अद्वैतशारदा

भामतीव्याख्या

तदधिगमाधिकरणविषयः

व्याख्याः

तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ तद्व्यपदेशात् ।
गतस्तृतीयशेषः साधनगोचरो विचारः । इदा­नी­मे­त­द­ध्या­य­ग­त­फ­ल­वि­षया चिन्ता प्रतन्यते । तत्र तावत्प्रथममिदं विचार्यते किं ब्रह्माधिगमे ब्रह्मज्ञाने सति ब्रह्म­ज्ञा­न­फ­ला­न्मो­क्षा­द्वि­प­री­त­फलं दुरितं बन्धनफलं क्षीयते न क्षीयत इति संशयः । किं तावत्प्राप्तं, शास्त्रेण हि फलाय यद्विहितं प्रतिषिद्धं चान­र्थ­प­रि­हा­रा­या­श्व­मे­धादि ब्रह्महत्यादि चापू­र्वा­वा­न्त­र­व्या­पारं किं तद­पू­र्व­मु­प­र­तेऽपि कर्मण्यत्र सुख­दुः­खो­प­भो­गा­त्प्रा­ङ्गा­वि­र­न्तु­म­र्हति । स हि तस्य विना­श­हे­तु­स्त­द­भावे कथं विनश्येदिति । तस्या­क­स्मि­क­त्व­प्र­स­ङ्गा­त्शा­स्त्र­व्या­को­पा­च्चेति । अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फल­प्र­स­व­सा­म­र्थ्य­बो­ध­क­शा­स्त्र­म­प्र­माणं भवेत् । नच प्रायश्चित्तमिव ब्रह्म­ज्ञा­न­म­द­त्त­फ­ला­न्यपि कर्मापूर्वाणि क्षिणोतीति साम्प्रतम् । प्राय­श्चि­त्ता­ना­मपि तद­प्र­क्ष­य­हे­तु­त्वा­त्त­द्वि­धा­नस्य चैन­स्वि­न­रा­धि­का­रि­प्रा­प्ति­मा­त्रे­णो­प­प­त्ता­वु­पा­त्त­दु­रि­त­नि­ब­र्ह­ण­फ­ला­क्षे­प­क­त्वा­यो­गात् । अत एव स्मरन्ति नाभुक्तं क्षीयते कर्मेति । यदि पुन­र­पे­क्षि­तो­पा­य­तात्मा प्राय­श्चि­त्त­वि­धिर्न नियो­ज्य­वि­शे­ष­प्र­ति­ल­म्भ­मा­त्रेण निर्वृ­णो­ती­त्य­पे­क्षि­ता­का­ङ्क्षायां दोषसंयोगेन श्रव­णा­त्त­न्नि­ब­र्ह­ण­फलः कल्पेत । तथापि ब्रह्मज्ञानस्य तत्सं­यो­गे­ना­श्र­व­णा­न्न­दु­रि­त­नि­ब­र्ह­ण­सा­मर्थ्ये प्रमाणमस्ति मोक्षवत् । तस्यापि स्वर्गा­दि­फ­ल­व­द्दे­श­का­ल­नि­मि­त्ता­पे­क्ष­यो­प­पत्तेः । शास्त्र­प्रा­मा­ण्या­त्स­म्भ­वि­ष्य­त्य­सा­व­वस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मज्ञानं मोक्षं प्रसोष्यति । योगार्ध्द्यैव वा दिवि भुव्यन्तरिक्षे बहूनि शरीरेन्द्रियाणि निर्माय फला­न्यु­प­भु­ज्य­र्द्धेन योगसामर्थ्येन योगी कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यते । स्थिते चैतस्मिन्नर्थे न्यायबलाद्यथा पुष्करपलाश इत्यादिव्यपदेशो ब्रह्म­वि­द्या­स्तु­ति­मा­त्र­प­र­तया व्याख्येय इति प्राप्त उच्यते - व्याख्यायेतैवं व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति । शास्त्रं हि फलो­त्पा­द­न­सा­म­र्थ्य­मात्रं कर्मणामवगमयति न तु कुत­श्चि­दा­ग­न्तु­का­न्नि­मि­त्ततः प्राय­श्चि­त्ता­दे­स्त­द­प्र­ति­ब­न्ध­मपि । तस्य तत्रौदासीन्यात् । यदि शास्त्र­बो­धि­त­फ­ल­प्र­स­व­सा­म­र्थ्य­म­प्र­ति­ब­द्ध­मा­ग­न्तु­केन केनचित्कर्मणा ततस्तत्फलं प्रसूत एवेति न शास्त्रव्याघातः । नाभुक्तं कर्म क्षीयत इति च स्मर­ण­म­प्र­ति­ब­द्ध­सा­म­र्थ्य­क­र्मा­भि­प्रा­यम् । दोषक्षयोद्धेशेन चाप­र­वि­द्या­ना­मस्ति प्राय­श्चि­त्त­व­द्वि­धा­न­मै­श्व­र्य­फ­ला­ना­म­प्यु­भ­य­सं­यो­गा­वि­शे­षात् । यत्रापि निर्गुणायां परविद्यायां दोषोद्धेशो नास्ति तत्रापि तत्स्व­भा­वा­लो­च­ना­देव तत्प्र­क्ष­य­प्र­स­व­सा­म­र्थ्य­म­व­सी­यते । नहि तत्त्व­म­सि­वा­क्या­र्थ­प­रि­भा­व­ना­भुवा प्रसङ्ख्यानेन निर्मृ­ष्ट­नि­खि­ल­क­र्तृ­भो­क्तृ­त्वा­दि­वि­भ्रमो जीवः फलोपभोगेन युज्यते । नहि रज्ज्वां भुज­ङ्ग­स­मा­रो­प­नि­ब­न्धना भयकम्पादयः सति रज्जु­त­त्त्व­सा­क्षा­त्कारे प्रभवन्ति, किन्तु संस्का­र­शे­षा­त्कि­ञ्चि­त्का­ल­म­नु­वृत्ता अपि निवर्तन्त एव । अमु­मे­वा­र्थ­म­नु­व­दन्तो यथा पुष्करपलाश इत्यादयो व्यपदेशाः समवेतार्थाः सन्तो न स्तुतिमात्रतया कथ­ञ्चि­द्व्या­ख्या­न­म­र्हन्ति ।

ननूक्तं सम्भविष्यति सावस्था जीवात्मनो यस्यां पर्या­ये­णो­प­भो­गाद्वा योगर्द्धेः प्रभावतो युग­प­न्नै­क­वि­ध­का­य­नि­र्मा­णे­ना­प­र्या­ये­णो­प­भो­गाद्वा जन्तुः कर्माणि क्षपयित्वा मोक्षी सम्पत्स्यत इत्यत आह –
एवमेव च मोक्ष उपपद्यत इति ।
अना­दि­का­ल­प्र­वृत्ता हि कर्माशया अनियतकालविपाकाः क्रमवता तावद्भोगेन क्षेतुमशक्याः । भुञ्जानः खल्वयमपरानपि सञ्चिनोति कर्माशयानिति । नाप्य­प­र्या­य­मु­प­भो­गे­ना­सक्तः कर्मा­न्त­रा­ण्य­स­ञ्चि­न्वानः क्षेष्यतीति साम्प्रतम् । कल्पशतानि क्रम­का­ल­भो­ग्यानां सम्प्रति भोक्तु­म­सा­म­र्थ्यात् । दीर्घकालफलानि च कर्माणि कथमेकपदे क्षेष्यन्ति । तस्मान्नान्यथा मोक्षसम्भवः ।

ननु सत्स्वपि कर्माशयान्तरेषु सुखदुःखफलेषु मोक्ष­फ­ला­त्क­र्मणः समुदाचरतो ब्रह्म­भा­व­म­नु­भू­याथ लब्धविपाकानां कर्मान्तराणां फलानि भोक्ष्यन्त इत्यत आह –
नच देश­का­ल­नि­मि­त्ता­पेक्ष इति ।
नहि कार्यः सन्मोक्षो मोक्षो भवितुमर्हति ब्रह्मभावो हि सः । नच ब्रह्म क्रियते नित्य­त्वा­दि­त्यर्थः । परो­क्ष­त्वा­नु­प­त्तेश्च ज्ञानफलस्य । ज्ञानफलं खलु मोक्षोऽ­भ्यु­पे­यते । ज्ञानस्य चानन्तरभाविनी ज्ञेया­भि­व्यक्तिः फलं, सैवा­वि­द्यो­च्छे­द­मा­द­धती ब्रह्म­स्व­भा­व­स्व­रू­पा­व­स्था­न­ल­क्ष­णाय मोक्षाय कल्पते । एवं हि दृष्टार्थता ज्ञानस्य स्यात् । अपू­र्वा­धा­न­प­र­म्प­रया ज्ञानस्य मोक्षफले कल्प्यमाने ज्ञानस्य परो­क्ष­फ­ल­त्व­म­दृ­ष्टा­र्थत्वं भवेत् । नच दृष्टे सम्भ­व­त्य­दृ­ष्ट­क­ल्पना युक्तेत्यर्थः । तस्मा­द्ब्र­ह्मा­धि­गमे ब्रह्मज्ञाने सत्यद्वैतसिद्धौ दुरितक्षय इति सिद्धम् ॥ १३ ॥