भामतीव्याख्या
अग्निहोत्राद्यधिकरणविषयौ
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।
यदि पुण्यस्याप्यश्लेषविनाशौ हन्त नित्यमप्यग्निहोत्रादि न कर्तव्यं योगमारूरुक्षुणा । तस्यापीतरपुण्यवद्विद्यया विनाशात् । “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरमि” ति न्यायात् । नच विविदिषन्ति यज्ञेन दानेनेति मोक्षलक्षणैककार्यतया विद्याकर्मणोरविरोधः । सहासम्भवेनैककार्यत्वासम्भवात् । नह्येतमात्मानं विदुषो विगलिताखिलकर्तृभोक्तृत्वादिप्रपञ्चविभ्रमस्य पूर्वोत्तरे नित्ये क्रियाजन्ये पुण्ये सम्भवतः । तस्माद्विविदिषन्ति यज्ञेनेति वर्तमानापदेशो ब्रह्मज्ञानस्य यज्ञादीनां वा स्तुतिमात्रं न तु मोक्षमाणस्य मुक्तिसाधनं यज्ञादिविधिरिति प्राप्त उच्यते - सत्यं न विद्ययैककार्यत्वं कर्मणां परस्परविरोधेन सहासम्भवात् । विद्योत्पादकतया तु कर्मणामारादुपकारकाणामस्तु मोक्षोपयोगः । नच कर्मणां विद्यया विरुध्यमानानां न विद्याकारणत्वं, स्वकारणविरोधिनां कार्याणां बहुलमुपलब्धेः । तथाच विद्यालक्षणकार्योपायतया कार्यविनाश्यानामपि कर्मणामुपादानमर्थवत् । तदभावे तत्कार्यस्यानुत्पादेन मोक्षस्यासम्भवात् । एवंच विविदिषन्ति यज्ञेनेति यज्ञसाधनत्वं विद्याया अपूर्वमर्थं प्रापयतः पञ्चमलकारस्य नात्यन्तपरोक्षवृत्तितया ज्ञानस्तुत्यर्थतया कथञ्चिद्व्याख्यानं भविष्यति ।
तदनेनाभिसंधिनोक्तम् –
ज्ञानस्यैव हि प्रापकं सत्कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते ।
यत एव न विद्योदयसमये कर्मास्ति नापि परस्तादपि तु प्रागेव विद्यायाः, अत एव चातिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम् ।
एतदेव स्फोरयति –
नहि ब्रह्मविद इति ॥ १६ ॥
सूत्रान्तरमवतारयितुं पृच्छति –
किंविषयं पुनरिदमिति ।
अस्योत्तरं सूत्रम् –
अतोऽन्यापि ह्येकेषामुभयोः ।
काम्यकर्मविषयमश्लेषविनाशवचनं शाखान्तरीयवचनं च तस्य पुत्रा दायमुपयन्तीति ॥ १७ ॥