अद्वैतशारदा

भामतीव्याख्या

साभाव्यापत्त्यधिकरणविषयः

व्याख्याः

साभा­व्या­प­त्ति­रु­प­पत्तेः ।
यद्यपि यथे­त­मा­का­श­मा­का­शा­द्वा­यु­मि­त्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायु­र्भू­त्वे­त्यादेः स्फुटतरं तादा­त्म्या­व­ग­मा­द्य­थे­त­मा­का­श­मि­त्ये­त­दपि तादात्म्य एवावतिष्ठते । न चान्य­स्या­न्य­भा­वा­नु­प­पत्तिः । मनुष्यशरीरस्य नन्दिकेश्वरस्य देव­दे­ह­रू­प­प­रि­णा­म­स्म­र­णा­द्दे­व­दे­हस्य च नहुषस्य तिर्य­क्त्व­स्म­र­णात् । तस्मा­न्मु­ख्या­र्थ­प­रि­त्या­गेन न गौणी वृत्ति­रा­श्र­य­णीया । गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । यथाहुः “लक्ष्य­मा­ण­गु­णै­र्यो­गा­द्वृ­त्ते­रिष्टा तु गौणत” इति ।

एवं प्राप्ते ब्रूमः –
साभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् । कुत उपपत्तेः ।

एतदेव व्यतिरेकमुखेन व्याचष्टे –
नह्य­न्य­स्या­न्य­भावो मुख्य उपपद्यते ।
युक्त­मे­त­द्य­द्दे­व­श­री­र­म­ज­ग­र­भा­वेन परिणमते, देव­दे­ह­स­म­येऽ­ज­ग­र­श­री­र­स्या­भा­वात् । यदि तु देवाजगरशरीरे समसमये स्यातां न देव­श­री­र­म­ज­ग­र­श­रीरं शिल्पिशतेनापि क्रियते । नहि दधिपयसी समसमये परस्परात्मनी शक्ये सम्पादयितुं, तथेहापि सूक्ष्म­श­री­रा­का­श­यो­र्यु­ग­प­द्भा­वान्न परस्परात्मत्वं भवितुमर्हति । एवं वाय्वादिष्वपि योज्यम् । तथाच तद्भा­व­स्त­त्सा­दृ­श्ये­नौ­प­चा­रिको व्याख्येयः ।

नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह –
विभु­त्वा­च्चा­का­शे­नेति ॥ २२ ॥