अद्वैतशारदा

भामतीव्याख्या

सर्वत्रप्रसिद्ध्यधिकरणविषयाः

व्याख्याः

अथ द्वितीयं पादमारिप्सुः पूर्वोक्तमर्थं स्मारयति वक्ष्य­मा­णो­प­यो­गि­तया -
प्रथमे पाद इति ।
उत्तरत्र हि ब्रह्मणो व्यापि­त्व­नि­त्य­त्वा­दयः सिद्ध­व­द्धे­तु­त­यो­प­दे­क्ष्यन्ते ।

न चैते साक्षा­त्पू­र्व­मु­प­पा­दिता इति कथं हेतुभावेन न शक्या उपदेष्टुमित्यत उक्तम् -
सम­स्त­ज­ग­त्का­र­ण­स्येति ।
यद्यप्येते न पूर्वं कण्ठत उक्तास्तथापि ब्रह्मणो जग­ज्ज­न्मा­दि­का­र­ण­त्वो­प­प­दा­ने­ना­धि­क­र­ण­सि­द्धा­न्त­न्या­ये­नो­प­क्षिप्ता इत्यु­प­प­न्न­स्ते­षा­मु­त्त­रत्र हेतु­भा­वे­नो­प­न्यास इत्यर्थः ।

अर्था­न्त­र­प्र­सि­द्धानां चेति ।
यत्रा­र्था­न्त­र­प्र­सिद्धा एवा­का­श­प्रा­ण­ज्यो­ति­रा­दयो ब्रह्मणि व्याख्यायन्ते, तद­व्य­भि­चा­रि­लि­ङ्ग­श्र­व­णात् । तत्र कैव कथा मनो­म­या­दी­ना­म­र्था­न्तरे प्रसिद्धानां पदानां ब्रह्म­गो­च­र­त्व­नि­र्णयं प्रती­त्य­भि­प्रायः । पूर्व­प­क्षा­भि­प्रायं त्वग्रे दर्शयिष्यामः ।

सर्वत्र प्रसि­द्धो­प­दे­शात् । इदमाम्नायते । सर्वं खल्विदं ब्रह्म ।

कुतः,
तज्जलानिति ।
यत­स्त­स्मा­द्ब्र­ह्मणो जायत इति तज्जं, तस्मिंश्च लीयत इति तल्लं, तस्मिंश्चानिति स्थितिकाले चेष्टत इति तदनं जगत् तस्मात्सर्वं खल्विदं जगद्ब्रह्म । अतः कः कस्मिन्रज्यते कश्च कं द्वेष्टीति रागद्वेषरहितः शान्तः सन्नुपासीत ।

अथ खलु क्रतुमयः पुरुषो यथा­क्र­तु­र­स्मिं­ल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत मनोमयः प्राणशरीर इत्यादि ।
तत्र संशयः - किमिह मनो­म­य­त्वा­दि­भि­र्धर्मैः शारीर आत्मो­पा­स्य­त्वे­नो­प­दि­श्यते आहो­स्वि­द्ब्र­ह्मेति । किं तावत्प्राप्तम् । शारीरो जीव इति । कुतः । “क्रतुम्” इत्यादिवाक्येन विहितां क्रतु­भा­व­ना­म­नूद्य “सर्वम्” इत्यादिवाक्यं शमगुणे विधिः । तथा च “सर्वं खल्विदं ब्रह्म”(छा. उ. ३ । १४ । १) इति वाक्यं प्रथ­म­प­ठि­त­म­प्य­र्था­लो­च­नया परमेव, तद­र्थो­प­जी­वि­त्वात् । एवं च सङ्कल्पविधिः प्रथमो निर्विषयः सन्न­प­र्य­व­स्य­न्वि­ष­या­पेक्षः स्वयमनिर्वृत्तो न विध्य­न्त­रे­णो­प­जी­वितुं शक्यः, अनुपपादकत्वात् । तस्मा­च्छा­न्त­ता­गु­ण­वि­धा­ना­त्पू­र्व­मेव “मनोमयः प्राणशरीरः”(छा. उ. ३ । १४ । २) इत्या­दि­भि­र्वि­ष­यो­प­ना­यकैः सम्बध्यते । मनोमयत्वादि च कार्य­का­र­ण­स­ङ्घा­ता­त्मनो जीवात्मन एव निरूढमिति जीवा­त्म­नो­पा­स्ये­नो­प­र­क्तो­पा­सना न पश्चात्ब्रह्मणा सम्बद्धुमर्हति, उत्प­त्ति­शि­ष्ट­गु­णा­व­रो­धात् । नच “सर्वं खल्विदम्”(छा. उ. ३ । १४ । १) इति वाक्यं ब्रह्मपरमपि तु शम­हे­तु­व­न्नि­ग­दा­र्थ­वादः शान्तताविधिपरः, “शूर्पेण जुहोति” “तेन ह्यन्नं क्रियते” इतिवत् । न चान्यपरादपि ब्रह्मा­पे­क्षि­त­तया स्वीक्रियत इति युक्तं, मनो­म­य­त्वा­दि­भि­र्ध­र्मै­र्जीवे सुप्र­सि­द्धै­र्जी­व­वि­ष­य­स­म­र्प­णे­ना­न­पे­क्षि­त­त्वात् । सर्वकर्मत्वादि तु जीवस्य पर्यायेण भविष्यति । एवं चाणी­य­स्त्व­म­प्यु­प­प­न्नम् । पर­मा­त्म­न­स्त्व­प­रि­मे­यस्य तदनुपपत्तिः । प्रथमावगतेन चाणीयस्त्वेन ज्यायस्त्वं तदनुगुणतया व्याख्येयम् । व्याख्यातं च भाष्यकृता । एवं कर्म­क­र्तृ­व्य­प­देशः सप्त­मी­प्र­थ­मा­न्तता चाभेदेऽपि जीवात्मनि कथ­ञ्चि­द्भे­दो­प­चा­रेण राहोः शिर इति­व­द्द्र­ष्टव्या । ‘एतद्ब्रह्म’ इति च जीवविषयं, जीवस्यापि देहा­दि­बृं­ह­ण­त्वेन ब्रह्मत्वात् । एवं सत्य­स­ङ्क­ल्प­त्वा­द­योऽपि परमात्मवर्तिनो जीवेऽपि सम्भवन्ति, तदव्यतिरेकात् । तस्माज्जीव एवो­पा­स्य­त्वे­नात्र विवक्षितः, न परमात्मेति प्राप्तम् । एवं प्राप्तेऽ­भि­धी­यते - “समासः सर्वनामार्थः संनि­कृ­ष्ट­म­पे­क्षते । तद्धितार्थोऽपि सामान्यं नापेक्षाया निवर्तकः ॥ तस्मादपेक्षितं ब्रह्म ग्राह्य­म­न्य­प­रा­दपि । तथा च सत्य­स­ङ्क­ल्प­प्र­भृ­तीनां यथार्थता” ॥ भवेदेतदेवं यदि प्राणशरीर इत्यादीनां साक्षा­ज्जी­व­वा­च­कत्वं भवेत् । न त्वेतदस्ति । तथा हि - प्राणः शरीरमस्येति सर्वनामार्थो बहुव्रीहिः संनिहितं च सर्वनामार्थं सम्प्राप्य तदभिधानं पर्यवस्येत् । तत्र मनोमयपदं पर्यवसिताभिधानं तद­भि­धा­न­प­र्य­व­सा­ना­यालं, तदेव तु मनोविकारो वा मनःप्रचुरं वा किम­र्थ­मि­त्य­द्यापि न विज्ञायते । तद्यत्रैष शब्दः समवेतार्थो भवति स समासार्थः । न चैष जीव एव समवेतार्थो न ब्रह्मणीति, तस्य “अप्राणो ह्यमनाः”(मु. उ. २ । १ । २) इत्या­दि­भि­स्त­द्वि­र­ह­प्र­ति­पा­द­ना­दिति युक्तम् , तस्यापि सर्व­वि­का­र­का­र­ण­तया, विकाराणां च स्वका­र­णा­द­भे­दा­त्तेषां च मनोमयतया ब्रह्म­ण­स्त­त्का­र­णस्य मनो­म­य­त्वो­प­पत्तेः । स्यादेतत् । जीवस्य साक्षा­न्म­नो­म­य­त्वा­दयः, ब्रह्मणस्तु तद्द्वारा । तत्र प्रथमं द्वारस्य बुद्धि­स्थ­त्वा­त्त­दे­वो­पा­स्य­मस्तु, न पुनर्जघन्यं ब्रह्म । ब्रह्मलिङ्गानि च जीवस्य ब्रह्म­णोऽ­भे­दा­ज्जी­वेऽ­प्यु­प­प­त्स्यन्ते । तदेतदत्र सम्प्रधार्यम् - किं ब्रह्म­लि­ङ्गै­र्जी­वानां तदभिन्नानामस्तु तद्वत्ता, तथाच जीवस्य मनोमयत्वादिभिः प्रथ­म­म­व­ग­मा­त्त­स्यै­वो­पा­स्यत्वं, उत न जीवस्य ब्रह्म­लि­ङ्ग­वत्ता तदभिन्नस्यापि । जीवलिङ्गैस्तु ब्रह्म तद्वत्, तथाच ब्रह्मलिङ्गानां दर्शनात् , तेषां च जीवेऽ­नु­प­प­त्ते­र्ब्र­ह्मै­वो­पा­स्य­मिति । वयं तु पश्यामः “समारोप्यस्य रूपेण विषयो रूपवान्भवेत् । विषयस्य तु रूपेण समारोप्यं न रूपवत्” ॥ समारोपितस्य हि रूपेण भुजङ्गस्य भीषणत्वादिना रज्जू रूपवती, नतु रज्जू­रू­पे­णा­भि­ग­म्य­त्वा­दिना भुजङ्गो रूपवान् । तदा भुज­ङ्ग­स्यै­वा­भा­वात्किं रूपवत् । भुजङ्गदशायां तु न नास्ति वास्तवी रज्जुः । तदिह समा­रो­पि­त­जी­व­रू­पेण वस्तुसद्ब्रह्म रूपवद्युज्यते, नतु ब्रह्म­रू­पै­र्नि­त्य­त्वा­दि­भि­र्जी­व­स्त­द्वा­न्भ­वि­तु­म­र्हति, तस्य तदानीमसम्भवात् । तस्मा­द्ब्र­ह्म­लि­ङ्ग­द­र्श­ना­ज्जीवे च तद­स­म्भ­वा­द्ब्र­ह्मै­वो­पास्यं न जीव इति सिद्धम् । एतदुपलक्षणाय च “सर्वं खल्विदं ब्रह्म” इति वाक्य­मु­प­न्य­स्त­मिति ॥ १ ॥

यद्यप्यपौरुषेय इति ।
शास्त्र­यो­नि­त्वेऽ­पी­श्व­रस्य पूर्व­पू­र्व­सृ­ष्टि­र­चि­त­स­न्द­र्भा­पे­क्ष­र­च­न­त्वे­ना­स्वा­त­न्त्र्या­द­पौ­रु­षे­य­त्वा­भि­धानं, तथा चास्वा­त­न्त्र्येण विवक्षा नास्तीत्युक्तम् । परि­ग्र­ह­प­रि­त्यागौ चोपादनानुपादाने उक्ते, न तूपादेयत्वमेव । अन्य­थो­द्दे­श्य­त­या­नु­पा­दे­यस्य ग्रहा­दे­र­वि­व­क्षि­त­त्वेन चमसादावपि संमा­र्ग­प्र­स­ङ्गात् । तस्मा­द­नु­पा­दे­य­त्वेऽपि ग्रह उद्देश्यतया परिगृहीतो विवक्षितः । तद्गतं त्वेक­त्व­म­व­च्छे­द­क­त्वेन वर्जि­त­म­वि­व­क्षि­तम् । इच्छानिच्छे च भक्तितः ।

तदिदमुक्तम् -
वेद­वा­क्य­ता­त्प­र्या­ता­त्प­र्या­भ्या­म­व­ग­म्येते इति ।
यत्परं वेदवाक्यं तत्तेनोपात्तं विवक्षितम् , अतत्परेण चानु­पा­त्त­म­वि­व­क्षि­त­मि­त्यर्थः ॥ २ ॥

स्यादेतत् । यथा सत्य­स­ङ्क­ल्प­त्वा­दयो ब्रह्म­ण्यु­प­प­द्यन्ते, एवं शारी­रेऽ­प्यु­प­प­त्स्यन्ते, शारीरस्य ब्रह्मणोऽभेदात् । शारीरगुणा इव मनोमयत्वादयो ब्रह्मणीत्यत आह सूत्रकारः -
अनुपपत्तेस्तु न शारीरः ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥

यत्तदवोचाम समारोप्यधर्माः समारोपविषये सम्भवन्ति, नतु विषयधर्माः समारोप्य इति । तस्येत उत्थानम् । अत्राह चोदकः -
कः पुनरयं शारीरो नामेति ।
न ताव­द्भे­द­प्र­ति­षे­धा­द्भे­द­व्य­प­दे­शाच्च भेदाभेदावेकत्र तात्त्विकौ भवितुमर्हतो विरो­धा­दि­त्यु­क्तम् । तस्मादेकमिह तात्त्वि­क­म­ता­त्त्विकं चेतरत् , तत्र पौर्वा­प­र्ये­णा­द्वै­त­प्र­ति­पा­द­न­प­र­त्वा­द्वे­दा­न्तानां द्वैतग्राहिणश्च माना­न्त­र­स्या­भा­वा­त्त­द्बा­ध­नाच्च तेनाद्वैतमेव परमार्थः । तथा च “अनुपपत्तेस्तु”(ब्र.सू. १-२-३) इत्या­द्य­स­ङ्ग­ता­र्थ­मि­त्यर्थः ।

परिहरति -
सत्यमेवैतत् । पर एवात्मा देहे­न्द्रि­य­म­नो­बु­द्ध्यु­पा­धि­भि­र­वि­च्छि­द्य­मानो बालैः शारीर इत्युपचर्यते ।
अना­द्य­वि­द्या­व­च्छे­द­ल­ब्ध­जी­व­भावः पर एवात्मा स्वतो भेदेनावभासते । तादृशां च जीवानामविद्या, नतु निरूपाधिनो ब्रह्मणः । न चाविद्यायां सत्यां जीवात्मविभागः, सति च जीवात्मविभागे तदा­श्र­या­वि­द्ये­त्य­न्यो­न्या­श्र­य­मिति साम्प्रतम् । अनादित्वेन जीवा­वि­द्य­यो­र्बी­जा­ङ्कु­र­व­द­न­व­कॢ­प्ते­र­यो­गात् । नच सर्वज्ञस्य सर्वशक्तेश्च स्वतः कुतोऽ­क­स्मा­त्सं­सा­रिता, यो हि परतन्त्रः सोऽन्येन बन्धनागारे प्रवेश्येत, नतु स्वतन्त्र इति वाच्यम् । नहि तद्भागस्य जीवस्य सम्प्रतितनी बन्ध­ना­गा­र­प्र­वे­शिता, येनानुयुज्येत, किन्त्वियमनादिः पूर्व­पू­र्व­क­र्मा­वि­द्या­सं­स्का­र­नि­ब­न्धना नानुयोगमर्हति । न चैतावता ईश्वरस्यानीशता न ह्युप­क­र­णा­द्य­पे­क्षिता कर्तुः स्वातन्त्र्यं विहन्ति । तस्मा­द्य­त्कि­ञ्चि­दे­त­द­पीति ॥ ६ ॥ ॥ ७ ॥ विशेषादिति वक्तव्ये वैशे­ष्या­भि­धा­न­मा­त्य­न्तिकं विशेषं प्रतिपादयितुम् । तथा­ह्य­वि­द्या­क­ल्पितः सुखा­दि­स­म्भो­गोऽ­वि­द्या­त्मन एव जीवस्य युज्यते । नतु निर्मृ­ष्ट­नि­खि­ला­वि­द्या­त­द्वा­स­नस्य शुद्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य परमात्मन इत्यर्थः । शेष­म­ति­रो­हि­ता­र्थम् ॥ ६ ॥ ॥ ७ ॥॥ ८ ॥