अद्वैतशारदा

भामतीव्याख्या

यथाश्रयभावाधिकरणविषयाः

व्याख्याः

अङ्गेषु यथाश्रयभावः ।
तन्नि­र्धा­र­णा­नि­य­म­स्त­द्दृष्टेः पृथ­ग्ध्य­प्र­ति­बन्धः फल­मि­त्य­त्रो­प­स­नासु फलश्रुतेः पर्ण­म­यी­न्या­ये­ना­र्थ­वा­द­त­यो­पा­स­नानां क्रत्वर्थत्वेन समु­च्च­य­नि­य­म­मा­शङ्क्य पुरु­षा­र्थ­त­यै­क­प्र­यो­ग­व­च­न­ग्र­ह­णा­भावे समुच्चयनियमो निरस्तः । इह तु सत्यपि पुरुषार्थत्वे कस्मा­न्नै­क­प्र­यो­ग­व­च­न­ग्र­हणं भवतीति पूर्वो­क्त­म­र्थ­मा­क्षि­पन् प्रत्यवतिष्ठते । यद्यपि हि काम्या एता उपासनास्तथापि न स्वतन्त्रा भवितुमर्हन्ति । तथा सति हि क्रत्व­र्था­ना­श्रि­त­तया क्रतु­प्र­यो­गा­द्ब­हि­र­प्य­मूषां प्रयोगः प्रसज्यते । नच प्रयुज्यन्ते तत्कस्य होतोः । क्रत्व­र्था­श्रि­ता­ना­मेव तासां तत्त­त्फ­लो­द्दे­शेन विधानादिति । एवं चाश्र­य­त­न्त्र­त्वा­दा­श्रि­तानां प्रयो­ग­व­च­ने­ना­श्र­याणां समु­च्च­य­नि­य­मे­ना­श्रि­ता­ना­मपि समुच्चयनियमो युक्त इतरथा तदा­श्रि­त­त्वा­नु­प­पत्तेः । स च प्रयोगवचन उपासनाः समु­च्चि­न्वं­स्त­त्त­त्फ­ल­का­म­ना­ना­म­व­श्य­म्भा­व­मा­क्षि­पति तदभावे तासां समु­च्च­य­नि­य­मा­भा­वा­दिति मन्वानस्य पूर्वः पक्षः । राद्धान्तस्तु यथा­वि­हि­तो­द्दि­ष्ट­प­दा­र्था­नु­रोधी प्रयोगवचनो न पदा­र्थ­स्व­भा­वा­न­न्य­थ­यि­तु­म­र्हति । किन्तु तद­वि­रो­धे­ना­व­ति­ष्ठते । तत्र क्रत्वर्थानां नित्य­व­दा­म्ना­ना­त्त­था­भा­वस्य च सम्भ­वा­न्नि­य­मे­नै­ता­न्त्स­मु­च्चि­नोतु । कामा­व­ब­द्धा­स्तू­पा­सनाः कामा­ना­म­नि­त्य­त्वान्न समुच्चयेन नियन्तुमर्हति । नहि कामा विधीयन्ते येन समुच्चीयेरन्नपि तूद्दिश्यन्ते । मानान्तरानुसारी चोद्देशो न तद्वि­रो­धे­नो­द्दे­श्य­म­न्य­थ­यती । तथा सत्यु­द्दे­शा­नु­प­पत्तेः । तस्मा­त्का­मा­ना­म­नि­त्य­त्वा­त्त­द­व­ब­द्धा­ना­मु­पा­स­ना­ना­म­प्य­नि­त्य­त्वम् । नित्या­नि­त्य­सं­यो­ग­वि­रो­धा­त्स­त्यपि तदाश्रयाणां नित्यत्वे इदमेव चाश्र­य­त­न्त्र­त्व­मा­श्रि­तानां यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति तदि­द­मु­क्त­मा­श्र­य­त­न्त्रा­ण्यपि हीति ॥ ६१ ॥

शिष्टेश्च ॥ ६२ ॥

समाहारात् । होतृ­ष­द­ना­द्धै­वापि दुरु­द्गी­थ­म­नु­स­मा­ह­र­तीति ।
अपिर्भिन्नक्रमो दिरुद्गीथमपीति । वेदा­न्त­रो­दि­त­प्र­ण­वो­द्गी­थै­क­त्व­प्र­त्य­य­सा­म­र्थ्या­द्धो­तृ­क­र्मणः शंसनादुद्गाता प्रतिसमादधाति किं तदित्यत आह दुरुद्गीथमपि वेदान्तरोदिते चौद्गात्रे कर्मणि उत्पन्नं क्षतम् । एवं ब्रुव­न्वे­दा­न्त­रो­दि­तस्य प्रत्य­य­स्ये­त्यादि योजनीयम् ॥ ६३ ॥

गुण­सा­धा­र­ण्य­श्रु­तेश्च ।
अस्य सूत्र­स्या­न्व­य­मु­खेन व्यतिरेकमुखेन च व्याख्या । शेष­म­ति­रो­हि­ता­र्थम् ॥ ६४ ॥

न वा तत्स­ह­भा­वा­श्रुतेः ॥ ६५ ॥

दर्शनाच्च ॥ ६६ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते शारी­र­क­भ­ग­व­त्पा­द­भा­ष्य­वि­भागे भामत्यां तृतीयाध्यायस्य तृतीयः पादः ॥ ३ ॥