भामतीव्याख्या
तन्निर्धारणाधिकरणविषयौ
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम् ।
यथैव “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति” इत्येतदनारभ्याधीतमव्यभिचारितक्रतुसम्बन्धं जुहूद्वारा क्रतुप्रयोगवचनगृहीतं क्रत्वर्थं सत्फलानपेक्षं सिद्धवर्तमानाप्रदेशप्रतीतं न रात्रिसत्रवत्फलतया स्वीकरोतीति । एवमव्यभिचारितकर्मसम्बन्धोद्गीथगतमुपासनं कर्मप्रयोगवचनगृहीतं न सिद्धवर्तमानापदेशावगतसमस्तकामवापकत्वलक्षणफलकल्पनायालम् । परार्थत्वात् । तथाच पारमर्षं सूत्रम् “द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात्”(जै.सू. ४-३-१) इति । एवंच सति क्रतौ पर्णतानियमवदुपासनानियम इति प्राप्ते उच्यते - युक्तं पर्णतायां फलश्रुतेरर्थवादमात्रत्वम् । नहि पर्णतानाश्रया यागादिवत्फलसम्बन्धमनुभवितुमर्हति । अव्यापाररूपत्वात् । व्यापारस्यैव च फलवत्त्वात् । यथाहुः “उत्पत्तिमतःफलदर्शनात्” इति । नापि खादिरतायामिव प्रकृतक्रतुसम्बद्धो यूप आश्रयस्तदाश्रयः प्रकृतोऽस्ति अनारभ्याधीतत्वात्पर्णतायाः । तस्माद्वाक्येनैव जुहूसम्बन्धद्वारेण पर्णतायाः क्रतुराश्रयो ज्ञापनीयः । न चातत्परं वाक्यं ज्ञापयितुमर्हतीति तत्र वाक्यतात्पर्यमवश्याश्रयणीयम् । तथाच तत्परं सन्न पर्णतायाः फलसम्बन्धमपि गमयितुमर्हति । वाक्यभेदप्रसङ्गात् । उपासनानां तु व्यापारात्मत्वेन स्वत एव फलसम्बन्धोपपत्तेः उद्गीथाद्याश्रयणं फले विधानं न विरुध्यते विशिष्टविधानात् । फलाय खलूद्गीथसाधनकमुपासनं विधीयमानं न वाक्यभेदमावहति । ननु कर्माङ्गोद्गीथसंस्कार उपासनं प्रोक्षणादिवद्वितीयाश्रुतेरुद्गीथमिति । तथा चाञ्जनादिष्विव संस्कारेषु फलश्रुतेरर्थवादत्वम् । मैवम् । नह्यत्रोद्गीथस्योपासनं किन्तु तदवयवस्योङ्कारस्येत्युक्तमधस्तात् । न चोङ्कारः कर्माङ्गमपि तु कर्माङ्गोद्गीथावयवः । न चानुपयोगमीप्सितम् । तस्मात्सक्तून् जुहोतीतिवद्विनियोगभङ्गेनोङ्कारसाधानादुपासनात्फलमिति सम्बन्धः । तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि एवमुद्गीथाद्युपासनानीति द्रष्टव्यम् । शेषमुक्तं भाष्ये ।
न चेदं फलश्रवणमर्थवादमात्रमिति ।
अर्थवादमात्रत्वेऽत्यन्तपरोक्षा वृत्तिर्यथा न तथा फलपरत्वे । न तु वर्तमानापदेशात्साक्षात्फलप्रतीतिः । अत एव प्रयाजादिषु नार्थवादाद्वर्तमानापदेशात्फलकल्पना । फलपरत्वे त्वस्य न शक्यं प्रयाजादीनां पारार्थ्येनाफलत्वं वक्तुमिति ॥ ४२ ॥