अद्वैतशारदा

भामतीव्याख्या

स्तुतिमात्राधिकरणविषयौ

व्याख्याः

स्तुति­मा­त्र­मु­पा­दा­ना­दिति चेन्ना­पू­र्व­त्वात् ।
यद्यत्र संनिधान उपा­स­ना­वि­धि­र्नास्ति ततः प्रदे­शा­न्त­र­स्थि­तोऽपि विधि­व्य­भि­चा­रि­त­त­द्वि­धि­स­म्ब­न्धे­नो­द्गी­थे­नो­प­स्था­पितः स एष रसानां रसतम इत्यादिना पद­स­न्द­र्भे­णै­क­वा­क्य­भा­व­मु­प­गतः स्तूयते । नहि सम­भि­व्या­हृ­तै­रे­वै­क­वा­क्यता भवतीति कश्चि­न्नि­य­म­हे­तु­रस्ति । अनु­ष­ङ्गा­ति­दे­श­ल­ब्धै­रपि विध्य­स­म­भि­व्या­हृ­तै­र­र्थ­वा­दै­रे­क­वा­क्य­ता­भ्यु­प­ग­मात् । यदि तूद्गीथमुपासीत सामो­पा­सी­ते­त्या­दि­वि­धि­स­म­भि­व्या­हारः श्रुतस्तथापि तस्यैव विधेः स्तुतिर्न तूपा­स­ना­वि­ष­य­स­म­र्प­ण­पर ओमि­त्ये­त­द­क्ष­र­मु­द्गी­थ­मि­त्य­ने­नै­वो­पा­स­ना­वि­ष­य­स­म­र्प­णा­दिति प्राप्तेऽ­भि­धी­य­तेन तावद्दूरस्थेन कर्म­वि­धि­वा­क्ये­नै­क­वा­क्य­ता­स­म्भवः । प्रती­त­स­म­भि­व्या­हृ­तानां विधिनैकवाक्यतया स्तुत्य­र्थ­त्व­म­र्थ­वा­दानां रक्तपटन्यायेन भवति । न तु स्तुत्या विना काचि­द­नु­प­प­त्ति­र्विधेः । यथाहुः “अस्ति तु तदित्यतिरेके परिहारः” इति । अत एव विधे­र­पे­क्षा­भा­वा­त्प्र­व­र्त­ना­त्म­क­स्या­नु­ष­ङ्ग­ति­दे­शा­दि­भि­र­र्थ­वा­द­प्रा­प्त्य­भि­धा­न­म­स­म­ञ्ज­सम् । नहि कर्त्र­पे­क्षि­तो­पा­या­म­व­ग­तायां प्राश­स्त्य­प्र­त्य­य­स्यास्ति कश्चिदुपयोगः । तस्मा­द्दू­र­स्थस्य कर्मविधेः स्तुता­वा­न­र्थ­क्यम् । तेनै­क­वा­क्य­ता­नु­प­पत्तेः संनिहितस्य तूपासनाविधेः किं विष­य­स­म­र्प­णे­नो­प­यु­ज्य­ता­मुत स्तुत्येति विशये विषयसमर्पणेन यथार्थवत्त्वं नैवं स्तुत्या बहिरङ्गत्वात् । अगत्या हि सा । तस्मा­दु­पा­स­नार्था इति सिद्धम् । “कुर्या­त्क्रि­येत कर्तव्यं भवेत्स्यादिति पञ्चमम् । एत­त्स्या­त्स­र्व­वे­देषु नियतं विधिलक्षणम् ॥” भावनायाः खलु कर्तृ­स­मी­हि­ता­नु­कू­लत्वं विधिर्निषेधश्च कर्तु­र­हि­ता­नु­कू­ल­त्वम् । यथा­हुः“क­र्त­व्यश्च सुखफलोऽकर्तव्यो दुःखफलः” इति । एत­च्चा­स्मा­भि­रु­प­पा­दितं न्यायकणिकायाम् । क्रिया च भावना तद्वचनाश्च करोत्यादयः । यथा­हुः­कृ­भ्व­स्तयः क्रिया­सा­मा­न्य­व­चना इति । अत एव कृभ्व­स्ती­नु­दा­हृ­त­वान् । सामान्योक्तौ तद्विशेषाः पचेदित्यादयोऽपि गम्यन्त इति तत्र कुर्या­दि­त्या­क्षि­प्त­क­र्तृका भावना । क्रियेतेति आक्षिप्तकर्मिका भावना । कर्तव्यमिति तु कर्म­भू­त­द्र­व्यो­प­स­र्ज­न­भा­वना । एवं दण्डी भवेद्दण्डिना भवितव्यं दण्डिना भूये­ते­त्ये­क­धा­त्व­र्थ­वि­षया विध्युपहिता भावना उदाहार्याः । भवतिश्चैष जन्मनि । यथा कुला­ल­व्या­पा­रा­द्घटो भवति बीजादङ्कुरो भवतीति प्रयुञ्जते । नच बीजा­द­ङ्कु­रोऽ­स्तीति प्रयुञ्जते । तस्मादस्ति सत्तायां न जन्मनीति ॥ २१ ॥

भावशब्दाच्च ॥ २२ ॥