भामतीव्याख्या
उत्पत्त्यसम्भवाधिकरणविषयाः
उत्पत्त्यसम्भवात् ।
अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते । तमंशमाह
यत्पुनरिदमुच्यते वासुदेवात्सङ्कर्षणो जीव इति ।
जीवस्य कारणवत्वे सत्यनित्यत्वम् , अनित्यत्वेपरलोकिनोऽभावात्परलोकाभावः, ततश्च स्वर्गनरकापवर्गाभावापत्तेर्नास्तिक्यमित्यर्थः ।
अनुपपन्ना च जीवस्योत्पत्तिरित्याह
प्रतिषेधिष्यति चेति ॥ ४२ ॥
न च कर्तुः करणम् ।
यद्यप्यनेकशिल्पपर्यवदातः परशुं कृत्वा तेन पलाशं छिनत्ति, यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनः संनिकर्षलक्षणं ज्ञानकरणमुपादायात्मार्थं विजानाति, तथापि सङ्कर्षणोऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् । अकरणस्य वा करणनिर्माणसामर्थ्ये कृतं करणनिर्माणेन । अकरणादेव निखिलकार्यसिद्धेरिति भावः ॥ ४३ ॥
विज्ञानादिभावे वा तदप्रतिषेधः ।
वासुदेवा एवैते सङ्कर्षमादयो निर्दोषा अविद्यादिदोषरहिताः । निरधिष्ठाना निरूपादानाः । अत एव निरवद्या अनित्यत्वादिदोषरहिताः । तस्मादुत्पत्त्यसम्भवोऽनुगुणत्वान्न दोष इत्यर्थः । अत्रोच्यते
एवमपीति ।
मा भूदभ्युपगमेन दोषः, प्रकारान्तरेण त्वयमेव दोषः । प्रश्नपूर्वं प्रकारान्तरमाह
कथम् । यदि तावदिति ।
न तावदेते परस्परं भिन्ना ईश्वराः परस्परव्याहतेच्छा भवितुमर्हन्ति । व्याहतकामत्वे च कार्यानुत्पादात् । अव्याहतकामत्वे वा प्रत्येकमीश्वरत्वे एकेनैवेशनायाः कृतत्वादानर्थक्यमितरेषाम् । सम्भूय चेशनायां परिशुद्धो न कश्चिदीश्वरः स्यात् , सिद्धान्तहानिश्च । भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् । तस्मात्कल्पान्तरमास्थेयम् । तत्र चोत्पत्त्यसम्भवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्त्यसम्भवेनापाकरोति
अथायमभिप्राय इति ।
सुगममन्यत् ॥ ४४ ॥
विप्रतिषेधाच्च ।
गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्त्वा पुनरभेदं ब्रूते
आत्मान एवैते भगवन्तो वासुदेवा इति ।
आदिग्रहणेन प्रद्युम्नानिरुद्धयोर्मनोऽहङ्कारलक्षणतयात्मनो भेदमभिधायात्मन एवैत इति तद्विरुद्धाभेदाभिधानमपरं सङ्गृहीतम् । वेदविप्रतिषेधो व्याख्यातः ॥ ४५ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥ २ ॥