भामतीव्याख्या
पुरुषविद्याधिकरणविषयः
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ।
पुरुषयज्ञत्वमुभयत्राप्यविशिष्टम् । नच विदुषो यज्ञस्येति न सामानाधिकरण्यसम्भवः । यज्ञस्यात्मेत्यात्मशब्दस्य स्वरूपवचनत्वात् । यज्ञस्य स्वरूपं यजमानस्तस्य च चेतनत्वाद्विदुष इति सामानाधिकरण्यसम्भवः । तस्मात्पुरुषयज्ञत्वाविशेषान्मरणावभृथत्वादिसामान्याच्चैकविद्याध्यवसाने उभयत्र उभयधर्मोपसंहार इति प्राप्तम् । एवं प्राप्त उच्यते यादृशं ताण्डिनां पैङ्गिनां च पुरुषयज्ञसम्पादनं तदायुषश्च त्रेधा व्यवस्थितस्य सवनत्रयसम्पादनम् । अशिशिषादीनां च दीक्षादिभावसम्पादनं नैवं तैत्तिरीयाणाम् । तेषां न तावत्पुरुषे यज्ञसम्पत्तिः । नह्यात्मा यजमान इत्यत्रायमात्मशब्दः स्वरूपवचनः । नहि यज्ञस्वरूपं यजमानो भवति । कर्तृकर्मणोरभेदाभावात् । चेतनाचेतनयोश्चैक्यानुपपत्तेः यज्ञकर्मणोश्चाचेतनत्वात् । यजमानस्य चेतनत्वात् । आत्मनस्तु चेतनस्य यजमानत्वं च विद्वत्त्वं चोपपद्यते । तथा चायमर्थः - एवं विदुषः पुरुषस्य यः सम्बन्धी यज्ञः तस्य सम्बन्धितया यजमान आत्मा तथा चात्मनो यजमानत्वं च विद्वत्सम्बन्धिता च यज्ञस्य मुख्ये स्यातामितरथात्मशब्दस्य स्वरूपवाचित्वे विदुषो यज्ञस्येति च यजमानो यज्ञस्वरूपमिति च गौणे स्याताम् । नच सत्यां गतौ तद्युक्तम् । तस्मात्पुरुषयज्ञता तैत्तिरीये नास्तीति तया तावन्न साम्यम् । नच पत्नीयजमानवेदविद्यादिसम्पादनं तैत्तिरीयाणामिव ताण्डिनां पैङ्गिनां वा विद्यते सवनसम्पत्तिरप्येषां विलक्षणैव । तस्माद्भूयो वैलक्षण्ये सति न किञ्चिन्मात्रसालक्षण्याद्विद्यैकत्वमुचितमतिप्रसङ्गात् । अपिच तस्यैवं विदुष इत्यनुवादश्रुतौ सत्यामनेकार्थविधाने वाक्यभेददोषप्रसक्तिरित्यर्थः । अपि चेयं पैङ्गिनां ताण्डिनां च पुरुषयज्ञविद्याफलान्तरयुक्ता स्वतन्त्रा प्रतीयते । तैत्तिरीयाणां तु एवंविदुष इति श्रवणात्पूर्वोक्तपरामर्शात्तत्फलत्वश्रुतेश्च पारतन्त्र्यम् ।
नच स्वतन्त्रतपरन्त्रयोरैक्यमुचितमित्याह –
अपिच ससंन्यासामात्मविद्यामिति ।
उपसंहरति –
तस्मादिति ॥ २४ ॥