याकुर्वन्वाक्यार्थमाह —
बहोरित्यादिना ।
मां प्रत्येवेति नियमस्य कृत्यं दर्शयति —
न चेति ।
कोऽसौ न्यायस्तत्राऽऽह —
शास्त्रेति ।
उपसदनवाक्यं शास्त्रमित्युच्यते ।
गौतमो राजानं प्रति शिष्यत्ववृत्तिं कुर्वाणः शास्त्रार्थविरोधमाचरतीत्याशङ्क्याऽऽह —
वाचा हेति ।
आपदि समादधिकाद्वा विद्याप्राप्त्यसंभवावस्थायामित्यर्थः । उपनयनमुपगमनं पदोपसर्पणमिति यावत् ॥७॥
विद्याराहित्यापेक्षया निहीनशिष्यभावोपगतिरापदन्तरम् । तथाशब्दार्थमेव विशदयति —
तव चेति ।
सन्तु पितामहा यथा तथा किमस्माकमित्याशङ्क्याऽऽह —
पितामहानामिति ।
किमिति तर्हीयं विद्या झटिति मह्यं नोपदिश्यते तत्राऽऽह —
न कस्मिन्निति ।
तर्हि भवता सा स्थिती रक्ष्यतामहं तु यथागतं गमिष्यामीत्याशङ्क्याऽऽह —
इतः परमिति ।
तवाहं शिष्योऽस्मीत्येवं ब्रुवन्तं मत्तोऽन्योऽपि न वक्ष्यामीति यस्मान्न प्रत्याख्यातुमर्हति तस्मादहं पुनस्तुभ्यं कथं न वक्ष्ये किन्तु वक्ष्याम्येव विद्यामित्युक्तमुपपादयति —
को हीत्यादिना ॥८॥
असावित्यादिना यतिथ्यामित्यादिचतुर्थप्रश्नस्य प्राथम्येन निर्णये क्रमभङ्गः स्यात्तत्र च कारणं वाच्यमित्याशङ्क्याऽऽह —
क्रमभङ्गस्त्विति ।
मनुष्यजन्मस्थितिलयानां चतुर्थप्रश्ननिर्णयाधीनतया तस्य प्राधान्यात्प्राधान्ये सत्यर्थक्रममाश्रित्याविवक्षितस्य पाठक्रमस्य भङ्ग इत्यर्थः ।
इन्द्रादीनां कर्मानधिकारित्वाद्द्युलोकस्य चाऽऽहवनीयत्वाप्रसिद्ध्या होमाधारत्वायोगात्प्रत्ययस्य च श्रद्धाया होम्यत्वानुपपत्तेस्तस्मिन्नित्यादि वाक्यमयुक्तमिति शङ्कते —
तत्रेति ।
होमकर्म सप्तम्यर्थः ।
अस्य ब्राह्मणस्य संबन्धग्रन्थे समाधानमस्य चोद्यस्यास्माभिरुक्तमित्याह —
अत इति ।
तदेव दर्शयितुमग्निहोत्रप्रकरणे वृत्तं स्मारयति —
न त्विति ।
किं तदुक्तमिति चेत्तदाह —
ते वा इति ।
आहुत्योः स्वतन्त्रयोरुत्क्रान्त्यादि कथमित्याशङ्क्याऽऽह —
तत्रेति ।
यजमानस्य मृतिकालः सप्तम्यर्थः ।
ससाधनयोरेव तयोरुत्क्रान्तिर्न स्वतन्त्रयोरेवेत्येतदुपपादयति —
यथेत्यादिना ।
इहेति जीवदवस्थोच्यते ।
नष्टानामग्न्यादीनामव्याकृतभावापन्नत्वेनाविशेषप्रसंगान्न तैः सहाऽहुत्योरुत्क्रान्त्यादिसिद्धिरित्याशङ्क्याऽऽह —
तत्राग्निरिति ।
नाशादूर्ध्वमपि प्रातिस्विकशक्तिरूपेणाग्न्यादिरवतिष्ठते तथा चाविशेषप्रसंगाभावादाहुत्योः ससाधनयोरेवोत्क्रान्त्यादिसिद्धिरित्यर्थः ।
यथोक्तयोराहुत्योरुत्क्रान्त्यादिसमर्थनेनाग्निहोत्राद्यपूर्वस्य जगदारम्भकत्वमुक्तं भवतीत्याह —
तद्विद्यमानमिति ।
विद्यमानमेव विशदयति —
अपूर्णेति ।
अथ यथेत्यादितया विधया कथमपि पूर्वकल्पीयं कर्म प्रलयदशायामव्याकृतात्मना स्थितं पुनर्जगदारभतां तथाऽपीदानीन्तनमग्निहोत्रादिकं कर्म कथं जगदारम्भकं भविष्यतीत्याशङ्क्याऽऽह —
तथैवेति ।
विमतमारम्भकं तच्छक्तिमत्त्वात्संप्रतिपन्नवदिति भावः ।
अग्निहोत्रप्रकरणस्यार्थं संगृहीतमुपसंहरति —
एवमिति ।
उक्तमुपजीव्यं प्रकृतब्राह्मणप्रवृत्तिप्रकारं दर्शयति —
इह त्विति ।
उत्तरमार्गप्रतिपत्तिसाधनं विधित्सितमिति संबन्धः ।
किमित्युत्तरमार्गप्रतिपत्तिस्तत्राऽऽह —
विशिष्टेति ।
ब्राह्मणप्रवृत्तिमभिधायासौ वै लोकोग्निरित्यादिवाक्यप्रवृत्तिप्रकारमाह —
इति द्युलोकेति ।
इत्थं ब्राह्मणे स्थिते सतीत्येतत् ।
भवत्वेवं तथाऽपि के देवा इति प्रश्नस्य किमुत्तरं तत्राऽऽह —
तत्रेति ।
उक्तनीत्या पञ्चाग्निदर्शने प्रस्तुते सतीत्येतत् । इहेति व्यवहारभूमिग्रहः ।
कथं तेषां तत्र होतृत्वं तदाह —
ते चेति ।
तथाऽपि कथं द्युलोकोऽग्नौ तेषां होतृत्वं तदाह —
त एवेति ।
तत्फलभोक्तृत्वादित्यत्र तच्छब्दोऽग्निहोत्रादिकर्मविषयस्तद्भोक्तृत्वं च प्राणानां जीवोपाधित्वादवधेयम् । तथा तथा द्युपर्जन्यादिसंबन्धयोग्याकारेणेति यावत् ।
के देवा इति प्रश्नो निर्णीतः संप्रत्यवशिष्टं प्रश्नद्वयं निर्णेतुमाह —
अत्र चेति ।
जीवदवस्थायामिति यावत् । सह कर्त्रेत्यत्र तच्छब्दो द्रष्टव्यः । अमुं लोकमाविशतीति संबन्धः ।
आवेशप्रकारमाह —
धूमादीति ।
कथमेतावता किं पुनः श्रद्धाख्यं हविरिति प्रश्नो निर्णीतस्तत्राऽऽह —
ताः सूक्ष्मा इति ।
तथाऽपि कथं जुह्वतीति प्रश्नस्य कथं निर्णयस्तत्राऽऽह —
सोमलोक इति ।
तथाऽपि तस्या आहुतेः सोमो राजा संभवतीति कथमुच्यते तत्राऽऽह —
तास्तत्रेति ।
निर्णीतेऽर्थे श्रुतिमवतारयति —
तदेतदिति ।
कथं पुनरापः श्रद्धाशब्दवाच्या न हि लोके श्रद्धाशब्दं तासु प्रयुञ्जते तत्राऽऽह —
श्रद्धेति ।
उपक्रमवशादप्यापोऽत्र श्रद्धाशब्दवाच्या इत्याह —
वेत्थेति ।
अपामेव पुरुषशब्दवाच्यानां शरीरारम्भकत्वान्न भूतान्तराणामिति कृत्वा तस्य पञ्चभूतारब्धत्वाभ्युपगमभङ्गः स्यादिति चेन्नेत्याह —
भूयस्त्वादिति ।
अपां पुरुषशब्दवाच्यत्वे हेत्वन्तरमाह —
कर्मेति ।
अथाकर्मप्रयुक्तमपि प्रकृष्टं जन्मास्ति तत्कथमपां सर्वत्र पुरुषशब्दवाच्यत्वं तत्राऽऽह —
कर्मकृतो हीति ।
अन्यथा तत्र तत्र सुखदुःखप्रभेदोपभोगासंभवादिति भावः ।
यदि कर्मापूर्वशब्दवाच्यं भूतसूक्ष्मं सर्वत्र शरीरारम्भकं कथं तर्हि पूर्वमग्निहोत्राहुत्योरेव व्यक्तजगदारम्भकत्वमुक्तं तत्राऽऽह —
तत्रेति ।
लक्ष्यन्तेऽग्निहोत्राहुत्येति शेषः ।
लक्षणायां पूर्वोत्तरवाक्ययोर्गमकमाह —
दाराग्नीति ॥९॥
आद्यमाहुत्याधारमेवं निरूप्याऽऽहुत्याधारान्तराणि क्रमेण निरूपयति —
पर्जन्यो वा अग्निरित्यादिना ।
कुतोऽस्य द्वितीयत्वमिति शङ्कित्वोक्तम् —
आहुत्योरिति ।
अस्ति खल्वभ्राणां धूमप्रभवत्वे गाथा ‘धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः’(मेघसन्देशः १-५) इति ॥१०॥
एतल्लोकपृथिव्योर्देहदेहिभावेन भेद इत्याह —
पृथिवीच्छायां हीति ।
‘एतानि हि चन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयन्’ इति श्रुतेरात्रेस्तमत्वावगमात्तस्य च मृत्युर्वै तमश्छाया मृत्युमेव तत्तमश्छायां तरतीति भूछायात्वं श्रुतम् । तमो राहुस्थानं तच्च भूच्छायेति हि प्रसिद्धम् –
“उधृत्य पृथिवीच्छायां निर्मितं मण्डलाकृति । स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् ॥“
इति स्मृतेरित्यर्थः । सोमचन्द्रमसोराश्रयाश्रयिभावेन भेदः ॥११॥
योग्यानुपलब्धिविरोधमाशङ्कते —
नन्विति ।
इहेति पुरुषाग्निनिर्देशः ।
शङ्कितं विरोधं निराकरोति —
नैष दोष इति ।
उपपत्तिमेव दर्शयति —
अधिदैवमिति ॥१२॥
तस्या आहुत्यै पुरुषः संभवतीति वाक्यं व्याकरोति —
एवमिति ।
पञ्चाग्निदर्शनस्य चतुर्थप्रश्ननिर्णायकत्वेन प्रकृतोपयोगं दर्शयति —
यः प्रश्न इति ।
निर्णयप्रकारमनुवदति —
पञ्चम्यामिति ।
यथोक्तनीत्या जाते देहे कथं पुरुषस्य जीवनकालो नियम्यते तत्राऽऽह —
स पुरुष इति ।
पञ्चाग्निक्रमेण जातोऽग्निलयश्चाहं तेनाग्न्यात्मेति ध्यानसिद्धये षष्ठमग्निमन्त्याहुत्यधिकरणं प्रस्तौति —
अथेति ।
जीवननिमित्तकर्मविषयस्तच्छब्दः ॥१३॥
वक्ष्यमाणकीटादिदेहव्यावृत्तये भास्वरवर्णविशेषणम् । दीप्त्यतिशयवत्त्वे हेतुमाह —
निषेकादिभिरिति ॥१४॥
पञ्चाग्निविदो गतिं विवक्षुरुत्तरग्रन्थमवतायति —
इदानीमिति ।
ये विदुस्तेऽर्चिषमभिसंभवन्तीति संबन्धः ।
एवंशब्दस्य प्रकृतपञ्चाग्निपरामर्शित्वं स्फुटीकर्तुं चोदयति —
नन्विति ।
एवमेतद्विदुरिति श्रुतमेतद्दर्शनमित्युक्तं तदेवेदमिति प्रत्यभिज्ञापकं दर्शयति —
तत्र हीति ।
आदिपदमादित्यं समिधमित्यादि संग्रहीतुम् , रश्मीनां धूमत्वमह्नोऽर्चिष्ट्वमित्यादि ग्रहीतुं द्वितीयमादिपदम् ।
प्रत्यभिज्ञाफलमाह —
तस्मादिति ।
प्रश्नप्रतिवचनविषयस्यैव प्रकृतस्यैवंशब्दस्य परामर्शान्न षट्प्रश्नीयं दर्शनमिह परामृष्टमिति परिहरति —
नेत्यादिना ।
संगृहीतं परिहारं विवृणोति —
यतिथ्यामित्यस्येति ।
व्यधिकरणे षष्ट्यौ । यावदेव वस्तुपरिग्रहो विषय इत्यर्थः ।
षट्प्रश्नीयमेव व्यवहितं दर्शनमत्र परामृष्टं चेत्तदा यतिथ्यामिति प्रश्नो व्यर्थः स्यात् । षट्प्रश्नीनिर्णीतदर्शनशेषभूतदर्शनस्य प्रश्नादृते प्रतिवचनसंभवादित्याह —
अन्यथेति ।
किञ्च पूर्वस्मिन्ग्रन्थे प्रचयशिष्टतया पञ्चत्वसंख्याया निश्चितत्वात्तदवच्छिन्नाः साम्पादिकाग्नय एवात्रैवंशब्देन पराम्रष्टुमुचिता इत्याह —
निर्ज्ञातत्वाच्चेति ।
अग्निहोत्रप्रकरणे निर्ज्ञातमेवाग्न्यादि पूर्वग्रन्थेऽप्यनूद्यते । तथा चाग्निहोत्रदर्शनमव्यवहितमेवंशब्देन किं न परामृष्टमिति शङ्कते —
अथेति ।
अग्निहोत्रदर्शनं पूर्वग्रन्थेऽनूद्यते चेत्तत्प्रकरणे प्राप्तं रूपमनतिक्रम्यैवान्तरिक्षादेरप्यत्रानुवदनं स्यान्न तु तद्वैपरीत्येनानुवदनं युक्तम् । अनुवादस्य पुरोवादसापेक्षत्वात् । न चात्रान्तरिक्षाद्यनूद्यते । तस्मादेवंशब्दो नाग्निहोत्रपरामर्शीति परिहरति —
यथा प्राप्तस्येति ।
द्युलोकादिवादस्यान्तरिक्षाद्युपलक्षणार्थत्वात्पूर्वस्यानुवादत्वसंभवादेवंशब्दस्याग्निहोत्रविषयत्वसिद्धिरिति चोदयति —
अथेति ।
प्रापकाभावादुपलक्षणपक्षायोगेऽप्यङ्गीकृत्य पञ्चाग्निनिर्देशवैयर्थ्येन दूषयति —
तथाऽपीति ।
इतश्च स्वतन्त्रमेव पञ्चाग्निदर्शनमेवंशब्दपरामृष्टमित्याह —
श्रुत्यन्तराच्चेति ।
समिदादिसाम्यदर्शनादग्निहोत्रदर्शनशेषभूतमेवैतद्दर्शनमित्युक्तमनूद्य दूषयति —
यत्त्वित्यादिना ।
अवोचामाग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तमित्यत्रेति शेषः ।
एवंशब्देनाग्निहोत्रपरामर्शासंभवे फलितमाह —
तस्मादिति ।
तच्छब्दार्थमेव स्फुटयति —
एवमितीति ।
प्रकृतं पञ्चाग्निदर्शनं तच्च स्वतन्त्रमित्युक्तं तद्वतामर्चिरादिप्रतिपत्तिर्न केवलकर्मिणामित्यर्थः ।
प्रश्नपूर्वकं वेदितृविशेषं निर्दिशति —
के पुनरित्यादिना ।
गृहस्थानां यज्ञादिना पितृयाणप्रतिपत्तेर्वक्ष्यमाणत्वान्न देवयाने पथि प्रवेशोऽस्तीति शङ्कते —
नन्विति ।
पञ्चाग्निविदां गृहस्थानां देवयाने पथ्यधिकारस्तद्रहितानां तु तेषामेव यज्ञादिना पितृयाणप्राप्तिरिति विभागोपपत्तेर्न वाक्यशेषविरोधोऽस्तीति समाधत्ते —
नेत्यादिना ।
एवं विदुरिति सामान्यवचनात्परिव्राजकादेरप्यत्र ग्रहणं स्यादिति चेन्नेत्याह —
भिक्षुवानप्रस्थयोश्चेति ।
विधान्तरेण तयोरुत्तरमार्गे प्रवेशान्न पञ्चाग्निविषयत्वेन ग्रहणं पुनरुक्तेरित्यर्थः ।
गृहस्थानामेव पञ्चाग्निविदां तत्र ग्रहणमित्यत्र हेत्वन्तरमाह —
ग्रहस्थेति ।
ब्रह्मचारिणां तर्हीह ग्रहणं भविष्यति नेत्याह —
अत इति ।
पञ्चाग्निदर्शनस्य गृहस्थकर्मसंबन्धादेवेत्येतत् ।
कथं तर्हि नैष्ठिकब्रह्मचारिणां देवयाने पथि प्रवेशस्तत्राऽऽह —
तेषां त्विति ।
अर्यम्णः संबन्धी यः पन्थास्तमासाद्य तेनोत्तरेण पथा ते यथोक्तसंख्या ऋषयः सापेक्षममृतत्वं प्राप्ता इति स्मृत्यर्थः ।
आश्रमान्तराणां पञ्चाग्निविषयत्वेनाग्रहणे फलितमाह —
तस्मादिति ।
अग्निजत्वे फलितमाह —
अग्न्यपत्यमिति ।
अग्निजत्वं साधयति —
एवमिति ।
अग्न्यपत्यत्वे किं स्यात्तदाह —
अग्नीति ।
इत्येवं ये गृहस्था विदुस्ते चेति योजना । अरण्यं स्त्रीजनासंकीर्णो देशः । परिव्राजकाश्चेति त्रिदण्डिनो गृह्यन्तेऽन्येषामेषणाभ्यो व्युत्थितानां सम्यग्ज्ञाननिष्ठानां देवयाने पथ्यप्रवेशादाश्रममात्रनिष्ठा वा तेऽपि गृह्येरन्निति द्रष्टव्यम् ।
श्रद्धाऽपि स्वयमुपास्या कर्मत्वश्रवणादित्याशङ्क्य प्रत्ययमात्रस्य सापेक्षत्वादुपास्यत्वानुपपत्तेर्मैवमित्याह —
न पुनरिति ।
सर्वे पञ्चाग्निविदः सत्यब्रह्मविदश्चेत्यर्थः ।
विनाऽपि विद्याबलमर्चिरभिसंपत्तिः स्यादिति चेन्नेत्याह —
यावदिति ।
कर्म कृत्वा लोकं प्रत्युत्थायिन इति पूर्वेण संबन्धः ।
केवलकर्मिणां देवयानमार्गप्राप्तिर्नास्तीत्युक्तं निगमयति —
इत्येवमेवेति ।
विदुषामेव देवयानप्राप्तिमुपसंहरति —
यदा त्विति ।
नन्वर्चिषो ज्वालात्मनोऽस्थैर्यात्तदभिसंपत्तिर्न फलाय कल्पते तत्राऽऽह —
अर्चिरितीति ।
अर्चिःशब्देन यथोक्तदेवताग्रहे लिङ्गमाह —
न हीति ।
अतोऽर्चिर्देवतायाः सकाशादिति यावत् ।
अहःशब्दस्य कालविषयत्वमुक्तदोषाभावादिति चेन्नेत्याह —
मरणेति ।
नियमाभावमेव व्यनक्ति —
आयुष इति ।
विद्वद्विषये नियममाशङ्क्याऽऽह —
न हीति ।
ननु रात्रौ मृतोऽपि विद्वानहरपेक्ष्य फली संपत्स्यते नेत्याह —
न चेति ।
एकस्मिन्नेव ब्रह्मलोके कथं बहुवचनमित्याशङ्क्याऽऽह —
ब्रह्मेति ।
ब्रह्मलोकानिति बहुवचनप्रयोगादिति संबन्धः । अत्र ब्रह्मलोका विशेष्यत्वेन गृह्यन्ते ।
बहुवचनोपपत्तौ हेत्वन्तरमाह —
उपासनेति ।
कल्पशब्दोऽत्रावान्तरकल्पविषयः ।
तेषामिह न पुनरावृत्तिरिति क्वचित्पाठादस्मिन्नित्यादिव्याख्यानमयुक्तमिति शङ्कते —
इहेति ।
यथा “श्वोभूते पौर्णमासीं यजेते”त्यत्राकृतिः पौर्णमासीशब्दार्थः श्वोभूतत्वं च न व्यावर्तकं पौर्णमासीपदलक्ष्येष्टेः प्रतिपद्येव कर्तव्यतानियमात्तथेहाऽऽकृतेरिहशब्दार्थत्वान्निरङ्कुशैवानावृत्तिरत्र सिध्यतीत्यर्थः ।
परिहरति —
नेत्यादिना ।
परोक्तं दृष्टान्तं विघटयति —
श्वोभूत इति ।
कृतसंभारदिवसापेक्षं हि श्वोभूतत्वं पौर्णमासीदिने चातुर्मास्येष्टौ कृतायां कदा पौर्णमासीष्टिः कर्तव्येति विना वचनं न ज्ञायते तत्र श्वोभूतत्वं विशेषणं भवत्यन्यव्यावर्तकं तद्वदिहेति विशेषणमपि व्यावर्तकमेवेति नाऽऽत्यन्तिकानावृत्तिसिद्धिरित्यर्थः ।
यत्तु पौर्णमासीशब्दवदिहशब्दस्याऽऽकृतिवाचित्वादव्यावर्तकत्वमिति तत्राऽऽह —
न हीति ।
यद्यपि प्रकृते वाक्ये पौर्णमासीशब्दो भवत्याकृतिवचनस्तथाऽपि श्वःशब्दार्थोऽपि काचिदाकृतिरस्तीत्यङ्गीकृत्याव्यावर्तकः श्वोभूतशब्दो नैव प्रयुज्यते । तथाऽत्रापि विशेषणशब्दस्य व्यावर्तकत्वमावश्यकमित्यर्थः ।
सुषिरमाकाशमित्यादौ व्यावर्त्याभावेऽपि विशेषणप्रयोगवदत्रापि विशेषणं स्वरूपानुवादमात्रमित्याशङ्क्याऽऽह —
यत्र त्विति ।
विशेषणफलमुपसंहरति —
तस्मादिति ॥१५॥
देवयानं पन्थानमुक्त्वा पथ्यन्तरं वक्तुं वाक्यान्तरमादाय पदद्वयं व्याकरोति —
अथेत्यादिना ।
कथं ते फलभागिनो भवन्तीत्याशङ्क्याऽऽह —
यज्ञेनेति ।
ननु दानतपसी यज्ञग्रहणेनैव गृहीते न पृथग्ग्रहीतव्ये तत्राऽऽह —
बहिर्वेदीति ।
दीक्षादीत्यादिपदेन पयोव्रतादियज्ञाङ्गसंग्रहः । तत्रेति पितृलोकोक्तिः अपिशब्दो ब्रह्मलोकदृष्टान्तार्थः ।
धूमसंपत्तेरपुरुषार्थत्वमाशङ्क्योक्तम् —
उत्तरमार्ग इवेति ।
इहापीति पितृयाणमार्गेऽपीत्यर्थः । तद्वदेवेत्युत्तरमार्गगामिनीनां देवतानामिवेत्यर्थः । तत्रेति प्रकृतलोकोक्तिः ।
कर्मिणां तर्हि देवैर्भक्ष्यमाणानां चन्द्रलोकप्राप्तिरनर्थायैवेत्याशङ्क्याऽऽह —
उपभुञ्जत इति ।
अन्यथाप्रतिभासं व्यावर्तयति —
आप्यायस्वेति ।
एवं देवा अपीति संक्षिप्तं दार्ष्टान्तिकं विवृणोति —
सोमलोक इति ।
कथं पौनःपुन्येन विश्रान्तिः संपाद्यते तत्राऽऽह —
कर्मानुरूपमिति ।
दृष्टान्तवद्दार्ष्टान्तिके किमित्याप्यायनं नोक्तं तत्राऽऽह —
तद्धीति ।
पुनः पुनर्विश्रामाभ्यनुज्ञानमिति यावत् ।
लोकद्वयप्रापकौ पन्थानावित्थं व्याख्याय पुनरेतल्लोकप्राप्तिप्रकारमाह —
तेषामित्यादिना ।
कथं चन्द्रस्थलस्खलितानां कर्मिणामाकाशतादात्म्यमित्याशङ्क्याऽऽह —
यास्ता इति ।
सोमाकारपरिणतत्वमेव स्फोरयति —
याभिरिति ।
तस्य झटिति द्रवीभवनयोग्यतां दर्शयति —
अम्मयमिति ।
साभाव्यापत्तिरुपपत्तेरिति न्यायेनाऽऽह —
आकाशभूता इति ।
आकाशाद्वायुप्राप्तिप्रकारमाह —
ते पुनरिति ।
अन्याधिष्ठिते पूर्ववदभिलापादिति न्यायेनाऽऽह —
ते पृथिवीमिति ।
रेतःसिग्योगोऽथेति न्यायमाश्रित्याऽऽह —
ते पुनरिति ।
योनेः शरीरमिति न्यायमनुसृत्याऽऽह —
तत इति ।
उत्पन्नानां केषाञ्चिदिष्टादिकारित्वमाह —
लोकमिति ।
कर्मानुष्ठानानन्तरं तत्फलभागित्वमाह —
ततो धूमादिनेति ।
सोमलोके फलभोगानन्तरं पुनरेतल्लोकप्राप्तिमाह —
पुनरिति ।
पौनःपुन्येन विपरिवर्तनस्यावधिं सूचयति —
उत्तरमार्गायेति ।
प्राग्ज्ञानात्संसरणं षष्ठेऽपि व्याख्यातमित्याह —
इति न्विति ।
स्थानद्वयमावृत्तिसहितमुक्त्वा स्थानान्तरं दर्शयति —
अथेत्यादिना ।
स्थानद्वयात्तृतीये स्थाने विशेषं कथयति —
एवमिति ।
तृतीये स्थाने छान्दोग्यश्रुतिं संवादयति —
तथा चेति ।
अमुष्या गतेरतिकष्टत्वे परिशिष्टं वाक्यार्थमाचष्टे —
तस्मादिति ।
सर्वोत्साहो वाक्यकायचेतसां प्रयत्नः ।
यदुक्तमस्यां निमग्नस्य पुनरुद्धारो दुर्लभो भवतीति तत्र श्रुत्यन्तरमनुकूलयति —
तथा चेति ।
अतो व्रीह्यादिभावादित्यर्थः । तस्मादित्यतिकष्टात्संसारादित्यर्थः ।
दक्षिणोत्तरमार्गप्राप्तिसाधने यत्नसाम्यमाशङ्क्याऽऽह —
अत्रापीति ।
पञ्च प्रश्नान्प्रस्तुत्य किमिति प्रत्येकं तेषां निर्णयो न कृत इत्याशङ्क्याऽऽह —
एवमिति ।
निर्णीतं प्रकारमेव संगृह्णाति —
असावित्यादिना ।
प्राथम्येन निर्णीत इति संबन्धः । देवयानस्येत्यादिः पञ्चमः प्रश्नः । स तु द्वितीयत्वेन दक्षिणादिमार्गापत्तिसाधनोक्त्या निर्णीत इत्यर्थः । तेनैव मार्गद्वयप्राप्तिसाधनोपदेशेनैवेति यावत् ।
मृतानां प्रजानां विप्रतिपत्तिः प्रथमप्रश्नस्तस्य निर्णयप्रकारमाह —
अग्नेरिति ।
द्वितीयप्रश्नस्वरूपमनूद्य तस्य निर्णीतत्वप्रकारं प्रकटयति —
पुनरावृत्तिश्चेति ।
आगच्छन्तीति निर्णीत इत्युत्तरत्र संबन्धः । तेनैव पुनरावृत्तेः सत्त्वेनेत्यर्थः । अमुष्य लोकस्यासंपूर्तिर्हि तृतीयः प्रश्नः। स च द्वाभ्यां हेतुभ्यां प्रागुक्ताभ्यां निर्धारितो भवतीति भावः ॥१६॥