भामतीव्याख्या
कार्याख्यानाधिकरणविषयः
कार्याख्यानादपूर्वम् ।
विषयमाह –
छन्दोगा वाजसनेयिनश्चेति ।
अननं प्राणनमनः प्राणः तं प्राणमनग्नं कुर्वन्तः ।
अनग्नताचिन्तनमिति ।
मन्यन्त इति मननं ज्ञानं तद्व्यानपर्यन्तमिति चिन्तनमुक्तम् ।
संशयमाह –
तत्किमिति ।
खुररवमात्रेणापातत उभयविधानपक्षं गृहीत्वा मध्यमं पक्षमालम्बते पूर्वपक्षी –
अथवाचमनमेवेति ।
यद्येवमनग्नतासङ्कीर्तनस्य किं प्रयोजनमित्यत आह –
तस्यैव तु स्तुत्यर्थमिति ।
अयमभिसन्धिःयद्यपि स्मार्तं प्रायत्यार्थमाचमनमस्ति तथापि प्राणोपासनप्रकरणेऽविधानात्तदङ्गत्वेनाप्राप्तमिति विधानमर्थवद्भवति, अनृतवदनप्रतिषेध इव स्मार्ते ज्योतिष्टोमप्रकरणे समाम्नातो नानृतं वदेदिति प्रतिषेधो ज्योतिष्टोमाङ्गतयार्थवानिति ।
राद्धान्तमाह –
एवं प्राप्त इति ।
चोदयति –
नन्वियं श्रुतिरिति ।
परिहरति –
नेति ।
तुल्यार्थयोर्मूलमूलिभावो नातुल्यार्थयोरित्यर्थः ।
अभिप्रायस्थं पूर्वपक्षबीजं निराकरोति –
न चेयं श्रुतिरिति ।
क्रत्वर्थपुरुषार्थयोरनृतवदनप्रतिषेधयोर्युक्तमपौनरुक्तम् । इह तु स्मार्तवाचमनं सकलकर्माङ्गतया विहितं प्राणोपासनाङ्गमपीति व्यापकेन स्मार्तेनाचमनविधिना पुनरुक्तत्वादनर्थकम् । नच स्मार्तस्यानेन पौनरुक्त्यं तस्य च व्यापकत्वादेतस्य च प्रतिनियतविषयत्वादिति ।
मध्यमं पक्षमपाकृत्य प्रथमपक्षमपाकरोति –
अत एव च नोभयविधानम् ।
युक्त्यन्तरमाह –
उभयविधाने चेति ।
उपसंहरति –
तस्मात्प्राप्तमेवेति ।
न चायमनग्नतावाद इति ।
स्तोतव्याभावे स्तुतिर्नोपपद्यत इत्यर्थः । अपिच मानान्तरप्राप्तेनाप्राप्तं विधेयं स्तूयेत । न चानग्नतासङ्कल्पोऽन्यतः प्राप्तो यतः स्तावको भवेत् ।
न चाचमनमन्यतोऽप्राप्तं येन विधेयं सत्स्तूयेतेत्याह –
स्वयं चानग्नतासङ्कल्पस्येति ।
अपि चैकस्य कर्मण एकार्थतैवेत्युचितं तस्य बलवत्प्रमाणवशादनन्यगतित्वे सत्यनेकार्थता कल्प्यते ।
सङ्कल्पे तु कर्मान्तरे विधीयमाने नायं दोष इत्याह –
न चैवं सत्येकस्याचमनस्येति ।
अपिच दृष्टिचोदनासाहचर्याद्दृष्टिचोदनैव न्याय्या न चाचमनचोदनेत्याह –
अपिच यदिदं किञ्चेति ।
यथा हि श्वादिमर्यादस्यान्नस्यात्तुमशक्यत्वादन्नदृष्टिश्चोद्यते एवमिहाप्यपां परिधानासम्भवाद्दृष्टिरेव चोद्यत इत्यन्नदृष्टिविधिसाहचर्याद्गम्यते । अशब्दत्वं च यद्यपि दृष्ट्यभ्यवहारयोस्तुल्यं तथापि दृष्टिः शाब्ददृश्यनान्तरीयकतया साक्षाच्छब्देन क्रियमाणोपलभ्यते । अभ्यवहारस्त्वध्याहरणीयः कथञ्चिद्योग्यतामात्रेणेति विशेषः । किञ्च छान्दोग्यानां वाजसनेयिनां चाचमने प्रायेणाचामन्तीति वर्तमानापदेशः एवं यत्रापि विधिविभक्तिस्तत्रापि जर्तिलयवाग्ववा वा जुहुयादितिवद्विधित्वमविवक्षितम् ।
मन्यन्त इति त्वत्प्राप्तार्थत्वात्समिधो यजतीत्यादिवद्विधिरेवेत्याह –
अपिचाचामन्तीति ।
शेषमतिरोहितार्थम् ॥ १८ ॥