भामतीव्याख्या
यथाश्रयभावाधिकरणविषयाः
अङ्गेषु यथाश्रयभावः ।
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलमित्यत्रोपसनासु फलश्रुतेः पर्णमयीन्यायेनार्थवादतयोपासनानां क्रत्वर्थत्वेन समुच्चयनियममाशङ्क्य पुरुषार्थतयैकप्रयोगवचनग्रहणाभावे समुच्चयनियमो निरस्तः । इह तु सत्यपि पुरुषार्थत्वे कस्मान्नैकप्रयोगवचनग्रहणं भवतीति पूर्वोक्तमर्थमाक्षिपन् प्रत्यवतिष्ठते । यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति । तथा सति हि क्रत्वर्थानाश्रिततया क्रतुप्रयोगाद्बहिरप्यमूषां प्रयोगः प्रसज्यते । नच प्रयुज्यन्ते तत्कस्य होतोः । क्रत्वर्थाश्रितानामेव तासां तत्तत्फलोद्देशेन विधानादिति । एवं चाश्रयतन्त्रत्वादाश्रितानां प्रयोगवचनेनाश्रयाणां समुच्चयनियमेनाश्रितानामपि समुच्चयनियमो युक्त इतरथा तदाश्रितत्वानुपपत्तेः । स च प्रयोगवचन उपासनाः समुच्चिन्वंस्तत्तत्फलकामनानामवश्यम्भावमाक्षिपति तदभावे तासां समुच्चयनियमाभावादिति मन्वानस्य पूर्वः पक्षः । राद्धान्तस्तु यथाविहितोद्दिष्टपदार्थानुरोधी प्रयोगवचनो न पदार्थस्वभावानन्यथयितुमर्हति । किन्तु तदविरोधेनावतिष्ठते । तत्र क्रत्वर्थानां नित्यवदाम्नानात्तथाभावस्य च सम्भवान्नियमेनैतान्त्समुच्चिनोतु । कामावबद्धास्तूपासनाः कामानामनित्यत्वान्न समुच्चयेन नियन्तुमर्हति । नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते । मानान्तरानुसारी चोद्देशो न तद्विरोधेनोद्देश्यमन्यथयती । तथा सत्युद्देशानुपपत्तेः । तस्मात्कामानामनित्यत्वात्तदवबद्धानामुपासनानामप्यनित्यत्वम् । नित्यानित्यसंयोगविरोधात्सत्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्रयतन्त्रत्वमाश्रितानां यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति तदिदमुक्तमाश्रयतन्त्राण्यपि हीति ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
समाहारात् । होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति ।
अपिर्भिन्नक्रमो दिरुद्गीथमपीति । वेदान्तरोदितप्रणवोद्गीथैकत्वप्रत्ययसामर्थ्याद्धोतृकर्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् । एवं ब्रुवन्वेदान्तरोदितस्य प्रत्ययस्येत्यादि योजनीयम् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ।
अस्य सूत्रस्यान्वयमुखेन व्यतिरेकमुखेन च व्याख्या । शेषमतिरोहितार्थम् ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्यविभागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥