भामतीव्याख्या
अन्यथात्वाधिकरणविषयाः
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ।
द्वया द्विप्रकाराः प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा असुराः । शास्त्रजन्यया सात्त्विक्या बुद्ध्या सम्पन्ना देवाः । ते हि दीव्यन्त इति देवाः । शास्त्रयुक्त्यपरिकल्पितमतयस्तामसवृत्तिप्रधाना असुरा असुभिः प्राणैरनिन्द्रियैरगृहीतैस्तेषु तेषु विषयेषु रमन्त इत्यसुरा अत एव ते ज्यायांसः । यतोऽमी तत्त्वज्ञानवन्तः कानीयसास्तु देवाः । अज्ञानपूर्वकत्वात्तत्त्वज्ञानस्य । प्राणस्य प्रजापतेः सात्त्विकवृत्त्युद्भवस्तामसवृत्त्यभिभवः कदाचित् । कदाचित्तामसवृत्त्युद्भवोऽभिभवश्च सात्त्विक्या वृत्तेः । सेयं स्पर्धा । ते ह देवा ऊचुः, हन्त असुरान् यज्ञ उद्गीथेनात्ययाम असुरान् जयामास्मिन्नाभिचारिके यज्ञ उद्गीथलक्षणसामभक्त्युपलक्षितेनोद्गात्रेण कर्मणेति । ते ह वाचमूचुरित्यादिना सन्दर्भेण वाक्प्राणचक्षुःश्रोत्रमनसामासुरपाप्मविद्धतया निन्दित्वा अथ हेममासन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं मुख्यं प्राणं प्राणाभिमानवतीं देवतामूचुस्त्वं न उद्गायेति । तथेत्यभ्युपगम्य तेभ्य एव प्राण उदगायत्तेऽसुरा विदुरनेन प्राणेनोद्गात्रा नोऽस्मान् देवा अत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाविध्यन्नसुरा यथाश्मानमृत्वा प्राप्य मृत्त्वाल्लोष्टो वा विध्वंसत एवं विध्वंसमाना विष्वञ्चोऽसुरा विनेशुः ।
तदेतत्सङ्क्षिप्याह –
वाजसनेयक इति ।
तथा छान्दोग्येऽप्येतदुक्तमित्याह –
तथा छान्दोग्येऽपीति ।
विषयं दर्शयित्वा विमृशति –
तत्र संशय इति ।
पूर्वपक्षं गृह्णाति –
विद्यैकत्वमिति ।
पूर्वपक्षमाक्षिपति –
ननु न युक्तमिति ।
एकत्रोद्गातृत्वेनोच्यते प्राण एकत्र चोद्गानत्वेन क्रियाकर्त्रोश्च स्फुटो भेद इत्यर्थः ।
समाधत्ते –
नैष दोष इति ।
बहुतररूपप्रत्यभिज्ञा नादप्रत्यभिज्ञायमानं किञ्चिल्लक्षणया नेतव्यम् ।
न केवलं शाखान्तरे, एकस्यामपि शाखायां दृष्टमेतन्न च तत्र विद्याभेद इत्याह –
वाजसनेयकेऽपि चेति ।
बहुतररूपप्रत्यभिज्ञानानुग्रहाय चोमित्यनेनापि उद्गीथावयवेन उद्गीथ एव लक्षणीय इति पूर्वपक्षः ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ।
बहुतरप्रत्यभिज्ञानेऽपि उपक्रमभेदात्तदनुरोधेन चोपसंहारवर्णनादेकस्मिन्वाक्ये तस्यैव चोद्गीथस्य पुनःपुनः सङ्कीर्तनाल्लक्षणायां च छान्दोग्ये वाजसनेयके प्रमाणाभावाद्विद्याभेद इति राद्धान्तः । ओङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानमोङ्कारस्य । तथाहि भूतपृथिव्योषधिपुरुषवागृक्साम्नां पूर्वस्योत्तरमुत्तरं रसतया सारतयोक्तम् । तेषां सर्वेषां रसतम ओङ्कार उक्तश्छान्दोग्ये ।
नच विवक्षितार्थभेद इति ।
एकत्रोद्गीथोद्गातारावुपास्यत्वेन विवक्षितावेकत्र तदवयव ओङ्कार इति । तथा ह्यभ्युदयवाक्ये इति । एवं हि श्रूयते “विवा एतं प्रजया पशुभिरर्धयति वर्धयत्यस्य भ्रातृव्यं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुं ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्” इति । तत्र सन्देहः किं कालापराधे यागान्तरमिदं चोद्यत उत तेष्वेव कर्मसु प्रकृतेषु कालापराधे निमित्ते देवतापनय इति । एष तावदत्र विषयः अमावास्यायामेव दर्शकर्मार्थं वेदिक्रियाग्निप्रणयनक्रिया व्रतादिश्च यजमानसंस्कारः । दध्यर्थश्च दोहः । प्रतिपदि च दर्शकर्मप्रवृत्तिरित्यनुष्ठानक्रमस्तात्त्विकः । यस्य तु यजमानस्य कुतश्चिद्भ्रमनिबन्धनाच्चतुर्दश्यामेवामावास्याबुद्धौ प्रवृत्तप्रयोगस्य चन्द्रमा अभ्युदीयते तत्रेदं श्रूयते “यस्य हविर्निरुप्तम्” इति । तेन यजमानेनाभ्युदितेनामावास्यायामेव निमित्ताधिकारं परिसमाप्य पुरस्तदहरेव वेद्युद्धरणादिकर्म कृत्वा प्रतिपदि दर्शः प्रवर्तयितव्यः । तत्राभ्युदये किं नैमित्तिकमिदं कर्मान्तरं दर्शाच्चोद्यत उत तस्मिन्नेव दर्शकर्मणि पूर्वदेवतापनयनेन देवतान्तरं विधीयत इति । तत्र हविर्भागमात्रश्रवणाच्चरुविधानसामर्थ्याच्च कर्मान्तरम् । यदि हि पूर्वदेवताभ्यो हवींषि विभजेदिति श्रूयते ततस्तान्येव हवींषि देवतान्तरेण युज्यमानानि न कर्मान्तरं गमयितुमर्हन्ति किन्तु प्रकृतमेव कर्म तद्धविष्कमपनीतपूर्तदेवताकं देवतान्तरयुक्तं स्यात् । अत्र पुनस्त्रेधा तण्डुलान् विभजेदिति हविष एव मध्यमादिक्रमेण विभागश्रवणादनपनीता हविषि पूर्वदेवता इति पूर्वदेवतावरुद्धे हविषि देवतान्तरमलब्धावकाशं श्रूयमाणं कर्मान्तरमेव गोचरयेत् । अपिच प्राप्ते पूर्वस्मिन् कर्मणि दध्नस्तण्डुलानां पयसस्तण्डुलानां चेन्द्रादिदेवता सम्बन्धश्च विधातव्यः । चरुत्वं चात्र विहितं नास्तीति तदपि विधातव्यम् । तथा प्राप्ते कर्मण्यनेकगुणविधानाद्वाक्यं भिद्येत । कर्मान्तरं त्वपूर्वं शक्यमेकेनैव प्रयत्नेनानेकगुणविशिष्टं विधातुमिति निमित्ते कर्मान्तरमेव विधीयते । दर्शस्तु लुप्यते कालापराधादिति प्राप्त उच्यते न कर्मान्तरम् । पूर्वदेवतातो हविषो विभागपूर्वं निमित्ते देवतान्तरविधानात् । चर्वर्थस्य चार्थप्राप्तेः । भवेदेतदेवं यदा त्रेधा तण्डुलान् विभजेदिति तण्डुलानां त्रेधा विभागविधानपरमेतद्वाक्यं स्यादपि तु वाक्यान्तरप्राप्तं तण्डुलानां त्रेधात्वमनूद्य विभजेदित्येतावद्विधत्ते तत्र वाक्यान्तरालोचनया पूर्वदेवताभ्य इति गम्यते तण्डुलानिति त्वविवक्षितं हविरुभयत्ववत् । तथा च ये मध्यमा इत्यादीनि वाक्यान्यपनीते पूर्ववत्देवतासम्बन्धे हविषस्तस्मिन्नेव कर्मण्यप्रत्यूहं देवतान्तरसम्बन्धं विधातुं शक्नुवन्ति । तथाच द्रव्यमुखेन प्रकृतमुखप्रत्यभिज्ञानाद्देवतान्तरसम्बन्धेऽपि न कर्मान्तरकल्पनाभवितुमर्हति । ततश्च समाप्तेऽपि नैमित्तिकाधिकारसिद्ध्यर्थं तान्येव पुनः कर्माण्यनुष्ठेयानि । नच दधनि चरुमिति चरुसप्तम्यर्थयोर्विधानं तयोरप्यर्थप्राप्तत्वात् । प्रकृते हि कर्मणि तण्डुलपेषणप्रथनं पुरोडाशपाकादि दधिपयसी च प्राप्तानि तत्राभ्युदयनिमित्ते दधियुक्तानां पयोयुक्तानां च तण्डुलानां विभजेदिति वाक्येन पूर्वदेवतापनयं कृत्वा ये मध्यमा इत्यादिभिर्वाक्यैर्देवतान्तरसम्बन्धः कृतः । नच प्रभूतदधिपयः संसक्तैरल्पैस्तण्डुलैः पुरोडाशक्रिया सम्भवति । इति पुरोडाशनिवृत्तौ तदर्थस्य प्रथनस्यापि निवृत्तिरनिवृत्तस्तु पाकोऽपवादाभावात्तथा चार्थप्राप्तश्चोद्यते । भवतु वा अनेकवाक्यकल्पनम् । प्रकृताधिकारावगमबलादस्यापि न्याय्यत्वादिति । तस्मात्तदेवेदं कर्म न तु कर्मान्तरमिति सिद्धम् । पशुकामवाक्ये त्वपूर्वकर्मविधिरभ्युदयवाक्यसारूप्येऽपि । “यः पशुकामः स्यात्सोऽमावास्यामिष्ट्वा वत्सानपाकुर्याद्ये स्थविष्ठास्तानग्नये सनिमतेऽष्ठाकपालं निर्वपेद्ये मध्यमास्तान् विष्णवे शिपिविष्टाय शृते चरुं ये क्षोदिष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्” इति । अत्र हि अमावास्यामिष्ट्वेति समाप्ते यागे पशुकामेष्टिविधानं नात्र पूर्वस्य कर्मणोऽननुवृत्तेर्यागान्तरविधिरिति युक्तम् ।
परोवरीयस्त्वादिवत् ।
यथोद्गीथोपासनासाम्येऽपि आदित्यगतहिरण्यश्मक्षुत्वादिगुणविशिष्टोद्गीथोपासनातः परोवरीयस्त्वगुणविशिष्टोद्गीथोपासना भिन्ना तद्वदिदमपीति । परस्मात्परो वराच्च वरीयानिति परोवरीयानुद्गीथः परमात्मरूपः सम्पन्नः । अत एव अनन्तः । परमात्मदृष्टिमुद्गीथे भवयितुम् “आकाशो ह्येवैभ्यो भूतेभ्यो ज्यायान्”(छा. उ. १ । ९ । २) इत्याकाशशब्देन परमात्मानं निर्दिशति ॥ ७ ॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ।
स्फुटतरे भेदावगमे संज्ञैकत्वं नाभेदसाधनमतिप्रसङ्गपातात् । अपिच श्रुत्यक्षरालोचनया भेदप्रत्ययोऽन्तरङ्गश्चानपेक्षश्च । संज्ञैकत्वं तु श्रुतिबाह्यतया बहिरङ्गं च पौरुषेयतया सापेक्षं च । तस्माद्दुर्बलं नाभेदसाधनायालमिति ॥ ८ ॥