भामतीव्याख्या
बहिरधिकरणविषयः
यदि नैष्ठिकादीनामस्ति प्रायश्चित्तं तत्किमेतैः कृतनिर्णेजनैः संव्यवहर्तव्यमुत नेति । तत्र दोषकृतत्वादसंव्यवहारस्य प्रायश्चित्तेन तन्निबर्हणादनिबर्हणे वा तत्करणवैयर्थ्यात्संव्यवहार्या एवेति प्राप्त उच्यते –
बहिस्तूभयथापि स्मृतेराचाराच्च ।
निषिद्धकर्मानुष्ठानजन्यमेनो लोकद्वयेऽप्यशुद्धिमापादयति द्वैधं कस्यचिदेनसो लोकद्वयेऽप्यशुद्धिरपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैः । कस्यचित्तु परलोकाशुद्धिमात्रमपनीयते प्रायश्चित्तैरेनोनिबर्हणं कुर्वाणैरिहलोकाशुद्धिस्त्वेनसापादिता न शक्यापनेतुम् । यथा स्त्रीबालादिघातिनाम् । यथाहुः “विशुद्धानपि धर्मतो न सम्पिबेत्” इति । तथा च “प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत्” कामतः कृतमपि । बालघ्नादिस्तु कृतनिर्णेजनोऽपि वचनादव्यवहार्य इह लोके जायत इति । वचनं च बालघ्नांश्चेत्यादि । तस्मात्सर्वमवदातम् ॥ ४३ ॥