भामतीव्याख्या
साभाव्यापत्त्यधिकरणविषयः
साभाव्यापत्तिरुपपत्तेः ।
यद्यपि यथेतमाकाशमाकाशाद्वायुमित्यतो न तादात्म्यं स्फुटमवगम्यते तथापि वायुर्भूत्वेत्यादेः स्फुटतरं तादात्म्यावगमाद्यथेतमाकाशमित्येतदपि तादात्म्य एवावतिष्ठते । न चान्यस्यान्यभावानुपपत्तिः । मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणाद्देवदेहस्य च नहुषस्य तिर्यक्त्वस्मरणात् । तस्मान्मुख्यार्थपरित्यागेन न गौणी वृत्तिराश्रयणीया । गौण्यां च वृत्तौ लक्षणाशब्दः प्रयुक्तो गुणे लक्षणायाः सम्भवात् । यथाहुः “लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणत” इति ।
एवं प्राप्ते ब्रूमः –
साभाव्यापत्तिः ।
समानो भावो रूपं येषां ते सभावास्तेषां भावः साभाव्यं सारूप्यं सादृश्यमिति यावत् । कुत उपपत्तेः ।
एतदेव व्यतिरेकमुखेन व्याचष्टे –
नह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
युक्तमेतद्यद्देवशरीरमजगरभावेन परिणमते, देवदेहसमयेऽजगरशरीरस्याभावात् । यदि तु देवाजगरशरीरे समसमये स्यातां न देवशरीरमजगरशरीरं शिल्पिशतेनापि क्रियते । नहि दधिपयसी समसमये परस्परात्मनी शक्ये सम्पादयितुं, तथेहापि सूक्ष्मशरीराकाशयोर्युगपद्भावान्न परस्परात्मत्वं भवितुमर्हति । एवं वाय्वादिष्वपि योज्यम् । तथाच तद्भावस्तत्सादृश्येनौपचारिको व्याख्येयः ।
नन्वाकाशभावेन संयोगमात्रं लक्ष्यतां किं सादृश्येनेत्यत आह –
विभुत्वाच्चाकाशेनेति ॥ २२ ॥