भामतीव्याख्या
कृत्स्नप्रसक्त्यधिकरणविषयाः
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।
ननु न ब्रह्मणस्तत्त्वतः परिणामो येन कार्त्स्न्यभागविकल्पेनाक्षिप्येत । अविद्याकल्पितेन तु नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मना तत्त्वान्यत्वाभ्यामनिर्वचनीयेन परिणामादिव्यवहारास्पदत्वं ब्रह्म प्रतिपद्यते । नच कल्पितं रूपं वस्तु स्पृशति । नहि चन्द्रमसि तैमिरिकस्य द्वित्वकल्पना चन्द्रमसो द्वित्वमावहति । तदनुपपत्त्या वा चन्द्रमसोऽनुपपत्तिः । तस्मादवास्तवी परिणामकल्पनानुपपद्यमानापि न परमार्थसतो ब्रह्मणोऽनुपपत्तिमावहति । तस्मात्पूर्वपक्षाभावादनारभ्यमिदमधिकरणमिति, अत आह
चेतनमेकम् ।
यद्यपि श्रुतिशतादैकान्तिकाद्वैतप्रतिपादनपरात्परिणामो वस्तुतो निषिद्धस्तथापि क्षीरादिदेवतादृष्टान्तेन पुनस्तद्वास्तवत्वप्रसङ्गं पूर्वपक्षोपपत्त्या सर्वथायं पक्षो न घटयितुं शक्यत इत्यपबाध्य
श्रुतेस्तु शब्दमूलत्वात् ,
'आत्मनि चैवं विचित्राश्च हि” इति सूत्राभ्यां विवर्तदृढीकरणेनैकान्तिकाद्वयलक्षणः श्रुत्यर्थः परिशोध्यत इत्यर्थः ।
तस्मादस्त्यविकृतं ब्रह्म
तत्त्वतः ।
ननु शब्देना
पीति चोद्यमविद्याकल्पितत्वोद्घाटनाय । नहि निरवयवत्वसावयवत्वाभ्यां विधान्तरमस्त्येकनिषेधस्येतरविधानान्तरीयकत्वात् । तेन प्रकारान्तराभावान्निरवयवत्वसावयवत्वयोश्च प्रकारयोरनुपपत्तेर्ग्रावप्लवनाद्यर्थवादवदप्रमाणं शब्दः स्यादिति चोद्यार्थः । परिहारः सुगमः ॥ २६ ॥ ॥ २७ ॥
आत्मनि चैवं विचित्राश्च हि ।
अनेन स्फुटितो मायावादः । स्वप्नदृगात्मा हि मनसैव स्वरूपानुपमर्देन रथादीन् सृजति ॥ २८ ॥
स्वपक्षदोषाच्च ।
चोदयति
ननु नैवेति ।
परहरति
नैवञ्जातीयकेनेति ।
यद्यपि समुदायः सावयवस्तथापि प्रत्येकं सत्त्वादयो निरवयवाः । नह्यस्ति सम्भवः सत्त्वमात्रं परिणमते न रजस्तमसी इति । सर्वेषां सम्भूयपरिणामाभ्युपगमात् । प्रत्येकं चानवयवानां कृत्स्नपरिणामे मूलोच्छेदप्रसङ्गः । एकदेशपरिणामे वा सावयवत्वमनिष्टं प्रसज्येत ।
तथाअणुवादिनोऽपीति ।
वैशेषिकाणां ह्यणुभ्यां संयुज्य द्व्यणुकमेकमारभ्यते, तैस्त्रिभिर्द्व्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया । तत्र द्वयोरण्वोरनवयवयोः संयोगस्तावणू व्याप्नुयात् । अव्याप्नुवन्वा तत्र न वर्तेत । नह्यस्ति सम्भवः स एव तदानीं तत्र वर्तते न वर्तते चेति । तथा चोपर्यधःपार्श्वस्थाः षडपि परमाणवः समानदेशा इति प्रथिमानुपपत्तेरणुमात्रः पिण्डः प्रसज्येत । अव्यापने वा षडवयवः परमाणुः स्यादित्यनवयवत्वव्याकोपः । अशक्यं च सावयवत्वमुपेतुं, तथा सत्यनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्गः । तस्मात्समानो दोषः । आपातमात्रेण साम्यमुक्तम् , परमार्थतस्तु भाविकं परिणामं वा कार्यकारणभावं वेच्छतामेष दुर्वारो दोषो न पुनरस्माकं मायावादिनामित्याह
परिहृतस्त्विति ॥ २९ ॥