भामतीव्याख्या
आत्मगृहीत्यधिकरणविषयाः
आत्मगृहीतिरितरवदुत्तरात् ।
श्रुतिस्मृत्योर्हि लोकसृष्टिः परमेश्वराधिष्ठिता परमेश्वरहिरण्यगर्भकर्तृकोपलब्धा सेयमिह महाभूतसर्गमनभिधाय प्राथमिकी लोकसृष्टिरुपलभ्यमानावान्तरेश्वरकार्या प्रागुत्पत्तेरात्मैकत्वावधारणं चावान्तरेश्वरसम्बन्धितया गमयति । पारमेश्वरसर्गस्य महाभूताकाशादित्वादस्य च तद्वैपरीत्यात् । अस्ति हि तस्यैवैकस्य विकारान्तरापेक्षयाग्नत्वमस्ति चेक्षणम् । अपि चैतस्मिन्नैतरेयके पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकैव लोकसृष्टिरुक्ता । तदनुसारादप्येतदेव विज्ञायते । अपिच ताभ्यो गामानयदित्यादयश्च व्यवहाराः श्रुत्योक्ता विशेषवत्स्वात्मपरमात्मसु प्रसिद्धाः । ततोऽप्यवान्तरेश्वर एव विज्ञायते । आत्मशब्दप्रयोगश्चात्रापि दृष्टस्तस्मादपरात्माभिलापोऽयमिति प्राप्त उच्यते परमात्मनो गृहीतिरिह यथा इतरेषु सृष्टिश्रवणेषु “एतस्मादात्मन आकाशः सम्भूतः”(तै. उ. २ । १ । १) इत्यादिषु । तस्मादुत्तरात्स ऐक्षतेतीक्षणपूर्वकस्रष्टृत्वश्रवणादात्मेत्यवधारणाच्च । एतदभिसंहितम्मुख्यं तावत्सर्गात्प्राक्केवलत्वमात्मपदत्वं स्रष्टृत्वं च परमेश्वरस्यात्र भवतः । तदसत्यामनुपपत्तौ नान्यत्र व्याख्यातुमुचितम् । नच महाभूतसृष्ट्यनभिधानेन लोकसृष्ट्यभिधानमनुपपत्तिबीजम् । आकाशपूर्विकायां वस्तुतो ब्रह्मणः सृष्टौ यथा क्वचित्तेजःपूर्वकसृष्ट्यभिधानं न विरुध्यते “एतस्मादात्मन आकाशः सम्भूतः” इति दर्शनात् । आकाशं वायुं सृष्ट्वेति हि तत्र पूरयितव्यमेवमिहापि महाभूतानि सृष्ट्वेति कल्पनीयम् । सर्वशाखाप्रत्ययत्वेन ज्ञानस्य श्रुतिसिद्ध्यर्थमश्रुतोपलब्धौ यत्नवता भवितव्यं न पुनः श्रुते महाभूतादित्वे सर्गस्य शैथिल्यमादरणीयम् । अपिच स्वाध्यायविध्यधीनग्रहणो वेदराशिरध्ययनविध्यापादितप्रयोजनवदर्थमभिदधानो यथा यथा प्रयोजनाधिक्यमाप्नोति तथा तथानुमन्यतेतराम् । यथा चास्य ब्रह्मगोचरत्वे परमपुरुषार्थौपयिकत्वं नैवमन्यगोचरत्वे ।
तदिदमुक्तम् –
योऽप्ययं व्यापारविशेषानुगम इति ।
नच लोकसर्गोऽपि हिरण्यगर्भव्यापारोऽपि तु तदनुप्रविष्टस्य परमात्मन इत्यत्रैवोक्तम् । तस्मादात्मैवाग्न इत्युपक्रमात्तद्व्यापारेण चेक्षणेन मध्ये परामर्शादुपरिष्टाच्च भेदजातं महाभूतैः सहानुक्रम्य ब्रह्मप्रतिष्ठत्वेन ब्रह्मण उपसंहाराद्ब्रह्माभिलापत्वमेवास्येति निश्चीयते । यत्र तु पुरुषविधादिश्रवणं तस्य भवेत्त्वन्यपरत्वं गत्यन्तराभावादिति सर्वमवदातम् । अपरः कल्पः । सदुपक्रमस्य सन्दर्भस्यात्मोपक्रमस्य च किमैकार्थ्यमाहोस्विदर्थभेदः । तत्र सच्छब्दस्याविशेषेणात्मनि चानात्मनि च प्रवृत्तेर्नात्मार्थत्वं किन्तु समस्तवस्त्वनुगतसत्तासामान्यार्थत्वं तथा चोपक्रमभेदाद्भिन्नार्थत्वम् । स आत्मा तत्त्वमसीति चोपसंहार उपक्रमानुरोधेन सम्पत्त्यर्थतया व्याख्येयः । तद्धि सत्सामान्यं परमात्मतया सम्पादनीयम् । तद्विज्ञानेन च सर्वविज्ञानं महासामान्यस्य सत्तायाः समस्तवस्तुविस्तारव्यापित्वादित्येवं प्राप्त उच्यते आत्मगृहीतिर्वाजसनेयिनामिव छान्दोग्यानामप्युत्तरात्स आत्मा तत्त्वमसीति तादात्म्योपदेशात् । अस्तु तावदात्मव्यातिरिक्तस्य प्रपञ्चस्य सदसत्त्वाभ्यामनिर्वाच्यतया न सत्त्वं, सत्त्वं त्वात्मधातोरेव तत्त्वेन निर्वाच्यत्वात्तस्मादात्मैव सन्निति । अभ्युपेत्याह । सच्छब्दस्य सत्तासामान्याभिधायित्वात्प्रतिव्यक्ति च तस्य प्रवृत्तेरात्मनि चान्यत्र च सच्छब्दप्रवृत्तेः संशये सत्युपसंहारानुरोधेन सदेवेत्यात्मन्येवावस्थाप्यते । नीतार्थोपक्रमानुरोधेन ह्युपसंहारवर्णना न पुनः सन्दिग्धार्थेनोपक्रमेणोपसंहारो वर्णनीयः । अपिच सम्पत्तौ फलं कल्पनीयम् । नच सामान्यमात्रे ज्ञाते विशेषज्ञानसम्भवः । न खल्वाकाराद्वृक्षे ज्ञाते शिंशपादयस्तद्विशेषा ज्ञाता भवन्ति । तदेवमवधारणादि सर्वमनात्मार्थत्वे स्यादनुपपन्नमिति छान्दोग्यस्यात्मार्थत्वमेवेति सिद्धम् । अत्र च पूर्वस्मिन् पूर्वपक्षे हिरण्यगर्भोपासना सिद्धान्ते तु ब्रह्मभावनेति ॥ १६ ॥
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥