भामतीव्याख्या
आध्यानाधिकरणविषयौ
आध्यानाय प्रयोजनाभावात् । इन्द्रियेभ्यः परा ह्यर्था इति ।
किमत्र सर्वेषामेवार्थादीनां परत्वं प्रतिपिपादयिषितम् , आहो पुरुषस्यैव तत्प्रतिपादनार्थं चेतरेषां परत्वप्रतिपादनम् । तत्र प्रत्येकमर्थादिपरत्वप्रतिपादनश्रुतेः श्रूयमाणतत्तत्परत्वे च सम्भवति न तत्तदतिक्रमे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् । न च प्रयोजनाभावादसम्भवः । सर्वेषामेव प्रत्येकं परत्वाभिधानस्याध्यानप्रयोजनत्वात् । तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः । तथाहि स्मृतिः “दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥ बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः । पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते ।”(वायुपुराणम्) इति । प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात्प्रत्येकं तेषामर्थादीनां परत्वपराण्येतानि वाक्यानीति प्राप्त उच्यते इन्द्रियेभ्यः परा ह्यर्था इत्येष तावत्सन्दर्भो वस्तुतत्त्वप्रतिपादनपरः प्रतीयते नाध्यानविधिपरः । तदश्रुतेः । तदत्र यत्प्रत्ययस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् । दृष्टं च विष्णोः परमपदज्ञानस्य निखिलानर्थसंसारकारणाविद्योपशमः । तत्त्वज्ञानोदयस्य विपर्यासोपशमलक्षणत्वेत तत्र तत्र दर्शनात् । अर्थादिपरत्वप्रत्ययस्य तु न दृष्टमस्ति प्रयोजनम् । नच दृष्टे सम्भवति अदृष्टकल्पना न्याय्या । नच परमपुरुषार्थहेतुपरत्वे सम्भवति अवान्तरपुरुषार्थतोचिता । तस्माद्दृष्टप्रयोजनवत्त्वात् , पुरुषपरत्वप्रतिपादनार्थोऽयं सन्दर्भ इति गम्यते ।
किञ्चादरादप्ययमेवास्यार्थ इत्याह –
अपिच परप्रतिषेधेनेति ।
नन्वत्राध्यानविधिर्नास्ति तत्कथमुच्यते आध्यानायेत्यत आह –
आध्यानायेति ॥ १४ ॥
आत्मशब्दाच्च ।
अनधिगतार्थप्रतिपादनस्वभावत्वाप्रमाणानां विशेषतश्चागमस्य, पुरुषशब्दवाच्यस्य चात्मनः स्वयं श्रुत्यैव दुरधिगमत्वावधारणाद्वस्तुतश्च दुरधिगमत्वादर्थादीनां च सुगमत्वात्तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः । श्रुतेराशयातिशय इवाशयातिशयः । तत्तात्पर्यतेति यावत् ।
किञ्च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेव । अर्थादिपरत्वे तु स्वरूपेण विवक्षिते नापेक्षितं श्रुतिराचष्टे इत्याह –
अपिच सोऽध्वनः पारमाप्नोतीति ॥ १५ ॥